आनन्दगिरिटीका (छान्दोग्य)
चतुर्थोऽध्यायः: षोडशः खण्डः
पूर्वोत्तरग्रन्थयोरसङ्गतिमाशङ्क्य प्रासङ्गिकीं सङ्गतिमाह –
रहस्यप्रकरण इति ।
रहस्यमुपासनं तत्प्रकरणे विदुषां फलप्राप्तये मार्गोपदेशप्रसङ्गेन यज्ञस्य समाप्तिगमनायानन्तरग्रन्थेन मार्गोपदेशादस्ति सङ्गतिरित्यर्थः ।
किञ्च पूर्वोत्तरग्रन्थयोरारण्यकत्वेन समानत्वादपि सङ्गतिरस्तीत्याह –
आरण्यकत्वेति ।
किञ्चाग्निविषया विद्या प्रकृता यज्ञे च सिद्धेऽग्निसम्बन्धे यदि किमपि क्षतमुत्पद्यते तदा प्रायश्चित्तार्था व्याहृतयो विधातव्या इत्यनन्तरग्रन्थप्रवृत्तिरिति सङ्गत्यन्तरमाह –
यज्ञ इति ।
प्रकृतायामुपासनायां मौनमङ्गीक्रियते वाग्व्यापारे विक्षिप्तचित्ततया ध्यानानुष्ठानासिद्धेः ।
ऋत्विग्विशेषस्य च प्रायश्चित्ताभिज्ञस्य मौनमत्र विधीयते तेनास्ति मिथः सङ्गतिरित्याह –
तदभिज्ञस्येति ।
यज्ञस्य देवतोद्देशेन द्रव्यत्यागात्मकत्वात्क्रियायाश्च क्षणभङ्गिन्या गतिमत्त्वायोगान्मार्गोपदेशासम्भवात्कथमाद्या सङ्गतिरित्याशङ्क्य गतिमत्त्वं सम्पादयितुं यज्ञस्य वायुरूपत्वमाह –
एष इत्यादिना ।
यज्ञो वाय्वात्मक इति श्रौती प्रसिद्धिस्तामेव प्रकटयति –
वायुप्रतिष्ठ इति ।
श्रुतीरुदाहरति –
स्वाहेति ।
स्वाहाकारमुच्चार्य वाते वायौ धीयते क्षिप्यत इति वातेधा यज्ञः ।
श्रुत्यन्तरमाह –
अयमिति ।
आदिशब्देन “वाताद्यज्ञः प्रयुज्यताम्”(तै.ब्रा. ३ । ७ । ४ । २४) इति श्रुतिर्गृह्यते ।
आदर्शितश्रुतीनामर्थं संगृह्णाति –
वात इति ।
यो यज्ञः क्रियासमवायी तत्समुदायात्मकः स वायुरेव । द्वयोश्चलनात्मकत्वाविशेषात् । तस्माद्वायुप्रतिष्ठस्तदात्मको यज्ञ इत्यर्थः ।
वायुप्रतिष्ठो यज्ञ इत्यत्र श्रुत्यन्तरमाह –
वात एवेति ।
पवनत्वश्रुत्याऽपि वायुयज्ञयोरेकत्वमाह –
एष ह यन्निति ।
विनाऽपि वायुं शुद्धिः सिद्ध्यतीत्याशङ्क्याऽऽह –
न हीति ।
अचलतो विहितक्रियामननुतिष्ठत इति यावत् । शुद्धिर्नाम दोषनिरासः । स च निषिद्धं परित्यक्तुं यतमानस्य सिद्ध्यति । न तु निषिद्धक्रियात्यागोदासीनस्य दोषनिरासात्मिका शुद्धिः सम्भवति ।
चलनं च वायुः । तस्माद्वायुरेव चलनद्वारा सर्वं जगत्पुनातीत्याह –
दोषेति ।
वायोरस्तु पावनत्वं प्रकृते किमायातमित्याशङ्क्याऽऽह –
यद्यस्मादिति ।
वाय्वात्मना गतिविशिष्टस्य यज्ञस्य मार्गद्वयमुपदिशति –
तस्येति ।
एवं विशिष्टस्य पावनस्य वायुरूपस्येति यावत् ।
यज्ञस्योक्तमार्गद्वयवैशिष्ट्ये सोपस्कारमैतरेयवाक्यमुदाहरति –
प्राणेति ।
प्राणापानाभ्यामुच्छ्वासनिश्वासाभ्यां परिचलनं विद्यते यस्यास्तस्या वाचश्चित्तस्य च पूर्वापरभावक्रमेण यज्ञः सम्पाद्यते । मनसा हि ध्यायन्वाचमभिव्याहरन्पूर्वापरीभावेन यज्ञं सम्पदयतीत्यर्थः ।
यज्ञस्य मार्गद्वयविशिष्टत्वमुपसंहरति –
अत इति ॥१॥
तयोरन्योन्यमुपकार्योपकारकभावं दर्शयति –
तयोरिति ।
वाचा सम्यक्प्रयुक्तयेति शेषः ।
संस्कृतायां च वाग्वर्तन्यां तयैव यज्ञो निष्पन्नो भवतीत्याह –
वाचैवेति ।
किं तर्हि मनोवर्तन्या संस्क्रियत इत्याशङ्क्याऽऽह –
तत्रेति ।
यज्ञस्य द्वाभ्यां मार्गाभ्यां नीयमानत्वे पूर्वोक्तरीत्या स्थिते सतीति यावत् ।
मनोवर्तन्याः संस्काराभावे प्रत्यवायं दर्शयति –
अथेत्यादिना ।
मनोवर्तनी ब्रह्मणा वाग्वर्तनी च होतृप्रभृतिभिः संस्कार्येति व्यवस्थान्तरमित्यर्थः ।
स ब्रह्मेत्यन्वयं सूचयति –
ब्रह्मेति ।
पुनरुक्तिस्तस्य क्रियापदेन सम्बन्धद्योतनार्था । एतस्मिन्नन्तरे काले प्रातरनुवाकशस्त्रमारभ्य तत्परिसमाप्तेरन्तरावस्थायामित्यर्थः ।
वाचो होत्रादिभिः संस्कार्यत्वमस्तु, मनसश्च ब्रह्मसंस्कार्यत्वं मा भूदेतावता यज्ञस्य किमायातमित्याशङ्क्याऽऽह –
स यज्ञ इति ।
यज्ञभ्रंशमेवाऽऽकाङ्क्षाद्वारा व्युत्पादयति –
कथमित्यादिना ।
नाशेऽपि यज्ञस्य यजमानस्य किमायातमित्याशङ्क्याऽऽह –
यज्ञप्राणो हीति ।
वाग्वर्तनीसंस्काराभावेऽपि तुल्यो दोषः ॥२ -३॥
मौनगुणं दर्शयति –
अथ पुनरिति ।
तथैव सम्यगनुष्ठातार इति यावत् ।
तथा ब्रह्मा चान्ये चर्त्विजो द्वे वर्तन्यौ संस्कुर्वन्त्येवेत्याह –
नेति ।
वर्तनीद्वयसंस्कारे किं स्यादित्यपेक्षायामाह –
एवमिति ॥४ -५॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य षोडशः खण्डः ॥