अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

प्रथमपरिच्छेदः

वेद­वे­द्य­मु­मा­कान्तं कुमा­रा­भ्या­म­लं­कृ­तम् ।
नन्दी­श­प्र­मु­खै­स्सेव्यं प्रण­मा­मी­ष्ट­सि­द्धये ॥ १ ॥
शङ्करं शङ्कराचार्यं व्यासं नारायणात्मकम् ।
सरस्वतीं च ब्रह्माणं प्रणमामि पुनः पुनः ॥ २ ॥
गोविन्देति समाक्रन्द्य रक्षां प्राप भयातुरः ।
यं गजः करुणामूर्तिं तं गोविन्दं भजेऽन्वहम् ॥ ३ ॥
आपन्ना यं समाश्रित्य रक्षां प्राप सुदुर्लभाम् ।
कृष्णा कृष्णस्य महिषी तं कृष्णं संश्रयेऽन्वहम् ॥ ४ ॥
प्रका­शि­त­ब्र­ह्म­तत्त्वं प्रकृ­ष्ट­गु­ण­शा­लि­नम् ।
प्रण­व­स्यो­प­दे­ष्टारं प्रणमाम्यनिशं गुरुम् ॥ ५ ॥
यो मे विश्वे­श्व­र­क्षेत्रं विश्वेश्वरसमो गुरुः ।
समध्यास्ते स्वय­ञ्ज्यो­ति­र्वा­णी­संज्ञो भजामि तम् ॥ ६ ॥
यस्य शिष्य­प्र­शि­ष्याद्यैः व्याप्तेयं साम्प्रतं मही ।
सर्वज्ञस्य गुरोस्तस्य चरणौ संश्रये सदा ॥ ७ ॥
गुरोरपि गरीयान्मे यः कलाभिरलंकृतः ।
अद्वै­ता­न­न्द­वा­ण्या­ख्यस्तं वन्दे शमवारिधिम् ॥ ८ ॥
ओतप्रोतमिदं सर्वं यस्मिन् सच्चि­त्सु­खा­त्मके ।
पर्यवस्यन्ति वेदान्ता यत्र चाहं तदक्षरम् ॥ ९ ॥
श्रीकृ­ष्ण­च­र­ण­द्वन्द्वं प्रणिपत्य निबन्धनम् ।
व्याकुर्वे शास्त्र­सि­द्धा­न्त­ले­श­स­ङ्ग्र­ह­सं­ज्ञि­तम् ॥ १० ॥
आचा­र्य­च­र­ण­द्व­न्द्व­स्मृ­ति­र्ले­ख­क­रू­पि­णम् ।
मां कृत्वा कुरुते व्याख्यां नाहमत्र प्रभुर्यतः ॥११ ॥

कुमाराभ्यां - विघ्ने­श्व­र­सु­ब्र­ह्म­ण्या­भ्याम् । शङ्करं - शङ्करस्य शिवस्य अवताररूपं शङ्कराचार्यं - भगवत्पादम् । तथा च शिवपुराणवचनम् — ‘व्याकुर्वन् व्याससूत्रार्थं श्रुतेरर्थं यथोचिवान् । श्रुते­र्न्याय्यः स एवार्थः शङ्करः सविताननः’ इत्यादि । व्यासं - सूत्रकृतं बादरायणम् । नारायणात्मकं - नारा­य­ण­स्या­व­ता­र­रू­पम् । तथा च वचनम् —‘द्वापरे द्वापरे विष्णुः व्यासरूपी महामुनिः’ इति ।‘न ह्यन्यः पुण्ड­री­का­क्षा­न्म­हा­भा­र­त­कृ­द्भ­वेत्’ इत्यादि च । ब्रह्माणं - सरस्वतीभर्तारं, हिरण्यगर्भं [च] । आपन्ना - सभायां वस्त्रा­प­हा­र­नि­मि­त्ता­मा­पदं प्राप्ता । रक्षां - वस्त्र­को­टि­ला­भ­नि­मि­त्ताम् । कृष्णा - द्रौपदी । कृष्णस्य - अर्जुनस्य । प्रकाशितं - शिष्यशतेभ्य उपदिष्टं ब्रह्मतत्त्वं येन गुरुणा स तथोक्तः तम् । स्वय­ञ्ज्यो­ति­र्वा­णी­संज्ञः - स्वय­म्प्र­का­श­स­र­स्व­ती­संज्ञः । गरीयान् - गुरुः । इदं सर्वं यस्मिन् सच्चि­त्सु­खा­त्मके अक्षरे - ब्रह्मणि ओतप्रोतं - अध्यस्तं, वेदान्ताश्च यत्र - अक्षरे विषये पर्यवस्यन्ति - तात्पर्येण बोधहेतवो भवन्ति तदहं इति सम्बन्धः । अक्षरे सर्वस्य ओत­प्रो­त­त्वोक्त्या ब्रह्मणः सर्वा­धि­ष्ठा­न­त्व­रूपं तटस्थलक्षणं उक्तम् ।‘सच्चि­त्सु­खा­त्मकः’ इत्यनेन सत्य­ज्ञा­ना­न­न्द­स्व­रू­पा­त्मकं स्वरूपलक्षणं उक्तम् । तत्र वेदान्तानां पर्यवसानोक्त्या उक्तरूपे ब्रह्मणि अक्षरे वेदान्ता एव प्रमाणं इत्युक्तम् ।(नाहमत्र प्रभुर्यतः इत्यत्र) अत्र-व्याख्याने प्रभुः - समर्थ इत्यर्थः । चिकीर्षितस्य ग्रन्थस्य निर्वि­घ्न­प­रि­स­मा­प्ति­प्र­च­य­ग­म­नयोः सिद्धये भग­व­त्पा­दी­य­भा­ष्य­स्तु­ति­मु­खेन भाष्य­प्र­ति­पा­द्य­ब्र­ह्म­त­त्त्वा­नु­स­न्धा­न­ल­क्षणं मङ्गलाचरणं करोति —
अधिगतभिदेति ।

दृष्टान्तमुखेन श्रीमू­र्ति­च­र­णा­र­वि­न्द­ग­ङ्गयोः अनु­स­न्धा­न­ल­क्ष­ण­मपि मङ्गलं करोति —
शौरीति ।
शौरिपदोद्गता सरित् महीभेदान् सम्प्राप्य यथा सहस्रधा अधिगतभिदा, तथा भग­व­त्पा­द­श्री­म­न्मु­खा­म्बु­ज­नि­र्गता ब्रह्मा­द्व­यै­क­प­रा­यणा जननहरणी सूक्तिः पूर्वाचार्यान् व्याख्यातॄन् व्याख्येयत्वेन उपेत्य अर्थतः सहस्रधा अधिगतभिदा सती जयतीति सम्बन्धः । अत्र सूक्तिः सहस्रधा अधिगतभिदेति सूक्तिविशेषणेन स्वग्रन्थे प्रद­र्श­यि­ष्य­मा­ण­सि­द्धा­न्त­भे­दानां सर्वेषां भग­व­त्पा­द­श्री­म­न्मु­खा­म्बु­ज­नि­र्गता सूक्तिरेव मूलं इति सूचितम् । अधिगतभिदा - प्राप्तभेदा सरित् - गङ्गा । महीभेदान् - भूप्रदेशान् । शौरेः - श्रीमहाविष्णोः पदोद्गता - पादा­म्बु­ज­नि­र्गता जयति - सर्वोत्कर्षेण वर्तते इति स्तुतिः । भगवत्पादस्य श्रीम­न्मु­ख­मे­वा­म्बुजं - कमलं तस्मान्निर्गता । मुखे अम्बुजत्वारोपे कान्ति­म­त्त्वा­दि­रूपं श्रीमत्त्वं निमित्तं इति सूचनार्थं श्रीमदिति विशेषणम् । जननहरणी - जननं संसारः तत् स्वज­न्य­ब्र­ह्म­ज्ञा­न­द्वारा हरतीति जननहरणी, सूक्तिः - ग्रन्थ­तोऽ­र्थ­तश्च निरवद्यं भाष्यम् । ब्रह्मा­द्व­यै­क­प­रा­यणा - ब्रह्म च तत् अद्वयं च ब्रह्माद्वयं, ब्रह्माद्वयं च तत् एकं च ब्रह्माद्वयैकं, ब्रह्माद्वयैकं परायणं - पर­म­ता­त्प­र्य­वि­षयो यस्याः सूक्तेः, सा ब्रह्मा­द्व­यै­क­प­रा­यणा । अनेन विशेषणेन द्विती­य­प्र­प­ञ्च­शून्यं एकरूपं सत्य­ज्ञा­ना­न­न्द­ल­क्षणं ब्रह्म सूक्ति­प­द­स­ङ्गृ­ही­तस्य भाष्या­त्म­क­शा­स्त्रस्य विषयः इत्युक्तं भवति । जननहरणीति विशेषणेन शास्त्रस्य मुक्तिः प्रयोजनं इत्युक्तम् । अर्थात् मुक्तिकामः शास्त्र­स्या­धि­कारी, मुक्ते­र­धि­का­रि­णश्च प्राप्य­प्रा­प्तृ­भा­व­ल­क्षणः सम्बन्धश्च सूचितः । एवं श्रुत्य­र्थाभ्यां श्लोकेन भाष्या­त्म­क­वे­दा­न्त­शा­स्त्रस्य विषयादिकं कथयता ग्रन्थकारेण स्वकीयग्रन्थस्य वेदा­न्त­शा­स्त्र­प्र­क­र­ण­त्वात् तस्यापि तदेव विषयादि इति सूचितं भवति ।

इदानीं चिकीर्षितं प्रतिजानीते —
प्राचीनैरिति ।
प्राची­नै­रा­चार्यैः आत्मैक्यसिद्धौ परम् - अत्यन्तं सन्नह्यद्भिः - तात्पर्यवद्भिः आत्मै­क्य­सि­द्ध्यु­पा­य­तया व्यव­हा­र­सि­द्ध­वि­ष­येषु - भ्रान्ति­मा­त्र­सि­द्ध­प­दा­र्थेषु जीवे­श्व­र­ज­ग­द्रू­पेषु अनादरात् सरणयः - प्रकाराः नानाविधाः - परस्परविरुद्धाः दर्शिताः । अनादरादित्यनेन ‘पर­स्प­र­वि­रु­द्धेषु जीवै­क­त्व­ना­ना­त्व­त­त्प्र­ति­बि­म्ब­त्वा­दि­रू­प­प्र­का­रेषु अभि­नि­वे­श­व­ता­मा­चा­र्याणां भेदवादिनामिव अनाप्तत्वं स्यात्’ इति शङ्का निराकृता भवति । विव­क्षि­त­व­स्तु­प्र­ति­प­त्त्यु­पा­य­तया विरु­द्ध­ना­ना­प्र­का­र­प्र­द­र्शनं आचार्याणां न दोषाय भवति । किं तु अलङ्कारायैव भवति । प्रतिपत्तॄणां प्रज्ञा­वै­चि­त्र्येण कस्यचित् प्रतिपत्तुः केनचित् प्रकारेण मुक्ति­सा­ध­न­ब्र­ह्मा­त्मै­क्य­ज्ञा­न­ला­भात् । तदुक्तं सुरे­श्व­रा­चार्यैः — ‘यया यया भवेत् पुंसां व्युत्पत्तिः प्रत्यगात्मनि । सा सैव प्रक्रियेह स्यात् साध्वी सा चानवस्थिता ॥’ [बृह­दा­र­ण्य­क­वा­र्ति­कम् —१-४-४०२] इति । वयुत्पत्तिः - बोधः । प्रत्यक् चासौ आत्मा च प्रत्यगात्मा सर्वा­न्त­र­श्चि­दात्मा, तस्मिन् विषये । प्रक्रिया - प्रकारः । इह - वेदान्तशास्त्रे । साध्वी - निरवद्या गुणभूता । सा च अनवस्थिता - नानाविधा । परिमले दीक्षि­तै­र­प्ये­त­दु­क्तम् —‘अक­ल्पि­त­व­स्तु­प्र­ति­प­त्त्यु­पा­य­तया कल्प्यमानेषु पदार्थेषु विरोधो न दोषावहः, यथा तात्त्वि­का­रु­न्ध­ती­प्र­ति­प­त्त्यु­पा­य­तया नानापुरुषैः कल्प्यमानासु तत्प्रा­च्यो­दी­च्या­दि­न­क्ष­त्र­रू­पासु स्थूलारुन्धतीषु विरोधो न दोषावहः’ [ब्र.सू. १—४-१५] इति । तन्मूलान् - प्राची­न­प्र­द­र्शि­त­ना­ना­वि­ध­स­र­णि­मू­लान् । इह - स्वग्रन्थे । धियः शुद्ध्यै स्वबु­द्धि­प­रि­ष्का­राय । वस्तुतस्तु लोकानुग्रह एव प्रयोजनमिति बोध्यम् । तातचरणानां - पितृचरणानां व्याख्यारूपैः वचोभिः ख्यापितान् - ज्ञापितान् ।

अनेन स्वस्य ब्रह्मविद्यां आचार्यादेव लब्धां दर्शयति स्वग्र­न्थ­स्यो­पा­दे­य­त्व­सि­द्धये ॥ २ ॥‘इह सङ्ग्रहेण सिद्धान्तभेदान् सङ्कलयामि’ इत्युक्तमेव विवृण्वन्, ‘ननु प्राची­न­ग्र­न्थ­सि­द्धा­न्ता­ना­मेव स्वग्रन्थे सङ्ग्रहः इत्यु­क्त­म­युक्तं, प्राची­न­ग्र­न्थे­ष्व­वि­द्य­मा­न­स्यापि युक्तिभिः उपपादनस्य स्वकी­य­स­ङ्ग्र­ह­ग्रन्थे तत्र तत्र उपलम्भात्’ इति शङ्कां निराकरोति —
तेष्विति ॥ ३ ॥