अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: चतुर्दशः खण्डः

प्रतीकद्वारा ब्रह्मो­पा­स­न­मुक्त्वा प्रतीकं हित्वा सगु­ण­ब्र­ह्मो­पा­स­न­मु­प­न्य­स्यति –
पुनरित्यादिना ।

तस्य निरुपाधिकत्वं व्यावर्तयति –
अनन्तेति ।

कथ­मे­क­स्या­न­न्त­गु­णत्वं तत्राऽह –
अनन्तशक्तेरिति ।

ननु पूर्व­मे­वा­स्यो­पा­स­ना­न्य­ति­वृ­त्तानि तथा च वक्तव्यशेषो नास्ती­त्या­श­ङ्क्याऽऽह –
अनेकेति ।
अनेकेषु भेदेषु गाय­त्र्या­द्यु­पा­धि­षू­पा­स्य­स्यापि ब्रह्मणो मनो­म­य­त्वा­दि­वि­शि­ष्ट­गु­ण­त्वेन विशि­ष्ट­श­क्ति­म­त्त्वेन चोपा­स­ना­न्त­र­वि­धा­ना­र्थ­मु­त्त­र­वा­क्य­मि­त्यर्थः ।

तस्येदमा परामर्शे हेतुमाह –
प्रत्यक्षादीति ।

ब्रह्मशब्दस्य निरु­पा­धि­का­र्थ­वि­ष­यत्वं व्यावर्तयति –
कारणमिति ।

कथं तस्य ब्रह्मत्वं तत्राऽऽह –
वृद्धतमत्वादिति ।
निर­ति­श­य­म­ह­त्त्वा­दि­त्यर्थः ।

सर्वमनूद्य तस्य ब्रह्मत्वविधाने युक्तिं प्रश्नपूर्वकमाह –
कथमित्यादिना ।
तज्जं च तल्लं च तदनं च तज्जलान् । अव­य­व­लो­प­श्छा­न्दसः ।

तत्र तज्जत्वं जगतो व्युत्पादयति –
तस्मादिति ।

तल्ल­त्व­मु­प­पा­द­यति –
तथेति ।
विपर्ययेण तु क्रमोऽत इति न्याया­त्प्र­ति­लो­म­तया जननव्युत्क्रमेण तस्मिन्नेव ब्रह्मणि लीयते जगदिति कृत्वा यथा तज्जं तथेति योजना ।

तत्र लयो नाम जगतः शून्यतेति शङ्कां व्यावर्तयति –
तदात्मतयेति ।

तदनत्वं प्रतिपादयति –
तथेति ।
यथा तज्जं तल्लं च तथा तदनं च जगदित्यर्थः । इति तदनमिति शेषः ।

युक्ति­सि­द्ध­मर्थं निगमयति –
एवमिति ।
ब्रह्म­व्य­ति­रे­केण त्रिष्वपि कालेषु जग­तोऽ­ग्र­ह­णा­त्त­दा­त्म­त्वे­ना­वि­शिष्टं जगत्तदेव स्यादिति योजना । युक्तिसिद्धमपि जगतो ब्रह्मत्वं प्रत्य­क्षा­दि­वि­रुद्धं नाङ्गीकारमर्हति ।

न हि सद्वि­ती­य­म­द्वि­तीयं युक्त­मि­त्या­श­ङ्क्याऽऽह –
यथा चेति ।

सर्वस्य ब्रह्मत्वे फलितमाह –
यस्माच्चेति ।

कियन्तं कालं प्रत्य­य­मा­व­र्त­ये­दि­त्या­का­ङ्क्षा­पू­र्वकं तत्त्व­नि­श्च­य­प­र्य­न्त­मिति दर्शयितुं व्यवहितं वाक्यमवतार्य व्याचष्टे –
कथमित्या दिना ।
उपासीतेत्यस्य क्रतु कुर्वीतेत्यनेन व्यवहितेन सम्बन्ध इति योजना ।

क्रत्व­नु­ष्ठा­नस्य फलं पृच्छति –
किं पुनरिति ।

तत्र क्रतुकरणं च केन प्रकारेणेति प्रश्नान्तरं दर्शयति –
कथं वेति ।

ब्रह्म­भा­व­सा­ध­न­त्वा­त्क्र­तु­क­र­णस्य फलप्रश्नो नास्ती­त्या­श­ङ्क्याऽऽह –
क्रतुकरणं चेति ।
न हि जीवस्य स्थितस्य नष्टस्य वा सद्भावः संभवतीति भावः ।

क्रतुकरणस्येदं प्रयोजनं स च क्रतुरेवं क्रियते तत्करणं वाऽनया रीत्या ब्रह्मसद्भावं साध­य­ती­त्य­स्या­र्थ­जा­तस्य प्रति­पा­द­ना­र्थ­मा­ख­ण्ड­स­मा­प्ते­र­थे­त्या­दि­रु­त्तरो ग्रन्थ इत्याह –
इत्य­स्या­र्थ­स्येति ।

अथ खल्वित्यत्र पूर्व­व­त्ख­लृ­श­ब्दोऽ­थ­श­ब्दस्तु हेत्वर्थ इत्यत्र हेतुरूपमर्थं विवृणोति –
यस्मादिति ।

यद्वाऽ­थे­त्या­रभ्य पुरुष इत्यन्तो ग्रन्थो हेत्वर्थ इत्युक्त्वा तमेव हेतुरूपमर्थं दर्शयति –
यस्मादिति ।
यथा­क्र­तु­रि­त्य­स्मा­द­ध­स्ता­त्त­स्मा­च्छब्दो द्रष्टव्यः ।

अस्मिंल्लोक इति श्रुतिमादाय व्याचष्टे –
जीवन्निहेति ।
इह वर्तमाने देहे जीवन्सन्निति यावत् ।

क्रतुकरणेन किं कर्तव्यं फलमिति प्रश्नं व्याचष्टे –
तथेति ।

क्रत्व­नु­रू­प­फ­ला­त्म­कत्वे पुरुषस्य स्मृतिं सम्वादयति –
एवं हीति ।

शास्त्र­मे­वो­दा­ह­रति –
यं यमिति ।

कथं वा क्रतुः कर्तव्य इति प्रश्नं प्रत्याह –
यत इति ।
क्रत्व­नु­रू­प­फ­ला­त्मकः पुरुषो भवतीत्येवंरूपा व्यवस्थेति यावत् । एवं जान­न्क्र­त्व­नु­रूपं फलमिति शास्त्रतः पश्यन्नित्यर्थः ।

कोऽसौ क्रतु­रि­त्या­श­ङ्क्याऽऽह –
यादृशमिति ।

स क्रतुं कुर्वी­ते­त्य­स्यार्थं निगमयति –
यत एवमिति ॥१॥

क्रतु­क­र­ण­प्र­का­र­मेव प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।

कथमिदं मनः­प्रा­य­त्व­मि­त्य­पे­क्षायां मनः­श­ब्दा­र्थ­प्र­द­र्श­न­पू­र्वकं तत्प्रायत्वं व्युत्पादयति –
मनुत इति ।
मनोद्वारा तदुपाधिः पुरुषो विषयप्रवणो भवतीत्यर्थः ।

तत्प्रायत्व फलमाह –
तथेति ।
पुरुषो हि तत्प्रायः सन्मनसि प्रवर्तमाने स्वयमपि तद्वदेव प्रवृत्त इव लक्ष्यते । तथा निवर्तमाने मनसि निवृत्त इव चावगम्यते । वस्तुतस्तु पुरुषो न प्रवृत्तो निवृत्तो वा ध्याय­ती­वे­त्या­दि­श्रु­ते­रि­त्यर्थः । अत एव मनोमयत्वादेवेति यावत् । संमूर्छितत्वं संपिण्डितत्वम् ।

विज्ञानशक्तेः क्रिया­श­क्ते­श्चै­क­स्मि­न्नेव लिङ्गात्मनि संपिण्डितत्वे श्रुत्यन्तरं प्रमाणयति –
यो वा इति ।

आथर्वणीं श्रुतिं यथोक्ते विशेषणद्वये प्रमाणयति –
मनोमयः प्राणेति ।
मनो­वृ­त्ति­भि­र्वि­भा­व्य­मा­न­त्वा­दात्मा मनोमयः प्राण एव प्रत्यगात्मनः सूक्ष्मं शरीरं तस्य चासौ स्थूला­द्दे­हा­द्दे­हा­न्तरं प्रति नेते­त्या­थ­र्व­ण­श्रु­ते­रा­त्मनि विशे­ष­ण­द्व­य­सिद्धिः । एतच्च विशेषणद्वयं जीवगतमपि तदभेदविवक्षया ब्रह्मणि द्रष्ट­व्य­मि­त्यर्थः ।

सत्यसङ्कल्प इत्यत्र विशेषणेन ध्वनितमर्थं दर्शयति –
न यथेति ।
इवशब्दस्तथार्थः ।

कथं संसा­रि­स­ङ्क­ल्प­स्या­नै­का­न्ति­क­फ­लत्वं तत्राऽह –
अनृतेनेति ।

सङ्क­ल्प­स्या­नृ­तेन संसारिणि प्रत्यूढत्वे वाक्यशेषं प्रमाणयति –
वक्ष्यतीति ।

जडा­ज­ड­यो­रा­का­शे­त­र­योर्न तुल्य­ते­त्या­श­ङ्क्याऽऽह –
सर्वगतत्वमिति ।

सर्वकर्मेति सर्व­क्रि­या­श्र­य­त्व­मी­श्व­र­स्यो­च्यते तदयुक्तं निष्क्रि­य­त्व­श्रु­ते­रि­त्या­शङ्क्य व्याचष्टे –
सर्वमिति ।

संसारिभ्यो विशे­ष­सि­द्ध्यर्थं विशिनष्टि –
दोषरहिता इति ।

उदाहृतां स्मृति­मा­श्रि­त्यो­क्त­मा­क्षि­पति –
नन्विति ।

काम­सा­मा­ना­धि­क­रण्ये बाध­को­प­ल­म्भा­द्ब­हु­व्री­हि­रे­वेति परिहरति –
न कामस्येति ।
तस्य कार्य­त्वा­त्त­दैक्ये ब्रह्म­णोऽ­ना­दित्वं बाध्यते चेतनशेषत्वाच्च कामस्य तदैक्ये ब्रह्मणः स्वातन्त्र्यं हीयते । तथा च कर्म­धा­र­या­स­म्भ­वा­द्ब­हु­व्री­हि­रे­वे­त्यर्थः ।

कथं तर्हि कामोऽस्मीति तादा­त्म्य­स्मृ­ति­रि­त्या­श­ङ्क्याऽऽह –
तस्मादिति ।
कामेश्वरयोः सामा­ना­धि­क­र­ण्या­स­म्भ­वा­त्प्र­कृ­त­श्रुतौ बहु­व्री­हि­र्य­थे­ष्ट­स्तथा स्मृतावपि ब्रह्म­पा­र­त­न्त्र्य­मात्रं कामस्य विवक्षितम्, श्रुत्यनुसारेण स्मृते­र्ने­त­व्य­त्वा­दि­त्यर्थः ।

सर्व­श­ब्दा­द्दु­र्ग­न्धा­ना­मपि ब्रह्मणि प्राप्तौ विशिनष्टि –
सुखकरा इति ।

सर्वशब्दसङ्कोचे कारणमाह –
पुण्य इति ।

यथा सर्वगन्ध इत्यत्र सुखकरा गन्धा ब्रह्म­स­म्ब­न्धिनो दर्शितास्तथा सर्वरस इत्यत्रापि सुखकरा एव रसा­स्त­त्स­म्ब­न्धिनो ग्राह्या इत्याह –
तथेति ।

अत्रापि सर्वशब्दसङ्कोचे कारणमाह –
अपुण्येति ।
न तद्ग्रहणं परस्मिन्निति शेषः ।

तच्छ­ब्दा­र्थ­मे­वो­प­पा­द­यति –
पाप्मना हीति ।
एष इति घ्राण­प्रा­णोक्तिः ।

भवतु पाप्म­सं­स­र्ग­कृ­त­म­पु­ण्य­ग­न्धा­दि­ग्र­हणं तथाऽपि कथं तदीश्वरे सर्वज्ञे नास्ती­त्या­श­ङ्क्याऽऽह –
न चेति ।
निमि­त्ता­भा­वा­दी­श्व­रस्य न स्वस­म्ब­न्धि­त्वे­ना­पु­ण्य­ग­न्धा­दि­ग्र­ह­ण­मि­त्यर्थः ।

तस्य पाप्मासंसर्गे हेतुमाह –
अविद्यादीति ।
आदि­प­दे­ना­स्मि­ता­रा­ग­द्वे­षा­भि­नि­वे­शा­दयो गृह्यन्ते ।

अभ्यात्त इति रूपं तदर्थं च दर्शयन्कर्मणि निष्ठां व्यावर्तयति –
अततेरिति ।

वाक्शब्दस्य निष्प­त्ति­प्र­कारं रचयति –
वचेरिति ।
अत्रेति श्रुतेरीश्वरस्य चोक्तिः । उपलक्षणार्थो घ्राणा­दि­प्र­ति­षे­ध­स्येति शेषः ।

अथेश्वरे घ्राणा­दि­प्रा­प्ते­र­भा­वा­त्त­त्प्र­ति­षेधो नोपलक्ष्येतात आह –
गन्धेति ।
आदिशब्देन कामादिरुक्तः ।

युक्तं चान्योपलक्षणं साक्षा­दे­वा­न्यत्र प्रति­षे­ध­श्र­व­णा­दि­त्याह –
अपाणीति ।
आदिपदेन स वेत्ति वेद्यमित्यादि गृह्यते ।

ईश्वरस्य संभ्रमाभावं प्रतिपादयति –
अप्रा­प्त­प्राप्तौ हीति ॥२॥

यथोक्तस्य परस्य प्रत्य­गा­त्मा­भेदं दर्शयति –
एष इति ।

व्रीह्या­द्य­ने­को­पा­दा­न­स्यो­प­यो­ग­माह –
अत्यन्तेति ।

अणी­य­स्त्व­ज्या­य­स्त्व­व्य­प­दे­श­यो­र्मिथो विरोधमाशङ्क्य परिहरति –
श्यामाकेति ।

पृथि­व्य­न्त­रि­क्षा­दि­व­दी­श्व­रस्य सातिशयं महत्त्वं विवक्षितमिति शङ्कां वारयति –
ज्यायः­प­रि­मा­णा­च्चेति ।

पुन­रु­क्ते­रु­प­यो­ग­माह –
मनोमय इत्यादिनेति ॥३॥

यस्तैर्लक्ष्यते स एवेश्वरः केवल इति यावत् । ईश्वरो यथोक्तगुणो ध्येय इत्युक्ते गुणानामपि ध्यानकर्मत्वं दुर्वा­र­मि­त्या­श­ङ्क्याऽह –
यथेति ।

पुन­रु­क्ति­फ­ल­मु­प­सं­ह­रति –
तस्मादिति ।

सगुणस्येश्वरस्य ध्येयत्वे गमकान्तरमाह –
अत एवेति ।
स्वरू­प­वा­च­क­स्याऽऽ­त्मनः श्रुत्य­नु­प­प­त्तेर्न तद्ब­ला­द­द्वै­त­वा­क्या­र्थ­सि­द्धि­रि­त्यर्थः ।

भेद­लि­ङ्गा­च्चे­दिह भेदो विवक्षितस्तर्हि षष्ठेऽपि तल्लि­ङ्ग­द­र्श­ना­न्ना­ख­ण्ड­वा­क्या­र्थ­सि­द्धि­रिति शङ्कते –
नन्विति ।
नात्र भेदो विवक्षितः ।

आरब्धः संस्कारः सुखादिर्येन कर्मणा तच्छेषस्थितौ तात्पर्यादिति परिहरति –
नाऽऽरब्धेति ।

सत्सम्पत्तौ काला­न्त­रि­त­त्व­मे­वात्र विवक्षितं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
नेति ।

काला­न्त­र­भा­वित्वे स्मपत्तेरिष्टे तत्त्वमसीति ब्रह्मभावस्य वर्त­मा­नो­प­दे­शा­नु­प­प­त्ते­रिति हेतुमाह –
अन्यथेति ।

ननु प्रक­र­णा­नु­गृ­ही­ता­भ्या­मा­त्म­ब्र­ह्म­श­ब्दा­भ्या­म­त्रापि ब्रह्मा­त्मै­क्य­मेव विवक्षितमित्यत आह –
यद्यपीति ।
लिङ्गा­नु­गृ­ही­त­ष­ष्ठी­श्रु­ति­व­शा­त्प्र­क­र­णा­नु­गृ­हीते श्रुती कथञ्चिन्नेतव्ये प्रक­र­ण­श्रु­तिभ्यां लिङ्ग­श्रु­त्यो­र्ब­ल­व­त्त्वा­दा­त्म­श्रु­ते­श्चा­न्य­थो­प­प­त्ते­रु­क्त­त्वा­दिति भावः । सगु­ण­ब्र­ह्मो­पा­स­कस्य सकृ­त्त­त्त्व­धी­मा­त्रा­न्ना­दृष्टं फलं सिध्यति ।

किन्तु देहपातकालेऽपि साक्षा­त्का­रा­नु­वृत्त्या भवि­त­व्य­मि­त्य­भि­प्रे­त्याऽऽह –
यथा­क्र­तु­रू­प­स्येति ।
अध्य­व­सा­या­नु­रू­पस्य सगुणस्य परमात्मनोऽहं प्रति­प­त्ताऽ­स्मी­त्येवं विदो यस्याद्धा स्यान्निश्चयः प्रेत्याहमेष स्यामेव न तु न स्यामिति क्रतुफलसम्न्धे संशयोऽस्ति । स क्रत्वनुसारेणैव परमात्मभावं प्राप्नोति । तथा चाद्धेति वाक्या­न्म­र­ण­का­लेऽपि साक्षात्कारेण भवितव्यमिति प्रति­भा­ती­त्यर्थः ।

यथो­क्त­स्या­र्थस्य साम्प्र­दा­यि­कत्वं कथयति –
इत्येतदिति ।
आदरः क्रतु­फ­ल­स­म्ब­न्ध­वि­षयः ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृतीयाध्यायस्य चतुर्दशः खण्डः ॥