अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: अष्टमः खण्डः

इत­रा­मृ­त­ध्या­यिनां फलानि निर्दिशति –
तथेति ।
विपर्ययेण पुर­स्ता­द्द­क्षि­ण­तोऽ­ध­स्ता­च्चे­त्यर्थः । यथा पुरस्तादुदेता पश्चा­च्चा­स्त­मेता ततो दक्षिणतो द्विगुणेन काले­नो­दे­तो­त्त­र­त­श्चा­स्त­मे­ते­त्यु­क्तम् । तथा ततो द्विगुणेन कालेन पश्चादुदेता पुर­स्ता­च्चा­स्त­मेता तावानादित्यानां भोगकालः । तृती­या­मृ­त­ध्या­यि­ना­मपि तावानेव भोगकालः । ततो द्विगुणेन कालेन यावदादित्य उत्तरत उदेता दक्षि­ण­तोऽ­स्त­मेता तावान्मरुतां भोगकालः । चतु­र्था­मृ­त­ध्या­यि­ना­मपि तावानेव भोगकालः । ततो द्विगुणेन काले­नो­र्ध्व­मु­दे­ताऽ­ध­स्ता­द­स्त­मेता तावान्साध्यानां भोगकालः पञ्च­मा­मृ­त­चि­न्त­का­ना­मपि तावानेवेत्यर्थः ।

यत्पू­र्व­पू­र्वो­द­या­स्त­म­य­का­ला­पे­क्षया द्विगुणेन काले­नो­त्त­रो­द­या­स्त­म­या­वि­त्युक्तं तत्पु­रा­ण­वि­रु­द्ध­मिति शङ्कते –
पूर्व­स्मा­त्पू­र्व­स्मा­दिति ।

कथं श्रुत्यु­क्त­स्या­र्थस्य पुरा­ण­वि­रु­द्ध­ते­त्या­श­ङ्क्याऽऽह –
सवितुरिति ।

उक्तमेव संक्षिपति –
मानसोत्तरस्येति ।
महागिरेर्मेरोः प्राकारवत्परितः स्थितस्य मूर्धनि संलग्नरथचक्रस्य सवितुर्मेरोः प्रद­क्षि­णा­वृ­त्ते­स्तु­ल्य­त्वा­त्का­ला­धिक्ये कारणाभावाच्च चतसृष्वपि पुरी­षू­द­या­स्त­म­य­का­लस्य तुल्यत्वम् । उक्तं हि विष्णुपुराणे - “शक्रादीनां पुरे तिष्ठ­न्स्पृ­श­त्येष पुरत्रयम् । विकर्णौ द्वौ विक­र्ण­स्थ­स्त्री­न्को­णान्द्वे पुरे तथा ॥”(वि.पु. २ । ८ । १६) इति लैङ्गे चोक्तम् – “मानसोपरि माहेन्द्री प्राच्यां मेरोः स्थिता पुरी । दक्षिणे भानुपुत्रस्य वरुणस्य तु वारुणी ॥ सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः । अमरावती संयमिनी सुखा चैव विभा क्रमात् ॥ लोक­पा­लो­प­रि­ष्टात्तु सर्वतो दक्षिणायने । काष्ठां गतस्य सूर्यस्य गतिर्या तां निबोधत ॥ दक्षिणां प्रक्रमेद्भानुः क्षिप्तेषुरिव धावति । पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः ॥ सर्वैः सायमनैः सौरो ह्युदयो दृश्यते द्विजाः । स एवं सुखवत्यां तु निशा­न्त­स्त­त्प्र­दृ­श्यते ॥ अस्तमेति यदा सूर्यो विभायां विश्वदृग्विभुः । मया प्रोक्तोऽ­म­रा­वत्यां यथाऽसौ वारितस्करः ॥ तथा संयमिनीं प्राप्य सुखां चैव विभां खगः । यदाऽ­प­रा­ह्ण­स्त्वा­ग्नेय्यां पूर्वाह्णो नैर्ऋते द्विजाः ॥ तदा स्वपररात्रश्च वायुभागे सुदारुणः । ऐशान्यां पूर्वरात्रस्तु गतिरेषाऽस्य सर्वतः ॥”(लिं.पु. ५४ । २-१०) इति तथा चोप­रि­ष्टा­द­म­रा­व­त्या­स्ति­ष्ठ­न्म­ध्याह्नं तत्रे­श­को­ण­स्थानां तृती­य­या­म­मा­ग्ने­य­को­ण­स्था­ना­मा­द्य­यामं संयमिन्यामुदयं च करोति सविता । एवं यदा याम्ये मध्याह्ने तिष्ठति तदै­न्द्रेऽ­स्त­मयः । आग्नेये तृतीययामः । निरृतिकोणे प्रथमो यामः । वारुण उदयः । यदा च वारुणे मध्याह्नस्तदा याम्येऽस्तमयः । निरृतिकोणे तृतीयो यामः । वायव्ये प्रथमयामः । सौम्य उदयः । यदा च सौम्ये मध्याह्नस्तदा वारुणेऽस्तमयः । वायव्ये तृतीययामः । ईशानकोणे प्रथमो यामः । ऐन्द्र उदयः । तथाऽऽग्नेये कोणे वर्त­मा­न­स्त­त्र­त्यानां मध्यन्दिनं यमे­न्द्र­पु­र्यो­रा­द्य­तृ­ती­य­यामौ निरृ­ती­शा­न­को­ण­यो­रु­द­या­स्त­मयौ च करोति । एवं सर्वासु दिक्षु विदिक्षु चेति पौराणिके दर्शने तद्विरुद्धमिदं श्रुत्यो­क्त­मि­त्यर्थः ।
यद्यपि श्रुतिविरोधे स्मृतिरप्रमाणं तथाऽपि यथा­क­थ­ञ्चि­द्वि­रो­ध­प­रि­हारं द्रवि­डा­चा­र्यो­क्त­मु­प­पा­द­यति –
अत्रेति ।
यदाऽमरावती शून्या स्यात्तदा हि तां प्रति पुर­स्ता­दु­दे­ती­ति­प्र­यो­ग­शू­न्य­त्वा­द्व­सूनां भोगान्तः । एवमुत्तरासां पुरीणां विनाशे द्विगुणकालेन रुद्रादीनां भोगच्युतिः ।

अत इमां वच­न­व्य­क्ति­मा­श्रित्य तमेव परिहारमाह –
अम­रा­व­त्या­दी­ना­मिति ।

तथाऽपि कथं विरो­ध­स­मा­धि­स्त­त्राऽऽह –
उदयश्चेति ।
तदुक्तम् - “यैर्यत्र दृश्यते भास्वन्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तदेवास्तमनं रवेः । नैवा­स्त­म­न­म­र्कस्य नोदयः सर्वदा सतः । उदयास्तमने नाम दर्शनादर्शने रवेः ॥” इति अम­रा­व­त्या­दि­पु­रीषु पूर्व­पू­र्वा­पे­क्ष­यो­त्त­रो­त्त­रो­द्वा­स­का­ल­द्वै­गु­ण्य­मस्तु । स्तां च दर्शनादर्शने सवि­तु­रु­द­या­स्त­मयौ ।

स वा एष न कदाचनास्तमेति नोदेतीति श्रुतेर्वस्तुतो नोदयास्तमयौ स्तस्तथा च पुरीषु तुल्यत्वेन गच्छतः सवि­तु­रु­द­या­स्त­म­य­का­ल­वै­ष­म्य­म­यु­क्त­मि­त्या­श­ङ्क्याऽऽह –
तन्निवासिनां चेति ।
भोग­का­ल­द्वै­गुण्यं न सवि­तृ­ग­ते­रा­धि­क्या­पे­क्षया श्रुत्योच्यते येन पुराणविरोधः किं त्वम­रा­व­त्या­दीनां पुरीणां दैत्योपहतानां पूर्व­पू­र्वा­पे­क्ष­यो­त्त­रो­त्त­र­पु­रीणां द्विगुणेन काले­नो­द्वा­सा­त्त­द­पे­क्ष­यो­त्त­रो­त्त­र­स्था­नेषु भोगकाले द्वैगुण्यं श्रुत्योक्तमिति भावः ।

अथो­द्वा­स­का­ला­धि­क्या­द्भो­ग­च्यु­ति­का­ला­धिक्यं न भोगकालाधिक्यमत आह –
तथेति ।
यथो­द्वा­स­का­ल­द्वै­गु­ण्य­मुक्तं तद्वदिति यावत् । अम­रा­व­ती­नि­वा­सि­प्रा­णि­व­र्गा­पे­क्षया संयमिनीनिवासिनः प्राणिनः प्रति द्विगुणेन कालेन सवि­तु­रु­द­या­स्त­म­या­विति युक्तं च वक्तुम् । दर्श­ना­द­र्श­न­यो­र्द्वि­गु­ण­का­ल­भा­वि­त्वात् । न च तन्नि­वा­सि­दृ­ष्ट्य­पे­क्षया दक्षि­णो­त्त­र­यो­रु­द­या­स्त­मयौ । तत्तद्दृष्ट्या पूर्व­प­श्चि­म­यो­रेव तद्भावात् । अस्म­द्बु­द्धि­म­पेक्ष्य तु दक्षिणत उदे­त्यु­त्त­र­त­श्चा­स्त­मे­ती­त्यु­च्यते । इव­श­ब्द­स्त­यो­स्त­न्नि­वा­सि­ज­ना­पे­क्षया दक्षि­णो­त्त­र­स्थ­यो­र­सत्वं द्योतयतीत्यर्थः ।

यथाऽ­म­रा­व­त्य­पे­क्षया संय­मि­न्या­मु­द्वा­स­का­ला­धि­क्य­मुक्तं तथा तदपेक्षया वारुण्यां तदपेक्षया वारुण्यां तदपेक्षया च विभायां तत्का­ला­धि­क्य­म­व­धे­य­मि­त्याह –
तथेति ।
संयमिनीं चान्तर्भाव्य बहुवचनम् ।

इत­श्चा­स्म­द्बु­द्धि­म­पेक्ष्य दक्षि­ण­ग­त्या­दि­नाऽ­स्त­म­न­मि­त्याह –
सर्वेषां चेति ।
उद्यन्तमादित्यं पुरतोऽवलोकयतां वामभागे स्थित­त्वा­न्मेरुः सर्वे­षा­मे­वो­त्त­रतो भवति । तथा­चो­द­या­स्त­म­याभ्यां पूर्वा­प­र­दि­ग्वि­भा­गान्न तत्पु­र­वा­सि­दृ­ष्ट्य­पे­क्षया दक्षिणत इत्यादिवचनं किन्त्व­स्म­द्दृ­ष्ट्य­पे­क्ष­यै­वे­त्यर्थः । उद्वा­स­का­ल­द्वै­गु­ण्या­पे­क्षया भोग­का­ल­द्वै­गु­ण्य­मि­त्यु­क्तम् ।

संप्रति सवि­तृ­ग­त्या­धि­क्या­पे­क्ष­यैव भोगकालाधिक्यं किं न स्यादि­त्या­शङ्क्य पुरा­ण­वि­रो­ध­स­मा­धा­ना­स­म्भ­वा­न्मै­व­मि­त्याह –
यदेत्यादिना ।

यथा संयमिन्यां मध्याह्नगो वारु­ण्या­मु­द्य­न्भ­वति तथा तस्यां मध्याह्नगो विभा­या­मु­द्य­न्दृ­श्यत इत्याह –
तथेति ।
उक्तं च वायुप्रोक्ते - “मध्य­ग­त­स्त्व­म­रा­वत्यां यावद्भवति भास्करः । वैवस्वते संयमन उदयंस्तत्र दृश्यते ॥ सुखा­या­म­र्ध­रा­त्रश्च विभायामस्तमेति च ॥” इति कथं पुनः स यावदादित्य उत्तरत उदेता दक्षि­ण­तोऽ­स्त­मेता द्विस्ता­व­दूर्ध्वं उदे­ताऽ­र्वा­ङ­स्त­मे­ते­त्यु­च्यते ।

न हि तत्रो­द्वा­स­का­लस्य वाऽधिकत्वमस्ति येनो­द­या­स्त­म­य­का­ला­धि­क्या­द्भो­ग­का­ला­धिक्यं स्यादत आह –
इलावृतेति ।
नेरो­श्च­तु­र्दि­श­भि­ला­वृतं नाम वर्षं प्रसिद्धम् । तन्निवासिनां प्राणिनामुभयतः पर्वताभ्यां मान­सो­त्त­र­सु­मे­रुभ्यां प्राका­र­स्था­नी­या­भ्या­मु­भ­यो­र्ध्व­स्थि­त­म­हा­क्षेण विनि­वा­रि­ता­दि­त्य­र­श्मी­ना­मू­र्ध्व­मु­दे­ताऽ­र्वा­ङ्स्त­मेता च सविता दृश्यते । इव­श­ब्द­स्तू­द­या­स्त­म­य­यो­र्व­स्तु­तोऽ­स­त्त्व­द्यो­त­नार्थ इत्यर्थः ।

कथं सवितोर्ध्वः सन्नु­दे­त्य­र्वा­ङ­स्त­मेति तत्राऽऽह –
पर्वतेति ।
सर्वा­वृ­त­प्र­का­शस्य पर्वतयोरुपरितने छिद्रे प्रवे­शा­द­धो­व­र्तिनां प्राणि­ना­मु­प­रि­प्र­सा­रि­त­ने­त्राणां सावित्रं प्रकाशं पश्यतां तत्रोद्यन्निव सवितोपलभ्यते प्रदेशान्तरे च दृश्य­मा­नोऽ­ध­स्ता­दि­वा­स्त­मेति । यथो­प­रि­ष्टा­द­त्र­त्यै­रु­प­ल­भ्य­मानो मेघस्ततो दूराद्दृशो भूत­ल­ल­ग्न­श्चे­त्ये­वा­व­सी­यते तथेहापीत्यर्थः ।

भोग­का­ल­स्या­वि­रो­धे­नाऽऽ­धि­क्य­मा­पाद्य तेनैव लिङ्गे­ना­ति­श­य­व­त्त्व­म­मृ­ता­दे­रपि कथयति –
तथेति ।
भोगकालाधिक्ये सतीति यावत् । अनुमीयते कल्प्यते ।

यत्तु भोग­का­ल­मा­क­ल­य्यो­द्य­मनं तदभावं ज्ञात्वो­प­र­म­ण­म­ग्न्या­दि­मु­खत्वं दृष्टिमात्रेण तृप्तिमत्त्वं तत्सर्वं विदुषोऽपि कल्प्यते देवैः सममित्याह –
उद्यमनेति ॥१-४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृतीयाध्यायस्य अष्ट­म­न­व­म­द­श­खण्डाः ॥

पञ्चभिः पर्या­यै­र्म­धु­विद्या यथावदुक्ता । क्रमेण मुक्ति­फ­ल­प­र्य­व­सा­यित्वं तस्या दर्श­यि­तु­म­न­न्त­र­वा­क्य­म­व­रु­ध्याऽऽह –
कृत्वेत्यादिना ।
तस्मा­त्प्रा­ण्य­नु­ग्र­ह­का­ला­द­न­न्त­र­मिति तच्छब्दार्थः । ऊर्ध्वः सन्ब्रह्मीभूतो वर्तमान इति यावत् । आत्मन्युदेत्य स्वमहिम्नि प्रकाशं लब्ध्वेत्येतत् । स्थाते­ति­प्र­यो­गा­त्क्र­म­मु­क्ति­रत्र विवक्षिता ।