कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
प्रथमपरिच्छेदः
वेदवेद्यमुमाकान्तं कुमाराभ्यामलंकृतम् ।
नन्दीशप्रमुखैस्सेव्यं प्रणमामीष्टसिद्धये ॥ १ ॥
शङ्करं शङ्कराचार्यं व्यासं नारायणात्मकम् ।
सरस्वतीं च ब्रह्माणं प्रणमामि पुनः पुनः ॥ २ ॥
गोविन्देति समाक्रन्द्य रक्षां प्राप भयातुरः ।
यं गजः करुणामूर्तिं तं गोविन्दं भजेऽन्वहम् ॥ ३ ॥
आपन्ना यं समाश्रित्य रक्षां प्राप सुदुर्लभाम् ।
कृष्णा कृष्णस्य महिषी तं कृष्णं संश्रयेऽन्वहम् ॥ ४ ॥
प्रकाशितब्रह्मतत्त्वं प्रकृष्टगुणशालिनम् ।
प्रणवस्योपदेष्टारं प्रणमाम्यनिशं गुरुम् ॥ ५ ॥
यो मे विश्वेश्वरक्षेत्रं विश्वेश्वरसमो गुरुः ।
समध्यास्ते स्वयञ्ज्योतिर्वाणीसंज्ञो भजामि तम् ॥ ६ ॥
यस्य शिष्यप्रशिष्याद्यैः व्याप्तेयं साम्प्रतं मही ।
सर्वज्ञस्य गुरोस्तस्य चरणौ संश्रये सदा ॥ ७ ॥
गुरोरपि गरीयान्मे यः कलाभिरलंकृतः ।
अद्वैतानन्दवाण्याख्यस्तं वन्दे शमवारिधिम् ॥ ८ ॥
ओतप्रोतमिदं सर्वं यस्मिन् सच्चित्सुखात्मके ।
पर्यवस्यन्ति वेदान्ता यत्र चाहं तदक्षरम् ॥ ९ ॥
श्रीकृष्णचरणद्वन्द्वं प्रणिपत्य निबन्धनम् ।
व्याकुर्वे शास्त्रसिद्धान्तलेशसङ्ग्रहसंज्ञितम् ॥ १० ॥
आचार्यचरणद्वन्द्वस्मृतिर्लेखकरूपिणम् ।
मां कृत्वा कुरुते व्याख्यां नाहमत्र प्रभुर्यतः ॥११ ॥
कुमाराभ्यां - विघ्नेश्वरसुब्रह्मण्याभ्याम् । शङ्करं - शङ्करस्य शिवस्य अवताररूपं शङ्कराचार्यं - भगवत्पादम् । तथा च शिवपुराणवचनम् — ‘व्याकुर्वन् व्याससूत्रार्थं श्रुतेरर्थं यथोचिवान् । श्रुतेर्न्याय्यः स एवार्थः शङ्करः सविताननः’ इत्यादि । व्यासं - सूत्रकृतं बादरायणम् । नारायणात्मकं - नारायणस्यावताररूपम् । तथा च वचनम् —‘द्वापरे द्वापरे विष्णुः व्यासरूपी महामुनिः’ इति ।‘न ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्’ इत्यादि च । ब्रह्माणं - सरस्वतीभर्तारं, हिरण्यगर्भं [च] । आपन्ना - सभायां वस्त्रापहारनिमित्तामापदं प्राप्ता । रक्षां - वस्त्रकोटिलाभनिमित्ताम् । कृष्णा - द्रौपदी । कृष्णस्य - अर्जुनस्य । प्रकाशितं - शिष्यशतेभ्य उपदिष्टं ब्रह्मतत्त्वं येन गुरुणा स तथोक्तः तम् । स्वयञ्ज्योतिर्वाणीसंज्ञः - स्वयम्प्रकाशसरस्वतीसंज्ञः । गरीयान् - गुरुः । इदं सर्वं यस्मिन् सच्चित्सुखात्मके अक्षरे - ब्रह्मणि ओतप्रोतं - अध्यस्तं, वेदान्ताश्च यत्र - अक्षरे विषये पर्यवस्यन्ति - तात्पर्येण बोधहेतवो भवन्ति तदहं इति सम्बन्धः । अक्षरे सर्वस्य ओतप्रोतत्वोक्त्या ब्रह्मणः सर्वाधिष्ठानत्वरूपं तटस्थलक्षणं उक्तम् ।‘सच्चित्सुखात्मकः’ इत्यनेन सत्यज्ञानानन्दस्वरूपात्मकं स्वरूपलक्षणं उक्तम् । तत्र वेदान्तानां पर्यवसानोक्त्या उक्तरूपे ब्रह्मणि अक्षरे वेदान्ता एव प्रमाणं इत्युक्तम् ।(नाहमत्र प्रभुर्यतः इत्यत्र) अत्र-व्याख्याने प्रभुः - समर्थ इत्यर्थः । चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्तिप्रचयगमनयोः सिद्धये भगवत्पादीयभाष्यस्तुतिमुखेन भाष्यप्रतिपाद्यब्रह्मतत्त्वानुसन्धानलक्षणं मङ्गलाचरणं करोति —
अधिगतभिदेति ।
दृष्टान्तमुखेन श्रीमूर्तिचरणारविन्दगङ्गयोः अनुसन्धानलक्षणमपि मङ्गलं करोति —
शौरीति ।
शौरिपदोद्गता सरित् महीभेदान् सम्प्राप्य यथा सहस्रधा अधिगतभिदा, तथा भगवत्पादश्रीमन्मुखाम्बुजनिर्गता ब्रह्माद्वयैकपरायणा जननहरणी सूक्तिः पूर्वाचार्यान् व्याख्यातॄन् व्याख्येयत्वेन उपेत्य अर्थतः सहस्रधा अधिगतभिदा सती जयतीति सम्बन्धः । अत्र सूक्तिः सहस्रधा अधिगतभिदेति सूक्तिविशेषणेन स्वग्रन्थे प्रदर्शयिष्यमाणसिद्धान्तभेदानां सर्वेषां भगवत्पादश्रीमन्मुखाम्बुजनिर्गता सूक्तिरेव मूलं इति सूचितम् । अधिगतभिदा - प्राप्तभेदा सरित् - गङ्गा । महीभेदान् - भूप्रदेशान् । शौरेः - श्रीमहाविष्णोः पदोद्गता - पादाम्बुजनिर्गता जयति - सर्वोत्कर्षेण वर्तते इति स्तुतिः । भगवत्पादस्य श्रीमन्मुखमेवाम्बुजं - कमलं तस्मान्निर्गता । मुखे अम्बुजत्वारोपे कान्तिमत्त्वादिरूपं श्रीमत्त्वं निमित्तं इति सूचनार्थं श्रीमदिति विशेषणम् । जननहरणी - जननं संसारः तत् स्वजन्यब्रह्मज्ञानद्वारा हरतीति जननहरणी, सूक्तिः - ग्रन्थतोऽर्थतश्च निरवद्यं भाष्यम् । ब्रह्माद्वयैकपरायणा - ब्रह्म च तत् अद्वयं च ब्रह्माद्वयं, ब्रह्माद्वयं च तत् एकं च ब्रह्माद्वयैकं, ब्रह्माद्वयैकं परायणं - परमतात्पर्यविषयो यस्याः सूक्तेः, सा ब्रह्माद्वयैकपरायणा । अनेन विशेषणेन द्वितीयप्रपञ्चशून्यं एकरूपं सत्यज्ञानानन्दलक्षणं ब्रह्म सूक्तिपदसङ्गृहीतस्य भाष्यात्मकशास्त्रस्य विषयः इत्युक्तं भवति । जननहरणीति विशेषणेन शास्त्रस्य मुक्तिः प्रयोजनं इत्युक्तम् । अर्थात् मुक्तिकामः शास्त्रस्याधिकारी, मुक्तेरधिकारिणश्च प्राप्यप्राप्तृभावलक्षणः सम्बन्धश्च सूचितः । एवं श्रुत्यर्थाभ्यां श्लोकेन भाष्यात्मकवेदान्तशास्त्रस्य विषयादिकं कथयता ग्रन्थकारेण स्वकीयग्रन्थस्य वेदान्तशास्त्रप्रकरणत्वात् तस्यापि तदेव विषयादि इति सूचितं भवति ।
इदानीं चिकीर्षितं प्रतिजानीते —
प्राचीनैरिति ।
प्राचीनैराचार्यैः आत्मैक्यसिद्धौ परम् - अत्यन्तं सन्नह्यद्भिः - तात्पर्यवद्भिः आत्मैक्यसिद्ध्युपायतया व्यवहारसिद्धविषयेषु - भ्रान्तिमात्रसिद्धपदार्थेषु जीवेश्वरजगद्रूपेषु अनादरात् सरणयः - प्रकाराः नानाविधाः - परस्परविरुद्धाः दर्शिताः । अनादरादित्यनेन ‘परस्परविरुद्धेषु जीवैकत्वनानात्वतत्प्रतिबिम्बत्वादिरूपप्रकारेषु अभिनिवेशवतामाचार्याणां भेदवादिनामिव अनाप्तत्वं स्यात्’ इति शङ्का निराकृता भवति । विवक्षितवस्तुप्रतिपत्त्युपायतया विरुद्धनानाप्रकारप्रदर्शनं आचार्याणां न दोषाय भवति । किं तु अलङ्कारायैव भवति । प्रतिपत्तॄणां प्रज्ञावैचित्र्येण कस्यचित् प्रतिपत्तुः केनचित् प्रकारेण मुक्तिसाधनब्रह्मात्मैक्यज्ञानलाभात् । तदुक्तं सुरेश्वराचार्यैः — ‘यया यया भवेत् पुंसां व्युत्पत्तिः प्रत्यगात्मनि । सा सैव प्रक्रियेह स्यात् साध्वी सा चानवस्थिता ॥’ [बृहदारण्यकवार्तिकम् —१-४-४०२] इति । वयुत्पत्तिः - बोधः । प्रत्यक् चासौ आत्मा च प्रत्यगात्मा सर्वान्तरश्चिदात्मा, तस्मिन् विषये । प्रक्रिया - प्रकारः । इह - वेदान्तशास्त्रे । साध्वी - निरवद्या गुणभूता । सा च अनवस्थिता - नानाविधा । परिमले दीक्षितैरप्येतदुक्तम् —‘अकल्पितवस्तुप्रतिपत्त्युपायतया कल्प्यमानेषु पदार्थेषु विरोधो न दोषावहः, यथा तात्त्विकारुन्धतीप्रतिपत्त्युपायतया नानापुरुषैः कल्प्यमानासु तत्प्राच्योदीच्यादिनक्षत्ररूपासु स्थूलारुन्धतीषु विरोधो न दोषावहः’ [ब्र.सू. १—४-१५] इति । तन्मूलान् - प्राचीनप्रदर्शितनानाविधसरणिमूलान् । इह - स्वग्रन्थे । धियः शुद्ध्यै स्वबुद्धिपरिष्काराय । वस्तुतस्तु लोकानुग्रह एव प्रयोजनमिति बोध्यम् । तातचरणानां - पितृचरणानां व्याख्यारूपैः वचोभिः ख्यापितान् - ज्ञापितान् ।
अनेन स्वस्य ब्रह्मविद्यां आचार्यादेव लब्धां दर्शयति स्वग्रन्थस्योपादेयत्वसिद्धये ॥ २ ॥‘इह सङ्ग्रहेण सिद्धान्तभेदान् सङ्कलयामि’ इत्युक्तमेव विवृण्वन्, ‘ननु प्राचीनग्रन्थसिद्धान्तानामेव स्वग्रन्थे सङ्ग्रहः इत्युक्तमयुक्तं, प्राचीनग्रन्थेष्वविद्यमानस्यापि युक्तिभिः उपपादनस्य स्वकीयसङ्ग्रहग्रन्थे तत्र तत्र उपलम्भात्’ इति शङ्कां निराकरोति —
तेष्विति ॥ ३ ॥