आनन्दगिरिटीका (छान्दोग्य)
षष्ठोऽध्यायः: अष्टमः खण्डः
त्रिवृत्करणनिर्णयविषयमवान्तरप्रकरणं परिसमाप्य महाप्रकरणं सद्विषयमेवानुवर्तयन्मनसो लये सुषुप्तौ जीवस्य सत्संपत्तिं वक्तुं मन उपाधिकत्वमुक्तमनुवदति –
यस्मिन्निति ।
उपाधेः स्वरूपमुक्तं संचारयति –
तन्मन इति ।
उपाध्युपहिते कार्यकरत्वं दर्शयति –
यन्मय इति ।
मनसो भावे जाग्रत्स्वप्नव्यवहारसिद्धिरित्युक्त्वा तदभावे सुषुप्तिमवतारयति –
तदुपरमे चेति ।
आत्मनि मनोवशादेव दर्शनादिव्यवहारो न स्वारस्येनेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति –
तदुक्तमिति ।
द्वितीये वाक्ये सधीरित्येतदुपयुज्यते । तृतीये तु विज्ञानमयो मनोमय इति च पदद्वयमुपजीव्यते ।
एवं भूमिकां कृत्वा समनन्तरवाक्यमादत्ते –
तस्येति ।
तत्पुत्रायेत्यत्र तस्यां देवतायां तदवस्थानमिति तच्छब्दार्थः । तत्रेति द्वितीयपक्षोक्तः ।
अर्थादिति ।
स्वप्नस्य हि कार्यस्य सतत्त्वं कारणं तच्च सुषुप्तमेव । “सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः”(नै.सि. ४ । ४३) इत्युभयापगमनात् । द्वितीयव्याख्याने सुषुप्तमेवार्थवशात्फलतीत्यर्थः ।
इतश्च स्वप्नान्तशब्देन साक्षादर्थाद्वा सुषुप्तमेवोक्तमित्याह –
स्वमिति ।
नन्ववस्थान्तरेऽपि स्वमपीतो भवतीतिवचनमविरुद्धमिति चेन्नेत्याह –
नहीति ।
तत्रापि कथं स्वापः स्यादित्याशङ्क्याऽऽह –
तत्रेति ।
स्वपितिनामनिर्वचनसामर्थ्यसिद्धमर्थं निगमयति –
अत इति ।
ननु स्वप्नान्तशब्दो बुद्धान्तशब्दवद्यदा स्वप्नमेवान्वचष्टे तदाऽपि स्वमपीतो भवतीत्यविरुद्धं सर्वदा जीवस्य सद्रूपब्रह्मप्राप्तेस्तुल्यत्वादत आह –
यत्र त्विति ।
स्वप्नदर्शनस्य पुण्यापुण्यकार्यत्वं प्रकटयति –
पुण्यापुण्ययोर्हीति ।
न केवलं पुण्यापुण्याभ्यामेव स्वप्ने संयुज्यते किन्त्वविद्यादिभिश्चेति न तत्र स्वाप्ययः सम्भवतीत्याह –
पुण्यापुण्ययोश्चेति ।
तर्हि स्वप्नवन्न सुषुप्तेऽपि स्वाप्ययः स्यात्तत्रापि कामकर्मादिसबन्धसम्भवादित्याशङ्क्याऽऽह –
अनन्वागतमिति ।
सति जीवरूपे कथं देवताभावः सम्भवतीत्याशङ्क्याऽऽह –
मनसीति ।
तस्मादित्यस्यातःशब्दो व्याख्यानं तेन परामृष्टं हेतुमेव स्पष्टयति –
स्वमात्मानमिति ।
स्वपितिनामनिर्वचनफलं दर्शयति –
गुणेति ।
सुषुप्ते स्वरूपावस्थानस्य मुख्यस्यासंभवान्मुक्तत्वेनानुत्थानप्रसङ्गात्स्वरूपावस्थानप्रसिद्धेर्निमित्तं वक्तव्यमिति पृच्छति –
कथं पुनरिति ।
ज्वरादिरोगग्रस्तस्य स्वभावस्थितौ प्रसिद्धः श्रमाभावः सुषुप्तं च श्रमापनोदावस्थानं तथा च तत्र स्वरूपस्थितिप्रसिद्धिरविरुद्धेत्याह –
जाग्रदिति ।
संगृहीतं समाधानं विवृणोति –
जागरिते हीति ।
करणानामनेकव्यापारनिमित्ता ग्लानिर्भवतीत्यत्र मानमाह –
श्रुतेश्चेति ।
अनुभवसमुच्चयार्थश्चकारः सुषुप्त्यवस्थायां करणानामुपरतौ प्रमाणमाह –
तथा चेति ।
सुषुप्तौ प्राणस्यापि वागादिवदुपसंहृतत्वमाशङ्क्याऽऽह –
करणानीति ।
अन्यथा मृतिभ्रान्तिः स्यादिति भावः जीवस्यापि बहिर्व्यापारः स्यादिति चेन्नैवं करणाभावादित्याह –
तदेति ।
ननु सुषुप्ते श्रमापनोदार्थं न स्वरूपावस्थानं तत्कुतो लौकिकी प्रसिद्धिरित्याशङ्क्याऽऽह –
नान्यत्रेति ।
उक्तमर्थं लौकिकदृष्टान्तेन स्पष्टयति –
दृश्यते हीति ।
बृहदारण्यकश्रुत्यालोचनायामपि सुषुप्त्यवस्थायामवस्थाद्वयजनितश्रमापोहार्थं ब्रह्मनीडप्राप्तिर्गम्यत इत्याह –
तद्यथेति ॥१॥
तत्रेति सुषुप्त्यवस्थोच्यते । यथोक्तोऽर्थो हि जीवस्य ब्रह्मण्यवस्थानं तस्मिन्निति यावत् । सशब्दो दृष्टान्तविषयः शकुनिविषयो वा । अप्राप्येति च्छेदः । यथा मञ्चाक्रोशनेन मञ्चस्थो देवदत्तो लक्ष्यते तथा तन्मन इति मनसि स्थितो जीवो लक्ष्यो भवतीत्याह –
मञ्चाक्रोशनवदिति ।
न केवलं प्रकरणात्प्राणशब्देन परा देवतालक्ष्यतेऽन्यत्र प्रयोगदर्शनाच्चेत्याह –
प्राणस्येति ।
प्राणशब्देन परदेवतालक्षणायां फलितमाह –
अत इति ।
प्राणमेवोपश्रयते विज्ञानात्मेत्यत्र हेतुमाह –
प्राणबन्धनमिति ॥२॥
वृत्तमनूद्यानन्तरवाक्यमुत्थापयति –
एवमिति ।
आहाशनापिपासे सोम्येत्यादीति शेषः ।
किमभिप्रायः सन्पिता पुत्रं प्रत्येवमाहेत्याकाङ्क्षायामाह –
अन्नादीति ।
अन्नादीनि कार्याणि कारणान्यबादीनि तेषां या परम्परा तयाऽपि जगतो यत्सल्लक्षणं मूलं तद्दर्शयितुमिच्छन्पिता पुत्रं प्रत्यशनेत्यादिकं वाक्यमाहेत्यर्थः ।
अशनेत्यस्य सन्नन्तत्वाभावेऽपि कथं तदर्थो व्याख्यायते तत्राऽऽह –
अशनेति ।
यकारस्य लोपेनास्मिन्प्रयोगे सन्प्रत्ययः प्रयुक्तस्तथाच तदर्थोक्तिरविरुद्धेत्यर्थः ।
तत्राशनायापिपासयोः सतत्त्वं विज्ञापयति –
यत्रेति ।
सामान्येनोक्त नाम विशेषतो ज्ञातुं पृच्छति –
किं तदिति ।
यत्कठिनमन्नं पुरुषेणाशितं तत्पीता आपो नयन्त इति सम्बन्धः । तदेति परिणामावस्थोक्तिः । अथेत्यन्नस्य भुक्तस्य जीर्णत्वानन्तर्यमुच्यते ।
कथं तदा नाम्नो गौणत्वं तदाह –
जीर्णे हीति ।
तद्यथेत्यत्र तच्छब्दार्थमाह –
तत्तत्रेति ।
एतस्मिन्नर्थे दृष्टान्त उच्यत इति शेषः ।
अशनायेति कथमपामाख्यानमशनाया इति हि वक्तव्यं तत्राऽऽह –
विसर्जनीयेति ।
तत्रेत्यस्य व्याख्यानमेवं सतीत्यपामशितनेतृत्वे सतीत्यर्थः । अद्भिः पीताभिरिति शेषः । तत्रेति शरीरनिर्देशः ॥३॥
अन्नस्य देहमूलत्वमाकाङ्क्षापूर्वकं व्युत्पादयति –
कथमित्यादिना ।
तथा पुरुषभुक्तान्नवदिति यावत् ।
तथाऽपि कथं सतो मूलस्य सिद्धिरत आह –
यत्त्विति ।
सतो मूलस्य वास्तवं रूपं दर्शयति –
एकमिति ।
तस्य सर्वकल्पनाधिष्ठानत्वेन परिणामवादं व्युदस्यति –
यस्मिन्निति ।
अध्यासे मूलकारणमाह –
अविद्ययेति ।
प्रजाः सर्वाः सन्मूलाः सदायतनाश्चेत्युक्तमर्थं दृष्टान्तेन समर्थयते –
न हीति ।
सत्प्रतिष्ठाः सदायतनाश्चेत्यनयोरर्थभेदाभावमाशङ्क्याऽऽह –
अन्ते चेति ।
प्रतिष्ठाशब्दस्य लयवाचित्वादायतनशब्दस्य चाऽऽश्रयविषयत्वान्न पौनरुक्त्यमित्यर्थः ।
लयशब्दस्य सुषुप्त्यादिविषयत्वं वारयति –
समाप्तिरिति ।
सम्यगाप्तिः समाप्तिरिति प्राप्तिरत्र विवक्षितेति शङ्कां वारयति –
अवसानमिति ।
तस्याभावत्वेन तुच्छरूपत्वं निरस्यति –
परिशेष इति ॥४॥
अन्नाख्यशुङ्गद्वारा सतो मूलस्याधिगतेरनन्तरमित्यथशब्दार्थः । पिपासतीत्येतन्नाम पुरुषो यस्मिन्काले भवतीति योजना । कथं पिपासतीत्येतन्नाम पुरुषस्य गौणमित्याशङ्क्याऽऽह –
द्रवीकृतस्येति ।
भवत्वपां तेजसा शोष्यमाणत्वं किं तावतेत्याशङ्क्याऽऽह –
नितरां चेति ।
तदा पानेच्छावस्थायामित्यर्थः ।
तेजसो यदुदकनेतृत्वमुक्तं तत्र श्रुतिमवतार्य व्याचष्टे –
तदेतदाहेति ।
उदन्यमिति वक्तव्ये कथमुदन्येत्युक्तं तत्राऽऽह –
उदन्येतीति ।
तत्रापि तेजस्यपीत्येतत् ।
यथाऽशनायेति च्छान्दसं तथा तेजस्युदन्येत्यपि च्छान्दसमेवेत्याह –
पूर्ववदिति ।
अन्नद्वारा सतो मूलस्याधिगमवदम्बुद्वाराऽपि तस्याधिगतिरस्तीत्याह –
अपामपीति ॥५॥
तेजःशुङ्गद्वाराऽपि सतो मूलस्य प्रतिपत्तिरस्तीत्याह –
सामर्थ्यादिति ।
त्रिवृत्करणवशादिति यावत् । शरीरस्य भूतत्रयकार्यत्वमतःशब्दार्थः ।
यथा पूर्वमन्नशुङ्गेन देहेनान्नाख्यं मूलं गम्यत इत्यादि व्याख्यातं तथा तेजःशुङ्गेन देहेन तेजो मूलं गम्यत इत्यादि व्याख्येयमित्याह –
पूर्ववदिति ।
वृत्तानुवादपूर्वकं यथेत्यादिवाक्यमादत्ते –
एवं हीति ।
उक्तया रीत्या नामद्वयप्रसिद्धिद्वारेण यथोक्तदेहाख्यशुङ्गस्यान्नादिकारणपरम्परया सदाख्यं मूलमुक्तविशेषणं सन्मूलमन्विच्छेत्युपदेशेन श्वेतकेतुं ज्ञापयित्वा व्यवस्थया शरीरमेकैकभूतारब्धमित्याक्षेपे प्राप्ते यदस्मिन्प्रकरणे तेजःप्रभृतीनामुपयुज्यमानानां स्वस्वभावानुसारेण संघातस्योपचयकरत्वं वक्तव्यं प्राप्तं तदिह सर्वशरीरेषु सर्वभूतकार्योपलम्भाद्व्यवस्थायां प्रमाणाभावाद्दृश्यमाने संघाते कस्य भूतस्य कियत्कार्यमित्यपेक्षायामन्नमशितमित्यादावुक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशतीति योजना ।
सतो मूलस्य व्यवहारसत्यत्वं वारयति –
परमार्थेति ।
वस्तुतो नाविद्यासंबन्धस्तस्यास्तीत्याह –
अभयमिति ।
अविद्याकार्यसंबन्धोऽपि परमार्थतो न तस्यास्तीत्याह –
असंत्रासमिति ।
उभयसम्बन्धाभावे समुत्खातनिखिलदुःखत्वेन परमानन्दत्व तस्य सिद्ध्यतीत्याह –
निरायासमिति ।
पूर्वोक्तमेव व्यक्तीकरोति –
तत्रैवेति ।
किं तदन्नमशितमित्यादाभुक्तं तत्राऽऽह –
अन्नादीनामिति ।
साप्तधातुकं त्वगसृङ्मांसमेदोमज्जास्थिशुक्राख्याः सप्त धातवस्तेषां संहतिरूपमित्यर्थः ।
तेजोबन्नकार्यभूतदेहशुङ्गद्वारा सत्तत्वं निरूपितमिदानीं मरणद्वारेणापि तन्निरूपयितुमारभते –
सोऽयमिति ।
तदाहेत्यत्र क्रमवद्गमनं तदित्युक्तम् ।
वाग्व्यापारस्य मनसि लये हेतुमाह –
मनःपूर्वको हीति ।
प्राणसंपत्तिर्मनसस्तदधीनत्वम् । मनोव्यापारनिवृत्त्यवस्था तदेत्युच्यते । प्राणश्च तदेत्यविज्ञानावस्था कथ्यते ।
कथं प्राणस्य स्वात्मन्युपसंहृतबाह्यकरणत्वं तदाह –
संवर्गविद्यायामिति ।
तत्र हि प्राणः संवृङ्क्ते वागादीनिति । दृष्टमतो युक्तं तस्य स्वात्मन्युपसंहृतकरणत्वमित्यर्थः । तेजसीति भौतिकमाध्यात्मिकं तेजो गृह्यते । जीवतीत्याहुरिति सम्बन्धः ।
सकरणस्य सप्राणस्य च भूतवर्गस्य परस्यां देवतायामुक्तक्रमेणोपसंहारेऽपि जीवस्य किमायातमित्याशङ्क्याऽऽह –
तदेवमिति ।
तस्यां परस्यां देवतायामुक्तेन क्रमेण तेजस्युपसंहृते सतीति यावत् । स्वमूलं मनसो मूलं भूतपञ्चकम् । निमित्तोपसंहारादित्यत्र निमित्तं मनो विवक्षितम् ।
सत्सम्पन्नस्य सत्याभिसंधेर्न पुनरुत्थानमित्येतद्दृष्टान्तेन स्पष्टयति –
यथेति ।
अभयं देशं प्राप्तो न पुनः सभयं देशं गन्तुमिच्छतीति शेषः ।
यस्त्वनृताभिसंधो यथोक्तया रीत्या न तत्संपन्नस्तं प्रत्याह –
इतरस्त्विति ॥६॥
अस्येति षष्ठ्या सर्वं जगदुक्तम् । असंसारी संसारी वेति च्छेदः । मूलादेर्विशेषं दर्शयति –
परमार्थेति ।
कल्पितस्य जगतः स्वरूपं प्रत्यग्भूतमतात्त्विकमिति शङ्कां वारयति –
सतत्त्वमिति ।
तत्त्वेन सहितमपि सतत्त्वमित्याशङ्क्याऽऽह –
याथात्म्यमिति ।
कथमेवमर्थत्वमात्मशब्दस्य लभ्यते तत्राऽह –
आत्मशब्दस्येति ।
सतो भवत्वात्मत्वं मम तु किं स्यादित्याशङ्क्याऽऽह –
अत इति ।
सन्देहास्पदमेव विशिनष्टि –
अहन्यहनीति ।
सन्देहे हेतुमाह –
येनेति ।
तेन सन्दिग्धमेतदिति पूर्वेण सम्बन्धः ।
सन्देहव्यावृत्तिस्तर्हि कथमित्यत आह –
अत इति ।
पुत्रस्य प्राप्तसन्देहापोहार्थमुत्तरग्रन्थमुत्थापयति –
एवमिति ॥७॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्याष्टमः खण्डः ॥