आनन्दगिरिटीका (छान्दोग्य)
द्वितीयोऽध्यायः: एकादशः खण्डः
ननु पञ्चविधस्य सप्तविधस्य च साम्नो ध्यानं व्याख्यातम् । तथा च ज्ञातविषये वक्तव्याभावादलमनन्तरग्रन्थेनेत्याशङ्क्य पूर्वोत्तरग्रन्थयोरर्थभेदमाह –
विनेत्यादिना ।
गायत्रं रथन्तरमित्यादिनामग्रहणेन विशिष्टानि विशिष्टफलानि चेत्यर्थः ।
कथं पुनर्वक्ष्यमाणेषूपासनेषु निर्देशक्रमसिद्धिस्तत्राऽऽह –
यथाक्रममिति ।
यादृशं क्रममाश्रित्य तेषां कर्मणि प्रयोगः कर्मिणामिष्टस्तेनैव क्रमेण तदुपासनोक्तिरित्यर्थः ।
तत्र प्रा(घ्रा)णस्य क्रियाज्ञानयोरसम्भवात्प्राणस्य प्रधानत्वात्तद्दृष्ट्या गायत्रोपास्तिमादौ दर्शयति –
मनो हिङ्कार इत्यादिना ।
“प्राणमेव वागप्येति”(छा. उ. ४ । ३ । ३) इत्यादिश्रुत्या स्वापकाले प्राणे वागादीनां निधनमवधेयम् । प्रोतं प्रगतं प्रतिष्ठितमिति यावत् ।
गायत्रस्य प्राणेषु प्रतिष्ठितत्वे हेतुमाह –
गायत्र्या इति ।
प्राणो वै गायत्रीति हि श्रुतिः ॥१॥
अविदुषोऽपि प्राणित्वसिद्धेर्नेदं विद्याफलमित्याशङ्क्याऽऽह –
अविकलेति ।
कथं पुनर्नानाजनीनं सर्वमायुरेको ध्याता गन्तुमलमित्याशङ्क्याऽऽह –
शतमिति ।
“शतायुर्वै पुरुष”(श.ब्रा. १३ । २ । ६ । ८) इति श्रुतेरित्युच्यते । ज्योक्शब्दो निपातः स चोज्ज्वलनार्थः । उज्ज्वलः स्वपरोपकारसमर्थं इति यावत् ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्यैकादशः खण्डः ॥