अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: प्रथमः खण्डः

आदित्यस्य सूत्रा­व­च्छे­द­भे­द­त्वा­त्त­दु­पा­स­ना­न­न्तरं सूत्रो­पा­स­न­मु­प­न्यस्ते । नन्व­ध्या­त्म­म­धि­दै­वतं च वायुप्राणयोः सूत्रा­त्म­भू­त­यो­रु­पा­सनं पूर्वाध्यायेऽपि व्याख्यातं तथा च कोऽत्र विशेषो येन तदुपासनं पुनरारभ्यतेऽत आह –
वायुप्राणयोरिति ।
साक्षा­त्पा­द­क­ल्पनं विनेति यावत् । ब्रह्मत्वेन ब्रह्म­का­र्य­रू­पे­णे­त्यर्थः ।

विद्येति ।
“धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥”(म.स्मृ. २ । ११२) इति स्मृतिमनुसंधाय पुष्कलधनमादाय रैक्वो राज्ञे विद्यां प्रादा­ज्जा­न­श्रु­तिश्च शास्त्रार्थं ज्ञात्वा पुष्कलधनं दत्त्वैव श्रद्धा­दि­सं­प­न्न­स्ततो विद्यामाददौ । तथाऽन्योऽपि दाता ग्रहीता वा स्यादिति तद्दा­न­ग्र­ह­ण­यो­र्वि­धि­प्र­द­र्श­नार्था चाऽऽख्या­यि­के­त्यर्थः ।

ननु षट्शतानि गवा­मि­त्या­दि­द­र्श­ना­द्ध­न­दा­न­मेव विद्याग्रहणे साधनमिह प्रतीयते न तु श्रद्धा­दी­त्या­श­ङ्क्याऽऽह –
श्रद्धेति ।
आदिपदेन तात्प­र्य­प्र­णि­पा­ता­दयो गृह्यन्ते । आख्यायिकया तदु ह पुन­रे­वे­त्या­दि­ल­क्ष­ण­येति यावत् ।

जनश्रुतस्य पुत्रो यस्तस्य पौत्रः पौत्रायणः स च प्रकृतो जान­श्रु­ति­रे­वे­त्याह –
पुत्रस्येति ।

श्रद्धया देय­स्या­ल्प­त्व­शङ्कां वारयति –
बहुदायीति ।

बहुपाकस्य फलमाह –
भोजनेति ।
उक्तस्य राज्ञो वर्त­मा­न­त्वा­भा­वा­द­स­त्त्व­मा­श­ङ्क्यो­क्त­मे­व­मिति ।

स्वसमीपं प्राप्तेभ्य एवा­र्थि­भ्योऽ­सा­वन्नं ददा­ती­त्या­श­ङ्क्याऽऽह –
स हेति ॥१॥

विशि­ष्टा­न्न­दा­न­फलं दर्शयितुमारभते –
तत्रेति ।

वाक्यार्थं दर्शयति –
ऋषय इति ।

संबोधनाभ्यासस्य विषयमाह –
आदरं दर्शयन्निति ।

तदेव दृष्टान्तेन स्पष्टयति –
यथेति ।

भल्ला­क्ष­श­ब्दा­र्थ­माह –
भल्लेति ।
भल्लाक्षशब्दो भद्राक्षविषयः सन्वि­रु­द्ध­ल­क्ष­णया मन्द­दृ­ष्टि­त्व­सू­चकः ।

भल्लाक्षशब्दस्य विषयान्तरमाह –
अथवेति ।
तस्य पृष्ठगामिनो हंसस्य महात्मा नातिक्रमणीयो विजानतेति सम्य­ग्द­र्श­ना­भि­मा­न­शा­लि­त्वा­त्ते­ना­ग्र­गामी हंसो जान­श्रु­ति­म­ति­चि­क्र­मि­षु­म­म­र्षि­तया पीड्यमानः सन्न त्वं धर्मं जानासि ज्ञानाभिमानं तु वह­सी­त्यु­पा­ल­ब्ध­स्तत्र भल्ला­क्षे­त्यु­पा­ल­म्भ­स्व­रूपं सूचयतीत्यर्थः ।

पृष्ठगामी हंसो निन्दा­पू­र्व­क­म­ग्र­गा­मिनं(णं) हंसं संबोध्य किमू­चि­वा­नि­त्य­पे­क्षा­या­माह –
जानश्रुतेरिति ।

मा प्रधाक्षीरिति पाठे कथं मा प्रधा­क्षी­दि­त्यु­च्यते तत्राऽऽह –
पुरु­ष­व्य­त्य­ये­नेति ।
मध्यमपुरुषं प्रथमपुरुषं कृत्वा व्याख्या­न­मि­त्यर्थः ॥२॥

एवं सन्तमेनं प्राणिमात्रं राजानमधिकृत्य सब­हु­मा­न­मे­त­द्व­च­न­मा­त्थेति कुत्सयतीति सम्बन्धः । तत्र वैध­र्म्य­दृ­ष्टा­न्त­माह –
रैक्वमिवेति ।
युगं वहतीति युग्यो बलीवर्दोऽश्वो वाऽस्यामस्तीति युग्वा शकटी तया सह वर्तत इति सयुग्वा रैक्वः । वकारो मत्वर्थीयः त्वं रैक्वं ज्ञान­मा­हा­त्म्य­यु­क्त­म­धि­कृत्य यथा प्रशंसावचनं तथा कर्मिणमेनं राजानमधिकृत्य कथ­मे­व­मा­त्थे­त्यर्थः ।

उक्तं वाक्यार्थं संकलयति –
अननुरूपमिति ।
अस्मिन्वराके राजनि धर्म­मा­त्र­नि­ष्ठे­ने­द­म­नु­रूपं वचनं रैक्वे पुनर्विज्ञानवति यथोक्तं वचो युक्तमेवेति । इतरः पृष्ठगामी हंसः । यः सयुग्वा रैक्व­स्त्व­यो­च्यते स कथं नु स्यादित्यन्वयः ॥३॥

स रैक्वो येन प्रकारेण स्यात्तं प्रकारं शृण्विति प्रतिज्ञाय प्रका­र­प्र­दि­द­र्श­यि­षया दृष्टान्तमाह –
यथेति ।
द्यूतस्य समयः संके­त­स्त­द­नु­ष्ठा­न­कालो (वा) येन द्यूत­वि­द्या­या­मे­जति सोऽक्षस्तस्य कश्चि­द्भा­गोऽ­थ­श­ब्द­वा­च्य­स्तत्र यश्चतुरङ्को भाग­श्च­त्वा­रोऽ­ङ्का­श्चि­ह्ना­न्य­स्मि­न्निति व्युत्पत्तेः कृत­ना­म­व्य­व­हृ­ते­न[तेन] यदा द्यूते प्रवृत्तानां मध्ये स कोऽपि जयति तदा तस्मै कृतनामवते विजितायाधरेऽयाः संयन्तीति सम्बन्धः ।

तदर्थं व्याचष्टे –
तदर्थमिति ।

अधरेयान् व्याकरोति –
अधरेया इति ।

तानेव विशिनष्टि –
त्रेतेति ।
अक्षस्य यस्मिन्भागे त्रयोऽङ्काः स त्रेता नामायो भवति । यत्र तु द्वावङ्कौ स द्वापरनामकः । यत्रैकोऽङ्कः स कलिसंज्ञ इति विभागः ।

ताद­र्थ्ये­ने­त­रा­ङ्का­ना(णा)म­न्त­र्भा­व­मुक्तं व्यक्तीकरोति –
चतुरङ्क इति ।
तदन्तर्भवन्ति तस्मिन्कृते त्रेता­द­य­स्तेऽ­न्त­र्भ­व­न्तीति यावत् । महा­सं­ख्या­या­म­वा­न्त­र­सं­ख्या­न्त­र्भावः प्रसिद्ध एवेत्यर्थः ।

दृष्टान्तमनूद्य दार्ष्टा­न्ति­क­माह –
यथेति ।

रैक्वमभिव्याप्य सर्वं समे­ती­त्य­स्यार्थं संक्षिपति –
अन्तर्भवतीति ।

रैक्वे सर्व­स्या­न्त­र्भावं प्रश्नपूर्वकं प्रकटयति –
किं तदित्यादिना ।
तद्धर्मस्य मह­त्त्वा­द­न्येषां च धर्म­जा­त­स्या­ल्प­त्वा­त्त­स्ये­त­र­स्मि­न्न­न्त­र्भावः संभवतीत्यर्थः ।

किं च सर्वेषां प्राणिनां धर्म­फ­ल­म­ल्पी­य­स्त्वा­न्म­ह­त्तरे रैक्वस्य धर्म­फ­लेऽ­न्त­र्भ­व­ती­त्याह –
तस्य चेति ।

न केवलं रैक्व­स्यै­त­न्मा­हात्म्यं किन्त्व­न्य­स्यापि ज्ञानवतोऽस्तीति जान­श्रु­ते­र­नु­ग्र­हा­र्थ­माह –
तथेति ॥४॥

प्रति­प­न्न­हं­स­व­च­न­खे­दित इतरो राजा रात्रि­शे­ष­म­ति­वाह्य शयनं जहदात्मनः समीपस्थं स्तुतिकर्तारं क्षत्तारमङ्गारे हेत्या­दि­वा­क्य­मु­क्त­वान् । तस्याभिप्रायमाह –
स एवेति ।

कथमिवशब्दो द्वितीये घटते । तत्राऽऽह –
तदेति ।

अवधारणस्यापि नोपयोगोऽस्तीति चेत्तत्राऽऽह –
अनर्थको वेति ।

प्रश्नवाक्यं व्याचष्टे –
राज्ञेति ।
यो नु कथमित्यादि पूर्व­व­द्व्या­ख्ये­यम् ॥५ – ६ ॥

तस्येति कर्मणि षष्ठी ॥७॥

मया हि गार्हस्थ्यं चिकीर्ष्यते तदर्थं च धनमर्थ्यते न चायं तादर्थ्येन किंचि­दु­प­क­र्तु­मि­त्या­श­ये­ना­ना­दरं विज्ञातवानस्मि यदुक्तलक्षणं रैक्वं तस्य च गार्ह­स्थ्या­भि­प्रायं धनार्थित्वं चेति शेषः ॥८॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतु­र्थाऽ­ध्या­यस्य प्रथमः खण्डः ॥