आनन्दगिरिटीका (छान्दोग्य)
सप्तमोऽध्यायः: चतुर्थः खण्डः
संकल्पशब्दार्थमाह –
संकल्पोऽपीति ।
का साऽन्तःकरणवृत्तिर्या संकल्पशब्दितेत्याशङ्क्याऽऽह –
कर्तव्येति ।
द्विविधे विषये विभागेन समर्थितेऽपि कथं यथोक्तस्य संकल्पस्य मनसो भूयस्त्वमित्याशङ्क्याऽऽह –
विभागेन हीति ।
संकल्पस्य कारणत्वान्मनसश्च कार्यत्वादतो भूयस्त्वमित्यर्थः ।
कार्यकारणभावं तयोराकाङ्क्षापूर्वकं व्यक्तीकरोति –
कथमित्यादिना ।
मनसः सकाशाद्वाचोऽनन्तरभावित्वे विशेषं दर्शयति –
तां चेति ।
नाम्नि मन्त्राणामन्तर्भावं समर्थयति –
सामान्ये हीति ।
कथं मन्त्रेष्वनुपलब्धकर्मणामन्तर्भावस्तत्राऽऽह –
मन्त्रेति ।
कथं कर्म नामन्त्रकमस्तीत्युच्यते ब्राह्मणविहितस्यापि कर्मणो दर्शनादित्याशङ्क्याऽऽह –
यद्धीति ।
ब्राह्मणस्य मन्त्रव्याख्यानरूपत्वादतिस्पष्टमन्त्रानुपलम्भेऽपि कल्प्यते मन्त्रोक्तत्वमित्यर्थः ।
एतदेव प्रपञ्चयति –
याऽपीत्यादिना ।
एकस्यां शाखायां यत्कर्म मन्त्रेष्वनुपलब्धं तच्छाखान्तरीयमन्त्रप्रकाशितं भविष्यतीत्यत्र हेत्वन्तरमाह –
त्रयीति ।
तथाऽपि कथं मन्त्रप्रकाशितत्वं तत्राऽऽह –
त्रयीशब्दश्चेति ।
मन्त्रेषु कर्माण्यन्तर्भवन्तीत्यत्र श्रुत्यन्तरानुमतिं कथयति -
मन्त्रेष्विति ॥१॥
तथाऽपि कथं संकल्पस्य भूयस्त्वमित्याशङ्क्याऽऽह –
तानीति ।
अयनपर्यायत्वेनोक्तगमनस्य क्रियात्वं व्यावर्तयति –
प्रलय इति ।
इतश्च संकल्पस्याप्यस्ति महत्त्वमित्याह –
समक्लृप्तामिति ।
यतो द्यावापृथिव्यादिषु महत्स्वपि संकल्पानुवृत्तिर्दृश्यतेऽतोऽपि तस्य महत्वं गम्यते न केवलं कारणत्वादेवेत्यर्थः ।
इतश्च तस्य महत्त्वमेष्टव्यमित्याह –
तेषामिति ।
वृष्टेर्द्युलोकादिकार्यत्वात्तदीयसंकल्पस्य तन्निमित्तत्वोपचारात्तस्य भूयस्त्वसिद्धिरित्यर्थः ।
सृष्टिवशादन्नं समर्थीभवतीत्यत्र प्रसिद्धिं प्रमाणयति –
वृष्टेर्हीति ।
अन्नाधीनं प्राणसामर्थ्यमित्यत्र हेतुमाह –
अन्नमया हीति ।
आपोमयः प्राण इत्युक्तत्वात्कथमन्नमयत्वमित्याशङ्क्याऽऽह –
अन्नोपष्टम्भका इति ।
तत्र वाजसनेयकश्रुतिं प्रमाणयति –
अन्नमिति ।
प्राणानां मन्त्राध्ययनकारणत्वं व्युत्पादयति –
प्राणवानिति ।
ततो मन्त्रप्रकाशितकर्मवशादिति यावत् ।
कर्मफलवशाज्जगतः सर्वस्यावैकल्येऽपि कथं संकल्पस्य महत्त्वमित्याशङ्क्याऽऽह –
एतद्धीति ।
तन्महत्त्वे फलितमाह –
अत इति ॥२॥
आत्मातिरिक्तानां लोकानां कथं नित्यत्वमत आह –
अत्यन्तेति ।
लोकानामेवं ध्रुवत्वमुच्यतां किमिति लोकिनस्तदुच्यते तत्राऽऽह –
लोकिनो हीति ।
कथमुपकरणसंपन्नेषु प्रतिष्ठितशब्दो भवतीत्याशङ्क्याऽऽह –
पशुपुत्रादिभिरिति ।
यावत्संकल्पस्येत्यादिश्रुतेर्विषयसंकोचं दर्शयति –
आत्मन इति ।
संकल्पस्य यावद्गोचरस्तत्रास्य कामचारो भवतीति सम्बन्धः ।
निरङ्कुशे संकल्पशब्दे का हानिरित्याशङ्क्याऽऽह –
उत्तरेति ।
यदि संकल्पमात्रस्य गोचरे संकल्पोपासकस्य कामचारो भवति तर्हि सर्वसंकल्पस्य विचित्रतया सर्वगोचरत्वसंभवाद्यावच्चित्तस्य गतमित्यादिना वक्ष्यमाणफलं विरुध्येत न हि संकल्पोपासनादेव सर्वस्मिन्फले सिद्धे चित्ताद्युपासनं तत्फलं वा पृथक्कथयितुमुचितमतो यावत्संकल्पस्येत्यादिश्रुतेरुक्तः संकोचो युक्त इत्यर्थः ॥३॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य चतुर्थः खण्डः ॥