आनन्दगिरिटीका (छान्दोग्य)
तृतीयोऽध्यायः: सप्तदशः खण्डः
ननु पूर्वेणाऽऽशीर्वादप्रयोगेणोदाहरणेनैव समनन्तरग्रन्थस्य सम्बन्धो नोपलभ्यते तत्राऽऽह –
स यदिति ।
पूर्वेण तस्य यानि चनुविंशतिवर्षाणीत्यादिना सादृश्यनिर्देशेनेत्यर्थः । एवंजातीयकमशनायादिकृतमिति यावत् ।
अशिशिषादिषु दीक्षादृष्टौ हेतुमाह –
दुःखेति ॥१॥
दीक्षावचनसादृश्यात्पुरुषस्य यज्ञत्वमुक्तमिदानीमुपसदुपेतत्वसादृश्यादपि तस्य यज्ञत्वं विज्ञेयमित्याह –
अथेति ।
अशनादिषु कथमुपसद्दृष्टिस्तत्राऽऽह –
उपसदां चेति ।
पयोव्रतत्वं पयोभक्षणयुक्तत्वम् । यज्ञे यान्यहाल्पभोजनीयानि प्रसिद्धानि तानि चोपसत्सु क्रियमाणान्याश्वासन्नानीति तासु प्रश्वासः स्वास्थ्यविशेषः । अशनादिषु च सोऽस्तीति प्रसिद्धमिति भावः । सुखनिमित्तत्वं क्लेशनिवृत्तिहेतुत्वं च सामान्यम् ॥२॥
स्तुतशस्त्रवैशिष्ट्यसाम्यादपि पुरुषस्य यज्ञत्वमित्याह –
अथ यदिति ।
हासादिषु स्तुतशस्त्रदृष्टौ हेतुमाह –
शब्दवत्त्वेति ॥३॥
दक्षिणावत्त्वसाम्यादपि पुरुषस्य यज्ञत्वमवधेयमित्याह –
अथेति ।
तपोदानादिषु दक्षिणादृष्टौ हेतुमाह –
धर्मेति ॥४॥
प्रकारान्तरेण पुरुषस्य यज्ञत्वं साधयति –
यस्माच्चेति ।
“षूङ् प्राणिप्रसवे” “षुञ् अभिषवे” इति धातुद्वयदर्शनात्प्रसवे कण्डने च साधारणः सवनशब्दस्ततः सवनशब्दवत्त्वसामान्याद्वा पुरुषे यज्ञदृष्टिः कर्तव्येत्यर्थः ।
पुरुषगतं शब्दसामान्यं विशदयति –
पुनरिति ।
यत्पुनरस्य पुरुषाख्यस्य विधियज्ञस्येव सोष्यतीत्यादिशब्दसम्बन्धित्वं तदुत्पादनमेव तदिति योजना ।
अवभृथसम्बन्धित्वादपि पुरुषस्य यज्ञत्वमस्तीत्याह –
किंचेति ॥५॥
पुरुषे यज्ञदृष्टिरुक्ता सम्प्रति विशिष्टपुरुषसम्बन्धेन विद्यां स्तोतुं विद्याङ्गं च जपं विधातुमुपक्रमते –
तद्धैतदिति ।
देवकीपुत्रस्यैतद्दर्शनश्रवणफलमाह –
स चेति ।
किमर्थेयं गुरुशिष्याख्यायिकेत्याह –
इत्थं चेति ।
अक्षितमसीति कीदृशीं देवतां प्रत्युच्यते तत्राऽऽह –
सामर्थ्यादिति ।
निकृष्टस्य स्तुतिसम्बन्धायोगात्पुरुषयज्ञे सवनदेवतान्तरानुपपत्तेश्च प्राणानामेवाऽऽधिदैविकं रूपमादित्याख्यं जप्यमन्त्रार्थत्वेन सम्बध्यत इत्यर्थः ।
द्वितीयमन्त्रस्यार्थान्तरं वारयति –
तथेति ।
प्रथममन्त्रवदित्यर्थः । न च द्वयोरेकार्थत्वे सत्यन्यतरस्य वैयर्थ्यं द्वयोरपि जप्यत्वेनोपयुक्तत्वादिति द्रष्टव्यम् ।
मन्त्रत्रयप्रतिपाद्यं सावित्रं तत्त्वमृग्भ्यामपि प्रतिपादितमिति प्रत्ययदार्ढ्यार्थमाह –
तत्रेति ।
किमिति विद्यास्तुतिपरत्वमनयोरिष्यते जपार्थत्वमेव किं न स्यात्तत्राऽऽह –
नेत्यादिना ।
अनयोर्जपार्थत्वेऽपि त्रित्वसंख्यायाःसत्त्वान्न सा बाध्येत्याशङ्क्याऽऽह –
पञ्चेति ।
अनयोर्जप्यत्वे पञ्चकं प्रतिपद्येतेति पञ्चसंख्याया वक्तव्यत्वात्त्रित्वं बाधितं स्यादित्यर्थः ॥६॥
“आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि” इति मन्त्रस्य प्रतीकग्रहणमादित्प्रत्नस्य रेतस इति, तत्पदच्छेदपूर्वकं व्याचष्टे –
आदित्यादिना ।
इच्छब्दश्चानर्थक इति पूर्वेण सम्बन्धः ।
किं तत्कारणमित्यपेक्षायां सदेव सोम्येदमित्यादिश्रुतिसिद्धं ब्रह्मेत्याह –
सदाख्यस्येति ।
आनन्दं ब्रह्मणो विद्वानितिवत्प्रत्नस्य ज्योतिरिति सम्बन्धो द्रष्टव्यः । उत्सृष्टानुबन्धो ध्वस्ततकारः स इति यावत् ।
ननु ब्रह्मस्वरूपभूतमेतज्ज्योतिर्नैव सर्वे पश्यन्तो दृश्यन्ते तत्राऽऽह –
निवृत्तचक्षुष इति ।
निवृत्तानि विमुखीकृतानि विषयेभ्यश्चक्षूंषि करणानि येषां ते तथा । अत एव ब्रह्मविदः, “कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्”(क.उ. २ । ४ । १) इति श्रुत्यन्तरम् ।
तत्रैवोपायान्तरं सूचयति –
ब्रह्मचर्यादीति ।
“स्मरणं कीर्तनं केलिः प्रेक्षणं गृह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥”(अ.पु. ३७२) [इत्युक्तं] ब्रह्मचर्यम् । आदिपदेनाहिंसाऽस्तेयादयो गृह्यन्ते । एतैर्निवृत्तिप्रधानैः साधनैः शुद्धमुद्दीपितमन्तःकरणं येषां ते तथा ।
व्यत्यये हेतुमाह –
ज्योतिष्परत्वादिति ।
यत्स्वमहिमप्रतिष्ठितं दीप्यते तत्परं ज्योतिरिति सम्बन्धः ।
दीप्यमानत्वं विवृणोति –
येनेति ।
मन्त्रान्तरमवतारयति –
किञ्चेति ।
इतश्च विद्यास्तुत्यर्थेति यावत् ।
किमाहेत्यपेक्षायां द्वितीयं मन्त्रमादत्ते –
उद्वयमिति ।
तं व्याकरोति –
तमस इत्यादिना ।
तस्यैव ज्योतिषः प्रभाने ज्योतिर्नान्यदस्तीत्यर्थः ।
देवत्वेन प्रत्यगात्मत्वमाह –
स्वरिति ।
तयोरेकत्वं “स यश्चायम्”(तै.उ. २ । ८ । ५) इत्यादिषु श्रुत्यन्तरसिद्धं दर्शयति –
आदित्यस्थमिति ।
तत्पदार्थं त्वंपदार्थं चोक्त्वा तयोरैक्यमुक्तमिदानीमेकीभूतं ज्योतिर्विशिनष्टि –
यदुत्तरमिति ।
एकत्वधीफलं कथयति –
पश्यन्त इति ।
फलमेव प्रश्नपूर्वकं विवृणोति –
किमित्यादिना ।
फलविषयं स्वानुभवं दर्शयति –
अहो इति ।
मन्त्राणां मन्त्रयोश्चैकवाक्यत्वमुपसंहरति –
इदं तदिति ॥७॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य सप्तदशः खण्डः ॥