अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

द्वितीयोऽध्यायः: त्रयोविंशः खण्डः

अधि­कृ­ता­धि­का­र­ण्य­ङ्गा­व­ब­द्धा­न्यु­पा­स­ना­न्यु­क्तानि । सम्प्रति स्वत­न्त्रा­धि­का­रि­गो­च­र­मो­ङ्का­रो­पा­सनं विधातुमारभते –
ओङ्कारेति ।

अङ्गा­व­ब­द्धो­पा­स­ना­धि­कारे यथो­क्त­स्व­त­न्त्रो­पा­स­न­वि­धाने कोऽभिप्रायः श्रुते­रि­त्या­श­ङ्क्याऽऽह –
नैवमिति ।
न स्वतन्त्रस्य तस्यो­पा­स­ना­दि­त्ये­व­का­रार्थः ।

कथं तर्हि मन्त­व्य­मि­त्य­पे­क्षा­या­माह –
किं तर्हीति ।
सनियमस्य प्राङ्मु­ख­त्वा­दि­नि­य­म­स­हि­तस्य पुरुषस्येति यावत् । अभ्यासश्च स्वीकरणं विचारो जपः शिष्येभ्यो दान­मा­वृ­त्ति­श्चेति पञ्चविधः ।

वेद्यां यद्दीयते तस्य यज्ञा­ङ्ग­त्वा­त्पृ­थ­क्फ­ल­वत्त्वं नास्तीति मन्वानो विशिनष्टि –
बहिर्वेदीति ।
गृहस्थेन तदात्मनेत्यर्थः ।

कथं गृहस्थस्य प्राथम्यं ब्रह्म­चा­रि­ण­स्त­था­त्वा­दि­त्या­श­ङ्क्याऽऽह –
एक इत्यर्थ इति ।

उक्तव्याख्याने वाक्यशेषस्य गमकत्वमाह –
द्वितीयेति ।

प्राथम्यमेव प्रथमशब्दस्य नार्थो ब्रह्म­चा­रि­प्रा­थ­म्य­प्र­सि­द्धि­वि­रो­धा­दि­त्याह –
नाऽऽद्यार्थ इति ।

कीदृगत्र परि­व्रा­ड्गृ­ह्यते तत्राऽऽह –
नेति ।

कुतोऽत्र ब्रह्मसंस्थो न गृह्यते तत्राऽऽह –
ब्रह्म­सं­स्थ­स्येति ।
वान­प्र­स्थ­ग्र­ह­ण­म­मु­ख्यस्य परिव्राजोऽपि प्रदर्शनार्थम् ।

ब्रह्म­चा­री­त्या­दि­वा­क्यस्य नैष्ठिकविषयत्वं विशे­ष­ण­सा­म­र्थ्या­द्द­र्श­यति –
अत्य­न्त­मि­त्या­दीति ।

अथोपकुर्वाणस्य ब्रह्म­चा­रि­त्वा­वि­शे­षा­त्कि­मि­त्यु­पा­दानं न भवेत्तत्राऽऽह –
उपकुर्वाणस्येति ।

ननु ब्रह्मचारिणो ब्रह्मचर्येण पुण्यलोको न श्रूयते तत्राऽऽह –
सर्व इति ।

कथमाश्रमिणां पुण्य­लो­क­वि­शे­ष­वतां तदा­त्म­क­त्व­मु­च्यते तत्राऽऽह –
पुण्य इति ।

आश्रमिषु प्रदर्श्यमानेषु किं परिव्राण्मुख्यो न प्रदर्श्यते तत्राऽह –
अवि­शि­ष्ट­स्त्विति ।

कुतो हि पुण्य­लो­क­वै­ल­क्ष­ण्य­म­मृ­त­त्व­स्ये­त्या­श­ङ्क्यो­क्तम् –
आत्यन्तिकमिति ।

तस्या­पे­क्षि­क­त्वा­भावे हेतुमाह –
पुण्यलोकादिति ।
अमृतत्वस्य पुण्य­लो­का­त्पृ­थ­ग्वि­भा­ग­क­र­णा­त्त­तोऽ­न्य­त्वा­दा­त्य­न्ति­क­त्व­सि­द्धि­रिति योजना ।

उक्तमेवार्थं व्यतिरेकमुखेन साधयति –
यदि चेत्यादिना ।
ब्रह्मशब्दस्य यथाश्रुतं मुख्यमर्थं गृहीत्वा परब्रह्मात्मना साक्षात्कारवता निर­ङ्कु­श­म­मृ­त­त्व­मुक्तं प्रकरणालोचनया तु प्रणवप्रतीके ब्रह्मोपासकस्य क्रमेणामतत्वं भेद­बु­द्धे­र­न­पा­या­द्द्र­ष्ट­व्यम् ।

कर्मि­णा­म­न्त­व­त्फ­ल­त्वा­भि­धा­नेन तन्निन्दया ब्रह्म­सं­स्थ­ता­स्तु­ति­द­र्श­ना­त्त­स्याश्च विध्य­र्थ­त्वा­द­मृ­त­त्व­कामो ब्रह्मसंस्थः स्यादि­त्ये­का­र्थ­प­र­त्वा­दे­क­मिदं वाक्यमित्याह –
अत्र चेत्यादिना ।

स्तुतये फलविधये चेदं वाक्यं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
स्तुतये चेति ।
अर्थैकत्वादेकं वाक्यं तद्भेदे तद्भे­द­नि­य­मा­दि­त्यर्थः ।

किंपरं तर्हीदं वाक्यं तत्राऽऽह –
तस्मादिति ।

स्मृतिसिद्धेति ।
श्रुतेः­स्मृ­त्य­र्था­नु­वा­दत्वे वैप­री­त्या­त्त­द­नु­मि­त­श्रु­ति­सि­द्धेति योज्यम् ।

स्तुतिमेव दृष्टा­न्ता­व­ष्ट­म्भेन स्पष्टयति –
यथेत्यादिना ।
इति­श­ब्दोऽ­ध्या­हृ­त­स्तु­तय इत्यनेन सम्बध्यते ।

ननु ब्रह्म­त­त्त्व­से­वा­तोऽ­मृ­तत्वं भवति न प्रण­व­से­वा­त­स्त­त्कि­मिति तस्य स्तुति­रि­त्या­श­ङ्क्याऽऽह –
प्रणवश्चेति ।

तत्र प्रमाणं दर्शयन्फलितमाह –
एतद्ध्येवेति ।

स्वव्याख्यानं वर्जि­त­दो­ष­मुक्त्वा ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मे­ती­त्यत्र वृत्तिकारीयं व्याख्या­न­मु­त्था­प­यति -
अत्रेति ।
ये खल्वा­श्र­मि­ण­श्च­त्वारो झान­व­र्जि­ता­स्तेषां सर्वे­षा­म­प्य­वि­शे­षेण स्वाश्र­म­वि­हि­त­ध­र्मा­नु­ष्ठा­नेन पुण्यलोकभागिता सर्व एते पुण्यलोका भव­न्ती­त्य­त्रोक्ता । न तु पूर्व­स्मि­न्ग्रन्थे परिव्राडनुक्तः सन्न­व­शे­षि­तोऽ­स्तीति योजना ।

ननु पूर्व­स्मि­न्ग्रन्थे वाचकपदं परिव्राजो नोपलभ्यते तथा चासा­व­व­शे­षि­त­स्त­त्राऽऽह –
परि­व्रा­ज­क­स्या­पीति ।
ज्ञानं यमा निय­मा­श्चो­पा­य­भूता इति यावत् ।

परिव्राडपि पूर्व­त्रा­भि­हि­त­श्चे­द्ब्र­ह्म­सं­स्थ­वा­क्यस्य कोऽर्थः स्यादि­त्या­श­ङ्क्याऽऽह –
अत इति ।
परि­व्रा­ज­क­स्या­न­व­शि­ष्ट­त्वेन चतु­र्णा­मु­प­दि­ष्ट­त्वा­वि­शे­षोऽ­तः­श­ब्दार्थः ।

सामान्यनिर्देशे हेतुमाह –
चतुर्णामिति ।
अप्र­ति­षे­धा­च्चेति च्छेदः ।

नन्वा­श्र­मा­न्त­राणां कर्मा­र्थ­त्वा­त्त­त्रैव व्यापृतत्वान्न ब्रह्म­सं­स्थ­तायां सामर्थ्यमस्ति परिव्राजकस्य तु निर्व्यापारस्य ब्रह्मसंस्थता सुकरेत्यत आह –
स्वकर्मेति ।

ननु परिव्राजके ब्रह्म­सं­स्थ­शब्दो रूढो गवादिशब्दवत् । तन्ना­सा­वा­श्र­मा­न्त­र­मा­स्क­न्दति तत्राऽऽह –
न चेति ।

निमित्तमादाय प्रवृत्तत्वेऽपि किमिति रूढिर्न स्यादि­त्या­श­ङ्क्याऽऽह –
न हीति ।

नन्वेष शब्दो नैमित्तिकोऽपि परि­व्रा­ज­क­मा­त्र­म­धि­क­रोति ।तत्रैव निमित्तस्य सत्त्वा­त्त­त्राऽह –
सर्वेषां चेति ।

ननु पङ्कजादिशब्दा निमि­त्त­म­स्ती­त्ये­ता­वता नेन्दीवरादौ वर्तन्ते किन्तु तामरसादिमात्रं विषयीकुर्वन्ति । तथा ब्रह्म­सं­स्थ­शब्दो निमित्तवर्त्यपि गृह­स्था­दा­व­न­व­स्थितः परिव्राजकमेव परं गोचरयेदत आह –
यत्रेति ।
ब्रह्म­सं­स्थ­शब्दं निरो­द्धु­म­यु­क्त­मिति सम्बन्धः ।

रूढिपक्षे दोषान्तरमाह –
न चेति ।

धर्मसहितस्य ज्ञानस्य ज्ञानसहितस्य वा धर्म­स्या­मृ­त­त्व­सा­ध­न­त्वान्न ज्ञाना­न­र्थ­क्य­मि­त्या­श­ङ्क्याऽऽ­द्य­प­क्ष­म­नु­व­दति –
पारिव्राज्येति ।

पारि­व्रा­ज्य­ध­र्मे­णै­वेति नायं नियमो गृह­स्था­दि­ध­र्मा­णा­म­प्या­श्र­म­ध­र्म­त्वेन तुल्य­त्वा­त्त­द्वि­शि­ष्ट­ज्ञा­न­म­मृ­त­त्व­हे­तु­रि­त्यपि वक्तुं सुकरत्वादित्याह –
नाऽऽश्रमेति ।

द्वितीयं दूषयति –
धर्मो वेति ।
यदि परिव्राजकधर्मो ज्ञानविशिष्टो मुक्ति­हे­तु­रि­त्यु­च्यते तदैतदपि मुक्तिहेतुत्वं सर्वा­श्र­म­ध­र्माणां ज्ञान­वि­शि­ष्टा­ना­म­वि­शि­ष्टम् । तथा च रूढिपक्षेऽपि परिव्राजकस्यैव ज्ञाना­न्मु­क्ति­रि­त्यर्थः ।

इतश्च परिव्राजकस्यैव मुक्ति­भा­क्त्व­म­सि­द्ध­मि­त्याह –
न चेति ।

मा तर्हि कस्यचिदपि मुक्तिर्भूदिति तत्राऽऽह –
ज्ञानादिति ।

ब्रह्म­सं­स्थ­वा­क्या­र्थ­मु­प­सं­ह­रति –
तस्मादिति ।
परि­व्रा­ज­क­स्यै­वा­मृ­त­त्व­मि­त्य­नि­य­मा­ज्ज्ञा­ना­देव तदिति च नियमादित्यर्थः ।

ब्रह्मसंस्थः समु­च्च­या­नु­ष्ठा­यीति वृत्तिकारमतं निराकरोति –
न कर्मेति ।
कर्म­नि­मि­त्त­प्र­त्य­यस्य शुद्ध­ब्र­ह्मा­त्म­ता­सा­क्षा­त्का­रस्य च मिथो विरोधान्न समु­च्च­य­सि­द्धि­रिति ।

वस्तु­सं­ग्र­ह­वाक्यं विवृणोति –
कर्त्रादीति ।
कर्मविधयो निषेधाश्चेति द्रष्टव्यम् ।

तथाऽपि प्रत्य­य­त्वा­वि­शे­षा­त्का­र­का­का­र­क­वि­धि­नि­षे­ध­योर्न विरो­धोऽ­स्ती­त्या­श­ङ्क्याऽऽह –
तच्चेति ।
प्रत्ययत्वेऽपि शास्त्री­या­शा­स्त्री­य­तया विद्या­वि­द्या­भा­वेन विरो­धोऽ­स्ती­त्यर्थः ।

सति विरोधे किं स्यादत्राऽऽह –
स्वाभाविकमिति ।
विद्यारूपः प्रत्यय इति पूर्वेण सम्बन्धः ।

तत्रोक्तमेव हेतुं स्मारयति –
भेदेति ।

तत्र लोक­प्र­सि­द्ध­मु­दा­ह­र­ण­माह –
न हीति ।

भेदा­भे­द­प्र­त्य­य­यो­र्वि­द्या­वि­द्या­त्म­नो­र्वि­रो­धेन समु­च्च­या­स­म्भ­वा­त्त­द­नु­ष्ठायी ब्रह्मसंस्थो न भवति चेत्कस्तर्हि ब्रह्मसंस्थः स्यादत्राऽऽह –
तत्रेति ।
उक्तरीत्या समुच्चयायोगे सतीति यावत् ।

अन्यस्य गृह­स्था­दे­र्ब्र­ह्म­सं­स्थ­ता­स­म्भ­व­मुक्तं साधयति –
अन्यो हीति ।
वाचारम्भणमात्रे विकारेऽनृते शरीरादौ ब्राह्म­णोऽ­ह­मि­त्या­द्य­भि­स­न्धा­न­रूपो मिथ्या­भि­नि­वे­शा­त्मको यः प्रत्य­य­स्त­द्व­त्त्वा­दिति हेत्वर्थः ।

ननु ब्रह्मविदोऽपि संस्का­र­व­शा­द्द्वै­त­स­त्य­त्वा­भि­नि­वे­श­पू­र्वकं कर्म­प्र­वृ­त्ति­स­म्भ­वान्न ब्रह्मसंस्थता सुप्र­ति­पा­द्ये­त्यत्र आह –
न चेति ।
असत्यमिदमिति विवेकेन सत्यत्वाभनिवेशे शिथलीकृते पुनः सत्य­त्वा­भि­नि­वे­शेन न प्रवृ­त्ति­रु­प­प­द्यते । आभासरूपा तु भेदबुद्धिर्न कर्म­प्र­वृ­त्ते­हे­तु­रि­त्यर्थः ।

अद्वैतज्ञानवता निमि­त्त­नि­वृत्त्या कर्म­नि­वृ­त्ति­र­व­श्य­म्भा­वि­नी­त्यु­क्तम् । विपक्षे दोषमाह –
उपमर्दितेऽपीति ।

एक­त्व­प्र­त्य­य­ज­नकं शास्त्रं न भवत्येव प्रमाणं पूर्व­प्र­वृ­त्त­भे­द­प्र­त्य­य­वि­रो­धा­दिति मतमाशङ्क्याऽह –
अभक्ष्येति ।
यथा न कलञ्जं भक्षयेदित्यादि शास्त्रं पूर्व­प्र­वृ­त्त­क­ल­ञ्जा­दि­भ­क्ष­ण­प्र­त्य­य­वि­रो­धेऽपि प्रमाणं रागा­दि­दो­षा­त्तस्य प्रत्य­य­स्या­प्र­मा­ण­त्वा­त्त­थैव भेद­प्र­त्य­य­स्या­वि­द्यो­त्थ­त्वा­त्प्रा­मा­ण्या­स­म्भ­वा­त्त­द्वि­रो­धेऽ­प्य­द्वै­त­शा­स्त्रस्य युक्तमेव प्रामा­ण्य­मि­त्यर्थः ।

कार्य­प­र­त्वा­द­द्वैते तात्प­र्या­भा­वा­त्कु­त­स्त­च्छा­स्त्रस्य प्रामा­ण्य­मि­त्या­श­ङ्क्याऽऽह –
सर्वोपनिषदामिति ।
उप­क्र­मो­प­सं­हा­रै­क­रू­प्या­दि­ष­ड्वि­ध­ता­त्प­र्य­लि­ङ्ग­द­र्श­ना­द­द्वैते तात्पर्यं तासामवसीयते तद्यु­क्त­म­द्वै­त­शा­स्रस्य स्वार्थे प्रामा­ण्य­मि­त्यर्थः ।

भेदा­ल­म्ब­न­क­र्म­वि­धि­वि­रो­धा­न्ना­द्वै­त­शास्त्रं स्वार्थे मानमिति शङ्कते –
कर्मविधीनामिति ।

यथा स्वप्नप्रत्ययो गन्ध­र्व­न­ग­रा­दि­प्र­त्य­यश्च प्राक्त­त्त्व­ज्ञा­ना­दज्ञं पुरुषमधिकृत्य प्रमाणं तथा कर्म­वि­धी­ना­म­प्य­वि­दुषि पुरुषे प्रामा­ण्य­स­म्भ­वा­न्ना­द्वै­त­शा­स्त्रस्य तद्वि­रो­धोऽ­स्तीति परिहरति –
नानुपमर्देतेति ।

“यद्यदाचरति श्रेष्ठ­स्त­त्त­दे­वे­तरो जनः”(भ.गी. ३ । २१) इति स्मृते­स्त­त्त्व­द­र्शिनां कर्मभ्यः सकाशादुपरमे सत्य­न्येऽ­प्यु­प­र­स्यन्ते । तथा च कर्म­वि­धि­वि­रो­ध­ता­द­व­स्थ्य­मिति शङ्कते –
विवेकिनामिति ।
प्रकृ­ति­प­र­व­श­त्वा­ल्लो­कस्य नासौ विवेकी प्रकृ­ति­म­नु­व­र्तते । “प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति”(भ.गी. ३ । ३३) इति स्मृतेः ।

ततो ब्रह्मविदां नैष्कर्म्येऽपि न कर्म­वि­धी­ना­म­प्रा­मा­ण्य­प्र­स­क्ति­रि­त्यु­त्त­र­माह –
न काम्येति ।

तदेव प्रपञ्चयति –
न हीति ।
इति नोच्छिद्यन्त इति शेषः ।

अस्तु, प्रस्तुते किमायातं तदाह –
तथेति ।
अनुष्ठीयन्त एवेति तद्वि­धी­ना­म­नु­च्छि­त्ति­रिति वाक्यशेषः ।

अद्वै­त­वा­दि­नोऽ­व­श्य­म्भा­विनी कर्म­नि­वृ­त्ति­रि­त्युक्तं दृष्टान्तेन विघटयन्नाशङ्कते –
परि­व्रा­ज­का­ना­मिति ।

अद्वै­त­धी­स्व­भा­वा­लो­च­नायां भिक्षा­ट­ना­दि­प्र­वृ­त्ति­र­प्य­घ­ट­मा­नै­वेति मन्वानः समाधत्ते –
न प्रामाण्येति ।
समुच्चयस्य प्रामा­णि­क­त्व­नि­रू­प­णायां प्रत्य­या­भा­स­मू­लस्य प्रवृ­त्त्या­भा­सस्य नोदाहरणत्वम् । अग्नि­हो­त्रा­दि­प्र­वृ­त्ते­र­प्या­भा­सत्वे प्रामा­णि­क­स­मु­च्च­य­सि­द्धा­न्त­नि­रतो नैत­च्चो­द्य­मि­त्यर्थः ।

एतदेव दृष्टान्तेन स्पष्टयति –
न हीति ।
तद्वदविवेकिना कर्म क्रियमाणं दृष्टमिति विवेकिभिरपि तन्न क्रियते । भिक्षा­ट­ना­दि­प्र­वृ­त्त्या­भा­स­स्त्व­प्रा­मा­णि­कोऽ­ग्नि­हो­त्रा­दि­प्र­वृ­त्ते­र्नो­दा­ह­र­ण­मिति शेषः ।

इतश्च नेद­मु­दा­ह­र­ण­मि­त्याह –
न चेति ।

अग्नि­हो­त्रा­दा­वपि प्रवर्तकमस्तीति शङ्कते –
इहापीति ।

अकरणकृतं प्रत्यवायाख्यं भयमविवेकिनो विवेकिनो वेति विक­ल्प्याऽऽ­द्य­म­ङ्गी­क­रोति –
न भेदेति ।

कर्मणि भेद­बु­द्धि­म­तोऽ­धि­कृ­त­त्वेऽपि तस्य तदकरणे किं स्यादि­त्या­श­ङ्क्याऽऽह –
यो हीति ।

द्वितीयं दूषयति –
न निवृत्तेति ।

विवेकिनो निवृ­त्ता­धि­का­रस्य प्रत्य­वा­या­प्राप्त्या कर्मसु प्रव­र्त­का­भा­वा­त्क­र्मभ्यो निवृत्तिरूपं पारिव्राज्यं चेद­ति­प्र­स­ङ्ग­स्त­र्हीति शङ्कते –
एवं तर्हीति ।

कर्मसाधनं स्वयज्ञोपवीतादि त्यज्यते न वा । त्यज्यते चेन्न स्वाश्रमधर्मः । ततो यज्ञो­प­वी­ता­द्य­न्त­रेण गार्ह­स्थ्या­दि­भा­वा­स­म्भ­वात् । न त्यज्यते चेन्न पारि­व्रा­ज्य­प्राप्तिः । साधनसंग्रहस्य साध्या­र्थ­त्वा­दिति परिहरति –
न स्वस्वामित्वेति ।

इत­श्चाऽऽ­श्र­मा­न्त­रेषु न पारि­व्रा­ज्य­मि­त्याह –
कर्मा­र्थ­त्वा­दिति ।
जाया­पु­त्र­वि­त्त­स­म्प­त्त्या­न­न्तर्यं श्रुता­व­थ­श­ब्दार्थः ।

गृहस्थादिषु स्वाश्र­म­स्थ­ष्वेव पारिव्राज्यस्य दुर्वचत्वे फलितमाह –
तस्मादिति ।
विवे­क­व­शा­द्य­ज्ञो­प­वी­तादौ स्वशब्दार्थे स्वामि­त्व­बु­द्ध्य­भा­वा­दिति यावत् ।

यत्तु परिव्राजकस्य निवृ­त्ता­धि­का­रस्य प्रत्य­वा­या­प्रा­प्ति­रिति तत्रा­नि­ष्टा­प­त्ति­मा­श­ङ्कते –
एकत्वेति ।
तद्वि­ष­य­प्र­त्य­यस्य विधिरुत्पादकं तत्त्व­म­स्या­दि­वाक्यं तज्ज­नि­ते­नै­क­त्व­वि­ष­येण प्रत्ययेनेति यावत् । तथा च यथे­ष्ट­चे­ष्टा­प्र­स­क्ति­रिति शेषः ।

ज्ञानिनो वैधं यमादि नास्ति तत्प्र­वृ­त्तिस्तु संस्का­र­व­शा­दि­त्या­श­ये­नाऽऽह –
न बुभक्षादिनेति ।
यो हि दृष्टेन दोषेण तत्त्व­ज्ञा­ना­त्क­थ­ञ्चि­त्प्र­च्यु­ति­मा­पा­दि­त­स्तस्य संस्का­र­व­शा­द्य­म­नि­य­मा­नु­ष्ठा­न­मु­प­प­द्यते । तस्य दोष­कृ­त­त­त्त्व­प्र­च्यु­ति­प्र­सू­ता­नि­य­त­चे­ष्टा­नि­वृ­त्त्य­र्थ­त्वे­ना­व­श्या­नु­ष्ठे­य­त्वात् । तथा च न यथे­ष्ट­चे­ष्टा­प­त्ति­रि­त्यर्थः ।

इतश्च विदुषो वैध­प्र­वृ­त्त्य­भा­वेऽपि यथेष्टचेष्टा नास्तीत्याह –
न चेति ।

अविदुषोऽपि न यथेष्टचेष्टा विदुषस्तु सा कुतस्त्येति दृष्टान्तेन स्फुटयति –
न हीति ।

अन्येषां ब्रह्म­सं­स्थ­त्वा­स­म्भवे फलितमुपसंहरति –
तस्मादिति ।

परो­क्त­म­नू­द्या­ङ्गी­क­रोति –
यत्पुनरिति ।

उक्त­म­र्था­न्त­र­म­नु­व­दति –
यच्चेति ।

किं परिव्राजकस्य ज्ञान­ही­न­स्याऽ­श्र­म­मा­त्र­नि­ष्ठस्य तपः­श­ब्दे­नो­पा­दा­न­माहो ज्ञानवतोऽपीति विक­ल्प्याऽऽ­द्य­म­ङ्गी­कृत्य द्वितीयं दूषयति –
एतदसदिति ।

ज्ञानवतोऽपि तप­स्वि­त्वा­त्त­पः­श­ब्दे­नो­पा­दा­न­मु­चि­त­मिति शङ्कित्वा प्रत्याह –
कस्मादित्यादिना ।
तपःशब्देन नासौ गृहीत इति शेषः ।

तस्य च ज्ञान­व­तोऽ­व­शि­ष्टत्वं प्रागे­वो­प­दि­ष्ट­मि­त्याह –
स एवेति ।

इतश्च पर­म­हं­स­प­रि­व्रा­जको न तपःशब्देन परामृष्ट इत्याह –
एकत्वेति ।

तदेव स्फोरयति –
भेदेति ।

यत्तु कर्मच्छिद्रे गृहस्थादेरपि ब्रह्म­सं­स्थ­ता­सा­म­र्थ्य­मिति तत्प्रत्याह –
एतेनेति ।
अनि­वृ­त्त­भे­द­प्र­त्य­यस्य ब्रह्म­सं­स्थ­त्वा­स­म्भ­वे­नेति यावत् । सामर्थ्यं प्रयुक्तमिति सम्बन्धः ।

यत्तु चतुर्णामपि ब्रह्मसंस्थताया अप्रतिषेध इति तत्राऽऽह –
अप्रतिषेधश्चेति ।
एकत्वोपदेशेन भेद­प्र­त्य­य­नि­रा­सा­द­नि­वृ­त्त­भे­द­प्र­त्य­य­स्या­र्था­द्ब्र­ह्म­सं­स्थता प्रति­षि­द्धे­त्यर्थः ।

पारि­व्रा­ज्य­मा­त्रे­णा­मृ­तत्वे ज्ञान­वै­य­र्थ्य­मुक्तं परिहरति –
तथेति ।

चोद्या­न्त­र­म­नू­द्योक्तं परिहारं स्मारयति –
यत्पुनरुक्तमिति ।
तत्र रूढोऽयं शब्द इति शेषं पञ्चम्या सूचयति ।

चोद्या­न्त­र­म­नूद्य दूषयति –
यत्पु­न­रि­त्या­दिना ।
आदिपदेन पङ्कजादिशब्दो गृह्यते ।

उक्तं प्रपञ्चयति –
गृहस्थितीति ।
इहापीति प्रकृ­त­वा­क्यो­पा­दा­नम् ।

प्रकृते परमहंसे परिव्राजके ब्रह्म­सं­स्थ­प­द­मि­त्यत्र हेतुमाह –
मुख्येति ।

इतश्च पारमहंस्यमेव श्रौतमित्याह –
अतश्चेति ।

एवकारार्थं कथयति –
न, यज्ञोपवीतेति ।
इतिशब्दः संन्यासप्रकरणे तथा­वि­ध­श्रु­त्य­भा­व­प्र­द­र्श­नार्थः ।

ब्रह्म­सं­स्थ­श­ब्दस्य परमहंसविषयत्वे श्रुत्यन्तरं सम्वादयति –
श्रुतिरिति ।
अत्याश्रमिभ्यः पूर्वा­श्र­म­त्र­य­म­तीत्य सर्वकर्मं त्यक्त्वा स्थितेभ्यः पर­म­हं­स­प­रि­व्रा­ज­केभ्य इति यावत् । परमं पवित्रं निर­ति­श­य­प­रि­शु­द्ध­का­रणं पर­म­पु­रु­षा­र्थ­सा­धनं सम्यग्ज्ञानं प्रोवाचेत्यर्थः । स्मृतिभ्यश्च यथोक्तं पारिव्राज्यं सिद्ध्यतीति शेषः । “अना­शि­ष­म­ना­र­म्भम्” इत्या­दि­वा­क्य­सं­ग्र­हा­र्थ­मा­दि­प­दम् । कर्मणो बन्धहेतुत्वं तच्छब्दार्थः । लिङ्गस्य धर्म­का­र­ण­त्व­रा­हित्यं तस्मा­दि­त्यु­क्तम् । अलिङ्गो धर्म­ध्व­जि­त्व­र­हितः । धर्मज्ञो यथा­व­द्ध­र्मा­नु­ष्ठाता । अधर्मज्ञ इति वा पाठः । धर्म­वि­चा­र­नि­ष्ठा­र­हि­त­स्त­त्रा­सा­र­त्व­प्र­त्य­य­वा­नि­त्यर्थः ।

अलिङ्ग इत्यु­क्तेऽ­ना­श्र­मि­त्व­मा­श­ङ्क्याऽऽह –
अव्यक्तेति ।
न व्यक्तं दम्भेनगृहीतं लिङ्ग­मा­श्र­मि­त्व­म­स्या­स्ती­त्य­व्य­क्त­लिङ्गः । किन्त्वदम्भेन श्रुति­स्मृ­त्यु­क्त­प्र­का­रेण तद­स्या­स्ती­त्यर्थः । आदिपदं “त्यज धर्ममधर्मं च”(म.शां. १२ । १६१ । ४०) इत्यादि ग्रहीतुम् । अत्रापि पूर्वपदान्वयः ।

ननु कर्म­नि­वृ­त्ति­मु­प­दि­शता त्वया साङ्ख्य­म­त­मे­वाऽऽ­श्रितं तेनापि शरी­रा­दि­व्या­पा­रो­प­र­म­द्वारा ध्याननिष्ठतायाः स्वीकृ­त­त्वा­त्त­त्राऽऽह –
यत्त्विति ।
न हि तन्मते कूट­स्था­त्म­धी­ब­लेन नैष्कर्म्यं युक्तम् । क्रिया­का­र­का­दि­बु­द्धे­र­वि­वे­कस्य च सत्यत्वेन ज्ञान­मा­त्रा­प­नो­द्य­त्वा­यो­गात् । न च सर्व­व्या­पा­रो­प­र­म­स­म्भवो मनो­बु­द्ध्या­दीनां तच्छीलत्वात् । “न हि कश्चित्क्षणमपि”(भ. गी. ३ । ५) इत्यादिस्मृतेः । अतः साङ्ख्यवचो मिथ्यैवेत्यर्थः ।

ननु बौद्धेनापि नैरा­त्म्य­मि­च्छता नैष्क­र्म्य­मिष्टं तथा च कर्म­त्या­ग­मु­प­दि­शता त्वयाऽपि तन्म­त­मे­वा­नु­मो­दितं; नेत्याह –
यच्चेति ।
तद­भ्यु­प­ग­न्तु­रि­त्य­त्रा­क­र्तृत्वं तच्छब्दार्थः ।

“दुःखमित्येव यत्कर्म काय­क्ले­श­भ­या­त्त्य­जेत्”(भ. गी. ८ । ८) इति स्मृते­रा­ल­स्यो­प­ह­तै­र­ज्ञै­र­क­र्तृ­त्व­मु­पे­यते भक्ताऽपि कर्म त्यजता तन्म­त­मा­दृ­त­मि­त्या­श­ङ्क्याऽऽह –
यच्चाज्ञैरिति ।
अक­र्तृ­त्वा­भ्यु­प­गम इति च्छेदः । ते हि मोहादेव कर्म त्यजन्तो न तत्फलं लभन्ते । “स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्”(भ. गी. ८ । ८) इति स्मृतेः । वयं तु प्रमाणवशादेव कर्म त्यजन्तो न व्यामू­ढ­प­क्ष­मा­द्रि­या­महे । तस्मा­न्नै­ष्कर्म्यं श्रुति­स्मृ­ति­प्र­सि­द्ध­म­प्र­त्या­ख्ये­य­मिति भावः ।

पक्षान्तरे नैष्क­र्म्यो­क्ते­र­मू­लत्वे स्थिते फलितमुपसंहरति –
तस्मादिति ।

यत्तु कैश्चि­दै­का­श्र­म्य­मा­श्रितं तत्प्रत्यादिशति –
एतेनेति ।
एकत्वविज्ञानेन भेद­प्र­त्य­य­स्यो­प­म­र्दि­त­त्वो­प­पा­द­ने­नेति यावत् । एकत्वविज्ञानं परोक्षं विवक्षितम् । अपरोक्षस्य पारि­व्रा­ज्य­म­न्त­रे­णा­यो­गात् । तस्यो­प­र­ति­श­ब्दि­तस्य शमा­दि­व­त्सा­ध­न­त्व­श्रु­ते­रिति द्रष्टव्यम् ।

गृहस्थस्य पारिव्राज्ये श्रुतिविरोधं शङ्कते –
नन्विति ।

ऐकात्म्यमेव सत्यं द्वैतमसत्यमिति विवेके जाते सत्य­ग्न्या­दे­र­व­स्तु­त्वा­ध्य­व­सा­या­त्त­द­भि­नि­वे­श­शै­थि­ल्यान्न तत्त्यागे दोषप्राप्तिरिति दूषयति –
न वेदेनेति ।

सम्यग्ज्ञाने सत्य­ग्न्या­दे­रु­त्स­न्नत्वे मानमाह –
अपागादिति ।

गृहस्थस्यापि विवेकवतो वैराग्यद्वारा युक्तं पारि­व्रा­ज्य­मि­त्याह –
अत इति ।
इतिशब्दो ब्रह्म­सं­स्थ­वा­क्य­व्या­ख्या­न­स­मा­प्त्यर्थः ॥१॥

किं तद्ब्र­ह्मे­त्या­का­ङ्क्षा­या­माह –
यत्संस्थ इति ।

लोकानामभितो दग्ध­त­याऽ­भि­ता­प­प्र­ति­भारां व्यवच्छिनत्ति –
ध्यानमिति ।

द्रवा­त्म­त्वा­भावे कथं प्रस्रवणं त्रय्याः स्यादि­त्या­श­ङ्क्याऽऽह –
प्रजापतेरिति ।

पूर्ववदिति ।
त्रयी­वि­द्या­सा­र­जि­घृ­क्ष­याऽऽ­लो­चि­त­वा­नि­त्यर्थः ॥२॥

कथं तस्य ब्रह्म­श­ब्द­वा­च्य­त्व­मि­त्या­शङ्क्य मह­त्त­र­त्वा­दि­त्याह –
कीदृशमित्यादिना ।

तत्र ब्रह्म­श­ब्द­प्र­वृत्तौ हेत्वन्तरं सूचयति –
परमात्मन इति ।

ओङ्का­रा­व­य­व­स्या­का­र­स्यापि सर्व­वा­ग्व्या­प्ति­रस्ति किमु वक्त­व्य­मो­ङ्का­र­स्येति मन्वानः श्रुत्य­न्त­र­मु­दा­ह­रति –
अकार इति ।
ओमितीदं सर्व­मि­त्या­दि­वा­क्य­मा­दि­प­दार्थः ।

ओङ्का­र­व्या­प्त­त्वेऽपि वाग्जातस्य न तस्य सर्वा­त्म­त्व­मा­का­शा­दि­प­र­मा­त्म­वि­का­रस्य पृथगेव विद्य­मा­न­त्वा­दि­त्या­श­ङ्क्याऽऽह –
परमात्मेति ।
सकलमपि जग­त्प­र­मा­त्म­वि­का­र­त्वा­त्त­द­ति­रे­केण नास्ति । स च प्रकृ­ता­दो­ङ्का­रा­न्ना­ति­रि­च्यते । “एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः”(प्र.उ. ५ । २) इति श्रुतेः । तस्मा­द्यु­क्त­मो­ङ्का­रस्य सर्वा­त्म­त्व­मि­त्यर्थः । ओङ्कारं सर्वात्मकं ब्रह्म­रू­प­मु­पा­सी­ते­ति­वि­धि­स­मा­प्त्यर्थः इतिशब्दः ।

किमि­त्यो­ङ्का­रस्य लोकादिद्वारा निष्प­त्ति­रु­च्यते तत्राऽह –
लोकादीति ।
स्तुति­श्चो­पा­स्त्यर्था । यत्स्तूयते तद्विधीयत इति स्थितेः । तथा च सिद्ध­मो­ङ्का­रो­पा­स­न­म­मृ­त­त्व­फ­ल­मिति वक्तुमितिशब्दः ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य त्रयोविंशः खण्डः ॥