अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

प्रथमोऽध्यायः: तृतीयः खण्डः

अन­न्त­र­मा­ध्या­त्मि­क­प्रा­ण­दृ­ष्ट्यो­द्गी­थो­पा­स­न­व­च­ना­दिति शेषः । किमिति देव­ता­वि­ष­य­मु­द्गी­थो­पा­सनं प्रस्तूयते तत्राऽऽह –
अनेकधेति ।
प्राण­रू­पे­णाऽऽ­दि­त्या­दि­रू­पेण चोद्गी­थ­स्यो­पा­स्य­त्वा­द्दे­व­ता­वि­ष­य­त­दु­पा­स्ति­प्र­स्तावो युक्त एवेत्यर्थः ।

आदि­त्या­दि­म­त­य­श्चे­त्या­दि­न्या­येन वाक्यार्थं कथयति –
आदि­त्य­दृ­ष्ट्येति ।

“तमा­दि­त्य­मु­द्गी­थ­मु­पा­सीत” इत्या­दि­त्य­श­ब्द­स्यो­द्गी­थ­श­ब्दस्य च सामा­ना­धि­क­र­ण्य­म­यु­क्त­मु­द्गी­थ­श­ब्दस्य प्रक­र­णा­द­क्ष­र­वा­चि­त्वा­दा­दि­त्य­श­ब्दस्य च ज्योति­र्वि­ष­य­त्वा­द्भि­न्ना­र्थ­योश्च शब्दयोः सामा­ना­धि­क­र­ण्या­यो­गा­दिति शङ्कते –
तमुद्गीथमितीति ।

आदित्ये यद्यपि नोद्गीथशब्दो रूढ्या वर्तितुमर्हति तथाऽपि गौण्या च तत्र तत्र वृत्तेः सामा­ना­धि­क­र­ण्य­सि­द्धि­रि­त्यु­त्त­र­माह –
उच्यत इति ।

प्रजा­र्थ­मु­द्गा­य­ती­त्ये­त­देव स्पष्टयति –
प्रजानामिति ।
अन्नो­त्प­त्त्य­र्थ­मु­द्गा­य­तीति पूर्वेण सम्बन्धः ।

तदेव व्यतिरेकद्वारा साधयति –
न हीति ।
आदि­त्य­स्या­न्ना­र्थ­मा­गा­न­म­तः­श­ब्दार्थः ।

न तस्योद्गातुरिव प्रत्य­क्ष­मु­द्गा­न­मु­प­ल­ब्ध­मि­त्या­श­ङ्क्याऽऽह –
उद्गायतीवेति ।

उपमामेवोपपादयति –
यथेति ।
’अथाऽऽ­त्म­नेऽ­न्ना­द्य­मा­गा­ये­दि”ति­श्रु­त्य­न्तरे यथाऽ­न्ना­र्थ­मु­द्गा­ताऽऽ­गा­य­ती­त्य­व­गतं तथाऽऽदित्योऽपि प्रजा­ना­म­न्ना­र्थ­मा­गा­य­ती­त्यर्थः ।

उद्गी­थ­श­ब्द­स्याऽऽ­दित्ये सम्भवं परामृश्य फलिर्तमाह –
अत इति ।

आदि­त्य­दृ­ष्ट्यो­द्गी­थो­पा­स­न­मु­प­पाद्य फलोक्तिं व्याचष्टे –
किञ्चेत्यादिना ।
एवंगुण तम­स्त­ज्ज­भ­य­नि­व­र्त­क­त्व­गु­ण­स­हि­त­मिति यावत् ॥ १ ॥

नन्व­ध्या­त्म­म­धि­दै­व­त­मिति स्थान­भे­दा­त्प्रा­णा­दि­त्य­यो­र्भि­न्न­त्वा­द्भि­न्न­मेव तयो­रु­पा­स­न­मु­पा­दे­य­मत आह –
यद्यपीति ।

प्राणदित्ययोः स्वरूपभेदाभावं प्रश्नपूर्वकं प्रतिपादयति –
कथमित्यादिना ।
उशब्दोऽप्यर्थः स्थानभेदतो भेदमनुजानाति ।

गुणतः साम्य साधयति –
यस्मादिति ।

नामतः साम्यं सङ्गिरते –
किञ्चेति ।

सवि­तृ­व­त्प्रा­णेऽपि प्रत्या­स्व­र­श­ब्द­प्र­वृ­त्ति­मा­श­ङ्क्याऽऽह –
यस्मादिति ।
स्वरत्येव गच्छत्येवेति यावत् । तस्मिन्नेव स्थूलदेहे न प्रत्यागच्छति तस्मात्प्राणे स्वर­श­ब्द­प्र­वृ­त्ति­रे­वे­त्यर्थः ।

सवितर्यपि तर्हि तच्छ­ब्द­प्र­वृ­त्ति­रे­वे­त्या­श­ङ्क्याऽऽह –
सविता त्विति ।
आदित्यस्यास्तं गतस्य प्रत्य­ह­मे­क­त्रै­वाऽऽ­ग­ति­द­र्श­ना­त्त­स्मि­न्प्र­त्या­स्व­र­श­ब्द­स्यापि प्रवृ­त्ति­र­स्ती­त्यर्थः ।

अतः प्राणा­दि­त्य­यो­रुक्तं साम्यं निगमयति –
अस्मादिति ।

अन्यो­न्य­सा­म्य­कृतं फलमाह –
अत इति ।
प्राणा­दि­त्या­वे­की­कृत्य तद्दृ­ष्ट्यो­द्गी­था­व­य­व­भू­त­मो­ङ्का­रा­ख्य­म­क्ष­र­मु­पा­स्य­मि­त्यर्थः ॥ २ ॥

अथाऽऽ­ध्या­त्मि­क­मा­धि­दै­विकं चोद्गीथोपासनं प्रस्तुत्य तदेव सम­स्यै­की­कृ­त्योक्तं तथा च वक्तव्याभावात् किमुत्तरेण ग्रन्थे­ने­त्या­श­ङ्क्याऽऽ­ध्या­त्मि­क­मे­वो­द्गी­थो­पा­स­न­म­नु­सृ­त्याऽह –
अथेति ।

कोऽसौ व्यानो यद्दृ­ष्ट्यो­द्गी­थो­पा­स­न­मु­प­दि­दि­क्षि­त­मत आह –
वक्ष्य­मा­ण­ल­क्ष­ण­मिति ।

पक्षान्तरं व्यावर्तयति –
प्राणस्यैवेति ।

वक्ष्य­मा­ण­ल­क्ष­ण­मि­त्युक्तं व्यक्तीकरोति –
अधुनेति ।

तन्नि­रू­प­णा­र्थ­मादौ प्राणापानौ निरूपयति –
यद्वा इत्यादिना ।
ताभ्यामेव मुख­ना­सि­का­भ्या­मि­त्ये­तत् ।

स्यातामेवं प्राणापानौ व्यानस्य तु किमायातामिति शङ्कित्वा तत्स्वरूपं दर्शयति –
तत इत्यादिना ।

सन्धिमेव स्फुटयति –
तयोरिति ।
प्राणा­पा­न­यो­र्वृ­त्त्यो­र­भा­वा­व­स्थायां मध्ये च वायो­र्वृ­त्ति­वि­शेषो योऽस्ति स व्यानशब्दार्थ इत्यर्थः ।

सन्धि­स्क­न्ध­म­र्म­दे­श­वृ­त्ति­र्व्यान इति साङ्ख्या योगा­श्चाऽऽ­हु­स्ता­न्प्र­त्याह –
यः साङ्ख्यादीति ।
साङ्ख्यानां योगानां च शास्त्रे प्रसिद्धो यो वायो­र्वृ­त्ति­वि­शेषः स्कन्धादिदेशगो नासौ व्यानःश्रुत्या विशे­ष­नि­रू­प­णा­दिति योजना ।

व्यानस्य प्राणा­पा­न­सा­पे­क्ष­त्वा­त्त­यो­र­न्य­त­र­स्यो­पा­स­न­मे­वो­चितं न व्यानोपासनमिति मन्वानश्चोदयति –
कस्मादिति ।
महताऽऽयासेन व्यान­स­त­त्त्व­नि­रू­प­णे­नेति यावत् ।

ताभ्यां तस्य वैशि­ष्ट्य­मु­पेत्य परिहरति –
वीर्यवदिति ।
व्यान­स्यै­वो­पा­स­न­मिति शेषः ।

तदेव प्रश्नद्वारा प्रपञ्चयति –
कथमित्यादिना ।

कथं व्यानस्य वीर्यवत्कर्म प्रसिद्ध प्रतिज्ञायते कार्य­का­र­ण­भा­वा­दि­त्याह –
व्यानेति ।

वाचो व्यान­नि­र्व­र्त्यत्वे लिङ्गं दर्शयति –
यस्मादिति ॥ ३ ॥

या वागि­त्या­दि­वा­क्या­ना­मर्थं सङ्क्षिपति –
तथेत्यादिना ॥ ४ ॥

अतो यानीत्यादि व्याचष्टे –
न केवलमिति ।
व्यानेन निर्वर्तयतीति पूर्वेण सम्बन्धः । यान्यन्यान्यपि यथोक्तानि कर्माणि तानि लोको व्यानेनैव करो­ती­त्यु­त्त­रत्र सम्बन्धः ।

प्रय­त्ना­धि­क्य­नि­र्व­र्त्यानि कर्मा­ण्ये­वो­दा­ह­रति –
यथेति ।
यथा तानि कर्माणि तथाऽ­न्या­न्य­प्ये­वं­प्र­का­रा­णीति योजना ।

व्यानस्य वीर्य­व­त्क­र्म­हे­तुत्वे फलितमाह –
अत इति ।

वैशिष्ट्येऽपि किं स्यादिति चेत्तदाह –
विशिष्टस्येति ।

वैशि­ष्ट्य­फ­ल­मु­प­सं­ह­रति –
एतस्येति ।

फल­व­त्त्वा­दि­त्यु­क्त­मु­पा­स्ति­फलं स्पष्टयति –
कर्मेति ।
व्यान­दृ­ष्ट्यो­द्गी­थो­पा­स­न­स्या­ङ्गा­व­ब­द्ध­त्वा­दिति शेषः ॥ ५ ॥

उद्गी­थो­पा­स­न­प्र­स­ङ्गे­नो­द्गी­था­क्ष­रो­पा­सनां प्रस्तौति –
अथेति ।

विशेषणतात्पर्यं दर्शयति –
भक्तीति ।
उद्गी­था­क्ष­रा­ण्यु­पा­सी­ते­त्युक्ते भक्त्य­क्ष­रा­ण्यु­पा­स्यानि प्राप्तानि तानि मा भूवन्निति यतो मन्यते श्रुतिस्ततो विशेषणं करोतीत्यर्थः ।

विशेषणश्रुतिं व्याकरोति –
उद्गीथेति ।

नामा­क्ष­रो­पा­स­न­मु­द्गी­थो­पा­स­न­स्या­कि­ञ्चि­त्क­र­मि­त्या­श­ङ्क्याऽऽह –
नामेति ।
यथा लोके कृष्ण­मि­श्रा­दि­वा­च­क­श­ब्द­प्र­योगे वाच्यस्य पुरु­ष­वि­शे­ष­स्यो­पा­सनं गम्यते तथेहापीत्यर्थः ।

नामाक्षरोपासने नामवदुपासनेऽपि तदुपासनमेव कथमित्याशङ्क्य विभजते –
प्राण एवेति ।

प्राणस्योदः सादृश्यं प्रश्नपूर्वकमाह –
कथमित्यादिना ।

गीरि­त्य­स्मि­न्न­क्षरे वाग्दृष्टिः कर्तव्येत्याह –
वाग्गीरिति ।

वाचो गिरश्च सादृश्यं दर्शयति –
वाचो हेति ।

उद्गीरक्षरयोः प्राण­वा­ग्दृ­ष्टि­रिव थमि­त्य­स्मि­न्न­क्ष­रेऽ­न्न­दृष्टिः कार्येत्याह –
तथेति ।

थका­रा­न्न­यो­र­पे­क्षितं सादृश्यं दर्शयति –
अन्ने हीति ॥ ६ ॥

प्राण एवोदित्यादौ सादृश्यं श्रुत्यैवोक्तं द्यौरे­वो­दि­त्यादौ तु नोक्तं तथा च तत्र सादृश्याभावे कथं दृष्टि­क­र­ण­मि­त्या­श­ङ्क्याऽऽह –
त्रयाणामिति ।

अन्त­रि­क्ष­मा­का­श­स्त­द­न्तः­प्र­तिष्ठा लोकास्तेन गीर्णा इवेति मत्वाऽऽह –
गिरणादिति ।
अग्न्यादीनां गिरणादिति संवर्गविद्यायां द्रष्टव्यम् ।

“सामवेदो वै स्वर्गो लोक” इति स्वर्गलोकत्वेन सामवेदस्य संस्तुतत्वादिति हेतुमाह –
स्वर्गेति ।
यजुषा स्वाहा­स्व­धा­दि­नेति यावत् ।

अध्या­त्म­म­धि­लो­क­म­धि­दै­व­म­धि­वेदं च नामा­क्ष­रो­पा­स­न­मुक्त्वा तत्फ­लो­क्ति­म­व­तार्य व्याकरोति –
उद्गीथेति ।
यो वाचो दोह इत्यत्र षष्ठी कर्मणि द्रष्टव्या ।

तमेव वाग्दोहं प्रकटयति –
ऋग्वेदादीति ।
तत्साध्यं फलं स्वाधी­नो­च्च­र­ण­क्ष­मत्वं तदनायासेनास्य सम्भवतीत्यर्थः । तदिति प्रकृ­त­फ­ल­प­रा­मर्शः । षष्ठी पूर्ववत् । तमिति दोहोक्तिः ।

वाच एव दोहे कर्मत्वं कर्तृत्वं चेत्याह –
आत्मानमेवेति ।
यो दोग्धा सा वागेव सा चाऽऽत्मानमेव तं दोग्धीति योजना । यथोक्तानि प्राण­वा­ग­न्ना­दि­रू­प­त्वे­नो­क्ता­नीति यावत् । यथो­क्त­गु­णा­न्यु­त्था­न­गि­र­ण­स्थि­त्या­दि­ध­र्म­का­णी­त्यर्थः ।

उद्गी­था­क्ष­रा­णी­त्युक्तं विशेषणानुवादेन स्फुटयति –
उद्गीथ इति ।
उद्गीथ इत्येवंरूपस्य नाम्नोऽ­क्ष­रा­णीति यावत् ॥ ७ ॥

वागा­दि­स­मृ­द्धि­फ­ल­मु­पा­स­न­मु­प­दिश्य फलसमृद्धिर्येन प्रकारेण भवति तत्प्रकारज्ञानं सर्व­का­म्यो­पा­स­न­शे­ष­भूतं प्रासङ्गिकं विधीयत इत्याह –
अथ खल्विति ।
वागा­दि­स­मृ­द्धि­फ­ल­को­पा­स­ना­न­न्त­र्य­म­थ­श­ब्दार्थः ।

वक्ष्य­मा­णो­पा­स­नानां सर्व­का­म्यो­पा­स­ना­शे­ष­त्व­द्यो­त­नार्थं खल्वित्युक्तम् । प्रासङ्गिकत्वं दर्शयति –
इदानीमिति ।
कामशब्दः फलविषयः । तच्छब्दः प्रका­र­ज्ञा­न­प­रा­मर्शी । उच्यते विधीयत इत्यर्थः ।

ध्यानप्रकारं प्रश्नपूर्वकं विशदयति –
कथमित्यादिना ।

इति­श­ब्दा­र्थ­म­भि­न­यति –
एवमिति ।

एवं­श­ब्दा­र्थ­मु­दा­ह­र­ण­नि­ष्ठ­तया स्पष्टयति –
तद्यथेति ।
उत्प­त्त्या­दि­भि­रि­त्या­दि­श­ब्देन च्छन्दोदेवतादि गृह्यते ॥ ८ ॥

देवतादिभिरिति ।
आदि­प­दे­नाऽऽ­र्षे­या­दि­ग्रहः ॥ ९ ॥

गायत्र्यादिनेति ।
आदि­प­द­मु­ष्णि­ग­नु­ष्टु­ब्बृ­ह­त्या­दि­स­ङ्ग्र­हा­र्थम् । त्रिबृत्पञ्चदशः सप्तदश एकविंशः प्रसिद्धः सोमयागे स्तोमः ।

आत्म­ने­प­द­प्र­यो­ग­प्र­ति­प­न्न­म­र्थ­माह –
स्तोमाङ्गेति ।
यत्र कर्तृगामि फलं तत्राऽऽत्मनेपदं प्रयुज्यते, प्रकृते च स्तोष्यमाण इत्यात्मनेपदं दृश्यते, तस्मादेतत्फलस्य कर्तृगामित्वं गम्यते । अन्यथा पूर्वोत्तरयोरिव पर­स्मै­प­द­प्र­यो­ग­प्र­स­ङ्गा­दि­त्यर्थः ॥ १० ॥

यां दिश­म­भी­त्य­भि­व्या­प्ये­त्यर्थः । स्तोष्य­न्दे­व­ता­वि­शे­ष­मिति शेषः । अधि­ष्ठा­तृ­श­ब्दे­ने­न्द्रा­दयो गृह्यन्ते । आदिपदं तत्त­द्दि­ग­व­स्थि­ता­सा­धा­र­ण­ध­र्म­स­ङ्ग्र­हा­र्थम् ॥ ११ ॥

आत्मानं स्वं रूपं गोत्रा­दि­भि­रु­प­सृ­त्यो­द्गाता स्तुवीतेति सम्बन्धः । नामा­दि­भि­रि­त्या­दि­श­ब्देन वर्णा­श्र­मा­दि­ग्र­ह­णम् । अन्तत इत्यस्यार्थमाह –
सामादीनिति ।
पूर्वो­क्ता­न्सा­मा­दी­न्स­र्वा­नु­क्तेन क्रमेण ध्यात्वा तदवसाने स्वात्मानमपि सञ्चि­न्त्या­पे­क्षि­त­फ­ल­म­नु­स­न्द­धानः स्वरादिभ्यः प्रमा­द­म­कु­र्व­न्नु­द्गाता स्तुवीतेति योजना । यत्र कर्म­ण्य­य­मु­द्गाता यथोक्तरीत्या स्तोता भवति तत्र क्षिप्रमेवास्मै स कामः समृद्धिं गच्छेद्यत्कामः सन्यः स्तुवी­ते­त्य­न्वयः । इतिशब्दः प्रास­ङ्गि­को­पा­स­न­स­मा­प्त्यर्थः ॥ १२ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्यायस्य तृतीयः खण्डः ॥