कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
संन्यासस्य विद्योपयोगित्वनिरूपणम्
किंद्वारेति ।
किमदृष्टद्वारा विद्योपयोगः, किं वा दृष्टद्वारा । नाद्यः, विद्योत्पत्तिप्रतिबन्धकदुरितस्य यज्ञाद्यनुष्ठानजनितापूर्वेणैव निवर्तितत्वेन सन्न्यासजनितापूर्वनिवर्त्यदुरितालाभे सति सन्न्यासवैयर्थ्यप्रसङ्गात् । न द्वितीयः, तदनुपलम्भात् — इत्याक्षेपाभिप्रायः ।
तत्राद्यं पक्षं समर्थयते —
केचिदाहुरिति ।
ननु — सन्न्यासापूर्वस्य न विद्योदयहेतुत्वम्, असन्न्यासिनामपि केषां चित् विद्योद्देशेन श्रवणाद्यनुष्ठानदर्शनात्, केषां चित् सन्न्यासं विनैव विद्योदयस्य प्रमाणसिद्धत्वाच्च; इत्यत आह —
तथाचेति ।
सन्न्यासस्य विद्यां प्रति दृष्टद्वारानुपलम्भेन अदृष्टद्वारैव विद्याऽवाप्तिहेतुत्वे सन्न्यासविधिना सिद्धे सतीत्यर्थः । न च — दृष्टद्वारानुपलम्भोऽसिद्धः, लौकिकवैदिकव्यापारविक्षिप्तचित्तस्य विद्योदयासम्भवेन सर्वकर्मसन्न्यासस्य विक्षेपनिवृत्तिरूपदृष्टद्वारा विद्याहेतुत्वसम्भवादिति — वाच्यम् । लौकिकवैदिककर्मवतामपि केषांचित् पुरुषधौरेयाणां दैन्यहर्षक्रोधभयादिलक्षणविक्षेपनिवृत्तेः अनुभवसिद्धत्वेन तदर्थं सन्न्यासानपेक्षणादिति भावः ।
सन्न्यासस्य अदृष्टद्वारकत्वपक्षमेवावलम्ब्य सन्न्यासापूर्वस्य श्रवणाद्यधिकारिविशेषणत्वेन विद्योपयोगं सप्रमाणमाह —
अन्ये त्विति ।
शान्त इति ।
‘तितिक्षुः समाहितः श्रद्धावित्तो भूत्वाऽऽत्मन्येवात्मानं पश्येत्’ इति श्रुतिशेषः । शमः-अन्तरिन्द्रियनिग्रहः । दमः-बाह्येन्द्रियनिग्रहः । उपरतिः-नित्यकर्मत्यागः । ननु शान्तदान्तपदाभ्यामेव कर्ममात्रस्य वारितत्वात् उपरतिश्रुतिर्व्यर्थेति चेत्, न — शमदमविधिशास्त्रस्य सामान्यशास्त्रत्वात् तस्य नित्यकर्मविधिना विशेषशास्त्रेण नित्यनैमित्तिककर्मव्यतिरिक्तबाह्यान्तःकरणव्यापारनिवृत्तिमात्रपरतया संकोचे सति नित्यकर्मत्यागालाभात् पुनरुपरतश्रुत्या नित्यकर्मत्यागो बोध्यत इति न तस्याः वैयर्थ्यम् । तितिक्षुः — शीतोष्णादिद्वन्द्वसहिष्णुः । समाहितः - श्रवणाद्यपेक्षितचित्तसमाधानवान् । देवतागुरुवेदान्तेषु श्रद्धैव वित्तं यस्य सः श्रद्धावित्तः । भूत्वेत्यस्य प्रत्येकमन्वयः । आत्मन्येव — कार्यकरणसंघात एव । कार्यकरणसंघातसाक्षिणं आत्मानं ‘अहंब्रह्मास्मि’ इति पश्येत् इति श्रुत्यर्थः ।
साधनचतुष्टयेति ।
नित्यानित्यविवेकः ऐहिकामुष्मिकभोगविरागः शमादिषट्कं मुमुक्षा चेति साधनचतुष्टयम्; तच्च श्रवणाद्यधिकारिविशेषणमिति व्यवस्थापितं प्रथमसूत्रे इति भावः ।
सन्न्यासापूर्वस्याधिकारिविशेषणत्वे हेत्वन्तरमाह —
सहकार्यन्तरेत्यादिना प्रतिपादनादित्यन्तेन ।
सहकार्यन्तरस्य - विद्यां प्रति साधनान्तरस्य मौनस्य विधिः ‘अथ मुनिः’ इति शब्दः — इति सूत्रभागार्थः ।
सौत्रपदं तद्वत इति ।
तस्य व्याख्यानं विद्यावत इति । श्रवणाद्यनुष्ठानोपयोग्यापातज्ञानवत इत्यर्थः ।
‘सहकार्यन्तरविधिः’ इति सूत्रे तद्वतः सन्न्यासिनः इत्यनुक्तत्वात् कथं सन्न्यासिन इति लभ्यते, तत्राह —
तस्मादिति ।
तस्मादित्यपि श्रुतिपदमेव । यस्मात् अतीता ब्राह्मणा आपाततो ब्रह्मात्मानं विदित्वा तत्त्वसाक्षात्कारार्थं व्युत्थानशब्दितं सन्न्यासं कृतवन्तः, तस्मात् इदानींतनोऽपि ब्राह्मणो मुमुक्षुः सन्न्यस्य पाण्डित्यादिकं तत्त्वसाक्षात्कारार्थमनुतिष्ठेत् - इति श्रुत्यर्थः । पाण्डित्यं — श्रवणं, मौनं - ध्यानम् ।
तत इति ।
‘तस्मात् ब्राह्मणः’ इति वाक्यात् पूर्वमित्यर्थः ।
सन्न्यासापूर्वस्याधिकारिविशेषणत्वे वार्तिकसम्मतिरूपं हेत्वन्तरमाह —
त्यक्तेति ।
वार्तिके प्रथमविशेषणं सन्न्यासपरम् । ततश्च सन्न्यासमुमुक्षाजिज्ञासानां समुच्चयार्थेन चकारेण मुमुक्षुत्वादेरिव सन्न्यासस्यापि वेदान्तश्रवणादिष्वधिकारिविशेषणत्वं भातीति भावः ।
सन्न्यासापूर्वस्येति ।
सन्न्यासस्य त्यागलक्षणक्रियारूपतया स्वरूपेणानुवृत्त्ययोगात् अपूर्वपर्यन्तधावनमिति बोध्यम् ।
‘सन्न्यासस्य दृष्टद्वारा विद्योपयोगः’ इति द्वितीयपक्षं समर्थयते —
अपरे त्विति ।
ननु सन्न्यासस्य विद्याङ्गत्वबोधकश्रुत्यादिवत् तस्य श्रवणाद्यङ्गत्वबोधकप्रमाणाभावात् विवरणोक्तिरनुपपन्नेत्याशङ्क्य तस्यास्तात्पर्यमाह —
अनन्यव्यापारतयेति ।
कादाचित्कं श्रवणादिकं विद्योदयद्वारा नामृतत्वसाधनं, किं तु सार्वकालिकम् । ‘ब्रह्मसंस्थोऽमृतत्वमेति’ [छा.उ. २-२३-१] ‘आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया’ इत्यादिश्रुतिस्मृतिशतेभ्यः । तथा च अनन्यव्यापारतया श्रवणाद्यनुष्ठानं विदधता शास्त्रेण सन्न्यासोऽपेक्ष्यते । गृहस्थादेः स्वाश्रमविहितकर्मव्यग्रस्य सदाश्रवणाद्यनुष्ठानासम्भवात् । तथा विद्यासाधनत्वेन सन्न्यासं विदधताऽपि शास्त्रेण द्वारतया निरन्तरश्रवणाद्यनुष्ठानमपेक्ष्यते । सन्न्यासस्य साक्षाद्विद्यासाधनत्वाभावात्, दृष्टद्वारसम्भवे अदृष्टद्वारकल्पनानुपत्तेश्च । तत्रापि श्रवणादिकं तत्त्वव्यञ्जकत्वात् अर्थतः प्रधानं भवति, सन्न्यासस्तु उक्तहेत्वभावात् गुणभूततया व्यवतिष्ठते । एवं श्रवणादिविधेः सन्न्यासविधेश्च परस्परापेक्षाबलात् एकवाक्यभावमापन्नाभ्यां विधिभ्यां सन्न्यासाङ्गकं मनननिदिध्यासनसहितं श्रवणं विधीयत इति सिद्धा सन्न्यासस्य श्रवणाद्यङ्गतया आत्मज्ञानफलकतेति भावः । यद्वा विवरणोक्तेरयं भावः — श्रवणविधिस्तावत् श्रवणसाधनतया विक्षेपनिवृत्तिं तद्धेतुसन्न्यासं चापेक्षते । विक्षिप्तचेतसः श्रवणाद्यनुष्ठाने प्रवृत्त्यसम्भवात्, गृहस्थादेश्च स्वाश्रमकर्मकरणकालातिरिक्तकालेऽपि बहुविषयतया विक्षेपावश्यम्भावात् । सन्न्यासविधेरपि, विक्षेपनिवृत्तिरूपदृष्टद्वारा श्रवणादिकं घटयित्वा विद्यां सम्पादयतःसन्न्यासस्य विधानेन चारितार्थ्यसम्भवे अदृष्टद्वारा विद्यासाधनसन्न्यासविधायकत्वासम्भवात् । तथा च पूर्ववत् सन्न्यासस्य श्रवणाद्यङ्गतयैव विद्याफलकत्वं नत्वदृष्टद्वारेति सिद्धमिति । अस्मिन् व्याख्याने ‘अनन्यव्यापारतया’ इत्यस्य विक्षेपनिवृत्तिद्वारा इत्यर्थो विवक्षितः ।
तस्येति ।
सन्न्यासस्येत्यर्थः ।
ननु — सन्न्यासस्य विक्षेपनिवृत्तिद्वारा श्रवणाद्यङ्गभावमापन्नस्य विद्यासाधनत्वमुक्तमनुपपन्नम्, सन्न्यासं विनाऽपि विक्षेपनिवृत्तेः केषुचित् श्रवणाधिकारिषु सम्भवात् — इति शङ्कते —
यदि त्विति ।
अनलसस्येति ।
सत्त्वगुणप्रधानस्येति यावत् ।
धीमत इति ।
विषयेषु दोषदर्शनशीलस्येति यावत् ।
पुरुषधौरेयस्येति ।
विषयेभ्यस्सकाशात् इन्द्रियाणां निग्रहे समर्थस्येत्यर्थः । एतैर्विशेषणैः विक्षेपहेतूनामभावसूचनात् विक्षेपनिवृत्तिरुक्ता ।
सन्न्यासफलस्य विक्षेपाभावस्य सन्न्यासादिव सन्न्यासादन्यतोऽपि प्राप्तौ सन्न्यासस्य विधित्सितस्य श्रवणाद्यपेक्षितविक्षेपनिवृत्तिं प्रति पक्षे प्राप्तिः पक्षे चाप्राप्तिरिति लभ्यते, तथा च मा भूत् सन्न्यासाश्रमविधिरपूर्वविधिः, नियमविधिस्तु भवेदेव - इति समाधत्ते —
तदेति ।
परिग्रहेणैवेति ।
विक्षेपनिवृत्तिद्वारेति शेषः ।
नन्वस्मिन्पक्षद्वय इति ।
सन्न्यासस्याधिकारिविशेषणत्वपक्षे श्रवणाङ्गत्वपक्षे चेत्यर्थः ।
कथमिति ।
सन्न्यासाभावादिति भावः ।
तयोस्सन्न्यासाभावे हेतुमाह —
सन्न्यासस्येति ।
ब्राह्मणस्यैव सन्न्यासाधिकारे मानमाह —
ब्राह्मण इति ।
निर्वेदं - वैराग्यं - तत्पूर्वकसन्न्यासं कुर्यादित्यर्थः । निर्वेदशब्दितवैराग्यस्य सन्न्यासं प्रति सामग्रीत्वेन तस्मिन् सति सन्न्यासस्यावश्यकत्वात् सन्न्यासविधिरेवायमिति भावः ।
व्युत्थायेति ।
सन्न्यस्येत्यर्थः । यस्मात् श्रुतौ अधिकारिविशेषस्य ज्ञानाय ब्राह्मणग्रहः तस्मात् क्षत्रियवैश्ययोः सन्न्यासविधिर्नास्तीति वार्तिकयोजना । अत्र केचित् तयोःश्रवणाद्यनुष्ठानसिद्धिं समर्थयन्ते - इति सम्बन्धः ।
‘ब्रह्मचर्यं समाप्य गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत्’ इति पूर्वश्रुतौ चतुर्णामप्याश्रमाणां समुच्चयं प्रतिपाद्य तेषां विकल्पं दर्शयति —
यदि वेतरथेति ।
यदि वा इत्यस्य, ब्रह्मचर्याश्रमे एव वैराग्यमुत्पन्नं चेदित्यर्थः ।
तत्र तदनुत्पत्तावाह —
गृहाद्वेति ।
गृहाश्रमेऽपि तदनुत्पत्तावाह —
वनाद्वेति ।
अविशेषेति ।
ब्राह्मणादिविशेषग्रहणरहितेत्यर्थः ।
अत एवेति ।
वर्णत्रयसाधारणतया सन्न्यासस्य श्रुतिस्मृतिसिद्धत्वादेवेत्यर्थः । यदा ‘यदिवा’ इति श्रुतौ श्रूयते, तदा उपलक्षणार्थं स्यादिति सम्बन्धः ।
अन्ये त्विति ।
भाष्यानुवर्तिन इत्यर्थः ।
श्रुत्यन्तरसिद्धमिति ।
‘ब्राह्मणो व्युत्थाय’ इत्यादिश्रुत्यन्तरसिद्धमित्यर्थः ।
सिद्धं कृत्वेति ।
विद्योद्देशेन सन्न्यासविधिवाक्यानां सर्वेषामेकवाक्यत्वादिति भावः ।
कथमिति ।
तान्तवयज्ञोपवीतादेः ब्राह्मणत्वव्यञ्जकत्वात् परमहंससन्न्यासे च तदभावात् आक्षेप इत्यर्थः । यद्यत्र क्षत्रियवैश्ययोरपि सन्न्यासो विवक्षितः स्यात्, तदा ‘कथं ब्राह्मणः’ इतिवत् ‘कथं क्षत्रियः’ ‘कथं वैश्यः’ इत्यपि श्रूयेत, न तु श्रूयते । तस्मात् न तयोः सन्न्यासः श्रुत्यभिमत इति भावः ।
एवं सन्न्यासविधीनामैककण्ठ्ये स्थिते सति ‘ब्राह्मणः क्षत्रियो वाऽपि’ इति स्मृतिवचनं जाबालश्रुतितात्पर्याज्ञानमूलत्वादप्रमाणमित्याह —
विरोधाधिकरणन्यायेनेति ।
‘प्रत्यक्षश्रुतिविरुद्धं स्मृतिवचनं अप्रमाणम्’ इति विरोधाधिकरणन्यायः । ‘तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य’ इत्यादिश्रुतौ सन्न्यासाधिकारानुरोधेन ‘ब्राह्मणः सन्न्यस्य पाण्डित्यादिकमनुतिष्ठेत्’ इति वाक्यार्थलाभात् ‘विद्यार्थसन्न्यासे विविदिषुणा क्रियमाणे ब्राह्मणस्यैवाधिकारः’ इति भगवतो भाष्यकारस्य मतम् । यदि वार्तिकवचनस्य प्रमाणमूलभाष्यकारमतविरुद्धेऽर्थे तात्पर्यं कल्प्येत, तदा सन्न्यासस्य साधारण्यप्रतिपादकस्मृतिवचनवद्वार्तिकवचनमपि हेयमेव स्यात् ।
अतो भाष्याविरुद्धार्थपरं वार्तिकवचनमित्याह —
तद्विद्वत्सन्न्यासविषयमिति ।
विविदिषासन्न्यासे सर्वाधिकारप्रतिपादनपरं न भवति - इत्यत्र हेत्वन्तरमाह —
सर्वाधिकारेति ।
क्षत्रियवैश्ययोस्तत्त्वज्ञानमभ्युपेयते, न वा । नान्त्यः । जनकादीनां तत्त्वज्ञानवत्त्वप्रतिपादकशास्त्रविरोधात् । नाद्यः । तत्त्वज्ञानेन कर्माधिकारप्रयोजकवर्णाश्रमाद्यध्यासनिवृत्तौ सकलकर्मनिवृत्तिरूपविद्वत्सन्न्यासस्य क्षत्रियवैश्ययोरपि वारयितुमशक्यतया ‘विविदिषासन्न्यास इव विद्वत्सन्न्यासेऽपि ब्राह्मणस्यैवाधिकारः’ इति नियमासम्भवादिति भावः । कुतो बलात् नियमः क्रियते, तादृशं बलं नास्तीत्यर्थः ।
एवं चेति ।
श्रवणाङ्गत्वेन अधिकारिविशेषणत्वेन वा विद्यासाधने विविदिषासन्न्यासे ब्राह्मणस्यैवाधिकार इति सिद्धे सतीत्यर्थः ।
ननु-सन्न्यासस्याधिकारिविशेषणतया अङ्गतया वा श्रवणापेक्षितत्वपक्षे श्रवणमात्रस्य सन्न्यासापेक्षत्वावगमात्, क्षत्रियवैश्ययोर्विविदिषासन्न्यासरहितयोः श्रवणानुष्ठानं नास्तीत्येव पर्यवस्यति, न तु तयोश्श्रवणं सन्न्यासनिरपेक्षमिति । तथा च कथं तयोश्श्रवणाद्यनुष्ठाननिर्वाहः, तत्राह —
न हीति ।
देवभावं प्राप्तस्येति ।
न च - सगुणोपासकस्य ब्रह्मलोकं गतस्य उपासनया देवभावं प्राप्तस्य निर्गुणब्रह्मसाक्षात्काराय उपासकेन क्रियमाणे श्रवणादौ सन्न्यासस्य व्यभिचार इत्ययुक्तम्, तस्य सगुणविद्यासामर्थ्यादेव निर्गुणसाक्षात्कारसम्भवेन श्रवणाद्यनुष्ठानस्यैवाभावादिति - वाच्यम् । देवताधिकरणे सगुणविद्यया देवभावं प्राप्तमुपासकमेव प्राधान्येन विषयीकृत्य श्रवणादौ देवाद्यधिकारस्य निरूपितत्वेन तस्यापि श्रवणाद्यनुष्ठानं विना विद्यानुदयस्य प्रागेव श्रवणविधिविचारावसरे दर्शितत्वात् । तथा च तत्र व्यभिचारात् सन्न्यासो न श्रवणमात्राङ्गं, किं तु ब्राह्मणकर्तृकश्रवणस्यैवाङ्गमिति क्षत्रियवैश्ययोः सन्न्यासाभावेऽपि श्रवणाद्यनुष्ठाननिर्वाह इत्यर्थः ।
ननु देवानामपि कुतस्सन्न्यासाभावः, तत्राह —
देवानामिति ।
ननु — देवकर्तृकश्रवणे सन्न्यासाश्रमस्य यदि व्यभिचारः, तर्हि त्रैवर्णिकमनुष्यकर्तृकश्रवणे सन्न्यासाश्रमस्य हेतुत्वमस्तु, न तु ब्राह्मणमात्रकर्तृके । तथा सङ्कोचे मानाभावात् । उक्तं हि प्रागेव चतुर्ष्वाश्रमेषु सन्न्यासाश्रमपरिग्रहेणैव श्रवणादि निर्वर्तनीयमिति । स चाश्रमविभागो वर्णत्रयसाधारण एव, न ब्राह्मणमात्रगतः । तथा च सन्न्यासहीनयोः क्षत्रियवैश्ययोः श्रवणादौ नाधिकारस्संभवति - इत्यस्वरसादाह —
अपरे त्विति ।
श्रुत्युदिता ब्रह्मणि संस्था यस्य सम्भवति तस्य मुख्याधिकार इति सम्बन्धः ।
संस्थापदव्याख्यानं समाप्तिरिति ।
तस्या अपि व्याख्यानं अनन्येति ।
अमृतत्वकामस्य नैरन्तर्येण विचारकर्तव्यतायां स्मृतिवचनान्यप्युदाहरति —
गच्छत इति ।
स्वपत इति ।
शयानस्येत्यर्थः । 4‘स जीवति मनो यस्य मननेनैव जीवति’ [म.उ.३-१३] इत्यादिवचनसङ्ग्रहार्थमादिपदम् । मननं तत्त्वचिन्तनं, तद्रहितो जीवन्नेव मृत इत्यर्थः ।
अयं च मुख्याधिकारः सन्न्यासिनामेवेत्याह —
सा चेति ।
वैयग्र्यादिति ।
व्यग्रत्वादित्यर्थः । सार्वकालिकी विक्षेपनिवृत्तिः असन्न्यासिनां न सम्भवतीति भावः ।
न मुख्य इति ।
शास्त्रीयोऽधिकारो नास्तीत्यर्थः । अयं भावः — ‘ब्रह्मसंस्थोऽमृतत्वमेति’ इति श्रुत्या पाण्डित्यश्रुत्येव ब्रह्मनिष्ठाधर्मकस्सन्न्यासाश्रमो विधीयते, ब्रह्मसंस्थाशब्दितायाः ब्रह्मनिष्ठायाः सन्न्यासाश्रमे सम्भवात् आश्रमान्तरेष्वसम्भवात् - इति प्रतिपादितं सन्न्यासाधिकरणभाष्यादौ । तथा च ब्रह्मनिष्ठत्वस्य सन्न्यासाश्रमधर्मत्वेन विहितत्वात् सन्न्यासिनो ब्राह्मणस्य ब्रह्मनिष्ठत्वं स्वधर्म इति सन्न्यासिनः तत्र मुख्योऽधिकारः । तस्य ब्रह्मनिष्ठत्वव्यतिक्रमे प्रत्यवायावगमाच्च । तथा च परमहंसोपनिषदि [३] श्रूयते — ‘काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः । स याति नरकान् घोरान् महारौरवसंज्ञकान् ॥’ [ना.प.उ. ५-१४] इति । काष्ठदण्डोपलक्षितः सन्न्यासाश्रमो धृतः - परिगृहीतः । सर्वाशी - सर्वं विषयजातं अशितुं - भोक्तुं शीलमस्यास्तीति सर्वाशी, बाह्यान्तःकरणजयरहित इति यावत् । ज्ञानवर्जितः - ज्ञानाभ्यासवर्जित इत्यर्थः । यः सन्न्यस्य शमदमादिसहितं ब्रह्मनिष्ठत्वं नानुतिष्ठति, स तीव्रां दुर्गतिं गच्छतीत्यर्थः । यथा सन्न्यासिनो ज्ञाननिष्ठाविधायकानि ‘सन्न्यस्य श्रवणं कुर्यात्’ ‘गच्छतस्तिष्ठतो वाऽपि’ ‘आसुप्तेरामृतेः कालं’ इत्यादीनि स्मृतिवचनानि सहस्रशस्सन्ति, तथा तत्परित्यागे पातित्यबोधकान्यपि स्मृतिवचनानि सहस्रशस्सन्ति । ‘त्वंपदार्थवेविकाय सन्न्यासः सर्वकर्मणाम् । श्रुत्या विधीयते यस्मात् तत्त्यागी पतितो भवेत् ॥
नित्यं कर्म परित्यज्य वेदान्तश्रवणं विना । वर्तमानस्तु सन्न्यासी पतत्येव न संशयः ॥’ इत्यादीनि । सर्वाश्रमसाधारण्येनापि स्वधर्मस्य विगुणस्यापि परित्यागे महाननर्थः स्मर्यते — ‘श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥’ [भ.गी. ३-३५] इत्यादौ । सन्न्यासाधिकरणे भाष्यकारैः एतत्सर्वमभिप्रेत्य सन्न्यासिनः अनन्यव्यापारतया श्रवणादिनिष्पादनमकुर्वतः पातित्यं कण्ठत एवोक्तम् । तथा च भाष्यम् — ‘ब्रह्मनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्म, यज्ञादीनि चेतरेषां, तद्व्यातिक्रमे च तस्य प्रत्यवायः’ [ब्र.सू. ३-४-२०] इति । तस्मात् श्रवणादेर्भिक्षुं प्रति विहितत्वात् तद्व्यतिक्रमे भिक्षोः प्रत्यवायावगमाच्च सन्न्यासिनः श्रवणादौ मुख्योऽधिकारः, सन्न्यासरहितान् प्रति तु श्रवणादेरविहितत्वात् अकरणे प्रत्यवायानवगमाच्च नास्ति तेषां मुख्योऽधिकार इति ।
ननु क्षत्रियादिकं प्रति श्रवणादिविधानाभावे सति अधिकार एव नास्तीति कुतो नोच्यत इति शङ्कते —
किं त्विति ।
नित्याधिकाररूपमुख्याधिकारासम्भवेऽपि काम्याधिकाररूपगौणाधिकारसम्भवान्नैवमिति - भाष्येणोत्तरमाह —
दृष्टार्था चेति ।
किं तु अमुख्याधिकारमात्रेण श्रवणाद्यनुमतिः इति सम्बन्धः । यथा भुजिक्रिया क्षुद्बाधानिवृत्तिरूपदृष्टफला, तथा विद्याऽपि सर्वानर्थमूलाविद्यानिवृत्तिरूपदृष्टफला श्रुतिसिद्धा । तथा च तस्यां विद्यायां अनर्थनिवृत्तिकामानां सर्वेषामेव अर्थित्वलक्षणाधिकारः सम्भवति । तथा च विद्याधिकारिणां सर्वेषां अविशेषेण वेदान्तश्रवणादावधिकारप्रसक्तौ शूद्रस्य वेदश्रवणादिप्रतिषेधान्नाधिकार इत्युक्तमपशूद्राधिकरणे । क्षत्रियादीनां च तथा प्रतिषेधाभावात् वेदान्तश्रवणाधिकारो भाष्यानुमतो विधुरादेरिव — इत्यर्थः ।
ननु — अमुख्याधिकारिभिरनुष्ठितश्रवणादेरपि विद्योत्पादकत्वमवश्यं वाच्यम् । अन्यथा गौणाधिकारनिरूपणपरभाष्यवैयर्थ्यप्रसङ्गात् । विद्योत्पादकत्वावश्यंभावे च न काम्याधिकारस्य गौणत्वम्, मुख्यगौणाधिकारयोः फलतो विशेषाभावात्; इत्यत आह —
देहान्तर इति ।
अयं भावः ---- मुख्याधिकारिणामनन्यव्यापारतया प्रत्यहं निर्वर्त्यमानं श्रवणादिकं निरङ्कुशब्रह्मचर्याहिंसाशमदमादियुक्तं अस्मिन्नेव जन्मनि प्रायेण विद्योत्पादकं सम्पद्यते । अमुख्याधिकारिणां तु श्रवणादिकं अनन्यव्यापाररूपत्वाभावात् सङ्कुचितब्रह्मचर्यादियुक्तत्वाच्च अस्मिन् जन्मनि विद्योत्पादनयोग्यमेव न भवति । किं तु बहुषु जन्मसु किञ्चित् किञ्चित् श्रवणादिकं सम्पाद्यमानं सम्भूय देहान्तरे क्वचित् ज्ञानमुत्पादयेदिति महान् फलभेदो गौणमुख्याधिकारयोः ।
तथा च स्मूतिः — ‘अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’ तेषां गौणाधिकारे सूत्रसंगृहीतामप्युपपत्तिमाह —
अतस्त्वितरदिति ।
अतः-अनाश्रमिभिरनुष्ठितविद्यासाधनापेक्षया इतरत् - आश्रमिभिरनुष्ठितं विद्यासाधनं कर्म श्रवणादिकं वा ज्यायः-प्रशस्तं विद्यासाधनम् । ज्यायस्त्वावधारणार्थः तुशब्दः । श्रुतिलिङ्गात् स्मृतिलिङ्गाच्च । ‘तेनैति ब्रह्मवित्पुण्यकृत्’ इतिवाक्यं श्रुतिलिङ्गम् । ‘अनाश्रमी न तिष्ठेत क्षणमेकमपि द्विजः’ इत्यादि स्मृतिवाक्यं स्मृतिलिङ्गम् । तेन - पुण्यलब्धेन ब्रह्मवेदनेन ब्रह्म - एति-प्राप्नोतीति श्रुत्यर्थः । अत्र श्रुतौ पुण्यत्वेन प्रसिद्धानामाश्रमधर्माणामेव विशिष्य ब्रह्मप्राप्तिसाधनत्वप्रतिपादनात् अनाश्रमिधर्माणां ‘विशेषानुग्रहश्च’ [ब्र.सू. ३-४-३८] इति सूत्रोक्तन्यायेन विद्योपयोगिनामपि निकर्षो भाति । स च निकर्षो विधुरादीनां विद्यार्थकर्मसु श्रवणादिषु च मुख्याधिकाराभावप्रयुक्त एवेति वक्तव्यम् । हेत्वन्तराभावात्, अनाश्रमित्वस्य निन्दितत्वाच्च । न हि कर्मज्ञानयोर्मुख्याधिकारी निन्दार्हः - इति सूत्रभाष्यकारयोरभिप्राय इत्यर्थः । ननु-विधुराधिकरणे ‘विधुराद्यनुष्ठितं कर्म विद्यासाधनम्’ इत्येतावदेवोक्तं, न तु विधुरादेः श्रवणाद्यधिकारोऽपि तत्र प्रतिपादितः ।
तथा च श्रवणादौ विधुराद्यधिकारस्य गौणमुख्यत्वचिन्ता निरालम्बना - इत्याशङ्क्य परिहरति —
न च तत्रेति ।
विधुराधिकरणे इत्यर्थः ।
तत एवेति ।
सन्न्यासाभावादेवेत्यर्थः ।
अस्तु पुनर्ब्राह्मणजन्म, इत्यत आह —
ब्रह्मलोकमिति ।
न च पुनरिति ।
ब्रह्मलोकमभिसम्पद्य पुनरिमं लोकं प्रति नावर्तत इत्यर्थः ।
एतच्छ्रुतिमूलं सूत्रमुदाहरति —
अनावृत्तिरिति ।
ब्रह्मलोकं गतानामुपासकानामावृत्तिर्नास्ति, उदाहृतश्रुतेरित्यर्थः । ‘स्मृतेश्च’ [ब्र.सू. ४-३-११] इत्यादिसूत्रसङ्ग्रहार्थमादिपदम् । तथा च स्मृतिः — ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥’ इति । ते - ब्रह्मलोकवासिनः ब्रह्मोपासकाः प्रतिसञ्चरे - महाप्रलये परस्य - हिरण्यगर्भस्य ब्रह्मलोकस्वामिन आयुषः अन्ते कृतः-साक्षात्कृत आत्मा येषां ते तथा ।
नन्वनन्यव्यापारत्वसम्भवेऽपि सन्न्यासो नास्तीत्याशङ्क्याह —
क्रममुक्तीति ।
मनुष्येष्वेव सन्न्यासो मुख्याधिकारप्रयोजकः, वर्णाश्रमविभागस्य मनुष्यविषयत्वादिति भावः ।
अविहितेति ।
न्यायशास्त्रादिविचारवदित्यर्थः ।
एतज्जन्मीयवेदान्तविचारस्य आगामिजन्मीयां वेदान्तार्थावगतिं प्रति हेतुत्वासम्भवं कैमुतिकन्यायेन द्रढयति —
न खल्विति ।
मुख्याधिकारिकृतविचारदृष्टान्तेन गौणाधिकारिश्रवणादेरपि जन्मान्तरीयविद्योपयोगं शङ्कते —
न च वाच्यमिति ।
ततः किं, तत्राह —
तस्येति ।
यथा तस्य - मुख्याधिकारिकृतश्रवणस्य प्रतिबन्धादिहजन्मनि विद्यालक्षणं फलमजनयतो जन्मान्तरे फलजनकत्वम्, एवममुख्याधिकारिकृतमपि श्रवणं जन्मान्तरे फलजनकं स्यादिति न च वाच्यमिति सम्बन्धः ।
मुख्याधिकारिकृतश्रवणस्य सति प्रतिबन्धके आमुष्मिकं विद्याजन्मेत्यत्र मानमाह —
ऐहिकमपीति ।
प्रस्तुतप्रतिबन्धे असति (सति) विद्याजन्म इह जन्मनि भवति, अपिशब्दात् सति प्रतिबन्धे जन्मान्तरे भवति । कुतः, तद्दर्शनात् - तस्य - प्रतिबन्धकवशात् जन्मान्तरे विद्योदयस्य वामदेवादिषु दर्शनादित्यर्थः ।
दृष्टान्तवैषम्येणोत्तरमाह —
शास्त्रीयाङ्गयुक्तमिति ।
शास्त्रीयाङ्गं सन्न्यासः, तद्युक्तं, सन्न्यासिना अनुष्ठीयमानमिति यावत् ।
तथा च शास्त्रीयाङ्गसहितं श्रवणं ‘श्रवणविधिरपूर्वविधिः’ इति पक्षे स्वयमेव विद्यालक्षणफलपर्यन्तमदृष्टं जनयति ।
‘श्रवणविधिर्नियमविधिः’ इति पक्षे तु तादृशं श्रवणं नियमविशिष्टं सत् फलपर्यन्तं नियमादृष्टं जनयतीत्यर्थः ।
तच्चेति ।
श्रवणजनितादृष्टमित्यर्थः ।
जातीति ।
जातिः - जन्म । ततश्च यथा जातिस्मरत्वसम्पादकमदृष्टं पूर्वजन्मतद्वृत्तान्तानुभवजन्यसंस्कारं अस्मिन् जन्मन्युद्बोध्य तदुद्बोधनद्वारा पूर्वजन्मतद्वृत्तान्तस्मृतिं घटयति, तथा प्राचि भवे श्रवणादिजनितं अदृष्टं संस्कारमुद्बोध्य तत्संस्कारकारणभूतस्य श्रवणस्य भाविजन्मनि विद्योपयोगित्वं घटयतीत्यर्थः ।
शास्त्रीयाङ्गविधुरमिति ।
सन्न्यासरहितक्षत्रियादिना क्रियमाणं श्रवणं अदृष्टोत्पादकं न भवति, क्षत्रियादिकं प्रत्यविहितत्वाच्छ्रवणादेरिति भावः ।
नन्वविहितश्रवणस्यादृष्टानुत्पादकत्वेऽपि संस्कारजनकत्वसम्भवात् तद्बलादेव जन्मान्तरीयविद्याहेतुत्वं कुतो न स्यादित्यत आह —
घटकादृष्टं विनेति ।
अतिप्रसङ्गादिति ।
जन्मान्तरानुभूतसकलपदार्थस्मृतिप्रसङ्गादित्यर्थः ।
कर्मणां विद्यायां विनियोग इति पक्षमाश्रित्य परिहरति —
उच्यत इति ।
यज्ञादिभिर्विद्यायां सम्पादनीयायां द्वारभूता या विविदिषा, तस्या उत्पादकं प्राचीनं च यद्विद्यार्थयज्ञाद्यनुष्ठानं, तज्जन्येत्यर्थः । स्वपदं यज्ञाद्यनुष्ठानजन्यापूर्वपरम् ।
वाचस्पतिमते मुख्याधिकारिकृतश्रवणस्यापि यज्ञाद्यपूर्वेणैव निर्वाह इति दृष्टान्ताभिप्रायेणाह —
श्रवणादौ विध्यभावपक्षे त्विति ।
विवरणपक्षेऽप्येवमेव निर्वाह इत्याह —
आचार्यास्त्विति ।
अयं भावः — प्रमाणासम्भावनानिवृत्तिः श्रवणफलं, प्रमेयासम्भावनानिवृत्तिर्मननफलं, विपरीतभावनानिवृत्तिर्निदिध्यासनफलम् । तथा च त्रिविधप्रतिबन्धकनिवृत्तिलक्षणफलपर्यन्तमावृत्तिविशिष्टानि श्रवणादीनि यस्य मुख्याधिकारिणो निष्पन्नानि, तस्य नियमादृष्टमुत्पन्नमेव । एवं सम्पन्नविद्यासाधनस्यापि प्रतिबन्धवशात् यदि विद्या न जाता, तदा पुनर्जन्मलाभेन प्रतिबन्धक्षये सति पुनर्विचारमनपेक्ष्यैव विद्या जायते । यथा वामदेवहिरण्यगर्भादेः । यस्य तु उक्तप्रतिबन्धनिवृत्तिपर्यन्तं श्रवणाद्यावृत्तिर्न जाता, मध्ये मृतिश्च जाता, तस्य मुख्याधिकारिणोऽपि नियमादृष्टं न जायते । स च पुनर्जन्मान्तरे उक्तप्रतिबन्धकनिवृत्तिपर्यन्तश्रवणादिकमभ्यस्य श्रवणादिनियमादृष्टवशेन विद्याप्रतिबन्धककल्मषक्षये सति विद्यां लभते । तदुक्तं भगवता श्रीकृष्णेन — ‘तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयस्संसिद्धौ कुरुनन्दन ॥’ [भ. गी. ६-४३] इति । तत्र-प्राप्ते साधुकुलजन्मनि तं - पूर्वदेहभवं इदानीं संस्कारात्मनाऽनुवर्तमानं बुद्धिसंयोगं - श्रवणादिकर्तव्यताबुद्ध्या सम्बन्धं लभते । ‘अस्मिन्नपि जन्मनि प्रतिबन्धनिवृत्तिद्वारा विद्योदयाय मया श्रवणादिकमनुष्ठेयम्’ इति बुद्ध्या युक्तो भवतीत्यर्थः । ततः-पूर्वजन्मीययत्नापेक्षया भूयः - अधिकं यतते संसिद्ध्यर्थमित्यर्थः । तथा च योऽयं फलपर्यन्तावृत्तिगुणकश्रवणादिरहितो योगभ्रष्टः तस्य नियमादृष्टाभावात् यज्ञाद्यदृष्टादेव निर्वाहः कर्तव्य इति ।
प्रतिबन्धनिवृत्तिरूपफलप्राप्तेः पूर्वं नियमादृष्टानुत्पत्तौ हेतुमाह —
तस्येति ।
नियमादृष्टस्येत्यर्थः । नियमादृष्टं हि न श्रवणमात्रजन्यं, किं तु श्रवणनियमजन्यम् । तन्नियमश्च श्रवणादेरेव फलपर्यन्तमावृत्तौ सत्यां निष्पद्यते । तथा च फलोत्पत्तेरर्वाक् श्रवणादिनियमस्यैवाभावात् न नियमादृष्टोत्पत्तिरित्यर्थः ।
उक्तं प्रपञ्चयसि —
न हीत्यादिना ।
श्रवणनियमः श्रवणस्योपक्रममात्रेण निर्वर्तितो न भवतीत्यत्र हेतुमाह —
अवधातवदिति ।
आवृत्तिविशिष्टस्यैवावहननस्य तण्डुलनिष्पत्तिलक्षणफलसाधनतायाः लोकसिद्धत्वादिति भावः ।
प्राक्तदिति ।
फलपर्यन्तं श्रवणस्यैवावृत्तौ सत्यां श्रवणस्य अप्राप्तांशपरिपूरणलक्षणनियमो निष्पन्नो भवति, न ततः प्रागित्यर्थः । श्रवणस्यारम्भमात्रे वा कतिपयावृत्तिमात्रे वा जाते सति श्रवणनियमो निष्पन्नः’ इति वचनं विषयाभावात् निरालम्बनमित्यर्थः ।
तदनावृत्तावपीति ।
श्रवणावधाताद्यनुष्ठानमुपक्रम्य (???) श्रवणादिकं त्यक्त्वा भाषाप्रबन्धादिविचारे नखविदलनादौ च प्रवृत्तावपि नियमविधिविरोधाभावप्रसङ्गादित्यर्थः ।
मुख्यामुख्याधिकारिभिरन्वहं क्रियमाणस्य वेदान्तश्रवणस्य प्रतिबन्धकनिवृत्तिरूपदृष्टफलोत्पादकत्ववत् अदृष्टोत्पादकत्वमप्यस्ति, तथा च तद्बलात् जन्मान्तरे विद्योपयोगित्वं विचारस्य घटते - इति परिहारान्तरमाह —
केचित्त्विति ।
फलमिति ।
पुण्यरूपमित्यर्थः । वचने तुशब्दः चार्थे । तथा च वेदान्तश्रवणस्य देवतागुरुवेदान्तविषयभक्तिगुरुशुश्रूषाभ्यामुपात्ताभ्यां अनुपात्तैश्च शमदमब्रह्मचर्याहिंसादिभिः समुच्चयार्थः तुशब्द इति भावः ।
स्वतन्त्रेति ।
वेदान्तश्रवणस्य स्वतन्त्रतया अदृष्टोत्पादकत्वमस्तीत्यर्थः । स्वातन्त्र्यं च अदृष्टजनने श्रवणस्य विद्यायां विनियोगबोधकश्रवणविधिनैरपेक्ष्यमिति बोध्यम् ।
एकस्योभयार्थत्वे दृष्टान्तमाह —
यथाग्नीति ।
‘अग्नीनादधीत’ इति वचनात् आधानस्य आहवनीयाद्यग्निसंस्कारत्वोपगमादिति भावः ।
पुरुषसंस्कारेष्विति ।
‘अग्न्याधेयमग्निहोत्रम्’ [गौ.ध.सू. ८-१७] इत्यादिपुरुषसंस्कारसङ्ग्राहकसूत्रे अग्न्याधानस्यापि पाठादित्यर्थः ।
अदृष्टमहिम्नैवेति ।
वेदान्तश्रवणजनितादृष्टस्य योग्यतया विद्यायामेव विनियोगस्य वक्तव्यतया तद्बलात् जन्मान्तरीयविद्योपयोगित्वमिति भावः ।