अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: षोडशः खण्डः

पूर्वो­त्त­र­ग्र­न्थ­यो­र­स­ङ्ग­ति­मा­शङ्क्य प्रासङ्गिकीं सङ्गतिमाह –
रहस्यप्रकरण इति ।
रहस्यमुपासनं तत्प्रकरणे विदुषां फलप्राप्तये मार्गो­प­दे­श­प्र­स­ङ्गेन यज्ञस्य समा­प्ति­ग­म­ना­या­न­न्त­र­ग्र­न्थेन मार्गो­प­दे­शा­दस्ति सङ्गतिरित्यर्थः ।

किञ्च पूर्वो­त्त­र­ग्र­न्थ­यो­रा­र­ण्य­क­त्वेन समानत्वादपि सङ्ग­ति­र­स्ती­त्याह –
आरण्यकत्वेति ।

किञ्चाग्निविषया विद्या प्रकृता यज्ञे च सिद्धेऽ­ग्नि­स­म्बन्धे यदि किमपि क्षतमुत्पद्यते तदा प्राय­श्चि­त्तार्था व्याहृतयो विधातव्या इत्य­न­न्त­र­ग्र­न्थ­प्र­वृ­त्ति­रिति सङ्गत्यन्तरमाह –
यज्ञ इति ।
प्रकृ­ता­या­मु­पा­स­नायां मौनमङ्गीक्रियते वाग्व्यापारे विक्षि­प्त­चि­त्त­तया ध्याना­नु­ष्ठा­ना­सिद्धेः ।

ऋत्विग्विशेषस्य च प्राय­श्चि­त्ता­भि­ज्ञस्य मौनमत्र विधीयते तेनास्ति मिथः सङ्गतिरित्याह –
तदभिज्ञस्येति ।

यज्ञस्य देवतोद्देशेन द्रव्य­त्या­गा­त्म­क­त्वा­त्क्रि­या­याश्च क्षणभङ्गिन्या गति­म­त्त्वा­यो­गा­न्मा­र्गो­प­दे­शा­स­म्भ­वा­त्क­थ­माद्या सङ्ग­ति­रि­त्या­शङ्क्य गतिमत्त्वं सम्पादयितुं यज्ञस्य वायुरूपत्वमाह –
एष इत्यादिना ।

यज्ञो वाय्वात्मक इति श्रौती प्रसि­द्धि­स्ता­मेव प्रकटयति –
वायुप्रतिष्ठ इति ।

श्रुतीरुदाहरति –
स्वाहेति ।
स्वाहा­का­र­मु­च्चार्य वाते वायौ धीयते क्षिप्यत इति वातेधा यज्ञः ।

श्रुत्यन्तरमाह –
अयमिति ।
आदिशब्देन “वाताद्यज्ञः प्रयुज्यताम्”(तै.ब्रा. ३ । ७ । ४ । २४) इति श्रुतिर्गृह्यते ।

आद­र्शि­त­श्रु­ती­ना­मर्थं संगृह्णाति –
वात इति ।
यो यज्ञः क्रियासमवायी तत्समुदायात्मकः स वायुरेव । द्वयो­श्च­ल­ना­त्म­क­त्वा­वि­शे­षात् । तस्मा­द्वा­यु­प्र­ति­ष्ठ­स्त­दा­त्मको यज्ञ इत्यर्थः ।

वायुप्रतिष्ठो यज्ञ इत्यत्र श्रुत्यन्तरमाह –
वात एवेति ।

पव­न­त्व­श्रु­त्याऽपि वायु­य­ज्ञ­यो­रे­क­त्व­माह –
एष ह यन्निति ।

विनाऽपि वायुं शुद्धिः सिद्ध्य­ती­त्या­श­ङ्क्याऽऽह –
न हीति ।
अचलतो विहि­त­क्रि­या­म­न­नु­ति­ष्ठत इति यावत् । शुद्धिर्नाम दोषनिरासः । स च निषिद्धं परित्यक्तुं यतमानस्य सिद्ध्यति । न तु निषि­द्ध­क्रि­या­त्या­गो­दा­सी­नस्य दोषनिरासात्मिका शुद्धिः सम्भवति ।

चलनं च वायुः । तस्माद्वायुरेव चलनद्वारा सर्वं जगत्पुनातीत्याह –
दोषेति ।

वायोरस्तु पावनत्वं प्रकृते किमा­या­त­मि­त्या­श­ङ्क्याऽऽह –
यद्यस्मादिति ।

वाय्वात्मना गतिविशिष्टस्य यज्ञस्य मार्ग­द्व­य­मु­प­दि­शति –
तस्येति ।
एवं विशिष्टस्य पावनस्य वायुरूपस्येति यावत् ।

यज्ञ­स्यो­क्त­मा­र्ग­द्व­य­वै­शिष्ट्ये सोप­स्का­र­मै­त­रे­य­वा­क्य­मु­दा­ह­रति –
प्राणेति ।
प्राणा­पा­ना­भ्या­मु­च्छ्वा­स­नि­श्वा­साभ्यां परिचलनं विद्यते यस्यास्तस्या वाचश्चित्तस्य च पूर्वा­प­र­भा­व­क्र­मेण यज्ञः सम्पाद्यते । मनसा हि ध्याय­न्वा­च­म­भि­व्या­ह­र­न्पू­र्वा­प­री­भा­वेन यज्ञं सम्पदयतीत्यर्थः ।

यज्ञस्य मार्ग­द्व­य­वि­शि­ष्ट­त्व­मु­प­सं­ह­रति –
अत इति ॥१॥

तयो­र­न्यो­न्य­मु­प­का­र्यो­प­का­र­क­भावं दर्शयति –
तयोरिति ।
वाचा सम्य­क्प्र­यु­क्त­येति शेषः ।

संस्कृतायां च वाग्वर्तन्यां तयैव यज्ञो निष्पन्नो भवतीत्याह –
वाचैवेति ।

किं तर्हि मनोवर्तन्या संस्क्रियत इत्याशङ्क्याऽऽह –
तत्रेति ।
यज्ञस्य द्वाभ्यां मार्गाभ्यां नीयमानत्वे पूर्वोक्तरीत्या स्थिते सतीति यावत् ।

मनोवर्तन्याः संस्काराभावे प्रत्यवायं दर्शयति –
अथेत्यादिना ।
मनोवर्तनी ब्रह्मणा वाग्वर्तनी च होतृप्रभृतिभिः संस्कार्येति व्यव­स्था­न्त­र­मि­त्यर्थः ।

स ब्रह्मेत्यन्वयं सूचयति –
ब्रह्मेति ।
पुनरुक्तिस्तस्य क्रियापदेन सम्ब­न्ध­द्यो­त­नार्था । एतस्मिन्नन्तरे काले प्रात­र­नु­वा­क­श­स्त्र­मा­रभ्य तत्प­रि­स­मा­प्ते­र­न्त­रा­व­स्था­या­मि­त्यर्थः ।

वाचो होत्रादिभिः संस्का­र्य­त्व­मस्तु, मनसश्च ब्रह्म­सं­स्का­र्यत्वं मा भूदेतावता यज्ञस्य किमा­या­त­मि­त्या­श­ङ्क्याऽऽह –
स यज्ञ इति ।

यज्ञ­भ्रं­श­मे­वाऽऽ­का­ङ्क्षा­द्वारा व्युत्पादयति –
कथमित्यादिना ।

नाशेऽपि यज्ञस्य यजमानस्य किमा­या­त­मि­त्या­श­ङ्क्याऽऽह –
यज्ञप्राणो हीति ।
वाग्व­र्त­नी­सं­स्का­रा­भा­वेऽपि तुल्यो दोषः ॥२ -३॥

मौनगुणं दर्शयति –
अथ पुनरिति ।
तथैव सम्यगनुष्ठातार इति यावत् ।

तथा ब्रह्मा चान्ये चर्त्विजो द्वे वर्तन्यौ संस्कु­र्व­न्त्ये­वे­त्याह –
नेति ।

वर्त­नी­द्व­य­सं­स्कारे किं स्यादि­त्य­पे­क्षा­या­माह –
एवमिति ॥४ -५॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतुर्थाध्यायस्य षोडशः खण्डः ॥