अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

द्वितीयोऽध्यायः: सप्तदशः खण्डः

ऋतुषु सम्यग्वृत्तेषु लोकस्थितेः प्रसि­द्ध­त्वा­दृ­तु­दृ­ष्ट्य­न­न्तरं लोकदृष्टिमाह –
पृथिवीति ।

कथं शक्वर्य इत्येकस्यैव साम्नो नामधेयं बहुवचनाद्धि बहूनि सामानि प्रतीयन्ते तत्राऽऽह –
शक्वर्य इतीति ।

नित्य­ब­हु­व­च­न­त्व­मु­भ­यत्र तुल्यमिति द्योतनाय वक्ष्यमाणं दृष्टान्तयति –
रेवत्य इवेति ।

महानाम्नीषु ऋक्षु शक्वर्यो गीयन्ते । तासां च “आपो वै महानाम्नीः” इत्यद्भिः सम्बन्धः स्मृतः अप्सु लोकाः प्रतिष्ठिता इति च श्रुतम् । तथा चास्मा­त्स­म्ब­न्धा­ल्लो­केष शक्वर्यः प्रतिष्ठिता इत्याह –
लोकेष्विति ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य सप्तदशः खण्डः ॥