आनन्दगिरिटीका (छान्दोग्य)
प्रथमोऽध्यायः: तृतीयः खण्डः
अनन्तरमाध्यात्मिकप्राणदृष्ट्योद्गीथोपासनवचनादिति शेषः । किमिति देवताविषयमुद्गीथोपासनं प्रस्तूयते तत्राऽऽह –
अनेकधेति ।
प्राणरूपेणाऽऽदित्यादिरूपेण चोद्गीथस्योपास्यत्वाद्देवताविषयतदुपास्तिप्रस्तावो युक्त एवेत्यर्थः ।
आदित्यादिमतयश्चेत्यादिन्यायेन वाक्यार्थं कथयति –
आदित्यदृष्ट्येति ।
“तमादित्यमुद्गीथमुपासीत” इत्यादित्यशब्दस्योद्गीथशब्दस्य च सामानाधिकरण्यमयुक्तमुद्गीथशब्दस्य प्रकरणादक्षरवाचित्वादादित्यशब्दस्य च ज्योतिर्विषयत्वाद्भिन्नार्थयोश्च शब्दयोः सामानाधिकरण्यायोगादिति शङ्कते –
तमुद्गीथमितीति ।
आदित्ये यद्यपि नोद्गीथशब्दो रूढ्या वर्तितुमर्हति तथाऽपि गौण्या च तत्र तत्र वृत्तेः सामानाधिकरण्यसिद्धिरित्युत्तरमाह –
उच्यत इति ।
प्रजार्थमुद्गायतीत्येतदेव स्पष्टयति –
प्रजानामिति ।
अन्नोत्पत्त्यर्थमुद्गायतीति पूर्वेण सम्बन्धः ।
तदेव व्यतिरेकद्वारा साधयति –
न हीति ।
आदित्यस्यान्नार्थमागानमतःशब्दार्थः ।
न तस्योद्गातुरिव प्रत्यक्षमुद्गानमुपलब्धमित्याशङ्क्याऽऽह –
उद्गायतीवेति ।
उपमामेवोपपादयति –
यथेति ।
’अथाऽऽत्मनेऽन्नाद्यमागायेदि”तिश्रुत्यन्तरे यथाऽन्नार्थमुद्गाताऽऽगायतीत्यवगतं तथाऽऽदित्योऽपि प्रजानामन्नार्थमागायतीत्यर्थः ।
उद्गीथशब्दस्याऽऽदित्ये सम्भवं परामृश्य फलिर्तमाह –
अत इति ।
आदित्यदृष्ट्योद्गीथोपासनमुपपाद्य फलोक्तिं व्याचष्टे –
किञ्चेत्यादिना ।
एवंगुण तमस्तज्जभयनिवर्तकत्वगुणसहितमिति यावत् ॥ १ ॥
नन्वध्यात्ममधिदैवतमिति स्थानभेदात्प्राणादित्ययोर्भिन्नत्वाद्भिन्नमेव तयोरुपासनमुपादेयमत आह –
यद्यपीति ।
प्राणदित्ययोः स्वरूपभेदाभावं प्रश्नपूर्वकं प्रतिपादयति –
कथमित्यादिना ।
उशब्दोऽप्यर्थः स्थानभेदतो भेदमनुजानाति ।
गुणतः साम्य साधयति –
यस्मादिति ।
नामतः साम्यं सङ्गिरते –
किञ्चेति ।
सवितृवत्प्राणेऽपि प्रत्यास्वरशब्दप्रवृत्तिमाशङ्क्याऽऽह –
यस्मादिति ।
स्वरत्येव गच्छत्येवेति यावत् । तस्मिन्नेव स्थूलदेहे न प्रत्यागच्छति तस्मात्प्राणे स्वरशब्दप्रवृत्तिरेवेत्यर्थः ।
सवितर्यपि तर्हि तच्छब्दप्रवृत्तिरेवेत्याशङ्क्याऽऽह –
सविता त्विति ।
आदित्यस्यास्तं गतस्य प्रत्यहमेकत्रैवाऽऽगतिदर्शनात्तस्मिन्प्रत्यास्वरशब्दस्यापि प्रवृत्तिरस्तीत्यर्थः ।
अतः प्राणादित्ययोरुक्तं साम्यं निगमयति –
अस्मादिति ।
अन्योन्यसाम्यकृतं फलमाह –
अत इति ।
प्राणादित्यावेकीकृत्य तद्दृष्ट्योद्गीथावयवभूतमोङ्काराख्यमक्षरमुपास्यमित्यर्थः ॥ २ ॥
अथाऽऽध्यात्मिकमाधिदैविकं चोद्गीथोपासनं प्रस्तुत्य तदेव समस्यैकीकृत्योक्तं तथा च वक्तव्याभावात् किमुत्तरेण ग्रन्थेनेत्याशङ्क्याऽऽध्यात्मिकमेवोद्गीथोपासनमनुसृत्याऽह –
अथेति ।
कोऽसौ व्यानो यद्दृष्ट्योद्गीथोपासनमुपदिदिक्षितमत आह –
वक्ष्यमाणलक्षणमिति ।
पक्षान्तरं व्यावर्तयति –
प्राणस्यैवेति ।
वक्ष्यमाणलक्षणमित्युक्तं व्यक्तीकरोति –
अधुनेति ।
तन्निरूपणार्थमादौ प्राणापानौ निरूपयति –
यद्वा इत्यादिना ।
ताभ्यामेव मुखनासिकाभ्यामित्येतत् ।
स्यातामेवं प्राणापानौ व्यानस्य तु किमायातामिति शङ्कित्वा तत्स्वरूपं दर्शयति –
तत इत्यादिना ।
सन्धिमेव स्फुटयति –
तयोरिति ।
प्राणापानयोर्वृत्त्योरभावावस्थायां मध्ये च वायोर्वृत्तिविशेषो योऽस्ति स व्यानशब्दार्थ इत्यर्थः ।
सन्धिस्कन्धमर्मदेशवृत्तिर्व्यान इति साङ्ख्या योगाश्चाऽऽहुस्तान्प्रत्याह –
यः साङ्ख्यादीति ।
साङ्ख्यानां योगानां च शास्त्रे प्रसिद्धो यो वायोर्वृत्तिविशेषः स्कन्धादिदेशगो नासौ व्यानःश्रुत्या विशेषनिरूपणादिति योजना ।
व्यानस्य प्राणापानसापेक्षत्वात्तयोरन्यतरस्योपासनमेवोचितं न व्यानोपासनमिति मन्वानश्चोदयति –
कस्मादिति ।
महताऽऽयासेन व्यानसतत्त्वनिरूपणेनेति यावत् ।
ताभ्यां तस्य वैशिष्ट्यमुपेत्य परिहरति –
वीर्यवदिति ।
व्यानस्यैवोपासनमिति शेषः ।
तदेव प्रश्नद्वारा प्रपञ्चयति –
कथमित्यादिना ।
कथं व्यानस्य वीर्यवत्कर्म प्रसिद्ध प्रतिज्ञायते कार्यकारणभावादित्याह –
व्यानेति ।
वाचो व्याननिर्वर्त्यत्वे लिङ्गं दर्शयति –
यस्मादिति ॥ ३ ॥
या वागित्यादिवाक्यानामर्थं सङ्क्षिपति –
तथेत्यादिना ॥ ४ ॥
अतो यानीत्यादि व्याचष्टे –
न केवलमिति ।
व्यानेन निर्वर्तयतीति पूर्वेण सम्बन्धः । यान्यन्यान्यपि यथोक्तानि कर्माणि तानि लोको व्यानेनैव करोतीत्युत्तरत्र सम्बन्धः ।
प्रयत्नाधिक्यनिर्वर्त्यानि कर्माण्येवोदाहरति –
यथेति ।
यथा तानि कर्माणि तथाऽन्यान्यप्येवंप्रकाराणीति योजना ।
व्यानस्य वीर्यवत्कर्महेतुत्वे फलितमाह –
अत इति ।
वैशिष्ट्येऽपि किं स्यादिति चेत्तदाह –
विशिष्टस्येति ।
वैशिष्ट्यफलमुपसंहरति –
एतस्येति ।
फलवत्त्वादित्युक्तमुपास्तिफलं स्पष्टयति –
कर्मेति ।
व्यानदृष्ट्योद्गीथोपासनस्याङ्गावबद्धत्वादिति शेषः ॥ ५ ॥
उद्गीथोपासनप्रसङ्गेनोद्गीथाक्षरोपासनां प्रस्तौति –
अथेति ।
विशेषणतात्पर्यं दर्शयति –
भक्तीति ।
उद्गीथाक्षराण्युपासीतेत्युक्ते भक्त्यक्षराण्युपास्यानि प्राप्तानि तानि मा भूवन्निति यतो मन्यते श्रुतिस्ततो विशेषणं करोतीत्यर्थः ।
विशेषणश्रुतिं व्याकरोति –
उद्गीथेति ।
नामाक्षरोपासनमुद्गीथोपासनस्याकिञ्चित्करमित्याशङ्क्याऽऽह –
नामेति ।
यथा लोके कृष्णमिश्रादिवाचकशब्दप्रयोगे वाच्यस्य पुरुषविशेषस्योपासनं गम्यते तथेहापीत्यर्थः ।
नामाक्षरोपासने नामवदुपासनेऽपि तदुपासनमेव कथमित्याशङ्क्य विभजते –
प्राण एवेति ।
प्राणस्योदः सादृश्यं प्रश्नपूर्वकमाह –
कथमित्यादिना ।
गीरित्यस्मिन्नक्षरे वाग्दृष्टिः कर्तव्येत्याह –
वाग्गीरिति ।
वाचो गिरश्च सादृश्यं दर्शयति –
वाचो हेति ।
उद्गीरक्षरयोः प्राणवाग्दृष्टिरिव थमित्यस्मिन्नक्षरेऽन्नदृष्टिः कार्येत्याह –
तथेति ।
थकारान्नयोरपेक्षितं सादृश्यं दर्शयति –
अन्ने हीति ॥ ६ ॥
प्राण एवोदित्यादौ सादृश्यं श्रुत्यैवोक्तं द्यौरेवोदित्यादौ तु नोक्तं तथा च तत्र सादृश्याभावे कथं दृष्टिकरणमित्याशङ्क्याऽऽह –
त्रयाणामिति ।
अन्तरिक्षमाकाशस्तदन्तःप्रतिष्ठा लोकास्तेन गीर्णा इवेति मत्वाऽऽह –
गिरणादिति ।
अग्न्यादीनां गिरणादिति संवर्गविद्यायां द्रष्टव्यम् ।
“सामवेदो वै स्वर्गो लोक” इति स्वर्गलोकत्वेन सामवेदस्य संस्तुतत्वादिति हेतुमाह –
स्वर्गेति ।
यजुषा स्वाहास्वधादिनेति यावत् ।
अध्यात्ममधिलोकमधिदैवमधिवेदं च नामाक्षरोपासनमुक्त्वा तत्फलोक्तिमवतार्य व्याकरोति –
उद्गीथेति ।
यो वाचो दोह इत्यत्र षष्ठी कर्मणि द्रष्टव्या ।
तमेव वाग्दोहं प्रकटयति –
ऋग्वेदादीति ।
तत्साध्यं फलं स्वाधीनोच्चरणक्षमत्वं तदनायासेनास्य सम्भवतीत्यर्थः । तदिति प्रकृतफलपरामर्शः । षष्ठी पूर्ववत् । तमिति दोहोक्तिः ।
वाच एव दोहे कर्मत्वं कर्तृत्वं चेत्याह –
आत्मानमेवेति ।
यो दोग्धा सा वागेव सा चाऽऽत्मानमेव तं दोग्धीति योजना । यथोक्तानि प्राणवागन्नादिरूपत्वेनोक्तानीति यावत् । यथोक्तगुणान्युत्थानगिरणस्थित्यादिधर्मकाणीत्यर्थः ।
उद्गीथाक्षराणीत्युक्तं विशेषणानुवादेन स्फुटयति –
उद्गीथ इति ।
उद्गीथ इत्येवंरूपस्य नाम्नोऽक्षराणीति यावत् ॥ ७ ॥
वागादिसमृद्धिफलमुपासनमुपदिश्य फलसमृद्धिर्येन प्रकारेण भवति तत्प्रकारज्ञानं सर्वकाम्योपासनशेषभूतं प्रासङ्गिकं विधीयत इत्याह –
अथ खल्विति ।
वागादिसमृद्धिफलकोपासनानन्तर्यमथशब्दार्थः ।
वक्ष्यमाणोपासनानां सर्वकाम्योपासनाशेषत्वद्योतनार्थं खल्वित्युक्तम् । प्रासङ्गिकत्वं दर्शयति –
इदानीमिति ।
कामशब्दः फलविषयः । तच्छब्दः प्रकारज्ञानपरामर्शी । उच्यते विधीयत इत्यर्थः ।
ध्यानप्रकारं प्रश्नपूर्वकं विशदयति –
कथमित्यादिना ।
इतिशब्दार्थमभिनयति –
एवमिति ।
एवंशब्दार्थमुदाहरणनिष्ठतया स्पष्टयति –
तद्यथेति ।
उत्पत्त्यादिभिरित्यादिशब्देन च्छन्दोदेवतादि गृह्यते ॥ ८ ॥
देवतादिभिरिति ।
आदिपदेनाऽऽर्षेयादिग्रहः ॥ ९ ॥
गायत्र्यादिनेति ।
आदिपदमुष्णिगनुष्टुब्बृहत्यादिसङ्ग्रहार्थम् । त्रिबृत्पञ्चदशः सप्तदश एकविंशः प्रसिद्धः सोमयागे स्तोमः ।
आत्मनेपदप्रयोगप्रतिपन्नमर्थमाह –
स्तोमाङ्गेति ।
यत्र कर्तृगामि फलं तत्राऽऽत्मनेपदं प्रयुज्यते, प्रकृते च स्तोष्यमाण इत्यात्मनेपदं दृश्यते, तस्मादेतत्फलस्य कर्तृगामित्वं गम्यते । अन्यथा पूर्वोत्तरयोरिव परस्मैपदप्रयोगप्रसङ्गादित्यर्थः ॥ १० ॥
यां दिशमभीत्यभिव्याप्येत्यर्थः । स्तोष्यन्देवताविशेषमिति शेषः । अधिष्ठातृशब्देनेन्द्रादयो गृह्यन्ते । आदिपदं तत्तद्दिगवस्थितासाधारणधर्मसङ्ग्रहार्थम् ॥ ११ ॥
आत्मानं स्वं रूपं गोत्रादिभिरुपसृत्योद्गाता स्तुवीतेति सम्बन्धः । नामादिभिरित्यादिशब्देन वर्णाश्रमादिग्रहणम् । अन्तत इत्यस्यार्थमाह –
सामादीनिति ।
पूर्वोक्तान्सामादीन्सर्वानुक्तेन क्रमेण ध्यात्वा तदवसाने स्वात्मानमपि सञ्चिन्त्यापेक्षितफलमनुसन्दधानः स्वरादिभ्यः प्रमादमकुर्वन्नुद्गाता स्तुवीतेति योजना । यत्र कर्मण्ययमुद्गाता यथोक्तरीत्या स्तोता भवति तत्र क्षिप्रमेवास्मै स कामः समृद्धिं गच्छेद्यत्कामः सन्यः स्तुवीतेत्यन्वयः । इतिशब्दः प्रासङ्गिकोपासनसमाप्त्यर्थः ॥ १२ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य तृतीयः खण्डः ॥