आनन्दगिरिटीका (छान्दोग्य)
अष्टमोऽध्यायः: पञ्चमः खण्डः
अथ यथोक्तपरमात्मप्राप्तिसाधने ज्ञाने सहकारिब्रह्मचर्यं प्रागेवोक्तं तथाच कृतं ब्रह्मचर्यविषयेणोत्तरग्रन्थेनेत्याशङ्क्याऽऽह –
य आत्मेति ।
शमाद्यपेक्षयाऽन्तरशब्दः । उक्तमपि ब्रह्मचर्यं विधातुमनन्तरग्रन्थप्रवृत्तिरित्यर्थः ।
किमिति तर्हि तस्य स्तुतिरित्याशङ्क्य तस्या विधिशेषत्वं दर्शयति –
यज्ञादिभिश्चेति ।
श्रुतिराहोत्तरं वाक्यमित्युक्तं तदादाय व्याकरोति –
अथेत्यादिना ।
ब्रह्मचर्यस्योक्तरीत्या विधित्सितत्वे तदीयस्तुतिप्रारम्भार्थोऽथशब्दः ।
यज्ञस्य ब्रह्मचर्येऽन्तर्भावं साधयति –
यज्ञस्यापीति ।
उक्तमेवार्थमाकाङ्क्षाद्वारा समर्थयते –
कथमित्यादिना ।
पारम्पर्येण चित्तशुद्धिद्वारेणेत्यर्थः ।
न केवलं फलद्वारा यज्ञो ब्रह्मचर्येऽन्तर्भवति किन्तु यकारज्ञकारसम्स्पर्शादपीत्याह –
यो ज्ञातेति ।
इष्टस्य ब्रह्मचर्यान्तर्भावमाकाङ्क्षाद्वारा स्फोरयति –
कथमित्यादिना ।
पूजयित्वा तमात्मानमनुनिन्दत इति सम्बन्धः ।
ब्रह्मचर्येणाऽत्मविषयैषणं निष्पाद्यते इष्टेनापि तदेव सम्पाद्यते तस्मादेषणादुभयसादृश्यादिष्टमपि यज्ञवद्ब्रह्मचर्यमेवेत्याह –
एषणादिति ॥१॥
बहुयजमानकं वैदिकं कर्म सत्त्रायणम् । तथा यज्ञवदिष्टवच्चेत्यर्थः । कथं सत्त्रायणं ब्रह्मचर्येऽन्तर्भवतीत्याशङ्क्याऽऽह –
सत इति ॥२॥
उपवासपरायणत्वमनाशकायनं तत्कथं ब्रह्मचर्येऽन्तर्भवतीत्याशङ्क्याऽऽह –
यमात्मानमिति ।
अरण्यायनमरण्यवासस्तत्कथं ब्रह्मचर्यान्तर्भूतमित्याशङ्क्याऽऽह –
अरण्यशब्दयोरिति ।
विस्तरेणोक्तमर्थं संक्षिप्याऽऽह –
यो ज्ञानादित्यादिना ।
यो ब्रह्मचर्येणाऽत्मनो ज्ञानादात्मानं विन्दते स ब्रह्मलोकं लभते तस्माद्यज्ञो ब्रह्मचर्यमिति योजना । आदिशब्देन स्वस्य परमपुरुषार्थसाधनत्वं गृह्यते ॥३॥
ब्रह्मचर्यस्य स्तुतत्वात्तद्विषयं विधिमिक्त्वा तत्सहकृतविद्यासाध्यफलं कथयति –
तत्तत्र (ही)ति ।
ब्रह्मचर्यस्यात्यल्पसाधनत्वान्महती स्तुतिरयुक्ता तद्ब्रह्मचर्येण ज्ञानमुपलक्ष्य तदेव स्तूयत इति मतमुत्थापयति –
नन्वत्रेति ।
तस्य क्षुद्रसाधनत्वमसिद्धं दुरनुष्टेयत्वात्तद्व्यतिरेकेण ज्ञानासम्भवाच्चेत्युत्तरमाह –
नेत्यादिना ।
विषयापहृतचित्तानां नराणां विवेकासम्भवे प्रमाणमाह –
पराञ्चीति ।
ध्यायतो विषयानित्याद्या स्मृतिरत्र विवक्षिता ।
ब्रह्मचर्यस्योत्तमसाधनत्वे सिद्धे फलितमाह –
ज्ञानेति ।
ब्रह्मलोकप्राप्तिसाधनस्य ब्रह्मचर्यस्य यज्ञादिभिः स्तुतत्वात्तेषामपि तत्प्राप्तिसाधनत्वं श्रुत्याऽभिप्रेतमिति शङ्कते –
नन्विति ।
किं तेषां पुरुषार्थसाधनत्वं प्रस्तुतश्रुत्या प्रतीतं किं वा ब्रह्मलोकसाधनत्वमिति विकल्प्याऽऽद्यमङ्गीकरोति –
सत्यमिति ।
न द्वितीयो वाक्यभेदप्रसङ्गादित्याह –
न त्विति ।
कथं तर्हि यज्ञादिभिर्ब्रह्मचर्यस्तुतिस्तत्राऽऽह –
किं तर्हीति ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेति ।
त्वमिन्द्रस्त्वं विष्णुरित्यादिना विप्रादिभी राजा स्तूयते तथाऽपि न तस्येन्द्रादिव्यापारे निरङ्कुशं कर्तृत्वमस्तीति यथेष्यते तथा यज्ञादिभिर्ब्रह्मचर्यस्य स्तुतस्यापि नास्ति तुल्यफलत्वमित्यर्थः ।
ब्रह्मलोकस्थान्पदार्थान्निर्णेतुं विचारमवतारयन्नादौ तद्विषयमाह –
य इम इति ।
तत्रैकं पक्षमुत्थाप्य दृष्टान्तेन तदुत्थितिप्रकारमाह –
ते किमिति ।
पक्षान्तरं स्वप्नदृष्टान्तवशाद्दर्शयति –
आहोस्विदिति ।
कस्मिन्पक्षे को लाभः को वा दोषः, इति शिष्यः पृच्छति –
किंचात इति ।
घटस्थौल्ये दोषदर्शनान्मानसत्त्वेन सौक्ष्म्ये च पुराणानुग्रहसंभवात्ते मानसा एवेत्याह –
यदीति ।
न केवलं तेषां स्थौल्ये स’त्युभे अस्मिन्नि’त्यादिश्रुत्या पुराणस्मृत्या च विरोधः किं त्वशोकं संतापवर्जितमहिमं शीतस्पर्शशून्यं ब्रह्मलोकमुपयन्तीत्याद्याश्च श्रुतयो ब्रह्मलोकं निरूपयन्त्यस्तत्रत्यानामर्थानां स्थौल्ये विरुध्येरन् ।
स्थूलानां पदार्थानां तत्र सत्त्वे शीतस्पर्शादेरवर्जनीयत्वादित्याह –
अशोकमिति ।
ब्राह्मलौकिकपदार्थानां मानसत्वे पुराणस्मृत्यन्तरविरोधं शङ्कते –
नन्विति ।
किं दृश्यमानरूपेण समुद्रादीनां ब्रह्मलोकगमनं स्मृत्यर्थः किं वा स्वरूपान्तरेणेति विकल्प्याऽद्यं दूषयति –
न मूर्तिमत्व इति ।
उभयत्रानुपलम्भप्रसङ्गादिति ।
प्रथमपक्षायोगेद्वितीयंपक्षंपरिशिष्टमाचष्टे –
तस्मादिति ।
अस्तु द्वितीयो विकल्पः का नो हानिरित्याशङ्क्य ब्रह्मलके मानसेन देहेन मानसादीनामेव सागरादीनां मानसरूपेण सह सम्बन्धोपपत्तेर्मानस्य एव मूर्तयस्तेषां ब्रह्मलोकस्थाःकल्पयितुं युक्ता इत्याह –
तुल्यायां चेति ।
तर्हि मनोरथकल्पितवदतिचञ्चलत्वाद्भोगयोग्याकारत्वं सागरादीनां न स्यादित्याशङ्क्याह –
दृष्टा हीति ।
स्वप्नतुल्यत्वे मिथ्यात्वप्रसक्तिरिति शङ्कते –
नन्विति ।
प्रसङ्गस्येष्टत्वमाशङ्क्य श्रुतिविरोधमाह –
त इम इति ।
ये स्वप्ने दृष्टास्ते न सन्ति न तु न दृष्टा इति दर्शनं न बाध्यते तथा च स्वाप्नसंवेदनस्य सत्यत्वमिष्टं तथैव ब्राह्मलौकिकानां पदर्थानाम् ।
मानस्य इति दृष्टान्तं विवृणोति –
मानसा हीति ।
जागरिते संविदतिरिक्ताः सन्ति पदार्थास्तद्वासनारूपास्ते स्वप्ने भान्ति न तु संविदात्मकत्वं तेषामिति शङ्कते –
नन्विति ।
जागरितस्यापि संविद्विवर्तत्वान्न पृथगस्ति सत्वमित्युत्तरमाह –
अत्यल्पमिति ।
भूमविद्यालोचनायामपि जाग्रद्विषयाणां संविद्विवर्तत्वं सेत्स्यतीत्याह –
संकल्पमूला हीति ।
इतश्च जाग्रद्विषयाणां संविद्विवर्तत्वमित्याह सर्वश्रुतिषु चेति । ननु कुलालो घटं चिकीर्षुर्मनसि संकल्पितमाकारं बहिर्निर्मिमीते तत्र सङ्कल्पो बाह्याकरस्य निमित्तं संकल्पश्च पूर्वानुभूतसजातीयगोचरः पूर्वानुभूतोऽपि पूर्वतरसंकल्पनिमित्त इति निमित्तनैमित्तिकभावः ।
सर्वस्य संविद्विवर्तत्वे कथमुपपद्यते तत्राऽह –
तस्मादिति ।
यस्मात्सतः सर्वस्येक्षणं पूर्वकल्पीयसदृशगोचरं पूर्वकल्पीयास्ततः पूर्वतरेक्षणनिमित्ता इति संविदेवेत्थं स्वाविद्यया विवर्तते निरवयवस्य सन्मात्रस्य स्वारस्येनेक्षणाद्यनुपपत्तेस्तस्मात्सर्वस्य संविद्विवर्तत्वेऽपि निमित्तनैमित्तिकभावोऽयमनिर्वाच्यो न विरुध्यत इत्यर्थः ।
अथ सच्छब्दवाच्यायाः संविदोऽनिर्वाच्यस्पन्दनकाले ये विषया बाह्यतया भासन्ते तेषां कदाचिदपि संविदतिरेकेण सत्त्वानङ्गीकारादाद्यन्तासत्त्वलक्षणमनृतत्वमापद्येत तथा च व्यवहारभङ्गप्रसङ्गस्तत्राऽऽह –
यद्यपीति ।
तथाऽपि नानृतत्वमित्यध्याहारः अध्यस्तस्याधिष्ठानमेव स्वात्मातस्मिन्न कदाचिदप्यत्यन्तासत्त्वं तादात्मयेनैव स्फुरणादतो न व्यवहारभङ्गप्रसङ्ग इति भावः ।
कदाचिदपि नानृतत्वमिति वदता प्रतीतिकालात्कालान्तरेऽपि विषयाणां नासत्त्वमित्युक्तं तत्रानुभवविरोधं शङ्कते –
नन्विति ।
स्वप्नदृष्टानां समीहितमेव कालान्तरे मिथ्यात्वमित्यङ्गीकरोति –
सत्यमिति ।
तर्हि तेषामसत्त्वमेव स्वीकृतमित्याशङ्क्याऽऽह –
जाग्रदिति ।
तथाऽपि जाग्रद्बोधेनाविषयीकरणादसत्त्वं स्वप्नदृष्टानामेष्टव्यमित्याशङ्क्याऽऽह –
तथेति ।
यदि जाग्रद्बोधेनाविषयीकरणमात्रेणासत्त्वं स्वप्नदृष्टानां पदार्थानामिष्टं तर्हि जाग्रद्विषयाणामपि स्वप्नबोधेनाविषयीकरणादसत्त्वप्रसङ्गस्तन्न कदाचिदपि संविदि विषयाणामत्यन्तासत्त्वमित्यर्थः ।
कथं तर्हि वाचारम्भणश्रुतिरित्याशङ्क्याऽऽह –
विशेषेति ।
त्रयाणां रूपाणां सत्यत्वे विशेषाकारमात्रं मिथ्येत्युक्तमयुक्तं तेष्वपि विशेषाकारस्य सत्त्वादित्याशङ्क्याऽऽह –
तान्यपीति ।
कथं तर्हि तेषु सत्यपदं प्रयुक्तमित्याशङ्क्याऽऽह –
स्वत इति ।
तर्हि तत्सत्यमित्येतावत्प्रयोक्तव्यं किमिति त्रीणि रूपाणीत्येव सत्यमित्युक्तं तत्राऽऽह –
प्रागिति ।
प्रकृतमुपसंहरति –
तस्मादिति ।
प्रथमपक्षवद्द्वितीयपक्षे दोषाभावादिति यावत् ।
यद्यैहिकविषयवद्ब्राह्मलौकिका अपि विषया विचार्यमाणाः सत्यास्तर्हि कस्तत्र विशेषो येनैतत्परित्यागेन तत्कामिनां विद्याविधानं तत्राऽऽह –
बाह्येति ।
जन्या ब्रह्मलोके विषया इति शेषः । प्रकृतायाः फलश्रुतेरित्यध्याहारः ।
ननु तेषामविद्यादशायामर्थक्रियाकारित्वरूपसत्यत्वसंभवेऽपि कुतो विद्यावस्थायां सत्यत्वमित्याशङ्क्याऽह –
सत्सत्येति ।
यथा रज्ज्वां कल्पितसर्पादयो रज्जुतत्त्वबोधे तदात्मतामेवाऽऽपाद्यन्ते विवेचनात्तथा सर्वेऽपि विषया विद्यावस्थायामन्वयव्यतिरेकाभ्यां परिहारायासन्मात्रत्वमेव प्राप्नुवन्तीति तत्सत्यत्वमविरुद्धमित्यर्थः ॥४॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य पञ्चमः खण्डः ॥