अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: द्वादशः खण्डः

गतेन ग्रन्थे­नो­त्त­र­ग्र­न्थस्य गतार्थत्वं परिहरति –
यत इति ।
सवि­तृ­द्वा­र­क­ब्र­ह्म­वि­द्या­न­न्तरं तद्दे­व­ता­क­गा­य­त्री­द्वा­रेण तद्वि­द्यो­प­दि­श्यत इत्यर्थः ।

ब्रह्मविद्याया विवक्षितत्वे ब्रह्मै­वो­प­दि­श्यतां किं गाय­त्र्यु­प­दे­शे­ने­त्या­श­ङ्क्याऽऽह –
गायत्रीति ।

तथाऽपि च्छन्दोन्तराणि विहाय किमिति गायत्रीद्वारैव ब्रह्मोपदिश्यते तत्राऽऽह –
सत्स्विति ।
ब्रह्म­ज्ञा­न­द्वा­र­तया तदु­पा­य­त­ये­त्यर्थः ।

प्राधान्ये हेतुमाह –
सोमाहरणादिति ।
सोम­स्याऽऽ­ह­र­ण­मा­न­य­नम् । तत्र साधनत्वं गाय­त्री­छ­न्द­स्का­ना­मृचां याजकैरिष्यते । तद्युक्तं तस्या यज्ञे प्राधा­न्य­मि­त्यर्थः । यद्वा देवैः सोमा­ह­र­ण­मि­च्छ­द्भिः­छ­न्दसां गाय­त्री­त्रि­ष्टु­ब्ज­ग­तीनां तादर्थ्येन नियोगे जग­ती­त्रि­ष्टु­भो­र्म­ध्ये­मा­र्ग­म­शक्त्या निवृत्तौ गायत्री सोमं प्राप्य रक्षिणस्तस्य विजित्य तं देवेभ्यः समा­ह­र­दि­त्यै­त­रे­य­क­ब्रा­ह्मणे “सोमो वै राजाऽ­मु­ष्मिं­ल्लक आसीद्” इत्यत्र प्रसि­द्ध­म­त­स्त­त्प्रा­धा­न्य­मि­त्यर्थः ।

तत्रैव हेत्वन्तरमाह –
इतरेति ।
उष्णि­ग­नु­ष्टु­प्प्र­भृ­ती­नी­त­राणि च्छन्दांसि तेषां पादशोऽक्षराणि सप्ता­ष्टा­दि­सं­ख्या­कानि तेषा­मा­ह­र­ण­मा­पा­दनं गायत्र्यक्षरैः पादशः षड्भिः क्रिय­तेऽ­धि­क­सं­ख्याया न्यून­सं­ख्या­म­न्त­रे­णा­सं­भ­वा­त्त­स्मा­दि­त­रेषु च्छन्दःसु गायत्र्या व्याप्तेश्च प्राधा­न्य­मि­त्यर्थः । अथवा गाय­त्री­व्य­ति­रि­क्त­यो­स्त्रि­ष्टु­ब्ज­ग­ती­छ­न्दसोः सोमा­ह­र­णो­द्य­त­यो­र­श­क्त­यो­र्मा­र्ग­मन्ये जगत्या त्यक्तानि त्रीण्यक्षराणि त्रिष्टुभा त्वेकमक्षरम् । तत­श्चा­ष्टा­च­त्वा­रिं­श­द­क्षरा जगती पञ्च­च­त्वा­रिं­श­द­क्षरा संवृत्ता । चतु­श्च­त्वा­रिं­श­द­क्षरा त्रिष्टुप्च त्रिच­त्वा­रिं­श­द­क्षरा संवृत्ता । तत्र गायत्री सोममाहरन्ती त्यक्ता­ना­म­क्ष­रा­णा­मा­ह­र­णेन पूर्णतां तयोरापाद्य ते व्याप्य स्थिता तेन तत्प्रा­धा­न्य­मि­त्यर्थः ।

तत्रैव हेत्वन्तरमाह –
सर्वसवनेति ।
सर्वाणि प्रातःसवनं माध्यन्दिनं सवनं तृती­य­स­व­न­मि­त्ये­तानि तेषु गायत्र्या व्यापकत्वं मिश्रणं गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं जागतं तृतीयसवनमिति स्थितेऽपि त्रिष्टु­ब्ज­ग­त्यो­र्गा­य­त्री­व्या­प्ते­रु­क्त­त्वा­त्त­स्याश्च पादाभ्यां मुखेन च सोमाहरणद्वारेण सव­न­त्र­य­स­म्ब­न्धा­द­तश्च तस्या अस्ति यज्ञे प्राधा­न्य­मि­त्यर्थः ।

कर्मणि तत्प्रा­धा­न्येऽपि कुतो ब्रह्मविद्यायां तत्प्रा­धा­न्य­मि­त्या­श­ङ्क्याऽऽह –
गायत्रीति ।
ब्रह्मविद्यायां तत्प्रा­धा­न्य­मिति शेषः ।

गाय­त्री­मे­वाऽऽ­ल­म्ब­न­त्वेन प्रतिपद्यते ब्रह्मेत्यत्र लोक­प्र­सि­द्धि­म­नु­कू­ल­यति –
तस्यामिति ।

गायत्र्या ब्रह्म­ज्ञा­न­द्वा­र­त्वे­नो­पा­दा­न­मु­क्त­हे­तुभ्यः सिद्ध­मि­त्यु­प­सं­ह­रति –
अत इति ।

तथा “चेतो­र्प­ण­नि­ग­दात्”(ब्र.सू. १ । १ । २५) इति न्यायेन गायत्र्युपाधिकं ब्रह्मो­पा­स्य­मिति प्रतिजानीते –
गायत्रीति ।

निपातमादाय व्याचष्टे –
वा इति ।

अव­धा­र­ण­रू­प­मे­वार्थं स्फुट­य­न्नि­द­मि­त्यादि व्याकरोति –
इदमिति ।
तदिदं सर्वं गयत्र्येवेति योजना ।

गायत्र्याः सर्वा­त्म­क­त्वा­द्ब्रह्म दृष्ट्यो­पा­स्ति­र्यु­क्ते­त्युक्तं तत्रा­नु­प­प­त्ति­मा­श­ङ्क्या­न­न्त­र­वा­क्ये­नो(णो)त्त­र­माह –
तस्या इति ।

कथं वाचो गाय­त्री­त्व­मि­त्या­शङ्क्य तस्याः सर्वभूतसम्बन्धं दर्शयति –
वागिति ।

कुतो गायत्रीत्वं तत्राऽऽह –
यस्मादिति ।

भवत्वेवं वाचः स्वरूपं गायत्र्यास्तु किमायातं तदाह –
यद्वागिति ।

गाय­त्री­ना­म­नि­र्व­च­ना­दपि वाच्युक्तं रूपं गायत्र्यामेव द्रष्ट­व्य­मि­त्याह –
गानादिति ॥१॥

अस्ति हि वाचः सर्व­भू­ता­त्म­कत्वं तद्वा­च­क­त्वा­द्वा­च्यस्य च वाच­का­ति­रे­के­णा­नि­रू­प­णा­त्तथा च वाग्भूता गायत्री सर्व­भू­ता­त्मि­के­त्यु­क्त­मि­दानीं तस्या विधानान्तरमाह –
या वै सेति ।

एवंलक्षणत्वं व्याचष्टे –
सर्वेति ।

गायत्रीमनूद्य पृथिवीत्वं तस्य विहितं प्रश्न­पू­र्व­क­मु­प­पा­द­यति –
कथं पुनरपि ।

गायत्र्याः सर्व­भू­त­स­म्ब­न्ध­स्यो­क्त­त्वा­त्पृ­थि­व्या­स्त­त्स­म्बन्धं चोद्यपूर्वकं व्युत्पासयति –
कथमिति ।

सर्वस्य पृथिव्यां प्रतिष्ठितत्वं साधयति –
एतामेवेति ।

तथाऽपि कथं पृथिव्या गायत्रीत्वं तदाह –
यथेति ॥२॥

सम्प्रति गायत्र्याः शरीररूपत्वं निरूपयति –
या वा इति ।

गाय­त्र्या­त्मिकां पृथिवीमनूद्य तस्या गाय­त्री­श­री­र­यो­र­भेदे हेतुमाह –
पार्थिवत्वादिति ।

इदानीं गाय­त्री­श­री­र­यो­रे­कत्वं प्रश्नपूर्वकं कथयति –
कथमित्यादिना ।

प्राणानां शरीरे प्रतिष्ठितत्वं प्रकटयति –
एतदेवेति ॥३॥

अथ गायत्र्या हृदयत्वमावेदयति –
यद्वै तदिति ।

गाय­त्र्या­श्चै­कत्वं प्रश्नपूर्वकं विवृणोति –
एतदित्यादिना ।

हृदये प्राणानां प्रतिष्ठितत्वं प्रकटयति –
एतदेवेति ।

प्राणानां भूत­श­ब्द­वा­च्यत्वे तत्सम्बन्धे सति भूत­स­म्ब­न्धा­द्गा­यत्र्याः शरीरादिभावः सम्भवति तेषां भूत­श­ब्द­वा­च्यत्वे तु किं मान­मि­त्या­श­ङ्क्याऽऽह –
प्राणो हेति ।

अहिंसावाक्येऽपि प्राणपरं मारणं प्रतिषिध्यते तथाच भूतशब्दः (तत्र) प्रतीतिगोचरो भवत्येवेत्याह –
भूतेति ॥४॥

आध्यानशेषत्वेन गाय­त्र्या­श्च­तु­ष्पात्त्वं दर्शयति –
सैषेति ।

लक्षयित्वा तस्याः षड्विधत्वमनूद्य साधयति –
षड्विधेति ।

गायत्रीहृदययोः सर्व­भू­त­स­म्ब­न्ध­सि­द्ध्य­र्थ­मु­प­दि­ष्ट­यो­र्वा­क्प्रा­ण­यो­र्गा­य­त्री­प्र­भे­द­त्वेन कथं व्याख्या­न­मि­त्या­श­ङ्क्याऽऽह –
वाक्प्राणयोरिति ।
विधिपक्षे वाक्य­शे­ष­यो­गा­त्त­यो­रपि गाय­त्री­भे­द­त्व­मि­त्यर्थः । तदेतस्मिन्नर्थे वाग्भू­त­पृ­थि­वी­श­री­र­हृ­द­य­प्रा­ण­भे­दा­त्ष­ड्विधां गाय­त्री­म­नु­चि­न्त्या­ज­ह­ल्ल­क्ष­णया तद­व­च्छि­न्न­ब्र­ह्मत्वं तदनुचिन्तयेदिति तच्छेषत्वेनैव पूर्वोक्ते स्थिते सतीत्यर्थः । समस्तस्य पाद­वि­भा­ग­वि­शि­ष्ट­स्येति यावत् ॥५॥

विस्तारमेव विवृणोति –
यावानिति ।

“वाचारम्भणं विकारो नामधेयम्”(छा. उ. ६ । १ । ४) इति वाक्य­शे­ष­मा­श्रित्य विशिनष्टि –
वाचा­र­म्भ­ण­मा­त्रा­दिति ।

परमार्थसत्यत्वे हेतुमाह –
अविकार इति ।

तावानस्येत्यादि स्पष्टयति –
तस्येति ।
आदिपदेन वायु­रा­का­श­श्चे­त्यु­भ­य­मु­क्तम् ।

ततो ज्यायानित्यादि स्फुटयति –
त्रिपादिति ।
समस्तस्य प्रप­ञ्चा­त्म­क­स्ये­त्यर्थः । श्रुतावितिशब्दो मन्त्र­स­मा­प्त्यर्थः ॥६॥

यद्ब्रह्म गाय­त्र्य­व­च्छि­न्न­मु­पा­स्य­मुक्तं हृदयाकाशे तद्ध्येयमिति वक्तुं क्रमेण हृद­या­का­श­म­व­ता­र­यति –
यद्वै तदित्यादिना ॥७॥

एकस्याऽऽकाशस्य कथं त्रैवि­ध्य­मु­क्त­मिति शङ्कते –
कथमिति ।

औपा­धि­क­त्रै­वि­ध्य­म­वि­रु­द्ध­मिति परिहरति –
उच्यत इति ।
बाह्ये­न्द्रि­य­वि­ष­यत्वं तद्वि­ष­य­श­ब्दा­द्या­श्र­यत्वं स्वप्नस्थानभूते नभसीति सम्बन्धः । “न कञ्चन”(बृ.उ. ४ । ३ । १९) इत्यादिना निषेधद्वयेन पूर्व­प्र­का­र­म­व­स्था­द्वयं निषिध्यते ।

निषेधफलमाह –
अत इति ।
सर्वदुःखं स्थूलं वासनामयं च तन्निवृत्त्या निरूप्यमाणं हृद­या­का­श­मि­त्यर्थः ।

औपा­धि­क­त्रै­वि­ध्य­मु­प­सं­ह­रति –
अत इति ।

तथाऽपि किमित्यनेन क्रमेणाऽऽकाशस्य सङ्कोचो हृदये क्रियते तत्राऽऽह –
बहिर्धेति ।

स्थान­स्तु­ति­मु­दा­ह­र­णेन स्फुटयति –
यथेति ।
अत्र कुरु­क्षे­त्र­म­र्ध­तोऽ­र्ध­स्था­नीयं पृथूदकमपि तथेति द्विदलयुगलमिव तदुभयं लोकत्रयापेक्षया विशि­ष्ट­त­र­मि­त्यर्थः ।

हृदयाकाशे चेतः समाधीयते चेत्ततश्चात्र परिच्छिन्नं ब्रह्म प्राप्त­मि­त्या­श­ङ्क्याऽऽह –
तदेतदिति ।

पूर्णत्वेन जन्म­ना­श­शू­न्यत्वं सिध्यतीत्याह –
अप्रवर्तीति ।

प्रधानफलत्वं व्यावर्तयति –
गुणफलमिति ।
दृष्टफलवते स्वर्गाप्तिरिति दृष्ट­मि­त्यु­क्तम् ।

ज्ञानमेव विशिनष्टि –
इहैवेति ।
वर्तमानो देहः सप्तम्यर्थः । यो विद्वानेवं स तथोक्तं फलं लभत इति सम्बन्धः ॥९॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृतीयाध्यायस्य द्वादशः खण्डः ॥