अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: एकादशः खण्डः

तत्र विद्वदनुभवं प्रमाणयति –
तत्रेति ।
क्रममुक्तिः सप्तम्यर्थः । यथो­क्त­क्र­मेणा”सौ वा आदित्यो देव­म­ध्वि”त्या­दिना पञ्चामृतत्वेन स्थितमित्यर्थः । स्वमात्मानं वेद्यतया विद्व­दा­त्म­स­म्भू­त­मि­त्यर्थः । आत्म­त्वे­नो­पे­त्या­हं­ग्र­हेण गृहीत्वेत्येतत् ।

कथं प्रश्न इत्या­का­ङ्क्षा­या­माह –
यत इति ।
लब्ध­ब्र­ह्मो­प­देशो ब्रह्म­वि­द्यु­क्ता­व­स्थायां ब्रह्मणि स्थितः वियु­क्ता­व­स्थायां केनचित्पृष्टः प्रत्यु­वा­चे­त्यर्थः ।

कथं प्रत्युक्तिरिति तत्राऽऽह –
तत्तत्रेति ॥१॥

श्लोकमुपादाय व्याकरोति –
न वै तत्रेत्यादिना ।
निमु­म्लो­चे­त्य­स्मि­न्नर्थे निम्लोचेति च्छन्दसः प्रयोगः । इतिशब्दः पूर्वा­र्ध­व्या­ख्या­स­मा­प्त्यर्थः ।

उत्त­रा­र्ध­मु­त्था­प­यति –
उअदयास्तमयेति ।
लोक­त्वा­वि­शे­षा­दि­त­र­लो­क­व­द्ब्र­ह्म­लो­कोऽपि नोद­या­स्त­म­य­व­र्जित इत्युक्तो विद्वा­नु­त्त­रा­र्धेन शपथं कुर्व­न्प­रि­ह­र­ती­त्यर्थः ॥२॥

एवं मन्त्र­दृ­क्श­प­थ­द्वारा निर्णीतेऽर्थे न हेत्याद्या किमर्था श्रुति­रि­त्या­श­ङ्क्याऽऽह –
सत्यमिति ।

न हेत्याद्यां श्रुतिमादाय व्याचष्टे –
यथोक्तेति ।

ब्रह्मो­प­नि­ष­द­मि­त्य­स्या­र्थ­माह –
वेदगुह्यमिति ।

एवंशब्दमादाय व्याकरोति –
एवमित्यादिना ।
वंशादित्रयं तिरश्चीनवंशो मध्वपूपो मधु­ना­ड्य­श्चे­त्ये­वं­रू­प­मि­त्यर्थः । प्रत्य­मृ­त­स­म्बन्धं च लोहि­ता­द्य­मृ­ते­ष्वे­कै­क­व­स्वा­दीनां सम्ब­न्ध­मि­त्यर्थः । अन्य­दि­त्यु­द्य­म­न­सं­वे­श­नादि गृह्यते ।

उक्त­वि­द्या­फ­ल­मु­प­सं­ह­रति –
विद्वानिति ॥३॥

ननु विद्या सफला चेदुक्ता तर्हि किमु­त्त­र­ग्र­न्थे­ने­त्या­श­ङ्क्याऽऽह –
तद्धैतदिति ।

स्तुति­मे­वा­भि­न­यति –
ब्रह्मादीति ।
“तद्धै­त­दु­द्दा­ल­काय”(छा.उ. ३ । ११ । ४) इत्यादिना विद्यायां योग्यं पात्रं प्रदर्श्यते ।

तद्व्याचष्टे –
किंचेति ।
इतश्च स्तुत्य­र्ह­मे­त­द्वि­ज्ञा­न­मि­त्यर्थः ।

मधुविज्ञानं व्याकरोति –
ब्रह्म­वि­ज्ञा­न­मिति ॥४॥

तस्य परोक्षत्वं व्यावर्तयति –
इदं वावेति ।

अथ ज्येष्ठाय पुत्राय ब्रह्म वक्तव्यमिति पूर्वेषामयं नियमो नेदा­नीं­त­ना­ना­मि­त्यत आह –
अन्योऽपीति ।

पात्रा­न्त­र­म­नु­जा­नति –
प्रणाय्यायेति ॥५॥

पुत्र­शि­ष्याभ्यां पात्रान्तरं प्रत्याचष्टे –
नेति ।
तीर्थद्वयं विद्या­प्र­दा­नेऽ­धि­का­रि­द्व­य­मि­त्यर्थः । निर्धारणे षष्ठी । आचार्यो विद्यादाता । आदिपदाद्धनदायी श्रोत्रियो मेधावी च गृह्यते ।

सर्वे­षा­म­र्थि­ना­म­त्रा­धि­का­र­मा­शङ्क्य दूषयति –
कस्मादित्यादिना ।
आचार्यायेति पुनरुपादानं क्रियापदेन तस्या­न्व­य­द्यो­त­नार्थं विद्यायामादरो वा मुख्य­म­धि­का­र­का­रणं फलतीति भावः ॥६॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृती­या­ध्या­य­स्यै­का­दशः खण्डः ॥