अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

प्रथमोऽध्यायः: प्रथमः खण्डः (१)

नमो जन्मा­दि­स­म्ब­न्ध­ब­न्ध­वि­ध्वं­स­हे­तवे ।
हरये परमानन्दवपुषे परमात्मने ॥ १ ॥
नम­स्त्र­य्य­न्त­स­न्दो­ह­स­र­सी­रु­ह­भा­नवे ।
गुरवे पर­प­क्षौ­घ­ध्वा­न्त­ध्वं­स­प­टी­यसे ॥ २ ॥

छन्दो­गा­ना­मु­प­नि­ष­द्भ्वेदं व्याचि­ख्या­सु­र्भ­ग­वा­न्भा­ष्य­का­र­श्चि­की­र्षि­त­ग्र­न्थ­प­रि­स­मा­प्ति­प्र­च­य­प­रि­प­न्थि­दु­रि­त­नि­ब­र्ह­ण­सि­द्ध्य­र्थ­मो­ङ्का­रो­च्चा­र­ण­ल­क्षणं मङ्गलाचरणं सम्पा­द­य­न्व्या­ख्ये­य­स्व­रूपं दर्शयति –
ओमित्येतदिति ।

व्याख्यानं सप्रयोजनं प्रतिजानीते –
तस्या इति ।

ननु शारीरके भूयःसु प्रदेशेषु विस्तरेण व्याख्या­त­त्वा­द­मुष्य भाष्यं किमिति संप्रत्यारभ्यते तत्राऽऽह –
सङ्क्षेपत इति ।
विस्तरेण व्याख्या­त­त्वेऽपि सङ्ग्रहतो व्याख्यानमस्याः सम्प्रणीयते विस्तृतस्य सङ्क्षिप्य ग्रहणे सुग्र­ह­त्वा­दि­त्यर्थः । किञ्च न चेयं यथापाठक्रमं व्याख्याता ।

प्रकृते तु पाठ­क्र­म­म­न­ति­क्रम्य व्याख्यायते तद्युक्तमिदं भाष्यमित्याऽऽह –
ऋजुविवरणमिति ।
ऋजु पाठक्रमानुसारि विव­र­ण­म­र्थ­स्फु­टी­क­रणं प्रकृतोपनिषदो यस्मिन्भाष्ये तत्तथेति यावत् ।

अथ पाठ­क्र­म­मा­श्रि­त्यापि द्राविडं भाष्यं प्रणीतं तत्कि­म­ने­ने­त्या­श­ङ्क्याऽऽह –
अल्पग्रन्थमिति ।

तथाऽपि विशि­ष्टा­धि­का­र्य­भावे कथमिदमारभ्यते तत्राऽह –
अर्थजिज्ञासुभ्य इति ।
ये हि मुमुक्षवोऽस्या विवक्षितमर्थं जिज्ञासन्ते तेभ्यो भाष्यमिदं प्रस्तूयते । तथा च विशि­ष्टा­धि­का­रि­स­म्भवे तदारम्भः सम्भवति तस्य च प्रकृ­तो­प­नि­ष­द­र्थ­प­रि­ज्ञा­न­म­वा­न्त­र­फलं तद्द्वारा कैवल्यं परमं फलमिति भावः ।

ननु कर्म­वि­धि­शे­ष­त्वा­दु­प­नि­ष­द­स्त­द्व्या­ख्या­ने­नैव कृत­व्या­ख्या­न­त्वा­त्पि­ष्ट­पि­ष्टि­प्र­स­ङ्गा­त्कृतं तद्भा­ष्ये­णे­त्या­शङ्क्य शेषशेषित्वे प्रमा­णा­भा­वा­न्मै­व­मि­त्य­भि­प्रेत्य पूर्वो­त्त­र­का­ण्ड­यो­र्नि­य­त­पू­र्वा­प­र­भा­व­प्र­युक्तं सम्बन्धं प्रतिजानीते –
तत्रेति ।
तस्या व्याख्येयत्वेन प्रस्तुताया उपनिषदः कर्मकाण्डेन सह सम्बन्धोऽभिधीयत इत्यर्थः ।

कोऽसा­वि­त्य­पे­क्षायां तदभिधित्सया कर्म­का­ण्डा­र्थ­म­नु­व­दति –
समस्तमिति ।
विहितं प्रतिषिद्धं च कर्म पूर्व­स्मि­न्काण्डे प्रति­प­न्न­मि­त्यर्थः ।

तत्र हि विहितं समु­च्चि­त­म­स­मु­च्चितं चेति द्विवि­ध­मि­त्य­ङ्गी­कृत्य समुच्चितस्य फलमनुवदति –
प्राणादीति ।
प्राण­श्चा­ग्नि­श्चे­त्याद्या देवता तद्विज्ञानं तदुपासनं तेन समु­च्चि­त­म­ग्नि­हो­त्रा­दि­क­र्मा­र्चि­रा­द्यु­प­ल­क्षि­तेन देवयानेन पथा कार्य­ब्र­ह्म­प्राप्तौ कारणं न तु ब्रह्मप्राप्तौ तस्य गन्त­व्य­त्वा­भा­वा­त्का­र्य­स्यैव गन्तव्यताया बादर्यधिकरणे राद्धा­न्ति­त­त्वात् । तस्मान्न समुच्चितं विहितं कर्म पर­म­पु­रु­षा­र्थ­हे­तु­रि­त्यर्थः ।

तस्यै­वा­स­मु­च्चि­तस्य फलमाह –
केवलं चेति ।

विहितस्य गतिमुक्त्वा प्रतिषिद्धस्य गतिमाह –
स्वभावेति ।
स्वभावेन शास्त्रा­पे­क्षा­म­न्त­रेण प्रकृतिवशादेव प्रवृत्ता यथे­ष्ट­चे­ष्टा­र­सि­का­स्तेषां कर्म­ज्ञा­ना­भा­वा­द्दे­व­याने पितृयाणे च पथ्य­न­धि­कृ­ता­ना­म­धो­ग­ति­स्ति­र्य­ग­वस्था क्षुद्र­ज­न्तु­ल­क्षणा अपु­न­रा­वृ­त्ति­दु­र्लभा वाक्येन ।

अन्य­त­र­स्मि­न्वाऽ­धि­कृ­तानां परमः पुरुषार्थः सेत्स्यति । “शुक्लकृष्णे गती ह्येते जगतः शाश्वते मतेे”(भ.गी. ८ । २६) इति स्मृत्या तयो­र्नि­त्य­फ­ल­त्व­प्र­ति­प­त्ते­रत आह –
न चोभयोरित्यादि ।
ननु मार्ग­द्व­य­भ्र­ष्टानां पुरु­षा­र्था­भा­वेऽपि द्वयोः पथो­र­न्य­त­र­स्मिन्वा भविष्यतीति चेत्तत्र न तावद्देवयानपथि निमित्ते निर­ति­श­य­पु­रु­षा­र्थ­सिद्धिः । “इमं मानवमावर्तं नावर्तन्ते”(छा.उ. ४ । १५ । ५) “तेषामिह न पुनरावृत्तिः” इत्यत्रेममिहेति विशेषणाद् “एकया यात्य­ना­वृ­त्तिम्”(भ.गी. ८ । २६) इति स्मृता­व­ना­वृ­त्ते­रे­त­त्क­ल्प­वि­ष­य­त्वात् कल्पा­न्त­रेऽ­प्य­ना­वृ­त्ता­वपि विशे­ष­णा­न­र्थ­क्यात् । नापि पितृयाणपथि निर­ति­श­य­पु­रु­षा­र्थ­सिद्धिः । “एतमेवाध्वानं पुन­र्नि­व­र्तन्ते”(छा.उ. ५ । १० । ५)“अन्ययाऽऽवर्तते पुनः”(भ.गी. ८ । २६) इति चन्द्र­स्थ­ल­स्ख­ल­ना­व­ग­मात् । तस्मान्न कर्म­व­शा­दा­त्य­न्ति­क­पु­रु­षा­र्थ­प्रा­प्ति­रि­त्यर्थः ।

एवमनूद्य कर्मफलं फलितं सम्बन्धमाह –
इत्यत इति ।
उक्तरीत्या कर्म यतो न निर­ति­श­य­पु­रु­षा­र्थ­हे­तु­रतः ससा­ध­ना­त्क­र्म­ण­स्त­त्फ­लाच्च विरक्तस्य निर­ति­श­य­पु­रु­षार्थं काङ्क्ष­त­स्त­त्सा­धनं केवलमात्मज्ञानं संसा­रा­न्त­र्भू­त­पू­र्वो­क्त­ग­ति­त्र­य­हे­तु­क­र्म­त­द्धे­तु­नि­रा­क­र­णेन वक्त­व्य­मि­त्य­भि­प्रा­ये­णो­प­नि­ष­दे­षाऽऽ­र­भ्यते । न हि कर्मा­नु­ष्ठा­ना­त्पु­मर्थो निरतिशयो लभ्यते । तस्य “तद्यथेह”(छा.उ. ८ । १ । ६) इत्यादौ क्षयि­ष्णु­फ­ल­त्व­श्रुतेः । तथा चेश्व­रा­र्प­ण­बु­द्ध्याऽ­नु­ष्ठि­त­शु­भ­क­र्म­व­शा­दु­प­जा­त­शु­द्ध­बु­द्धे­र्वि­र­क्तस्य मुमु­क्षो­र्मो­क्ष­सा­ध­न­ज्ञा­ना­र्थोऽ­य­मु­प­नि­ष­दा­र­म्भत इति हेतुहेतुमद्भावः सम्बन्ध इत्यर्थः ।

ननु “मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्या­त्प्र­त्य­वा­य­जि­हा­सया ॥” इति वृद्धै­रु­क्त­त्वा­त्का­म्य­नि­षिद्धे वर्जनीये । नित्यनैमित्तिके च कृत्वा व्यवस्थितस्य मुमु­क्षो­र्व­र्त­मा­न­दे­ह­पाते पुन­र्दे­हा­न्त­र­ग्रहे हेत्व­भा­वा­द­ना­या­स­सिद्धा ज्ञानादृतेऽपि मुक्तिरिति कथं ताद­र्थ्ये­नो­प­नि­ष­दा­र­भ्यते तत्राऽऽह -
न चेति ।
न हि त्वदु­त्प्रे­क्षितो मोक्षोपायो विना प्रमाणं प्रकल्पते । न च पौरुषेयं वाक्यं मूल­प्र­मा­ण­म­न्त­रेण प्रमाणम् । न चात्र श्रुतिस्मृती प्रत्यक्षादि वा मूलमालोक्यते । सम्भवति च यथा­व­र्णि­त­च­रि­त­स्यापि कर्म­शे­ष­व­शा­द्दे­हा­न्तरं ; न चैकभाविकः कर्माशयः । “तद्य इह रमणीयचरणाः”(छा.उ. ५ । १० । ७) “ततः शेषेण”(गौ. ध. सू. २ । २ । २९) इत्या­दि­श्रु­ति­स्मृ­ति­वि­रो­धा­त्त­स्मा­दा­त्म­ज्ञा­ना­देव मुक्तिरिति भावः ।

अद्वै­ता­त्म­ज्ञा­न­वि­धु­राणां भेदज्ञानभाजां कर्मा­नु­ष्ठा­यिनां क्षय्य­फ­ल­शा­लित्वे वाक्यशेषं प्रमाणयति –
वक्ष्यति हीति ।
अद्वै­ता­त्मो­प­दे­शा­न­न्त­र्य­म­थ­श­ब्दार्थः । ये पुन­र­नु­पा­सि­त­गु­र­व­स्त­दु­प­दे­श­शून्या यथामति यथो­क्ता­द­द्वै­ता­द­न्यथा द्वैतमेव तत्त्वं विदन्ति ते परतन्त्राः सन्तो रागादिना कर्मा­नु­ति­ष्ठन्तो विनाशिफलशालिनः स्युरिति श्रुत्यर्थः ।

अद्वै­ता­त्म­ज्ञा­ना­दा­त्य­न्ति­क­पु­रु­षा­र्थ­सि­द्धि­रि­त्य­त्रापि वाक्य­शे­ष­म­नु­कू­ल­यति –
विपर्यये चेति ।
चका­रा­त्क्रि­या­प­द­म­नु­कृ­ष्यते । स हि विद्वान्विद्यया निर­स्ता­वि­द्या­दि­मलः स्वप­रि­ज्ञा­ना­त्स्व­य­मेव परमात्मा भवति । भेद­प्र­ति­प­त्ति­हे­तो­रु­च्छि­न्न­त्वा­दि­त्यर्थः ।

भेदनिष्ठानां कर्मिणां पुरुषार्थो निरतिशयो न सिद्ध्यति । अद्वैतनिष्ठानां तु कर्म त्यजतां पुमर्थः सेत्स्यतीत्यत्र वाक्यशेषस्थं लिङ्गं दर्शयति –
तथेत्यादिना ।
द्वैतमेव विष­य­स्त­स्मि­न्वा­चा­र­म्भ­ण­श्रु­ते­र­नृ­तेऽ­भि­सन्धा यस्याभिसन्धा सत्य­त्वा­भि­मा­न­स्तस्य बन्धनं पर­मा­न­न्द­स्याऽऽ­वि­र्भा­व­रा­हित्यं संसारात्मकस्य दुःखस्य प्राप्तिश्च । यथा वस्तुतः तस्करस्य नाहं तस्करोऽस्मीति मिथ्यै­वा­भि­म­न्य­मा­नस्य परिशोधनार्थं तप्त­प­र­शो­र्ग्र­हणे दाहो बन्धनं दुःखप्राप्तिश्च प्रतीयते, तथैव द्वैता­भि­नि­वे­श­व­तोऽ­पीति प्रथममुक्त्वा वस्तु­तोऽ­त­स्क­रस्य परै­रा­रो­पि­त­त­स्क­र­त्वस्य परिशुशुत्सया तप्तपरशुग्रहणे दाहा­द्य­भा­व­व­द्द्वै­ता­भा­वो­प­ल­क्षिते प्रत्यगात्मनि पर­मा­र्थ­स­त्येऽ­भि­मा­न­वतो द्वैताच्च व्यावृ­त्त­चि­त्त­स्या­न­र्थ­ध्वंसो निर­ति­श­या­न­न्दा­वि­र्भा­व­श्चेति यथो­क्ता­र्था­नु­रो­धे­नाग्रे श्रुति­र्व­क्ष्य­तीति योजना । केवलमात्मज्ञानं कैव­ल्य­हे­तु­स्त­त्सि­द्ध्य­र्थ­मु­प­नि­ष­दा­रम्भ इति स्वपक्षो दर्शितः ।

स्वयूथ्यास्तु कर्म­स­मु­च्चि­त­मा­त्मानं मोक्षसाधनं ताद­र्थ्ये­नो­प­नि­ष­दा­रम्भ इत्या­हु­स्ता­न्प्र­त्याह –
अत एवेति ।
यत्कृतकं तद­नि­त्य­मि­ति­व्या­प्त्य­नु­गृ­ही­तया “तद्यथेह”(गौ. ध. सू. २ । २ । २९) इत्यादिश्रुत्या कर्म­फ­ल­स्या­नि­त्य­त्वा­व­ग­माद् “ब्रह्म­वि­दा­प्नोति परम्”(तै. उ. २ । १ । १) इत्यादिश्रुत्या च ज्ञानफलस्य नित्य­त्व­सि­द्धे­र्ज्ञा­न­क­र्म­णो­र्वि­रु­द्ध­फ­ल­त्वा­ध्य­व­सा­या­द­द्वै­त­स्याऽऽ­त्मनो दर्शनं नैव कर्मणा सह भवितुमुत्सहते । न हि विरु­द्ध­यो­स्त­मः­प्र­का­शयोः समुच्चयः सङ्गच्छते । तन्न समु­च्चि­त­ज्ञा­ना­र्थ­त्वे­नो­प­नि­ष­दा­रम्भ इत्यर्थः ।

किं चाद्वै­ता­त्म­ज्ञानं स्वसा­ध्य­सि­द्ध्यर्थं वा कर्मापेक्षते स्वबा­ध­क­वि­धू­न­नार्थं वा ? नाऽऽद्यः । तस्या­सा­ध्य­फ­ल­त्वा­दिति मन्वानो द्वितीयं प्रत्याह –
क्रियेति ।
वाक्य­ज­नि­त­स्या­द्वै­ता­त्म­ज्ञा­न­स्येति शेषः । तस्य बाधकाभावेन तत्परिहारार्थं सहकार्यपेक्षा नास्तीत्यर्थः ।

बाध­क­प्र­त्य­या­भा­व­स्या­सि­द्धि­मा­श­ङ्कते –
कर्मेति ।
तद्विषयो विधिप्रत्ययो यजे­ते­त्या­दि­वि­धि­ज­नितः कर्तव्यताबोधः । स चाऽऽत्मनि कर्तृ­त्वा­दि­क­मा­का­ङ्क्ष­न्न­क­र्त्रा­द्या­त्म­ज्ञा­नस्य बाधको भवतीत्यर्थः ।

कस्यायं कर्मविधिरज्ञस्य विदुषो वेति विकल्प्याऽऽद्यं प्रत्याऽह –
नेत्यादिना ।
कर्त्राद्याकारं प्रमा­ण­नि­र­पे­क्ष­प्र­कृ­ति­प्र­सूतं मिथ्याज्ञानं तद्वतस्तेन मिथ्याज्ञानेन जनितकर्मफलविषयो रागा­दि­दो­ष­स्त­द्व­तश्च कर्म विधीयते । न हि कर्ताऽ­ह­मि­त्या­दि­मि­थ्या­धियो रागादेश्चाभावे कर्म विधातुं शक्यम् । “यद्यद्धि कुरुते जन्तु­स्त­त्त­त्का­मस्य चेष्टितम्”(म.स्मृ. २ । ४) इति स्मृतेः । अतोऽज्ञस्य कर्मविधिपक्षे न तत्प्रत्ययो बाधकः प्राप्त्य­भा­वा­दि­त्यर्थः ।

द्वितीयं शङ्कते –
अधिगतेति ।
अधीतस्वाध्यायो हि वैदिके कर्म­ण्य­धि­क्रि­यते । अध्ययनं चार्था­व­बो­ध­फ­ल­मिति मीमांसकमर्यादा । तथा चाध्ययनवतो ज्ञात­स­र्व­वे­दा­र्थस्य यजेतेत्यादिना कर्म­वि­धा­ना­दा­त्म­ज्ञा­न­स्यापि कर्माङ्गत्वं गम्यते । न चाऽऽत्म­ज्ञा­न­म­प­बा­ध्यते । अवि­रो­धा­दि­त्यर्थः ।

न ताव­द­र्था­व­बो­ध­फ­ल­म­ध्य­य­न­मिति प्रामा­णि­क­म­क्ष­रा­वा­प्ति­फलं तदिति चाध्ये­तृ­प्र­सिद्धं तत्रा­ध्य­य­न­वि­धि­व­शेन नाऽऽत्मज्ञानस्य कर्म­वि­धि­स­म्बन्धः सम्भवतीति परिहरति –
नेति ।

किञ्च ममेदं कर्मेति कर्मण्यैश्वर्यं प्रतिपद्य व्यवस्थितं विषयीकृत्य प्रवृत्तस्य कर्त्रा­द्या­का­र­वि­ज्ञा­नस्य प्रमा­णा­पे­क्षा­म­न्त­रेण स्वभा­व­प्रा­प्तस्य वाक्योत्थेन सम्य­ग्ज्ञा­ने­ना­प­हृ­त­त्वा­त्क­र्म­फ­ल­वि­ष­य­रा­गा­द्य­यो­गा­त्त­न्नि­ब­न्ध­नस्य कर्मणोऽपि दुर­नु­ष्ठा­न­त्वा­न्नाऽऽ­त्म­ज्ञस्य कर्मो­प­प­त्ति­रि­त्याह –
कर्माधिकृतेति ।

अद्वै­ता­त्म­ज्ञा­नस्य कर्म­प्र­वृ­त्ति­वि­रो­धित्वे फलितमुपसंहरति –
तस्मादिति ।

अज्ञस्य कर्मविधिर्न त्वात्म­ज्ञा­न­स्ये­त्यत्र श्रुतिं सम्वादयति –
अत एवेति ।
एते त्रयोऽ­प्या­श्र­मिणः कर्माधिकृता इति यावत् ।

यथा ब्रह्माचारी गृहस्थो वान­प्र­स्थ­श्चे­त्येते कर्मिणस्तथा ब्रह्मविदपि कर्मी चेन्न पृथक्क्रियेत । पृथक्करणाच्च न तस्य कर्मविधिरिति मत्वोक्तम् –
ब्रह्मसंस्थ इति ।

यदि समु­च्च­या­स­म्भ­वा­त्के­व­ल­मे­वाऽऽ­त्म­ज्ञानं कैवल्यसाधनमिति ताद­र्थ्ये­नो­प­नि­ष­दा­र­भ्यते हन्त किमि­त्य­स्या­मु­प­नि­षदि त्रिवि­धा­न्यु­पा­स­ना­न्यु­प­न्य­स्यन्ते तत्राऽऽह -
तत्रेति ।
उक्तया रीत्यो­प­नि­ष­दा­रम्भे सतीति यावत् । स यो वायुं दिशां वत्सं वेद न पुत्ररोदं रोदि­ती­त्या­दी­न्य­भ्यु­द­य­फ­ला­न्यु­पा­स­नानि । कैवल्येन सनिकृष्टफलत्वं नाम क्रम­मु­क्ति­फ­ल­त्वम् । अद्वै­ता­न्नि­ष्प्र­प­ञ्चा­दी­ष­द्वि­कृतं सगुणं ब्रह्म । कर्म­स­मृ­द्धि­फ­लानि कर्म­फ­ल­ग­ता­ति­श­य­फ­ला­न्यु­द्गी­था­द्यु­पा­स­ना­नी­त्यर्थः ।

आत्म­वि­द्या­प्र­क­रणे त्रिवि­धो­पा­स­नो­प­न्यासे हेतुमाह –
रहस्येति ।
उप­नि­ष­त्प­द­वे­द­नी­य­त्व­स्याऽऽ­त्म­वि­द्या­या­मु­पा­स­नेषु चावि­शे­षा­दि­त्यर्थः ।

तत्रैव हेत्व­न्त­र­मु­द्भाव्य विभजते –
मनो­वृ­त्ती­त्या­दिना ।

आत्म­ज्ञा­न­स्यो­पा­स­नानां च यथोक्तं सामान्यमिष्यते चेत्तर्हि फलतोऽपि विशेषो न स्यादिति मन्वानः शङ्कते –
कस्तर्हीति ।

फलतो विशेषं दर्श­य­न्नु­त्त­र­माह –
उच्यत इति ।

तत्र प्रथ­म­मा­त्म­ज्ञा­न­स्यो­पा­स­नाभ्यो विशेषमादर्शयति –
स्वाभाविकस्येति ।
प्रत्यगात्मनि क्रिया­का­र­क­फ­ल­वि­भा­ग­वि­कले कूटस्थे स्वभा­व­श­ब्दि­ता­वि­द्या­कृ­त­म­ध्या­रो­पितं कर्त्रा­द्या­का­र­वि­ज्ञा­नम् । तस्या­द्वि­ती­य­त्वा­दि­ल­क्ष­णा­धि­ष्ठा­न­या­था­त्म्य­ज्ञानं निवर्तकम् । यथा रज्ज्वा­दा­व­धि­ष्ठाने सर्पा­दि­स­मा­रो­प­रू­पस्य मिथ्याज्ञानस्य प्रका­शा­दि­का­र­ण­प्र­सूतो रज्ज्वा­द्य­धि­ष्ठा­न­स्व­रू­प­नि­श्चयो निव­र्त­क­स्त­थे­त्यर्थः ।

संप्र­त्यु­पा­स­ना­ना­म­द्वै­त­ज्ञा­ना­द्वि­शेषं दर्शयति –
उपासनं त्विति ।
शास्त्रं “मनो ब्रह्मे­त्यु­पा­सीत”(छा. उ. ३ । १८ । १) इत्यादि, किञ्चिदालम्बनं मनःप्रभृति विवक्षितम् ।

समा­न­जा­ती­य­प्र­त्य­य­स­न्ता­न­क­रणं विच्छिद्य विच्छिद्य ध्यायिनोऽपि सिध्यतीति विशिनष्टि –
तद्विलक्षणेति ।

आत्म­ज्ञा­न­स्यो­पा­स­नानां चावा­न्त­र­वि­शे­ष­मु­प­सं­ह­रति –
इति विशेष इति ।

ननु विद्याप्रकरणे यथो­क्तो­पा­स­ना­ना­मु­प­दे­श­स­म्भ­वेऽपि विद्यैव प्राधा­न्या­त्प्रा­थ­म्ये­नो­च्य­ता­मु­पा­स­नानि पुन­र­प्र­धा­न­त्वा­त्पा­श्चा­त्येन वाच्या­नी­त्या­श­ङ्क्याऽऽह –
तानीति ।
उपा­स­ना­ना­मी­श्व­रा­र्प­ण­बु­द्ध्याऽ­नु­ष्ठि­त­नि­त्या­दि­क­र्म­व­च्चि­त्त­शु­द्धि­द्वारा ज्ञान­का­र­ण­त्वा­त्का­र्याच्च कारणस्य प्राथ­म्य­प्र­सिद्धेः साका­र­व­स्तु­वि­ष­य­त्वेन सुसाध्यत्वाच्च मन्दानां सहसा तेषु प्रवृ­त्त्यु­प­प­त्ते­रा­दा­वु­प­देशः सम्भवतीत्यर्थः ।

तथाऽपि बहु­वि­धे­षू­पा­स­नेषु किमि­त्य­ङ्गा­व­ब­द्ध­मे­वो­पा­सनं प्रथममुच्यते तत्राऽऽह –
तत्रेति ।
प्राकृते पुरुषे कर्मा­भ्या­स­स्या­ना­दि­वा­स­नया दृढी­कृ­त­त्वा­द­भ्य­स्त­त­त्त­त्क­र्म­त्या­गेऽ­त­त्स­म्ब­न्धिनि केवलोपासने चेतसः समर्पणं दुःखं कर्तु­मि­त्य­ङ्गा­व­ब­द्ध­मेव ताव­दु­पा­स­न­मु­च्यते । एवमादावुक्त्वा पुन­रु­पा­स­ना­न्त­राणि क्रमेण वक्त­व्या­नी­त्यर्थः ।
इत्यु­पो­द्घा­त­भा­ष्य­टीका

काण्डद्वयस्य निय­त­पौ­र्वा­प­र्य­प्र­यु­क्त­स­म्ब­न्ध­मु­प­नि­ष­त्ता­त्पर्यं चोक्त्वा प्रत्यक्षरं व्याख्यातुकामः प्रतीकमादत्ते –
ओमि­त्ये­त­द­क्ष­र­मिति ।

तत्र प्रथ­म­मो­ङ्का­र­स्या­भि­धा­य­क­त्व­प­क्ष­मे­वा­व­ल­म्बते –
परमात्मन इति ।

अभि­धा­ना­न्त­रेभ्यो विशेषं दर्शयति –
नेदिष्ठमिति ।
निकटतममतिशयेन प्रियमिति यावत् ।

ओङ्कारस्य नेदिष्ठत्वं समर्थयते –
तस्मिन्निति ।

ओङ्का­र­स्या­न्यत्र पर­मा­त्म­ना­म­त्वेऽपि प्रकृते किं विव­क्षि­त­मि­त्या­श­ङ्क्याऽऽह –
तदिहेति ।
प्रकृते हि वाक्ये तदोमिति पद­मि­ति­श­ब्द­शि­रस्कं प्रयुक्तमिति शब्द­सा­म­र्थ्या­देव वाच­क­त्वा­द्व्या­व­र्तितं शब्द­स्व­रू­प­मा­त्र­मु­पास्यं गम्यते । यत्र हातिपरः प्रयोगो न तत्रा­भि­धे­य­वि­व­क्षास्ति यथा गौरित्ययमाहेति । तथा चात्रे­ति­प­र­त्वा­दो­ङ्का­रस्य स्वरू­प­मा­त्र­मु­पास्यं विव­क्षि­त­मि­त्यर्थः ।

तथो­पा­स्य­त्वार्थं श्रैष्ठ्यं साधयति –
तथा चेति ।
इति­प­र­प्र­यो­ग­व­शा­द­भि­धा­य­क­त्वा­भावे सत्य­र्चा­श­ब्दि­त­प्र­ति­माया भग­व­त्प्र­ती­क­त्व­व­दो­ङ्का­र­स्यापि पर­मा­त्म­प्र­ती­क­त्वेन श्रेष्ठ­त्वा­दु­पा­स्य­त्व­सि­द्धि­रि­त्यर्थः ।

तदीय श्रैष्ठ्यं सप्रमाणकं निगमयति –
एवमिति ।
सर्व­वे­दा­न्ते­ष्वे­त­दा­ल­म्बनं परमित्यादिषु ।

किञ्च नास्य श्रैष्ठ्यं समर्थनीयं प्रसि­द्ध­त्वा­दि­त्याह –
जपेति ।
गायत्र्यादिजपे यज्ञादौ कर्मणि स्वाध्या­य­स्याऽऽ­दा­वन्ते चोङ्कारस्य प्रयोगो दृश्यते ।
“तस्मा­दो­मि­त्यु­दा­हृत्य यज्ञ­दा­न­त­पः­क्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥”
(भ.गी. १७ । २४)
“ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।
स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते ॥”
(म.स्मृ. २ । ७४) इति स्मृतेः । “ओमिति ब्राह्मणः प्रवक्ष्यन्नाह”(तै.उ. १ । ८) इत्या­दि­श्रु­ते­श्चे­त्यर्थः ।

ओमितीत्ययं भागो व्याख्यातः संप्र­त्ये­त­द­क्ष­र­मि­त्य­स्या­र्थ­माह –
अत इति ।
श्रेष्ठ­त्व­मु­पा­स्य­त्वा­र्थ­म­नु­कृ­ष्यते ।

व्याप्तेश्च समञ्जसमिति न्यायेन विशे­ष­ण­स्या­र्थ­व­त्त्व­म­भि­प्रेत्य रूढि­र्यो­ग­म­प­ह­र­तीति न्याये­ना­क्ष­र­श­ब्दस्य प्रकरणमनुसृत्य प्रसिद्धमर्थमाह –
वर्णात्मकमिति ।

ग्रामो दग्धः पटो दग्ध इतिवदेकदेशे समुदायविषयं पदं प्रवृत्तमित्याह –
उद्गीथेति ।

उपास्तिं विभजते –
कर्मेति ।

उद्गी­था­व­य­व­त्वा­दो­ङ्कारे तच्छ­ब्द­प्र­वृ­त्ति­रि­त्यु­क्त­त्वा­द­न­न्त­र­वा­क्य­म­कि­ञ्चि­त्क­र­मि­त्या­शङ्क्य श्रुत्युक्तो योऽस्मदुक्तो हेतुस्तेन स्फुटीक्रियते तत­श्चो­त्कृ­ष्या­स्मा­भि­र्द­र्शित इत्य­भि­प्रे­त्याऽऽह –
स्वयमेवेति ।
ओमि­त्ये­त­द­क्ष­र­मि­त्य­त्रो­पा­स­नो­त्प­त्ति­वि­धि­रुक्तः ।

सम्प्रति गुणं विव­क्षु­र्वा­क्या­न्त­र­मा­दाय व्याचष्टे –
तस्येति ।

एवमुपासनमिति ।
रसतमत्वमाप्तिः समृ­द्धि­रि­त्ये­वं­गु­ण­क­मु­पा­सनं यस्याक्षरस्य तत्तथेत्यर्थः ।

एवंविभूतीति ।
परमः परा­र्ध्य­स्ते­नेयं त्रयी विद्या वर्तत इत्याद्या विभूतिः स्तुतिर्यस्य तत्तथेति यावत् ।

एवंफलमिति ।
“आपयिता ह वै कामानाम्”(छा.उ. १ । १ । ७) इत्यादि फलं यस्यो­पा­स्य­सा­क्षा­त्का­रस्य तत्त­थो­क्त­मि­त्यर्थः । गोदो­ह­न­व­दा­श्रित्य विधा­ना­द­धि­कृ­ता­धि­का­र­मि­द­मु­पा­सनं तथाऽपि पृथगेव पृथ­ग्घ्य­प्र­ति­बन्धः फलमिति न्यायेन फलवत् । फलं याज­मा­न­मु­द्गा­तु­र्य­ज­मा­नेन कर्मार्थं क्रीत­त्वा­त्त­त्क­र्तृ­क­स्यो­पा­स­न­स्यापि यजमानस्य स्वामिनः फलमिति वच­न­मा­दि­श­ब्दार्थः ।

वाक्यस्य साका­ङ्क्ष­त्वे­नाऽऽ­न­र्थक्यं वारयति –
प्रवर्तत इति ॥ १ ॥

तदे­वो­प­व्या­ख्या­न­म­नु­व­र्त­य­न्नो­ङ्का­रस्य रसतमत्वं गुणं विधातुं पातनिकां करोति –
एषामिति ।
गति­रि­त्यु­त्प­त्ति­का­र­णत्वं परायणमिति स्थिति­हे­तु­त्व­म­व­ष्टम्भ इति प्रल­य­नि­दा­न­त्व­मु­च्यत इति भेदः । वैपरीत्येन वाऽमूनि पदानि नेयानि ।

अपां पृथिवीरसत्वं साधयति –
अप्सु हीति ।
अस्यार्थस्य श्रुत्य­न्त­र­प्र­सिद्धिं द्योतयितुं हिशब्दः ।

ओषधीनामपः प्रति कार­ण­त्वा­भा­वा­त्कथं तत्र रस­श­ब्द­स्त­त्राऽऽह –
अप्प­रि­णा­म­त्वा­दिति ।
कारणपरतया पूर्वत्र व्याख्यातोऽपि रसशब्दो गोरस इतिवदुत्तरत्र कार्यपरतया व्याख्येय इत्यर्थः ।

कथमोषधीनां पुरुषो रसः । न हि ताभिरसौ क्रियते तत्राऽह –
अन्नेति ।

पुरुषरसत्वं वाचः समर्थयते –
पुरुषेति ।
वाग्विहीनं हि प्रति­पु­रु­षा­न्तरं विनिन्दन्ति । अतो वाचः सारतमत्वं प्रसिद्धमिति हिशब्दार्थः । तस्याः सारि­ष्ठ­त्व­प्र­सि­द्धि­र­तः­श­ब्दार्थः ।

वाङ्नि­र्व­र्त्य­त्वा­दृ­च­स्त­द्र­स­त्व­मि­त्य­भि­प्रे­त्याऽऽह –
सारतरेति ।

ऋचः सकाशादपि तद्ध्यूढं साम गीयमानं वक्तृश्रोत्रोः सुखकरमिति मत्वाऽऽह –
सारतरमिति ।

उद्गीथशब्दं चावयवे प्रक­र­णा­न्नि­य­म­यति –
प्रकृतत्वादिति ।

न हि सामानोङ्कृतं फलाय भवतीति मन्वानो ब्रूते –
सारतर इति ॥ २ ॥

तदर्थं पृथिव्यादीनां रसत्वमुक्तं तदिदानीं दर्शयति –
एवमिति ।

रस­त­म­त्व­गु­ण­क­मो­ङ्का­र­मु­पा­स्य­त्वार्थं विशेषणाभ्यां महीकरोति –
परम इति ।

तस्य पर­मा­त्म­स्था­न­यो­ग्यत्वं समर्थयते –
परमात्मवदिति ।
यथा परमात्मा स्वरू­प­त्वे­ना­नु­स­न्धी­यते तथाऽस्यापि तदा­त्म­नाऽ­नु­स­न्धे­य­त्वा­द्वि­ष्णु­बु­द्ध्या­ल­म्ब­ना­र्ह­प्र­ति­मा­व­द­य­मपि पर­मा­त्म­त्व­बु­द्ध्या­ल­म्ब­न­योग्यो भवतीत्यर्थः ।

ओङ्का­रा­त्प­रा­चीनो रसो नास्तीति तदी­य­र­स­त­म­त्व­स्फु­टी­क­र­णार्थं परिगणनातः सिद्ध­म­ष्ट­म­त्व­म­नु­व­दति –
अष्टम इति ।

ननु भूतान्यारभ्य नवमत्वे प्रतीयमाने कथ­मो­ङ्का­र­स्या­ष्ट­मत्वं प्रतिज्ञायते तत्राऽऽह –
पृथिव्यादीति ।

स एष इत्युक्तं व्यक्तीकर्तुं यदुद्गीथ इत्ये­त­द्व्या­चष्टे –
य इति ।
पूर्व­व­दु­द्गी­थ­श­ब्दोऽ­व­य­व­परो नेतव्यः ॥ ३ ॥

अथ गुणा­न्त­र­वि­धा­नार्थं प्रश्न­म­व­ता­र­य­न्वृ­त्त­म­नु­व­दति –
वाच इति ।
ऋचः साम रसः साम्न उद्गीथो रस इति चोक्तमिति द्रष्टव्यम् ।

इदा­नी­मृ­गा­दि­जातिं जिज्ञासमानः पृच्छति –
कतमेति ।

वीप्सात्रयं प्रश्ने तत्त­ज्जा­ति­ज्ञाने श्रद्धातिरेकं दर्शयितुमित्याह –
कतमा कतमेति ।

प्रश्न­त्र­य­मा­क्षि­पति –
नन्विति ।
अने­क­जा­त्य­व­च्छि­न्नानां मध्ये यदैकस्या जाते­र्नि­र्धा­र­णार्थः परिप्रश्नो भवति तदा तस्मिन्विषये विकल्पेन डतमच्प्रत्ययः स्याद्यथा बहूनां कठादीनां मध्ये कठ­जा­ति­नि­र्ण­यार्थं कतमे कठा इति प्रश्नो दृश्यते तथाऽन्यत्रापीति सूत्रार्थः ।

बहूनामेकस्या निर्धारणे डतमज्विधानेऽपि प्रकृते प्रश्नत्रये काऽनु­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह –
न हीति ।
अत्रे­त्य­ध्या­प­का­ध्ये­तृ­व्य­व­हा­र­भू­मि­रुक्ता । ऋग्जातिग्रहणं साम­जा­ते­रु­द्गी­थ­जा­ते­श्चो­प­ल­क्ष­णम् ।

तद्ब­हु­त्वा­भा­वेऽपि किं नश्छिद्यते तत्राऽऽह –
कथमिति ।
ऋगादिजातयो यदि भूयस्यः स्युस्तदा तासां मध्ये कतमर्ग जातिः कतमा सामजातिर्वा कतमा सामजातिर्वा कतमा वोद्गीथजातिरत्र विवक्षितेति प्रश्नो युज्यते । न चास्ति तत्र जातिबहुत्वं प्रमा­णा­भा­वा­द­तोऽ­नु­प­पन्नं प्रश्न­त्र­य­मि­त्यर्थः ।

प्रश्ना­नु­प­पत्तिं दूषयति –
नैष दोष इति ।
बहूनां तत्त­ज्जा­त्य­व­च्छि­न्नानां सन्निधाने जातौ सत्यां व्यक्ति­ब­हु­त्व­स­म्भ­वा­त्त­द­न्य­त­म­नि­र्धा­र­णार्थं परिप्रश्ने विकल्पेन डतमाजति सूत्रा­र्था­ङ्गी­का­रा­दृ­गा­दि­जातौ तद्व्य­क्ति­बा­हु­ल्या­त्क­तमा तद्व्यक्तिर्वाच ऋग्रस इत्यादौ विवक्षितेति प्रश्न­प­र्य­व­सा­ना­दु­प­पन्नं प्रश्न­त्र­य­मि­त्यर्थः ।

यत्तु विग्रहान्तरं गृहीत्वा प्रश्ना­नु­प­प­त्ति­रि­त्युक्तं तत्राऽऽह –
न त्विति ।
तत्र चानुपपत्तिं यदि जातेरित्यत्र व्यक्तीकरिष्यति । अस्म­दि­ष्ट­वि­ग्र­हा­प­रि­ग्रहे वृत्ति­का­री­य­मु­दा­ह­रणं विरुद्ध्यते ।

कठशब्दस्य व्यक्ति­वि­शे­ष­त्वा­भा­वा­दिति शङ्कते –
नन्विति ।

उदाहरणेऽपि सत्यां कठजातौ तद्व्य­क्ति­बा­हु­ल्या­त्त­द­न्य­त­म­नि­र्धा­र­णा­भि­प्रा­येण परिप्रश्ने डत­म­जि­त्य­ङ्गी­का­रान्न परो­क्तो­दा­ह­र­ण­वि­रो­धोऽ­स्म­त्प­क्षेऽ­स्तीति परिहरति –
तत्रापीति ।

ननु द्विधाऽपि विग्रहोपपत्तौ किमिति त्वदिष्टो विग्रहो नियम्यते तत्राऽऽह –
यदीति ।
त्वदि­ष्ट­वि­ग्र­ह­प­रि­ग्र­ह­श्चे­दृ­गा­दि­जा­ते­रे­क­त्वा­त्प्र­त्येकं बहुत्वायोगात् वा बहू­ना­मि­त्या­दि­सू­त्रेण कत­म­र्क्क­त­म­त्सा­मे­त्यु­दा­ह­रणं न सिद्ध्येत् । तथा च तत्सिद्ध्यर्थं पृथग्विधानं प्रसज्येत । न हि वैदिकमुदाहरणं प्रमत्तगीतमिव हातुं शक्यं तस्मा­दृ­गा­दि­व्य­क्ति­रे­वात्र प्रष्टुं युक्तेत्यर्थः ॥ ४ ॥

किमिति यथोक्तरीत्या विमृश्यते । विव­क्षि­त­मृ­गा­दि­स्व­रू­प­मे­वाऽऽ­दा­वु­प­न्य­स्यतां लाघ­वा­दि­त्या­श­ङ्क्याऽऽह –
विमर्शे हीति ।

शिष्यभूतया श्रुत्या चोदिते सैवाऽऽचार्यभूता परिहरति –
वागेवेति ।

नन्वाद्ये प्रतिवचने वागृ­चो­रे­क­त्वा­व­ग­मा­दो­ङ्का­रस्य रस­त­म­वा­क्यो­प­दि­ष्ट­म­ष्ट­मत्वं व्याह­न्ये­ते­त्या­श­ङ्क्याऽऽह –
वागृचोरिति ।

कथं पुना रसतमवाक्यादिदं प्रश्न­प्र­ति­व­च­न­रू­प­वाक्यं भिद्य­तेऽ­र्था­धि­क्या­भा­वा­त्त­त्राऽऽह –
आप्तीति ।
पूर्वं हि वाक्यमोङ्कारस्य रसतमत्वं विदधाति । इदं तु तस्यै­वाऽऽ­प्ति­गुणं विधत्ते । तथा च तादृ­ग्गु­ण­वि­ध्य­र्थ­त्वे­नास्य वाक्या­न्त­र­त्वा­दे­त­द्वा­क्य­व­शा­द­ष्ट­म­त्वा­भा­वेऽपि पूर्व­वा­क्या­दो­ङ्का­र­स्या­ष्ट­म­त्व­म­वि­रु­द्ध­मि­त्यर्थः ।

तथाऽपि कथमृगादिजातीये पृष्टे वागे­व­र्गि­त्या­दि­प्र­ति­व­च­न­मु­चितं तद्व्य­क्ति­वि­शे­ष­व­च­न­मेव प्रश्ना­नु­सा­री­त्या­श­ङ्क्याऽऽह –
वाक्प्राणाविति ।
वागृचो योनि­स्त­न्नि­र्व­र्त­क­त्वात् । प्राणश्च साम्नोतो हेतुर्बलेन हि गीतिरुत्पाद्यते । तथा च वागेवेत्यादिना कार्य­का­र­ण­यो­र­भे­दो­प­दे­शा­दृ­ङ्मात्रं साममात्रं वा तत्त­त्का­र­णा­त्मकं प्रतीयते तेन पूर्वत्रापि व्यक्ति­र­वि­व­क्षिता । प्रश्न­प्र­ति­व­च­न­यो­रे­का­र्थ­त्वात् । न चैव­मृ­गा­दि­जा­ते­रे­क­त्वा­डु­त­म­च्प्र­त्य­या­नु­प­पत्तिः । तत्त­ज्जा­त्य­व­च्छि­न्ना­ना­मृ­क्सा­मो­द्गी­थानां सन्नि­धा­वृ­गा­दि­जा­ते­रे­कस्या निर्धारणार्थं परिप्रश्ने तत्प्र­यो­ग­स­म्भ­वा­दृ­गा­दिषु प्रत्येकं भेदविवक्षया षष्ठीसमासे दूषणमुक्तम् । तत्र प्रत्ये­क­मे­क­त्व­मु­पे­त्यो­क्त­रीत्या षष्ठीसमासे तु न किञ्चि­द्दु­ष्य­तीति भावः ।

ऋगात्मिकाया वाचः सामात्मकस्य प्राणस्य ग्रहणे फलितं दर्शयन्नुक्तमेव व्यक्तीकरोति –
यथाक्रममिति ।

ऋक्सा­म­मा­त्रा­व­रो­धेऽपि सिध्य­ती­त्या­श­ङ्क्याऽऽह –
सर्वेति ।

तथाऽपि किं स्यादिति चेत्तदाह –
सर्वे कामा इति ।
उक्तप्रक्रियया सर्व­का­मा­वा­प्ति­हे­तु­रो­ङ्कारो विव­क्षि­ता­प्ति­गु­णकः सिध्यतीत्यर्थः ।

तृतीये वचने तात्पर्यमाह –
ओमित्येतदिति ।
अत्रापि पूर्व­व­ज्जा­ति­गृ­हीतौ तद्व्यक्तित्वेन भक्तिरेवोक्तेति शङ्कां निर­सि­तु­मो­मि­त्ये­त­द­क्ष­र­मिति विशेषणम् । तथा चोद्गीथस्तदवयवो विशे­ष­णा­त्प्र­क­र­णा­च्चे­त्यर्थः ।

पारम्पर्येण वाक्प्राणयोः सर्व­का­म­स­म्ब­न्धा­दु­द्गी­थ­स्यापि तथा­भू­त­वा­गा­दि­स­म्ब­न्धा­दस्ति सर्वकामसम्बन्ध इत्युक्तम् । इदानीमोङ्कारस्य वाक्प्राणद्वारा सर्वकामसम्बन्धे हेत्वन्तरमाह –
तद्वा इति ।

तदे­त­त्प­द­यो­र­क्ष­र­वि­ष­यत्वं व्यावर्त्य वक्ष्य­मा­ण­वि­ष­यत्वं दर्शयति –
मिथुनमिति ।
वैशब्दो मिथु­न­प्र­सि­द्ध्यर्थः ।

वाक्च प्राणश्चेति यदुभयमुपलभ्यते तदेतन्मिथुनमिति योजनामङ्गीकृत्य वाक्यार्थमाह –
ऋक्सामेति ।

वाक्प्रा­ण­यो­रृ­क्सा­म­का­र­ण­त्व­मु­त्त­र­वा­क्येन स्पष्टयति –
ऋक्चेति ।

यथा वाक्प्राणौ मिथु­न­मे­व­मृ­क्सामे च स्वातन्त्र्येण मिथुनं निर्दे­श­सा­मा­न्या­दि­त्या­श­ङ्क्याऽऽह –
न त्विति ।

विपक्षे दोषमाह –
अन्यथेति ।

इष्टमेव मिथुनद्वयमिति चेन्नेत्याह –
तथा चेति ।

ननु मिथुनयोरनुगतं मिथु­न­त्व­मा­दा­यै­क­व­च­न­मु­प­प­त्स्यते चेन्नेत्याह –
तस्मादिति ।
उपक्रमभङ्गान्न स्वत­न्त्र­मि­थु­न­द्व­य­म­स्ती­त्यर्थः ॥ ५ ॥

भवतु वाक्प्रा­णा­ख्य­मृ­क्सा­मा­त्म­क­वा­क्प्रा­ण­रू­पम् । ओङ्कारमिथुनयोः संसर्गे किं फलतीत्याह –
एवमिति ।

कया पुनर्विधया मिथुनेन संसृ­ष्ट­त्व­म­क्ष­रस्य सेत्स्य­ती­त्य­त्राऽऽह –
वाङ्मयत्वमिति ।

यत्तु सर्व­का­मा­प्ति­गु­ण­वि­शिष्टं मिथुनमित्युक्तं तदुपपादयति –
मिथुनस्येति ।

प्रसिद्धमिति ।
तादृगर्थो यथोक्ताक्षरस्य सर्व­का­मा­प­यि­तृत्वे दृष्टान्तः सन्नु­च्य­तेऽ­न­न्त­र­वा­क्ये­ने­त्यर्थः ।

दृष्टान्तमेव विवृणोति –
यथेत्यादिना ।

मिथुनद्वयं नास्ती­त्यु­क्त­त्वा­त्कथं मिथुनाविति द्विवचनं तत्राऽऽह –
मिथुनावयवाविति ।
ग्राम्यधर्मतया तथा­वि­ध­व्या­पा­र­त­येति यावत् । वैशब्दोऽवधारणे ।

विवक्षितं दार्ष्टा­न्ति­क­मा­चष्टे –
तथेति ॥ ६ ॥

एव­मो­ङ्का­र­मा­प्ति­ग­ण­वि­शिष्टं शिष्ट्वा तदुपासनाफलं कथयति –
तदुपासकोऽपीति ।
तद्ध­र्मे­त्यु­पा­स­क­स्याऽऽ­प्ति­गु­ण­वै­शि­ष्ट्योक्तिः ।

आप्तेति वक्तव्ये कथ­मा­प­यि­ते­त्युक्तं तत्राऽऽह –
यजमानस्येति ।
निपातौ त्ववधारणार्थौ उद्गीथं तदवयवभूतमिति यावत् ।

आप्ति­गु­ण­व­दो­ङ्का­रो­पा­स­ना­त्क­थ­मु­पा­सिता तद्गुणो भव­ती­त्या­श­ङ्क्याऽऽह –
तमिति ॥ ७ ॥

उत्तरग्रन्थस्य गुणान्तरविधाने तात्पर्यं दर्शयति –
समृद्धीति ।

तस्य समृ­द्धि­गु­ण­व­त्त्व­म­प्रा­मा­णि­क­मि­त्या­शङ्क्य परिहरति –
स्वयमित्यादिना ।

तदे­त­त्प­द­यो­रो­ङ्का­रा­ख्य­म­क्षरं विषयत्वेन निर्दिशति –
प्रकृतमिति ।
तस्य स्मृत्यर्थो वैशब्दः ।

अनु­ज्ञा­क्ष­र­मि­त्ये­त­द्वि­गृह्य विव­क्षि­ते­ना­र्थेन घटयति –
अनुज्ञा चेति ।

तस्यानुज्ञात्वे प्रश्नपूर्वकं प्रसि­द्धि­मु­प­न्य­स्यति –
कथमिति ।
तत्रेति ज्ञान­ध­न­यो­रु­क्ति­स्त­दि­त्य­नु­म­न्त­व्य­सा­धा­र­ण्ये­नो­च्यते ।

ओङ्का­र­स्या­नु­ज्ञा­क्ष­रत्वे लोक­प्र­सि­द्धि­व­द्वे­द­प्र­सिद्धिं समुच्चिनोति –
तथा चेति ।
कत्येव देवा याज्ञवल्क्येति शाकल्येन पृष्टे त्रय­स्त्रिं­श­दिति याज्ञवल्क्येन प्रयुक्ते सत्योमिति शाकल्योऽनुज्ञां कृतवान् । पुनश्च कत्येवेति प्रश्ने षडिति प्रतिवचने सत्योमिति होवाचेत्यादि वाक्यं बृहदारण्यके यथो­क्ता­र्था­नु­सारि प्रसि­द्ध­मि­त्यर्थः ।

यद्धि किञ्चे­त्या­दा­वुक्तां लोकप्रसिद्धिमेव प्रकटयति –
तथा च लोकेऽपीति ।

ओङ्कारस्य लोक­वे­द­प्र­सि­द्धि­भ्या­म­नु­ज्ञा­त्वेऽपि कथं समृ­द्धि­गु­ण­क­त्व­मि­त्या­श­ङ्क्याऽऽह –
अत इति ।
उशब्दोऽप्यर्थः समृ­द्धि­श­ब्दा­दु­परि सम्बध्यते ।

तस्याः समृद्धिमूलत्वं साधयति –
समृद्धो हीति ।

अनुज्ञायाः समृद्धिं प्रति कारणत्वेन समृद्धित्वे सत्यो­ङ्का­र­स्यापि तदात्मकस्य समृ­द्धि­गु­ण­वत्त्वं सिद्ध­मि­त्यु­प­सं­ह­रति –
तस्मादिति ।

सम­र्ध­यि­ते­त्या­दि­फ­ल­वाक्यं प्रत्याह –
समृद्धीति ।

अस्मिन्वाक्ये सम­र्ध­यि­ते­त्या­दि­प­द­जा­त­मा­प­यि­ते­त्या­दि­पू­र्व­व­द्व्या­ख्ये­य­मि­त्याह –
इत्यादि पूर्ववदिति ॥ ८ ॥

ओङ्कारस्य गुणत्रयवतः सफ­ल­मु­पा­स­न­मु­क्तम् । तथा वक्त­व्या­भा­वा­त्ते­ने­य­मि­त्या­दि­वा­क्य­म­न­र्थ­क­मि­त्या­श­ङ्क्याऽऽह –
अथेति ।

स्तुते­रा­न­र्थ­क्य­मा­श­ङ्क्याऽऽह –
उपास्यत्वादिति ।

प्ररोचनं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
त्रयि विद्या वर्तत इति सम्बन्धः ।

त्रयी विद्ये­त्य­स्यो­प­च­रि­ता­र्थत्वं कथयति –
त्रयी विद्येति ।

किमिति श्रुतं त्यक्त्वा व्याख्यायते तत्राऽऽह –
न हीति ।
तस्याः स्वरू­प­ला­भ­स्या­ना­दि­त्वेन हेत्व­न­पे­क्ष­त्वा­दि­त्यर्थः ।

कर्मापि कथ­मा­श्रा­व­णा­दि­भि­रा­त्मानं लभते तत्राऽऽह –
कर्म त्विति ।

प्रसिद्धिमेव प्रपञ्चयति –
कथमित्यादिना ।

आध्व­र्य­व­हौ­त्रौ­द्गा­त्र­स­मा­हा­रस्य दर्श­पू­र्ण­मा­सा­दि­ष्व­स­म्भ­वा­द­ग्नि­ष्टो­मा­दिषु च सम्भ­वा­त्त­त्त्रि­त­य­स­मा­हा­रा­ल्लि­ङ्गा­दो­ङ्का­रेण प्रवर्तमानं त्रयविहित कर्म सोमयाग इति प्रतिभातीत्याह –
लिङ्गाच्चेति ।

स्रवत्यनोङ्कृतं कर्मेति न्यायादोङ्कारेण वैदिकस्य कर्मणः स्थितिरिति स्तुतिं विधाय स्तुत्यन्तरमाह –
तच्चेति ।

कथं पुनरक्षरं कर्मणा पूज्यते तत्राऽह –
परमात्मेति ।

तस्य तत्प्रतीकत्वे किं स्यादिति चेत्तदाह –
तदपचितिरिति ।

ननु कर्मणा परमात्मा चेदाराध्यते तर्हि तत्प्र­ती­क­त्वा­द­क्ष­र­स्यापि तेनाऽऽराधनं स्यात् । न चेश्व­र­स्ते­नाऽऽ­रा­ध्यत इति प्रमाणमस्ति तत्राऽऽह –
स्वकर्मणेति ।
वर्णा­श्र­म­वि­हि­तेन कर्मणेश्वरं प्रसाद्य तत्प्र­सा­द­व­शा­त्त­त्फलं कर्ता प्राप्नोतीति भग­व­तो­क्त­त्वा­दी­श्व­र­पू­जार्थं कर्मेति गम्यते । तथा च तत्प्र­ती­क­त्वा­दो­ङ्का­रस्य तत्पूजार्थं कर्मेति युक्तमित्यर्थः ।

वैदिकं कर्मा­क्ष­र­पू­जा­र्थ­मि­त्य­क्षरं स्तुत्वा विधान्तरेण स्तौति –
किञ्चेति ।
यज­मा­ना­दी­त्या­दि­प­देन पत्नी गृह्यते । प्राणै­स्त्र­यी­वि­हितं कर्म वर्तत इति सम्बन्धः ।

स्तुत्यन्तरमाह –
तथेति ।
यथाऽ­क्ष­र­वि­का­रै­र्य­ज­मा­ना­दि­प्रा­णै­र्वै­दिकं कर्म प्रवर्तते तथेति यावत् । हविषेत्यत्रापि पूर्ववदन्वयः ।

कथ­मृ­त्वि­गा­दि­प्रा­णानां हवि­ष­श्चा­क्ष­र­वि­का­र­त्व­मत आह –
यागेति ।
आदि­श­ब्दोऽ­नु­क्त­वै­दि­क­क­र्म­स­ङ्ग्र­हार्थः ।

“तस्मा­दो­मि­त्यु­दा­हृत्य”(भ. गी. १७ । २४) इत्या­दि­स्मृ­ते­रि­त्यर्थः । “अग्नौ प्रास्ताऽऽहुतिः सम्य­गा­दि­त्य­मु­प­ति­ष्ठते । आदित्याज्जायते वृष्टि­र्वृ­ष्टे­रन्नं ततः प्रजाः ।”(म.स्मृ. ३ । ७६) इति स्मृति­मा­श्रि­त्याह –
तच्चेति ।
वृष्ट्या­दी­त्या­दि­श­ब्दे­ना­न्नस्य प्रजानां चोत्प­त्त्यु­प­क­रणं सर्वमुच्यते ।

तथाऽपि कथ­मे­त­स्यै­वा­क्ष­रस्य महिम्नेत्यादि तत्राऽऽह –
प्राणैरिति ॥ ९ ॥

अक्षरस्य स्तुत्या मही­कृ­त­त्वा­दु­पा­सने सिद्धे किमुत्तरेण ग्रन्थे­ने­त्या­श­ङ्क्याऽऽह –
तत्रेति ।
पूर्व­स्मि­न्स­न्दर्भे स्तुति­व­शा­द­क्ष­र­वि­ज्ञाने कर्तव्ये तन्निष्पाद्यं कर्म तद्वि­ज्ञा­न­व­तोऽ­नु­ष्ठे­य­मिति स्थितिं तदा­क्षे­प्तु­मु­त्तरं वाक्यमित्यर्थः ।

आक्षेपाक्षराणि व्याचष्टे –
तेनेत्यादिना ।

ननु कर्मकर्तृत्वे विद्व­द­वि­दु­षो­र्वि­द्वा­नेव तत्फलमश्नुते नाविद्वानिति कथ­मि­त्या­श­ङ्क्याऽऽह –
तयोश्चेति ।
इति­श­ब्द­स्त्वा­क्षि­प­ती­त्य­नेन सम्बध्यते ।

कथं विद्व­द­वि­दु­षो­र­वि­शिष्टं फलमित्याशङ्क्य दृष्टान्तमाह –
दृष्टं हीति ।

विमतं न स्वत­न्त्र­फ­ल­म­ङ्ग­ज्ञा­न­त्वा­दा­ज्या­वे­क्ष­ण­व­दिति प्राप्ते प्रत्याह –
नैवमिति ।

हेतु­त्वे­ना­व­ता­रितं वाक्यं व्याचष्टे –
भिन्ने हीति ।
विद्योपासना कर्माविद्या तयोर्भिन्नत्वं तन्न विद्या­वै­य­र्थ्य­मि­त्यर्थः ।

विद्यायाः स्वत­न्त्र­फ­ल­वत्त्वं नास्तीति पक्षस्य व्यावृ­त्ति­प्र­का­र­मेव प्रपञ्चयति –
नेत्यादिना ।

अङ्ग­ज्ञा­ना­द्गु­ण­व­द­क्ष­र­ज्ञा­न­स्याऽऽ­धिक्ये फलितमाह –
तस्मादिति ।
तदङ्गं कर्मा­ङ्ग­मु­द्गी­थ­मा­त्र­ज्ञानं तस्मा­दा­धि­क्या­द्वि­शि­ष्टा­क्ष­र­ज्ञा­न­स्येति यावत् ।

यत्तु पुनरुक्तं तयोश्च कर्म­सा­म­र्थ्या­देव फलं स्यादिति तत्राऽऽह –
दृष्टं हीति ।

यत्त्व­ङ्ग­ज्ञा­न­त्वा­दिति तत्किमङ्गत्वे सति ज्ञानत्वं वाऽऽश्रित्य विहि­त­त्व­म­थ­वै­त­देव ज्ञान­त्व­वि­शे­षि­तम् ? नाऽऽद्यः । तन्नि­र्धा­र­णा­नि­य­म­न्या­ये­ना­सिद्धेः । न द्वितीयो गोदोहने व्यभिचारात् । त तृतीयो दृष्टान्तस्य साध­न­वि­क­ल­त्वा­दा­ज्या­वे­क्ष­ण­स्याऽऽ­श्रित्य विध्यु­दा­ह­र­ण­ब­हि­र्भू­त­त्वा­द­ङ्ग­स­म्ब­न्ध­ज्ञा­न­त्व­मा­त्रेण दृष्टान्तत्वे सत्य­ङ्ग­त्वो­पाधेः सम्भ­वा­दि­त्य­भि­प्रेत्य ज्ञानाधिक्ये फला­धि­क्य­मि­त्य­त्रा­न­न्त­र­वाक्यं योजयति –
तस्मादिति ।
विज्ञा­न­मु­द्गी­था­द्य­ङ्ग­मा­त्र­वि­ष­य­मु­पा­स­ना­ति­रिक्तं तेनेति यावत् । योगो देव­ता­दि­वि­ष­य­मु­पा­स­नम् । इति­श­ब्द­स्त­द­र्थ­स­मा­प्त्यर्थः ।

तत्रै­वा­र्थ­सि­द्ध­मर्थं कथयति –
विद्वदिति ।

नन्वर्थी समर्थो विद्वा­न­प­र्यु­द­स्तश्च कर्म­ण्य­धि­का­री­त्य­ङ्गी­का­रा­द­वि­दु­ष­स्त­ल्ल­क्ष­णा­ना­क्रा­न्त­स्या­न­धि­का­रा­त्कथं तत्कर्म वीर्यवदिति प्रतिज्ञायते तत्राऽऽह –
न चेति ।
औषस्त्य उषस्तिसम्बन्धे मट­ची­ह­ते­ष्वि­त्या­दिके तस्मि­न्ग्र­न्थ­जाते विद्याहीनानामपि कर्मानुष्ठानं दृश्यते प्रस्तोतर्या देवतेत्यादौ तां चेद­वि­द्वा­नि­त्या­दि­लि­ङ्गात् । तस्मादविदुषोऽपि कर्मण्यधिकारः । अधिकारिलक्षणे तु ज्ञानाभावेऽपि द्रव्या­दि­ज्ञा­न­मा­त्रेण विशे­ष­ण­सि­द्धि­रि­त्यर्थः ।

गुणवदक्षरज्ञानं स्वत­न्त्र­मि­त्यु­क्तम् । तत्तु रस­त­म­गु­ण­व­द­क्ष­र­वि­ष­य­मे­क­मु­पा­स­नम् । तत्र च विध्युद्देशे फल­स्या­श्रु­त­त्वेऽपि विश्व­जि­न्न्या­येन वा तत्कल्प्यते । आप्तिगुणवतः समृ­द्धि­गु­ण­व­त­श्चा­क्ष­रस्य द्वे विज्ञाने प्रत्येकं फलश्रुतेः । तथा चात्र त्रीण्युपासनानि पृथक्फलानि विवक्षितानीत्यत आह –
रसतमेति ।
न ताव­दि­हो­पा­सी­ते­ति­वि­धि­व्य­ति­रे­केण मध्ये विध्य­न्त­र­मु­प­ल­भ्यते । न चाऽऽपयिता ह वै कामा­ना­मि­त्या­दि­वाक्ये फलश्रुत्या विधिरुन्नेयः । रस­त­म­गु­ण­व­द­क्ष­र­वि­ज्ञा­न­विधौ फला­का­ङ्क्षि­ण्य­र्थ­वा­द­स्थ­फ­लां­शा­न्व­ये­ना­ने­क­गु­ण­व­दे­क­वि­ज्ञा­न­वि­धि­स­म्भवे विधि­भे­द­क­ल्प­ना­यो­गात् । नो खल्व­र्थ­वा­दि­क­फ­ल­व­द­ने­क­वि­शे­ष­ण­कै­को­पा­स­न­वि­ष­य­वि­ध्य­भ्यु­प­ग­मेन वाक्यैक्यसम्भवे वाक्यं भेत्तुमुचितम् । एतेन विश्वजिन्न्यायो निरस्तः । रात्रि­स­त्र­न्या­यस्तु प्रकृताविरोधीति भावः ।

तस्यो­प­व्या­ख्या­न­मि­त्यु­क्त­स्यो­प­सं­हा­र­वाक्यं खल्वे­त­स्ये­त्यादि, तत्रैतच्छब्देन प्रकृताकर्षणे कारणमाह –
अनेकैरिति ।
रस­त­मा­प्ति­स­मृ­द्धि­रू­पा­ण्य­ने­कानि विशेषणानि तैर्वि­शि­ष्ट­त्वे­ना­क्ष­र­स्या­ने­क­प्र­का­रे­णो­पा­स्य­त्वात् । प्रका­र­भे­देऽ­प्यु­पा­स­नै­क्यस्य प्रागे­वो­क्त­त्वा­त्प्र­कृ­त­स्यै­वा­क्ष­र­स्यै­त­दु­प­व्या­ख्यानं यत्खलु विहितमित्यर्थः ॥ १० ॥
इति प्रथमाध्यायस्य प्रथमः खण्डः ॥

गुण­त्र­य­वि­शि­ष्ट­मु­द्गी­था­व­य­व­भू­त­मो­ङ्का­रा­ख्य­म­क्षरं परमात्मप्रतीकं तद्बु­द्ध्यो­पा­स्य­मि­त्यु­प­दि­ष्ट­मि­दानीं तस्यै­वा­क्ष­र­स्या­ध्या­त्मा­धि­दै­व­भे­दे­नाऽऽ­दि­त्य­प्रा­ण­दृ­ष्ट्यो­पा­सनं विव­क्ष­न्क­ण्डि­का­न्त­र­म­व­ता­र­यति –
देवासुरा इति ।

तत्राक्षराणि व्याचि­ख्या­सु­र­प्र­ति­भा­व्यु­दा­सार्थं विवक्षितं समासं दर्शयति –
देवाश्चेति ।

देव­श­ब्द­नि­ष्प­त्ति­प्र­कारं सूचयति –
देवा इति ।
दीव्य­ति­र्द्यो­त­नार्थः “दिवु क्रीडा­वि­जि­गी­षा­व्य­व­हा­र­द्यु­ति­स्तु­ति­मो­द­म­द­स्व­प्न­का­न्ति­ग­तिषु” इति दर्शनात्तस्य चाजन्तस्य सति गुणे कर्तरि यथो­क्त­रू­प­सि­द्धि­रि­त्यर्थः ।

ते च द्योतका देवा रूढेरिन्द्रादयो भवि­ष्य­न्ती­त्या­श­ङ्क्याह –
शास्त्रेति ।
इत्य­ध्या­त्म­मि­त्यु­प­सं­हा­र­वि­रो­धा­त्प्र­सि­द्धे­रेव हेय­त्वा­दु­पा­स­क­श­री­र­स्थ­क­र­णा­व­स्था­दिवाः सत्त्वात्मकाः शास्त्रा­नु­सा­रिणो देवशब्दवाच्या इत्यर्थः ।

तथाऽ­ध्या­त्म­म­सुरा विरोचनादयः स्युरि­त्या­शङ्क्य पूर्व­व­दु­प­सं­हा­र­वि­रो­ध­म­भि­प्रे­त्याऽऽह –
असुरा इति ।
असुरा इन्द्रियवत्तय एवेति सम्बन्धः ।

सात्त्वि­के­न्द्रि­य­वृ­त्तिभ्यो वैपरीत्यं तासा­म­सु­र­त्व­सि­द्ध्यर्थं दर्शयति –
तद्विपरीता इति ।

तासा­म­सु­र­श­ब्द­वा­च्यत्वे निमित्तान्तरमाह –
स्वेष्वेवेति ।
विष्वग्विषयासु विष्वञ्चो नानागतयो विषया यासां तास्विति यावत् । प्राणनक्रियासु जीवा­ना­नु­कू­ल­प्रा­ण­चे­ष्टा­स्वि­त्यर्थः ।

तदेव स्फोरयति –
स्वाभाविक्य इति ।
शास्त्रा­पे­क्षा­म­न्त­रे­णैव स्वभा­व­व­शा­त्प्र­व­र्त­मा­नत्वं स्वाभाविकत्वम् । तथा च शास्त्री­ये­न्द्रि­य­वृ­त्तिभ्यो वैप­री­त्य­म­मू­षा­म­ति­वि­श­द­मि­त्यर्थः ।

वैप­री­त्या­न्त­र­माह –
तम आत्मिका इति ।

कथं मिथो विषयापहारं निमित्तीकृत्य देवानामसुराणां च सङ्ग्रा­मोऽ­भू­दि­त्य­पे­क्षा­या­मा­सुरीं वृत्तिं प्रकटयति –
शास्त्रीयेति ।

दैवीं वृत्तिं प्रथयति –
तथेति ।

देवा­ना­मु­क्ता­सु­र­वै­प­रीत्यं स्फुटयति –
शास्त्रेति ।
स्वाभाविकः शास्त्रा­न­पे­क्ष­स्त­मो­रू­प­पा­प्मा­सुरः परि­च्छे­दा­भि­मा­न­स्तस्य तिर­स्क­र­णा­र्थ­मिति यावत् ।

उक्त­मा­ध्या­त्मि­क­स­ङ्ग्रामं निगमयति –
इत्यन्योन्येति ।
उक्तरीत्या यथोक्तानां देवानामसुराणां च पराभिभवः स्वोद्भ­व­श्चे­त्ये­वं­रूपः सङ्ग्रामः प्रति­दे­ह­म­ना­दि­का­ल­प्र­वृत्तो यथा देवा­सु­र­स­ङ्ग्रा­म­स्त­थेति योजना ।

किमर्थं पुन­र­पु­रु­षा­र्थ­रूपो देवा­सु­र­स­ङ्ग्रामः श्रुत्या श्राव्यते तत्राऽऽह –
स इहेति ।
स हि सङ्ग्रा­मोऽ­स्मि­न्प्र­क­रणे प्राणस्य विशुद्धिविषयं विज्ञानं विधातुं प्रवृत्तः । तथा श्रुत्या कथा­रू­पे­णाऽऽ­ख्या­यते । इन्द्रियाणां वषयवैमुख्ये धर्मः स्यात्तेषां तदाभिमुख्ये पाप­स्यो­त्प­त्ति­रिति विवे­क­वि­ज्ञा­न­सि­द्ध्यर्थं चाऽऽख्यायिका प्रणीयते । तस्मा­दि­न्द्रि­याणां प्रयत्नतो विषयप्रावण्यं परिहर्तव्यम् । तद्वैमुख्यं च तेषां श्रेयो­र्थि­भि­र्य­त्ना­दा­धे­य­मिति भावः । यज­मा­न­प्रा­णा­ना­मेव देवा­सु­र­भा­व­स्यो­क्त­त्व­म­तः­श­ब्दार्थः ।

प्रजापतिशब्दस्य रूढमर्थमपाकृत्य विवक्षितमर्थमाह –
प्रजापतिरिति ।

उक्तरूपः पुरुषः प्रजा­प­ति­रि­त्यत्र गमकमाह –
पुरुष एवेति ।

कथं पुनर्यथोक्तानां देवासुराणां तदपत्यत्वं तत्राऽऽह –
तस्य हीति ।

यत्रेत्युक्तं सङ्ग्रा­म­नि­मित्तं परामृशति –
तत्तत्रेति ।

देवा­ना­मु­त्क­र्षोऽ­प­क­र्ष­श्चा­सु­रा­णा­मि­त्य­स्मि­न्नि­मित्ते कथ­मु­द्गी­थ­भ­क्त्या­ह­र­ण­मि­त्या­श­ङ्क्याऽऽह –
उद्गीथेति ।

लक्षि­त­ल­क्ष­णा­न्यायं सूचयति –
तस्यापीति ।
उद्गी­थ­भ­क्ते­रि­वे­त्य­पे­रर्थः ।

तदाहरणप्रयोजनं प्रश्नपूर्वकं कथयति –
तत्कि­म­र्थ­मि­त्या­दिना ॥ १ ॥

संप्र­त्यु­द्गी­था­ह­र­ण­प्र­कारं प्रकटयति –
यदा चेति ।

अचेतनस्य कर­ण­स्यो­द्गा­तृ­त्वा­स­म्भ­वा­द्वि­शि­नष्टि –
चेतनावन्तमिति ।

मुख्यं प्राणं व्यावर्तयति –
घ्राणमिति ।

त्वं न उद्गाये वाज­स­ने­य­क­श्रु­ति­मा­श्रि­त्याऽऽह –
उद्गीथ कर्तारमिति ।

अथो­द्गी­थ­भ­क्ति­रेव श्रूयते न तूद्गाता तत्कथं तदु­पा­स­न­मि­त्या­श­ङ्क्याऽऽह –
उद्गीथभक्त्येति ।
तयो­प­ल­क्षि­त­मु­द्गा­ता­र­मु­पा­सत इति यावत् ।

कथ­मु­पा­स­न­मि­त्य­पे­क्षा­या­मु­द्गी­थेन कर्तृ­त्व­प्रा­र्थ­न­ये­त्याह –
कृतवन्त इति ।

ते ह नासि­क्य­मि­त्य­क्ष­रो­क्त­म­र्थ­मुक्त्वा वाक्यार्थमाह –
नासिक्येति ।

किमि­त्य­क्ष­र­मो­ङ्का­रा­ख्य­मि­हो­पा­स्य­त्वेन व्याख्यायते तत्राऽऽह –
एवं हीति ।

उक्तमेव स्फुटयति –
खल्विति ।
तथा च प्राण­स्यो­द्गा­तृ­दृ­ष्ट्यो­पा­सने प्रकृतस्य परित्यागो भक्तेश्च घ्राण­प्रा­ण­दृ­ष्ट्यो­पा­स्व­त्वा­ङ्गी­का­रेऽ­प्र­कृ­तो­पा­दा­न­मिति शेषः ।

पूर्वा­प­र­वि­रो­ध­मा­श­ङ्कते –
नन्विति ।
उद्गी­थो­प­ल­क्षि­ते­नौ­द्गा­त्रे­णो­प­ल­क्षितं ज्योतिष्टोमादि कर्माऽऽ­हृ­त­मि­त्युक्तं तदाहरणं च तस्योपासनं तद्विरुद्धं नासि­क्य­प्रा­ण­दृ­ष्ट्याऽ­क्ष­रो­पा­स­न­व­च­न­मि­त्यर्थः ।

स्वोक्तेर्मिथो विरोधं परिहरति –
नैष दोष इति ।
उद्गी­थो­प­ल­क्षि­त­क­र्मो­प­ल­क्षिते ज्योतिष्टोमादौ कर्मणि सत्ये­वो­द्गा­तृ­प्रा­ण­दृ­ष्ट्यो­पा­स्य­त्वे­ना­क्षरं विवक्षितम् । ओङ्का­र­श्चो­द्गी­था­व­यवो ध्येयत्वेनेष्टो न स्वतन्त्रो व्यापकः । तथा चाक्ष­रो­पा­स­ना­र्थ­त्वेन कर्माहरणं न ध्येय­त्वे­ने­त्य­वि­रोध इत्यर्थः ।

आश्रित्य विधानार्थं कर्मा­ह­र­ण­मि­त्युक्त्वा तं हेत्यादि व्याचष्टे –
तमेवमिति ।
स्वोत्थेन चाऽऽसुरेण नासि­का­स­म्ब­द्धे­नेति यावत् ।

अध­र्मा­दा­स­ङ्ग­स्त­द्रू­पे­णे­त्ये­त­स्याऽऽ­ङ्ग­वेधं साधयति –
स हीति ।
कल्याणो गन्धः सुर­भि­रु­क्त­स्तस्य ग्रहणं ममै­वे­त्य­भि­मा­नात्मा योऽय­मा­स­ङ्ग­स्ते­ना­भि­भू­त­मु­प­कारो गन्धा­घ्रा­ण­कृ­त­स्तुल्यः सर्वस्य कार्य­का­र­ण­स­ङ्घा­त­स्येति विवेकविज्ञानं यस्य स तथेति विग्रहः ।

ननु कथं यथो­क्ता­स­ङ्ग­स्प­र्शि­ते­त्या­श­ङ्क्याऽऽह –
स तेनेति ।

उक्तेऽर्थे वाक्यं पातयति –
तदिदमिति ।

घ्राण­प्रा­ण­स्याऽऽ­सु­र­पा­प्म­वि­द्धत्वे कार्य­लि­ङ्ग­क­म­नु­मानं सूचयति –
यस्मादिति ।

उक्ता­नु­मा­ना­व­द्योति वाक्यं व्याकरोति –
अत इति ।

अतःशब्दार्थमेव स्पष्टयति –
पाप्मनेति ।

ननु पाप्मना विद्वत्वात्तेन लोको दुर्गन्धं जानातीत्येव वक्तव्यं सुरभिज्ञानस्य पाप्म­क­र्म­त्वा­भा­वात् । तथा च कथं तेनोभयं जिघ्रतीत्युक्तं तत्राऽऽह –
उभयग्रहणमिति ।

एकस्यापि हविषो द्रावात्मकस्य पुरोडाशादेर्वा काका­दि­स­म्ब­न्धा­द्भ्रंशे प्राय­श्चि­त्त­स­त्त्वेऽपि यस्योभयं हवि­रा­र्ति­मा­र्छति स ऐन्द्रं पञ्चशरावमोदनं निर्व­पे­दि­त्य­त्रो­भ­य­ग्र­ह­ण­म­वि­व­क्षि­त­मिति स्थितं प्रथमे तन्त्रे तथाऽत्रापीत्याह –
यस्येति ।

न केवलं पाप्मना हीति वाक्य­शे­षा­द­त्रो­भ­य­ग्र­ह­णा­म­वि­व­क्षितं किन्तु वाजसनेयके यथो­क्तो­द्गी­थ­वि­द्या­वि­ष­य­त्वेन समानप्रकरणे यदे­वे­द­म­प्र­ति­रूपं जिघ्रति स एव स पाप्मेति श्रुतेरत्रापि पाप्म­वे­ध­व­शा­द्दु­र्गन्धं जानातीत्येव वक्त­व्य­त्वा­द­वि­व­क्षि­त­मु­भ­य­ग्र­ह­ण­मि­त्याह –
यदेवेति ॥ २ ॥

ननु नासिक्यस्य प्राणस्य पाप्म­वि­द्ध­त्वा­द­नु­पा­स्यत्वे सिद्धे न्याय­सा­म्या­द्वा­गा­दी­ना­मपि नोपास्यत्वमिति सिद्ध्यति तत्कि­मु­त्त­र­ग्र­न्थे­ने­त्यत आह –
मुख्य­प्रा­ण­स्येति ।
न्यायसाम्येऽपि मुखतो निराकरणाभावे मुख्य­प्रा­ण­स्यै­वो­पा­स्य­त्व­मि­त्य­नि­श्च­या­त्त­दु­पा­स्य­ता­दा­र्ढ्यार्थं मुखतो वागा­दी­ना­मु­पा­स्य­त्व­म­पा­क­र्तु­मु­त्त­र­ग्रन्थ इत्यर्थः । विद्धा इति विचार्य क्रमेणापोह्यन्त इति सम्बन्धः ।

उत्त­र­वा­क्ये­ष्व­क्ष­र­व्या­ख्या­न­म­न­पे­क्षितं पूर्वेण समानत्वादित्याह –
समानमिति ।
अव­शि­ष्ट­वा­क्यै­क­दे­श­ग्र­ह­णा­र्थ­मा­दि­प­दम् ।

ननु घ्राणादीनां पाप्म­वि­द्ध­त्वा­द­नु­पा­स्य­त्वेऽपि त्वगादीनां तद्वि­द्ध­त्वे­ना­नु­पा­स्य­त्वा­व­च­ना­न्मु­ख्य­स्यैव प्राण­स्यो­पा­स्यत्वं नावसीयते तत्राऽऽह –
अनुक्ता इति ।

उक्ता­ना­म­नु­क्तो­प­ल­क्ष­णत्वे बृह­दा­र­ण्य­क­श्रुतिं सम्वादयति –
एवमु खल्विति ॥ ३ – ४ – ५ – ६ ॥

अथ हेत्यादि मुख्यप्राणविषयं वाक्यमुत्थाप्य व्याकरोति –
आसुरेणेत्यादिना ।
पूर्व­व­द्वा­गा­दि­ष्वि­वेति यावत् । टङ्कैश्च विदा­र­कै­र्लो­ह­वि­शे­षै­रि­त्यर्थः ।

अश्रुतस्य लोष्ट­स्या­त्रो­पा­दाने हेतुमाह –
सामर्थ्यादिति ।
तस्य ध्वंस­न­यो­ग्य­त्वा­द्ध्वं­स­तेश्च कर्त्र­पे­क्ष­त्वा­दि­त्यर्थः ।

तर्हि यस्य कस्य­चि­दे­वं­वि­धस्य सम्भवादलं लोष्ट­ग्र­ह­णे­ने­त्या­शङ्क्य “यथाऽ­श्मा­न­मृत्वा लोष्टो विध्वंसेत”(बृ.उ. १ । ३ । ७) इति बृह­दा­र­ण्य­क­श्रु­ते­स्त­स्यै­वात्र ग्रहणमित्याह –
श्रुत्य­न्त­रा­च्चेति ॥ ७ ॥

दृष्टा­न्त­दा­र्ष्टा­न्ति­काभ्यां सिद्धमर्थं निगमयति –
एवमिति ।
प्राणस्य विशु­द्ध­त्वा­त्त­दु­पा­सनं कर्तव्यमिति शेषः ।

फलवचनमवतार्य व्याकरोति –
एवंविद इत्यादिना ।

प्राण­वि­त्प्र­त्ति­स्प­र्धिनो विनाशे हेतुमाह –
यस्मादिति ।

नासिक्यप्राणस्य मुख्यप्राणस्य च वायुविकारत्वेन प्राण­त्वा­वि­शे­षा­त्पा­प्मना वेधावेधौ तुल्यावेव स्यातामिति शङ्कते –
नन्विति ।

स्थान­वि­शे­ष­स­म्ब­न्धा­स­म्ब­न्धाभ्यां द्वयोरपि पाप्म­वे­धा­वे­ध­व्य­वस्था युक्तेति परिहरति –
नैष दोष इति ।
स्थाना­व­स्था­व­च्छिन्ने करणे वैगुण्यं विष­य­वि­शे­षा­स­क्तत्वं तस्मा­त्त­द्रू­पस्य नासि­क्य­प्रा­ण­स्यापि विद्धता स्यादिति यावत् । तद­स­म्भ­वा­द्वि­शे­ष­स­म्ब­न्ध­प्र­यु­क्त­वै­गु­ण्या­यो­गा­दि­त्ये­त­च्छ्लि­ष्ट­मु­क्त­मु­प­प­न्नम् ।

स्थान­स­म्ब­न्ध­वि­शे­षा­द्घ्रा­ण­प्रा­णस्य पाप्मविद्धत्वं तदभावाच्च मुख्यप्राणस्य तद­वि­द्ध­त्व­मि­त्ये­त­द्दृ­ष्टा­न्तेन स्पष्टयति –
यथेत्यादिना ।
न मुख्यो दोष­व­द्घ्रा­ण­स­चि­व­त्वा­भा­वा­दिति शेषः ॥ ८ ॥

घ्राणदेवता विद्धा प्राणदेवता तु न विद्धेत्यत्र गम­क­त्वे­ना­न­न्त­र­वाक्यं व्याचष्टे –
यस्मादिति ।

मुख्यप्राणस्य पाप्म­वे­धा­भा­व­मु­प­सं­ह­रति –
अतश्चेति ।
पाप्म­का­र्य­मा­स­ङ्ग­स्तस्य प्राणेऽ­नु­प­ल­म्भा­दि­त्य­तः­श­ब्द­स्यै­वार्थः ।

हिशब्देनोक्तं पाप्मावेधं विशुद्धत्वे हेतूकृत्य मुख्य­प्रा­ण­वि­शु­द्धि­मु­प­सं­ह­रति –
ह्येष इति ।

तस्य विशुद्धत्वे हेत्वन्तरमाह –
यस्माच्चेति ।
अतो विशुद्ध इत्युत्तरत्र सम्बन्धः ।

सर्वार्थत्वं प्राणस्य प्रश्नपूर्वकं प्रतिपादयति –
कथमित्यादिना ।
घ्राणा­दी­त्या­दि­श­ब्देन कार्यमप्युच्यते ।

तेनै­ता­स्तृ­प्य­न्तीति श्रुत्य­न्त­र­मा­श्रि­त्याऽऽह –
तेन हीति ।
प्राण­वृ­त्ति­हे­तु­भ्या­म­न्न­पा­नाभ्यां सङ्घा­त­स्थि­ति­र­तः­श­ब्दार्थः । सर्वार्थत्वं द्विती­य­स्या­तः­श­ब्द­स्यार्थः ।

मुख्य­प्रा­णो­प­यु­क्त­त्वा­द­न्न­पा­नानां सङ्घा­त­स्थि­ति­हे­तु­त्व­मि­त्यत्र प्रश्नपूर्वकं लिङ्गं दर्शयति –
कथमित्यादिना ।

वृत्तिमेव विशिनष्टि –
अन्नपाने इति ।
अन्व­ह­मु­प­भु­ज्य­माने अन्नपाने प्राणस्थितिहेतू इति यावत् ।

प्राण­स्यो­च्चि­क्र­मि­षा­या­मपि सङ्घातः स्वयमशनपाने कृत्वा स्थास्य­ती­त्या­श­ङ्क्याऽह –
अप्राणो हीति ।
तदा प्राणो­च्चि­क्र­मि­षा­व­स्था­या­मिति यावत् ।

ननू­त्क्रा­न्त्य­व­स्था­या­म­शि­शि­षा­द्य­भा­वा­देव सङ्घा­त­स्यो­त्क्रा­न्तिर्न त्वश­ना­द्य­भा­वा­त्तत्र प्रमाणाभावादत आह –
दृश्यते हीति ।
तदिति मुख­व्या­दा­न­मु­च्यते । अन्नग्रहणं पानो­प­ल­क्ष­णा­र्थम् ॥ ९ ॥

विशु­द्धि­गु­ण­क­मु­ख्य­प्रा­णा­त्मो­द्गा­तृ­दृ­ष्ट्यो­द्गी­था­व­य­व­भू­त­मो­ङ्का­रा­ख्य­म­क्ष­र­मु­पा­स्य­मि­त्यु­क्त­मि­दानीं तत्रै­वाऽऽ­ङ्गि­र­स­बृ­ह­स्प­त्य­या­स्य­गु­ण­त्र­य­वि­धा­ना­र्थ­मु­त्त­र­ग्र­न्थ­मु­त्था­प­यति –
तं हेति ।

तत्र वृत्ति­का­रा­भि­प्रेतं सम्बन्धं दर्शयति –
तं मुख्यमिति ।

परा­भि­प्रे­त­स­म्बन्धे गमकमाह –
एतमिति ।

अव्य­व­हि­त­स­म्ब­न्ध­स­म्भवे व्यव­हि­त­स­म्ब­न्ध­क­ल्पना न युक्तेति परिहरति –
भवत्येवमिति ।
ऋषी­णा­म­ङ्गि­रो­बृ­ह­स्प­त्या­दि­श­ब्दै­रु­प­दे­शेऽपि गुण­त्र­य­वि­शि­ष्ट­प्रा­णो­पा­सनं न विरुध्यते ततश्च प्रधानानामबाधे प्राणो­पा­स­का­ना­मृ­षी­णा­मु­प­देशो न त्याग­म­र्ह­त्य­ङ्गि­रो­बृ­ह­स्प­त्या­दि­श­ब्दे­भ्योऽपि प्रथ­म­प्र­ति­प­न्ना­नृ­षी­न्वि­हाय यौगि­क­वृ­त्ति­प्र­ति­प­त्त­व्य­गु­ण­मा­त्र­प्र­ति­प­त्त्य­नु­प­प­त्ते­रि­त्यर्थः ।

प्राणो­पा­स­का­ना­मृ­षी­णा­म­भि­धा­न­मै­त­रे­य­क­श्रुत्या द्रढयति –
श्रुत्य­न्त­र­व­दिति ।

तदेव स्पष्टयति –
तस्मादिति ।
शतर्चिनो नाम प्रथममण्डलदृश ऋषयः । एष च प्राणो यस्मात्पुरुषं सङ्गाताख्यं शत­व­र्षा­ण्य­भि­ग­त­वां­स्त­स्मा­दे­त­मेव प्राणं सन्त­मृ­षि­श­री­र­स्थि­त­मपि शत­र्चि­न­श­ब्द­वाच्यं वदन्तीति योजना ।

शत­र्चि­श­ब्द­व­दु­भ­य­वि­ष­याणि शब्दान्तराण्यपि सन्तीत्याह –
तथेति ।
आद्यन्ते मण्डले मुक्त्वा मध्यमानां मण्डलानां द्रष्टारो माध्यमा ऋषयस्तेऽपि प्राणस्तस्य स्वात्मनि मध्ये सर्व­ज­ग­द्वि­धा­र­क­त्वात् । गृत्समदस्तु द्विती­य­म­ण्ड­ल­दर्शी स्वापकाले वागादीनां गिरणात्प्राणो गृत्सो रेतो­वि­स­र्ग­का­र­ण­म­द­हे­तु­त्वा­द­पानो मदः प्राणा­पा­ना­त्म­क­त्वा­त्प्रा­णोऽपि तथोच्यते । तृतीयमण्डलदर्शी विश्वामित्रः प्राणोऽपि तथा व्यपदिश्यते । तस्य हि विश्वं भोज्यजातं स्थितिहेतुतया स्निग्धमासीत् । वामदेवस्तु चतु­र्थ­म­ण्ड­ल­द्रष्टा प्राणोऽपि तच्छ­ब्द­वा­च्य­स्तस्य वागा­दि­दे­व­ता­स­म्भ­ज­नी­य­त्वात् । पञ्च­म­म­ण्ड­ल­द्र­ष्टाऽ­त्रि­रि­त्यु­च्यते प्राणोऽपि तथैव कथ्यते । तस्य पाप्म­नोऽ­न­र्थ­रू­पा­न्प्रति सर्व­त्रा­त्तृ­त्वात् । आदिपदेन भरद्वाजादिपदानि गृहीतानि ।

दृष्टान्तमेवं व्याख्याय दार्ष्टा­न्ति­क­माह –
तथेति ।

किमि­त्य­ङ्गि­रः­प्र­भृ­ती­न्प्राणं करोति श्रुतिरत आह –
अभेदेति ।

तथा च सप्तमे प्राणस्य सार्वात्म्यं वक्ष्यते तथाऽत्रापि तस्य तत्तदृषिरूपत्वं विवक्षितमित्याह –
प्राणो हेति ।

अव्य­व­हि­त­स­म्ब­न्ध­स­म्भवे फलितं वाक्यार्थं कथयति –
तस्मादिति ।

प्राण­स्या­ङ्गि­र­सत्वं व्युत्पादयति –
यस्मादिति ॥ १० ॥

अङ्ग­रः­श­ब्द­व­द्बृ­ह­स्प­ति­श­ब्दोऽ­प्यु­भ­यत्र नेतव्य इत्याह –
तथेति ।

प्राणस्य बृहस्पतित्वं साधयति –
वाच इति ।

अङ्गि­रो­बृ­ह­स्प­ति­श­ब्द­व­द­स्य­श­ब्दोऽ­प्यु­भ­यत्र द्रष्टव्य इत्याह –
तथेति ।

तस्योभयत्र वृत्तिं विशदयति –
यद्यस्मादिति ।
यस्मादास्यादयते तेनाऽयास्यः प्राणः स एवा­त्रो­पा­स­क­त्वा­दृ­षि­रपि तथेति योजना ।

यथो­क्ता­ना­मृ­षी­णा­मे­वो­क्त­गु­ण­क­मु­पा­सनं नान्येषां विशे­ष­व­च­ना­दि­त्या­श­ङ्क्याऽऽह –
तथेति ।
विशेषस्य न शेषनिवर्तकत्वं प्रद­र्श­ना­र्थ­त्वा­दि­त्यर्थः ॥ ११ – १२ ॥

यथोक्तोपासनस्य त्रिषु नियमाभावे गमकं दर्शयति –
न केवलमिति ।

सम्प्रति विहितोपासनस्य दृष्ट­फ­ल­मा­देष्टुं पातनिकां करोति –
विदित्वेति ॥ १३ ॥

भूमिकां कृत्वा विव­क्षि­त­मु­पा­स्ति­फलं कथयति –
तथेति ।

दृष्टमिति विशेषणादभीष्टं फलान्तरमाचष्टे –
प्राणेति ।
आत्मविषयं शरी­र­व­र्ति­प्रा­ण­गो­च­र­मिति यावत् ।

उपसंहारस्य प्रयोजनमाह –
आधिदैवेति ॥ १४ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्यायस्य द्वितीयः खण्डः ॥

अन­न्त­र­मा­ध्या­त्मि­क­प्रा­ण­दृ­ष्ट्यो­द्गी­थो­पा­स­न­व­च­ना­दिति शेषः । किमिति देव­ता­वि­ष­य­मु­द्गी­थो­पा­सनं प्रस्तूयते तत्राऽऽह –
अनेकधेति ।
प्राण­रू­पे­णाऽऽ­दि­त्या­दि­रू­पेण चोद्गी­थ­स्यो­पा­स्य­त्वा­द्दे­व­ता­वि­ष­य­त­दु­पा­स्ति­प्र­स्तावो युक्त एवेत्यर्थः ।

आदि­त्या­दि­म­त­य­श्चे­त्या­दि­न्या­येन वाक्यार्थं कथयति –
आदि­त्य­दृ­ष्ट्येति ।

“तमा­दि­त्य­मु­द्गी­थ­मु­पा­सीत” इत्या­दि­त्य­श­ब्द­स्यो­द्गी­थ­श­ब्दस्य च सामा­ना­धि­क­र­ण्य­म­यु­क्त­मु­द्गी­थ­श­ब्दस्य प्रक­र­णा­द­क्ष­र­वा­चि­त्वा­दा­दि­त्य­श­ब्दस्य च ज्योति­र्वि­ष­य­त्वा­द्भि­न्ना­र्थ­योश्च शब्दयोः सामा­ना­धि­क­र­ण्या­यो­गा­दिति शङ्कते –
तमुद्गीथमितीति ।

आदित्ये यद्यपि नोद्गीथशब्दो रूढ्या वर्तितुमर्हति तथाऽपि गौण्या च तत्र तत्र वृत्तेः सामा­ना­धि­क­र­ण्य­सि­द्धि­रि­त्यु­त्त­र­माह –
उच्यत इति ।

प्रजा­र्थ­मु­द्गा­य­ती­त्ये­त­देव स्पष्टयति –
प्रजानामिति ।
अन्नो­त्प­त्त्य­र्थ­मु­द्गा­य­तीति पूर्वेण सम्बन्धः ।

तदेव व्यतिरेकद्वारा साधयति –
न हीति ।
आदि­त्य­स्या­न्ना­र्थ­मा­गा­न­म­तः­श­ब्दार्थः ।

न तस्योद्गातुरिव प्रत्य­क्ष­मु­द्गा­न­मु­प­ल­ब्ध­मि­त्या­श­ङ्क्याऽऽह –
उद्गायतीवेति ।

उपमामेवोपपादयति –
यथेति ।
’अथाऽऽ­त्म­नेऽ­न्ना­द्य­मा­गा­ये­दि”ति­श्रु­त्य­न्तरे यथाऽ­न्ना­र्थ­मु­द्गा­ताऽऽ­गा­य­ती­त्य­व­गतं तथाऽऽदित्योऽपि प्रजा­ना­म­न्ना­र्थ­मा­गा­य­ती­त्यर्थः ।

उद्गी­थ­श­ब्द­स्याऽऽ­दित्ये सम्भवं परामृश्य फलिर्तमाह –
अत इति ।

आदि­त्य­दृ­ष्ट्यो­द्गी­थो­पा­स­न­मु­प­पाद्य फलोक्तिं व्याचष्टे –
किञ्चेत्यादिना ।
एवंगुण तम­स्त­ज्ज­भ­य­नि­व­र्त­क­त्व­गु­ण­स­हि­त­मिति यावत् ॥ १ ॥

नन्व­ध्या­त्म­म­धि­दै­व­त­मिति स्थान­भे­दा­त्प्रा­णा­दि­त्य­यो­र्भि­न्न­त्वा­द्भि­न्न­मेव तयो­रु­पा­स­न­मु­पा­दे­य­मत आह –
यद्यपीति ।

प्राणदित्ययोः स्वरूपभेदाभावं प्रश्नपूर्वकं प्रतिपादयति –
कथमित्यादिना ।
उशब्दोऽप्यर्थः स्थानभेदतो भेदमनुजानाति ।

गुणतः साम्य साधयति –
यस्मादिति ।

नामतः साम्यं सङ्गिरते –
किञ्चेति ।

सवि­तृ­व­त्प्रा­णेऽपि प्रत्या­स्व­र­श­ब्द­प्र­वृ­त्ति­मा­श­ङ्क्याऽऽह –
यस्मादिति ।
स्वरत्येव गच्छत्येवेति यावत् । तस्मिन्नेव स्थूलदेहे न प्रत्यागच्छति तस्मात्प्राणे स्वर­श­ब्द­प्र­वृ­त्ति­रे­वे­त्यर्थः ।

सवितर्यपि तर्हि तच्छ­ब्द­प्र­वृ­त्ति­रे­वे­त्या­श­ङ्क्याऽऽह –
सविता त्विति ।
आदित्यस्यास्तं गतस्य प्रत्य­ह­मे­क­त्रै­वाऽऽ­ग­ति­द­र्श­ना­त्त­स्मि­न्प्र­त्या­स्व­र­श­ब्द­स्यापि प्रवृ­त्ति­र­स्ती­त्यर्थः ।

अतः प्राणा­दि­त्य­यो­रुक्तं साम्यं निगमयति –
अस्मादिति ।

अन्यो­न्य­सा­म्य­कृतं फलमाह –
अत इति ।
प्राणा­दि­त्या­वे­की­कृत्य तद्दृ­ष्ट्यो­द्गी­था­व­य­व­भू­त­मो­ङ्का­रा­ख्य­म­क्ष­र­मु­पा­स्य­मि­त्यर्थः ॥ २ ॥

अथाऽऽ­ध्या­त्मि­क­मा­धि­दै­विकं चोद्गीथोपासनं प्रस्तुत्य तदेव सम­स्यै­की­कृ­त्योक्तं तथा च वक्तव्याभावात् किमुत्तरेण ग्रन्थे­ने­त्या­श­ङ्क्याऽऽ­ध्या­त्मि­क­मे­वो­द्गी­थो­पा­स­न­म­नु­सृ­त्याऽह –
अथेति ।

कोऽसौ व्यानो यद्दृ­ष्ट्यो­द्गी­थो­पा­स­न­मु­प­दि­दि­क्षि­त­मत आह –
वक्ष्य­मा­ण­ल­क्ष­ण­मिति ।

पक्षान्तरं व्यावर्तयति –
प्राणस्यैवेति ।

वक्ष्य­मा­ण­ल­क्ष­ण­मि­त्युक्तं व्यक्तीकरोति –
अधुनेति ।

तन्नि­रू­प­णा­र्थ­मादौ प्राणापानौ निरूपयति –
यद्वा इत्यादिना ।
ताभ्यामेव मुख­ना­सि­का­भ्या­मि­त्ये­तत् ।

स्यातामेवं प्राणापानौ व्यानस्य तु किमायातामिति शङ्कित्वा तत्स्वरूपं दर्शयति –
तत इत्यादिना ।

सन्धिमेव स्फुटयति –
तयोरिति ।
प्राणा­पा­न­यो­र्वृ­त्त्यो­र­भा­वा­व­स्थायां मध्ये च वायो­र्वृ­त्ति­वि­शेषो योऽस्ति स व्यानशब्दार्थ इत्यर्थः ।

सन्धि­स्क­न्ध­म­र्म­दे­श­वृ­त्ति­र्व्यान इति साङ्ख्या योगा­श्चाऽऽ­हु­स्ता­न्प्र­त्याह –
यः साङ्ख्यादीति ।
साङ्ख्यानां योगानां च शास्त्रे प्रसिद्धो यो वायो­र्वृ­त्ति­वि­शेषः स्कन्धादिदेशगो नासौ व्यानःश्रुत्या विशे­ष­नि­रू­प­णा­दिति योजना ।

व्यानस्य प्राणा­पा­न­सा­पे­क्ष­त्वा­त्त­यो­र­न्य­त­र­स्यो­पा­स­न­मे­वो­चितं न व्यानोपासनमिति मन्वानश्चोदयति –
कस्मादिति ।
महताऽऽयासेन व्यान­स­त­त्त्व­नि­रू­प­णे­नेति यावत् ।

ताभ्यां तस्य वैशि­ष्ट्य­मु­पेत्य परिहरति –
वीर्यवदिति ।
व्यान­स्यै­वो­पा­स­न­मिति शेषः ।

तदेव प्रश्नद्वारा प्रपञ्चयति –
कथमित्यादिना ।

कथं व्यानस्य वीर्यवत्कर्म प्रसिद्ध प्रतिज्ञायते कार्य­का­र­ण­भा­वा­दि­त्याह –
व्यानेति ।

वाचो व्यान­नि­र्व­र्त्यत्वे लिङ्गं दर्शयति –
यस्मादिति ॥ ३ ॥

या वागि­त्या­दि­वा­क्या­ना­मर्थं सङ्क्षिपति –
तथेत्यादिना ॥ ४ ॥

अतो यानीत्यादि व्याचष्टे –
न केवलमिति ।
व्यानेन निर्वर्तयतीति पूर्वेण सम्बन्धः । यान्यन्यान्यपि यथोक्तानि कर्माणि तानि लोको व्यानेनैव करो­ती­त्यु­त्त­रत्र सम्बन्धः ।

प्रय­त्ना­धि­क्य­नि­र्व­र्त्यानि कर्मा­ण्ये­वो­दा­ह­रति –
यथेति ।
यथा तानि कर्माणि तथाऽ­न्या­न्य­प्ये­वं­प्र­का­रा­णीति योजना ।

व्यानस्य वीर्य­व­त्क­र्म­हे­तुत्वे फलितमाह –
अत इति ।

वैशिष्ट्येऽपि किं स्यादिति चेत्तदाह –
विशिष्टस्येति ।

वैशि­ष्ट्य­फ­ल­मु­प­सं­ह­रति –
एतस्येति ।

फल­व­त्त्वा­दि­त्यु­क्त­मु­पा­स्ति­फलं स्पष्टयति –
कर्मेति ।
व्यान­दृ­ष्ट्यो­द्गी­थो­पा­स­न­स्या­ङ्गा­व­ब­द्ध­त्वा­दिति शेषः ॥ ५ ॥

उद्गी­थो­पा­स­न­प्र­स­ङ्गे­नो­द्गी­था­क्ष­रो­पा­सनां प्रस्तौति –
अथेति ।

विशेषणतात्पर्यं दर्शयति –
भक्तीति ।
उद्गी­था­क्ष­रा­ण्यु­पा­सी­ते­त्युक्ते भक्त्य­क्ष­रा­ण्यु­पा­स्यानि प्राप्तानि तानि मा भूवन्निति यतो मन्यते श्रुतिस्ततो विशेषणं करोतीत्यर्थः ।

विशेषणश्रुतिं व्याकरोति –
उद्गीथेति ।

नामा­क्ष­रो­पा­स­न­मु­द्गी­थो­पा­स­न­स्या­कि­ञ्चि­त्क­र­मि­त्या­श­ङ्क्याऽऽह –
नामेति ।
यथा लोके कृष्ण­मि­श्रा­दि­वा­च­क­श­ब्द­प्र­योगे वाच्यस्य पुरु­ष­वि­शे­ष­स्यो­पा­सनं गम्यते तथेहापीत्यर्थः ।

नामाक्षरोपासने नामवदुपासनेऽपि तदुपासनमेव कथमित्याशङ्क्य विभजते –
प्राण एवेति ।

प्राणस्योदः सादृश्यं प्रश्नपूर्वकमाह –
कथमित्यादिना ।

गीरि­त्य­स्मि­न्न­क्षरे वाग्दृष्टिः कर्तव्येत्याह –
वाग्गीरिति ।

वाचो गिरश्च सादृश्यं दर्शयति –
वाचो हेति ।

उद्गीरक्षरयोः प्राण­वा­ग्दृ­ष्टि­रिव थमि­त्य­स्मि­न्न­क्ष­रेऽ­न्न­दृष्टिः कार्येत्याह –
तथेति ।

थका­रा­न्न­यो­र­पे­क्षितं सादृश्यं दर्शयति –
अन्ने हीति ॥ ६ ॥

प्राण एवोदित्यादौ सादृश्यं श्रुत्यैवोक्तं द्यौरे­वो­दि­त्यादौ तु नोक्तं तथा च तत्र सादृश्याभावे कथं दृष्टि­क­र­ण­मि­त्या­श­ङ्क्याऽऽह –
त्रयाणामिति ।

अन्त­रि­क्ष­मा­का­श­स्त­द­न्तः­प्र­तिष्ठा लोकास्तेन गीर्णा इवेति मत्वाऽऽह –
गिरणादिति ।
अग्न्यादीनां गिरणादिति संवर्गविद्यायां द्रष्टव्यम् ।

“सामवेदो वै स्वर्गो लोक” इति स्वर्गलोकत्वेन सामवेदस्य संस्तुतत्वादिति हेतुमाह –
स्वर्गेति ।
यजुषा स्वाहा­स्व­धा­दि­नेति यावत् ।