अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: अष्टादशः खण्डः

ननु यज्ञविज्ञानेन वक्ष्य­मा­ण­वि­ज्ञा­नस्य न सङ्गतिरस्तीति कथं पौर्वा­प­र्य­मि­त्या­श­ङ्क्या­न­न्त­र­ख­ण्डस्य व्यवहितेन सम्बन्धमाह –
मनोमय इति ।
इति चेश्वर उक्त इति पूर्वेण सम्बन्धः ।

तत्र ब्रह्मणो गुण­यो­रे­क­दे­श­त्वेन मन आकाशश्चोक्त इत्याह –
ब्रह्मण इति ।

यथो­क्त­गु­ण­क­ब्र­ह्म­दृ­ष्ट्य­स­म­र्थस्य तयोरेव सम्पू­र्ण­ब्र­ह्म­दृ­ष्टि­क­थ­ना­र्थ­मु­त्त­र­ग्र­न्थ­म­व­ता­र­यति –
अथेति ।
एवमुभयमुपदिष्टं भवतीति सम्बन्धः ।

तदेवोभयं विभजते –
अध्यात्ममिति ।

कथं मनो­दृ­ष्टि­वि­ष­य­त्वे­ना­ध्यात्मं मनो ब्रह्मे­त्यु­पा­सनं विधित्स्यते तत्राऽऽह –
मनसेति ।

तथाऽपि कथं ब्रह्म­दृ­ष्टे­रा­काशं विषयी भवति न हि तेनोपलभ्यते ब्रह्मे­त्या­श­ङ्क्याऽऽह –
आकाशश्चेति ।
ब्रह्म­दृ­ष्टे­र्यो­ग्य­मिति पूर्वेण सम्बन्धः ॥१॥

अध्या­त्म­म­धि­दै­वतं च विहि­त­स्यो­पा­स­न­स्या­ङ्गा­नु­चि­न्तनं दर्शयति –
तदेतदिति ।

मन­स­श्च­तु­ष्पात्त्वं प्रश्नपूर्वकं व्युत्पादयति –
कथमित्यादिना ।

आधि­दै­वि­क­स्याऽऽ­का­शस्य चतुष्पात्त्वं प्रकटयति –
अथेत्यादिना ।

मन अकाशयोरुक्तं चतुष्पात्त्वं निगमयति –
एवमिति ॥२॥

आध्या­त्मि­का­न्पा­दा­न्प्र­प­ञ्च­यति –
तत्रेति ।

पादत्वं वाचो व्युत्पादयति –
वाचा हीति ।
यथा गवादिगन्तव्यं पादेनैव प्राप्नोति देवदत्तोऽपि वाचैव पादेन वक्तव्यं विषयं प्रतिलभते । तेन तस्या युक्तं पादत्वमित्यर्थः ।

प्राणस्य वाच इव पादत्वं दर्शयति –
तेनापीति ।

आधि­दै­वि­का­न्पा­दा­न्वि­वृ­णोति –
अथेति ।
यथा गोरुदरे पादा लग्ना लक्ष्यन्ते तथाऽऽकाशस्योदर इवाग्न्यादयो लग्ना दृश्यन्ते । तस्मात्तस्य ते पादा इव भवन्तीत्यर्थः ।

द्विवि­ध­पा­द­वि­व­र­ण­मु­प­सं­ह­रति –
एवमिति ।

सम्प्र­त्या­ध्या­त्मि­क­पा­दा­ना­मा­धि­दै­वि­क­पा­दै­र­धि­ष्ठे­य­तया सम्ब­न्धोऽ­नु­चि­न्त­नीय इति दर्श­यि­तु­मु­प­क्र­मते –
तत्रेति ।

सोऽग्नि­ने­त्या­दे­र­र्था­न्त­र­माह –
अथवेति ।
कीर्तियशसोः प्रत्य­क्ष­त्व­प­रो­क्ष­त्वाभ्यां भेदः ॥३॥

सर्व­त्रे­त्यु­भ­यतः सम्बध्यते ॥४ - ५ - ६ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृती­या­ध्या­य­स्या­ष्टा­दशः खण्डः ॥