अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

अष्टमोऽध्यायः: पञ्चमः खण्डः

अथ यथो­क्त­प­र­मा­त्म­प्रा­प्ति­सा­धने ज्ञाने सह­का­रि­ब्र­ह्म­चर्यं प्रागेवोक्तं तथाच कृतं ब्रह्म­च­र्य­वि­ष­ये­णो­त्त­र­ग्र­न्थे­ने­त्या­श­ङ्क्याऽऽह –
य आत्मेति ।
शमा­द्य­पे­क्ष­याऽ­न्त­र­शब्दः । उक्तमपि ब्रह्मचर्यं विधा­तु­म­न­न्त­र­ग्र­न्थ­प्र­वृ­त्ति­रि­त्यर्थः ।

किमिति तर्हि तस्य स्तुति­रि­त्या­शङ्क्य तस्या विधिशेषत्वं दर्शयति –
यज्ञादिभिश्चेति ।

श्रुतिराहोत्तरं वाक्यमित्युक्तं तदादाय व्याकरोति –
अथेत्यादिना ।
ब्रह्म­च­र्य­स्यो­क्त­रीत्या विधित्सितत्वे तदी­य­स्तु­ति­प्रा­र­म्भा­र्थोऽ­थ­शब्दः ।

यज्ञस्य ब्रह्म­च­र्येऽ­न्त­र्भावं साधयति –
यज्ञस्यापीति ।

उक्त­मे­वा­र्थ­मा­का­ङ्क्षा­द्वारा समर्थयते –
कथमित्यादिना ।
पारम्पर्येण चित्त­शु­द्धि­द्वा­रे­णे­त्यर्थः ।

न केवलं फलद्वारा यज्ञो ब्रह्म­च­र्येऽ­न्त­र्भ­वति किन्तु यका­र­ज्ञ­का­र­स­म्स्प­र्शा­द­पी­त्याह –
यो ज्ञातेति ।

इष्टस्य ब्रह्म­च­र्या­न्त­र्भा­व­मा­का­ङ्क्षा­द्वारा स्फोरयति –
कथमित्यादिना ।
पूजयित्वा तमा­त्मा­न­म­नु­नि­न्दत इति सम्बन्धः ।

ब्रह्म­च­र्ये­णाऽ­त्म­वि­ष­यै­षणं निष्पाद्यते इष्टेनापि तदेव सम्पाद्यते तस्मा­दे­ष­णा­दु­भ­य­सा­दृ­श्या­दि­ष्ट­मपि यज्ञ­व­द्ब्र­ह्म­च­र्य­मे­वे­त्याह –
एषणादिति ॥१॥

बहुयजमानकं वैदिकं कर्म सत्त्रायणम् । तथा यज्ञ­व­दि­ष्ट­व­च्चे­त्यर्थः । कथं सत्त्रायणं ब्रह्म­च­र्येऽ­न्त­र्भ­व­ती­त्या­श­ङ्क्याऽऽह –
सत इति ॥२॥

उप­वा­स­प­रा­य­ण­त्व­म­ना­श­का­यनं तत्कथं ब्रह्म­च­र्येऽ­न्त­र्भ­व­ती­त्या­श­ङ्क्याऽऽह –
यमात्मानमिति ।

अर­ण्या­य­न­म­र­ण्य­वा­स­स्त­त्कथं ब्रह्म­च­र्या­न्त­र्भू­त­मि­त्या­श­ङ्क्याऽऽह –
अरण्यशब्दयोरिति ।

विस्त­रे­णो­क्त­मर्थं संक्षिप्याऽऽह –
यो ज्ञाना­दि­त्या­दिना ।
यो ब्रह्म­च­र्ये­णाऽ­त्मनो ज्ञानादात्मानं विन्दते स ब्रह्मलोकं लभते तस्माद्यज्ञो ब्रह्मचर्यमिति योजना । आदिशब्देन स्वस्य पर­म­पु­रु­षा­र्थ­सा­ध­नत्वं गृह्यते ॥३॥

ब्रह्मचर्यस्य स्तुत­त्वा­त्त­द्वि­षयं विधिमिक्त्वा तत्स­ह­कृ­त­वि­द्या­सा­ध्य­फलं कथयति –
तत्तत्र (ही)ति ।

ब्रह्म­च­र्य­स्या­त्य­ल्प­सा­ध­न­त्वा­न्म­हती स्तुतिरयुक्ता तद्ब्रह्मचर्येण ज्ञानमुपलक्ष्य तदेव स्तूयत इति मतमुत्थापयति –
नन्वत्रेति ।

तस्य क्षुद्र­सा­ध­न­त्व­म­सिद्धं दुर­नु­ष्टे­य­त्वा­त्त­द्व्य­ति­रे­केण ज्ञाना­स­म्भ­वा­च्चे­त्यु­त्त­र­माह –
नेत्यादिना ।

विष­या­प­हृ­त­चि­त्तानां नराणां विवेकासम्भवे प्रमाणमाह –
पराञ्चीति ।
ध्यायतो विषयानित्याद्या स्मृतिरत्र विवक्षिता ।

ब्रह्म­च­र्य­स्यो­त्त­म­सा­ध­नत्वे सिद्धे फलितमाह –
ज्ञानेति ।

ब्रह्म­लो­क­प्रा­प्ति­सा­ध­नस्य ब्रह्मचर्यस्य यज्ञादिभिः स्तुत­त्वा­त्ते­षा­मपि तत्प्रा­प्ति­सा­ध­नत्वं श्रुत्याऽ­भि­प्रे­त­मिति शङ्कते –
नन्विति ।

किं तेषां पुरु­षा­र्थ­सा­ध­नत्वं प्रस्तु­त­श्रुत्या प्रतीतं किं वा ब्रह्म­लो­क­सा­ध­न­त्व­मिति विक­ल्प्याऽऽ­द्य­म­ङ्गी­क­रोति –
सत्यमिति ।

न द्वितीयो वाक्य­भे­द­प्र­स­ङ्गा­दि­त्याह –
न त्विति ।

कथं तर्हि यज्ञा­दि­भि­र्ब्र­ह्म­च­र्य­स्तु­ति­स्त­त्राऽऽह –
किं तर्हीति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेति ।
त्वमि­न्द्रस्त्वं विष्णु­रि­त्या­दिना विप्रादिभी राजा स्तूयते तथाऽपि न तस्ये­न्द्रा­दि­व्या­पारे निरङ्कुशं कर्तृत्वमस्तीति यथेष्यते तथा यज्ञा­दि­भि­र्ब्र­ह्म­च­र्यस्य स्तुतस्यापि नास्ति तुल्य­फ­ल­त्व­मि­त्यर्थः ।

ब्रह्म­लो­क­स्था­न्प­दा­र्था­न्नि­र्णेतुं विचा­र­म­व­ता­र­य­न्नादौ तद्विषयमाह –
य इम इति ।

तत्रैकं पक्षमुत्थाप्य दृष्टान्तेन तदु­त्थि­ति­प्र­का­र­माह –
ते किमिति ।

पक्षान्तरं स्वप्न­दृ­ष्टा­न्त­व­शा­द्द­र्श­यति –
आहोस्विदिति ।

कस्मिन्पक्षे को लाभः को वा दोषः, इति शिष्यः पृच्छति –
किंचात इति ।

घटस्थौल्ये दोष­द­र्श­ना­न्मा­न­स­त्त्वेन सौक्ष्म्ये च पुरा­णा­नु­ग्र­ह­सं­भ­वात्ते मानसा एवेत्याह –
यदीति ।
न केवलं तेषां स्थौल्ये स’त्युभे अस्मि­न्नि’त्या­दि­श्रुत्या पुराणस्मृत्या च विरोधः किं त्वशोकं संता­प­व­र्जि­त­म­हिमं शीतस्पर्शशून्यं ब्रह्म­लो­क­मु­प­य­न्ती­त्या­द्याश्च श्रुतयो ब्रह्मलोकं निरू­प­य­न्त्य­स्त­त्र­त्या­ना­म­र्थानां स्थौल्ये विरुध्येरन् ।

स्थूलानां पदार्थानां तत्र सत्त्वे शीत­स्प­र्शा­दे­र­व­र्ज­नी­य­त्वा­दि­त्याह –
अशोकमिति ।

ब्राह्म­लौ­कि­क­प­दा­र्थानां मानसत्वे पुरा­ण­स्मृ­त्य­न्त­र­वि­रोधं शङ्कते –
नन्विति ।

किं दृश्यमानरूपेण समुद्रादीनां ब्रह्मलोकगमनं स्मृत्यर्थः किं वा स्वरू­पा­न्त­रे­णेति विकल्प्याऽद्यं दूषयति –
न मूर्तिमत्व इति ।
उभ­य­त्रा­नु­प­ल­म्भ­प्र­स­ङ्गा­दिति ।

प्रथ­म­प­क्षा­यो­गे­द्वि­ती­यं­प­क्षं­प­रि­शि­ष्ट­मा­चष्टे –
तस्मादिति ।

अस्तु द्वितीयो विकल्पः का नो हानि­रि­त्या­शङ्क्य ब्रह्मलके मानसेन देहेन मानसादीनामेव सागरादीनां मानसरूपेण सह सम्ब­न्धो­प­प­त्ते­र्मा­नस्य एव मूर्तयस्तेषां ब्रह्म­लो­क­स्थाः­क­ल्प­यितुं युक्ता इत्याह –
तुल्यायां चेति ।

तर्हि मनो­र­थ­क­ल्पि­त­व­द­ति­च­ञ्च­ल­त्वा­द्भो­ग­यो­ग्या­का­रत्वं सागरादीनां न स्यादि­त्या­श­ङ्क्याह –
दृष्टा हीति ।

स्वप्नतुल्यत्वे मिथ्या­त्व­प्र­स­क्ति­रिति शङ्कते –
नन्विति ।

प्रस­ङ्ग­स्ये­ष्ट­त्व­मा­शङ्क्य श्रुतिविरोधमाह –
त इम इति ।
ये स्वप्ने दृष्टास्ते न सन्ति न तु न दृष्टा इति दर्शनं न बाध्यते तथा च स्वाप्न­सं­वे­द­नस्य सत्यत्वमिष्टं तथैव ब्राह्म­लौ­कि­कानां पदर्थानाम् ।

मानस्य इति दृष्टान्तं विवृणोति –
मानसा हीति ।

जागरिते संविदतिरिक्ताः सन्ति पदा­र्था­स्त­द्वा­स­ना­रू­पास्ते स्वप्ने भान्ति न तु संविदात्मकत्वं तेषामिति शङ्कते –
नन्विति ।

जागरितस्यापि संवि­द्वि­व­र्त­त्वान्न पृथगस्ति सत्व­मि­त्यु­त्त­र­माह –
अत्यल्पमिति ।

भूम­वि­द्या­लो­च­ना­या­मपि जाग्रद्विषयाणां संवि­द्वि­व­र्तत्वं सेत्स्यतीत्याह –
संकल्पमूला हीति ।
इतश्च जाग्रद्विषयाणां संवि­द्वि­व­र्त­त्व­मि­त्याह सर्वश्रुतिषु चेति । ननु कुलालो घटं चिकीर्षुर्मनसि संकल्पितमाकारं बहिर्निर्मिमीते तत्र सङ्कल्पो बाह्याकरस्य निमित्तं संकल्पश्च पूर्वा­नु­भू­त­स­जा­ती­य­गो­चरः पूर्वानुभूतोऽपि पूर्व­त­र­सं­क­ल्प­नि­मित्त इति निमि­त्त­नै­मि­त्ति­क­भावः ।

सर्वस्य संवि­द्वि­व­र्तत्वे कथमुपपद्यते तत्राऽह –
तस्मादिति ।
यस्मात्सतः सर्वस्येक्षणं पूर्व­क­ल्पी­य­स­दृ­श­गो­चरं पूर्व­क­ल्पी­या­स्ततः पूर्व­त­रे­क्ष­ण­नि­मित्ता इति संविदेवेत्थं स्वाविद्यया विवर्तते निरवयवस्य सन्मात्रस्य स्वार­स्ये­ने­क्ष­णा­द्य­नु­प­प­त्ते­स्त­स्मा­त्स­र्वस्य संवि­द्वि­व­र्त­त्वेऽपि निमि­त्त­नै­मि­त्ति­क­भा­वोऽ­य­म­नि­र्वाच्यो न विरुध्यत इत्यर्थः ।

अथ सच्छ­ब्द­वा­च्यायाः संवि­दोऽ­नि­र्वा­च्य­स्प­न्द­न­काले ये विषया बाह्यतया भासन्ते तेषां कदाचिदपि संविदतिरेकेण सत्त्वा­न­ङ्गी­का­रा­दा­द्य­न्ता­स­त्त्व­ल­क्ष­ण­म­नृ­त­त्व­मा­प­द्येत तथा च व्यव­हा­र­भ­ङ्ग­प्र­स­ङ्ग­स्त­त्राऽऽह –
यद्यपीति ।
तथाऽपि नानृ­त­त्व­मि­त्य­ध्या­हारः अध्य­स्त­स्या­धि­ष्ठा­न­मेव स्वात्मा­त­स्मिन्न कदा­चि­द­प्य­त्य­न्ता­सत्त्वं तादात्मयेनैव स्फुरणादतो न व्यव­हा­र­भ­ङ्ग­प्र­सङ्ग इति भावः ।

कदाचिदपि नानृतत्वमिति वदता प्रती­ति­का­ला­त्का­ला­न्त­रेऽपि विषयाणां नास­त्त्व­मि­त्युक्तं तत्रानुभवविरोधं शङ्कते –
नन्विति ।

स्वप्नदृष्टानां समीहितमेव कालान्तरे मिथ्या­त्व­मि­त्य­ङ्गी­क­रोति –
सत्यमिति ।

तर्हि तेषामसत्त्वमेव स्वीकृ­त­मि­त्या­श­ङ्क्याऽऽह –
जाग्रदिति ।

तथाऽपि जाग्र­द्बो­धे­ना­वि­ष­यी­क­र­णा­द­सत्त्वं स्वप्न­दृ­ष्टा­ना­मे­ष्ट­व्य­मि­त्या­श­ङ्क्याऽऽह –
तथेति ।
यदि जाग्र­द्बो­धे­ना­वि­ष­यी­क­र­ण­मा­त्रे­णा­सत्त्वं स्वप्नदृष्टानां पदार्थानामिष्टं तर्हि जाग्र­द्वि­ष­या­णा­मपि स्वप्न­बो­धे­ना­वि­ष­यी­क­र­णा­द­स­त्त्व­प्र­स­ङ्ग­स्तन्न कदाचिदपि संविदि विष­या­णा­म­त्य­न्ता­स­त्त्व­मि­त्यर्थः ।

कथं तर्हि वाचा­र­म्भ­ण­श्रु­ति­रि­त्या­श­ङ्क्याऽऽह –
विशेषेति ।

त्रयाणां रूपाणां सत्यत्वे विशेषाकारमात्रं मिथ्ये­त्यु­क्त­म­युक्तं तेष्वपि विशेषाकारस्य सत्त्वा­दि­त्या­श­ङ्क्याऽऽह –
तान्यपीति ।

कथं तर्हि तेषु सत्यपदं प्रयु­क्त­मि­त्या­श­ङ्क्याऽऽह –
स्वत इति ।

तर्हि तत्स­त्य­मि­त्ये­ता­व­त्प्र­यो­क्तव्यं किमिति त्रीणि रूपाणीत्येव सत्यमित्युक्तं तत्राऽऽह –
प्रागिति ।

प्रकृतमुपसंहरति –
तस्मादिति ।
प्रथ­म­प­क्ष­व­द्द्वि­ती­य­पक्षे दोषाभावादिति यावत् ।

यद्यै­हि­क­वि­ष­य­व­द्ब्रा­ह्म­लौ­किका अपि विषया विचार्यमाणाः सत्यास्तर्हि कस्तत्र विशेषो येनै­त­त्प­रि­त्या­गेन तत्कामिनां विद्याविधानं तत्राऽऽह –
बाह्येति ।
जन्या ब्रह्मलोके विषया इति शेषः । प्रकृतायाः फल­श्रु­ते­रि­त्य­ध्या­हारः ।

ननु तेषा­म­वि­द्या­द­शा­या­म­र्थ­क्रि­या­का­रि­त्व­रू­प­स­त्य­त्व­सं­भ­वेऽपि कुतो विद्यावस्थायां सत्य­त्व­मि­त्या­श­ङ्क्याऽह –
सत्सत्येति ।
यथा रज्ज्वां कल्पितसर्पादयो रज्जुतत्त्वबोधे तदा­त्म­ता­मे­वाऽऽ­पा­द्यन्ते विवेचनात्तथा सर्वेऽपि विषया विद्या­व­स्था­या­म­न्व­य­व्य­ति­रे­काभ्यां परि­हा­रा­या­स­न्मा­त्र­त्व­मेव प्राप्नुवन्तीति तत्स­त्य­त्व­म­वि­रु­द्ध­मि­त्यर्थः ॥४॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य पञ्चमः खण्डः ॥