अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

संन्यासस्य विद्योपयोगित्वनिरूपणम्

किंद्वारेति ।
किमदृष्टद्वारा विद्योपयोगः, किं वा दृष्टद्वारा । नाद्यः, विद्यो­त्प­त्ति­प्र­ति­ब­न्ध­क­दु­रि­तस्य यज्ञा­द्य­नु­ष्ठा­न­ज­नि­ता­पू­र्वे­णैव निवर्तितत्वेन सन्न्या­स­ज­नि­ता­पू­र्व­नि­व­र्त्य­दु­रि­ता­लाभे सति सन्न्या­स­वै­य­र्थ्य­प्र­स­ङ्गात् । न द्वितीयः, तदनुपलम्भात् — इत्या­क्षे­पा­भि­प्रायः ।

तत्राद्यं पक्षं समर्थयते —
केचिदाहुरिति ।

ननु — सन्न्या­सा­पू­र्वस्य न विद्यो­द­य­हे­तु­त्वम्, असन्न्यासिनामपि केषां चित् विद्योद्देशेन श्रव­णा­द्य­नु­ष्ठा­न­द­र्श­नात्, केषां चित् सन्न्यासं विनैव विद्योदयस्य प्रमा­ण­सि­द्ध­त्वाच्च; इत्यत आह —
तथाचेति ।
सन्न्यासस्य विद्यां प्रति दृष्ट­द्वा­रा­नु­प­ल­म्भेन अदृष्टद्वारैव विद्याऽ­वा­प्ति­हे­तुत्वे सन्न्यासविधिना सिद्धे सतीत्यर्थः । न च — दृष्ट­द्वा­रा­नु­प­ल­म्भोऽ­सिद्धः, लौकि­क­वै­दि­क­व्या­पा­र­वि­क्षि­प्त­चि­त्तस्य विद्यो­द­या­स­म्भ­वेन सर्व­क­र्म­स­न्न्या­सस्य विक्षे­प­नि­वृ­त्ति­रू­प­दृ­ष्ट­द्वारा विद्या­हे­तु­त्व­स­म्भ­वा­दिति — वाच्यम् । लौकि­क­वै­दि­क­क­र्म­व­ता­मपि केषांचित् पुरुषधौरेयाणां दैन्य­ह­र्ष­क्रो­ध­भ­या­दि­ल­क्ष­ण­वि­क्षे­प­नि­वृत्तेः अनुभवसिद्धत्वेन तदर्थं सन्न्या­सा­न­पे­क्ष­णा­दिति भावः ।

सन्न्यासस्य अदृ­ष्ट­द्वा­र­क­त्व­प­क्ष­मे­वा­व­लम्ब्य सन्न्या­सा­पू­र्वस्य श्रव­णा­द्य­धि­का­रि­वि­शे­ष­ण­त्वेन विद्योपयोगं सप्रमाणमाह —
अन्ये त्विति ।

शान्त इति ।
‘तितिक्षुः समाहितः श्रद्धावित्तो भूत्वाऽऽ­त्म­न्ये­वा­त्मानं पश्येत्’ इति श्रुतिशेषः । शमः-अ­न्त­रि­न्द्रि­य­नि­ग्रहः । दमः-बा­ह्ये­न्द्रि­य­नि­ग्रहः । उप­र­तिः-नि­त्य­क­र्म­त्यागः । ननु शान्त­दा­न्त­प­दा­भ्या­मेव कर्ममात्रस्य वारितत्वात् उप­र­ति­श्रु­ति­र्व्य­र्थेति चेत्, न — शम­द­म­वि­धि­शा­स्त्रस्य सामा­न्य­शा­स्त्र­त्वात् तस्य नित्यकर्मविधिना विशेषशास्त्रेण नित्य­नै­मि­त्ति­क­क­र्म­व्य­ति­रि­क्त­बा­ह्या­न्तः­क­र­ण­व्या­पा­र­नि­वृ­त्ति­मा­त्र­प­र­तया संकोचे सति नित्य­क­र्म­त्या­गा­ला­भात् पुन­रु­प­र­त­श्रुत्या नित्यकर्मत्यागो बोध्यत इति न तस्याः वैयर्थ्यम् । तितिक्षुः — शीतो­ष्णा­दि­द्व­न्द्व­स­हिष्णुः । समाहितः - श्रव­णा­द्य­पे­क्षि­त­चि­त्त­स­मा­धा­न­वान् । देव­ता­गु­रु­वे­दा­न्तेषु श्रद्धैव वित्तं यस्य सः श्रद्धावित्तः । भूत्वेत्यस्य प्रत्येकमन्वयः । आत्मन्येव — कार्यकरणसंघात एव । कार्य­क­र­ण­सं­घा­त­सा­क्षिणं आत्मानं ‘अहं­ब्र­ह्मास्मि’ इति पश्येत् इति श्रुत्यर्थः ।

साधनचतुष्टयेति ।
नित्या­नि­त्य­वि­वेकः ऐहि­का­मु­ष्मि­क­भो­ग­वि­रागः शमादिषट्कं मुमुक्षा चेति साधनचतुष्टयम्; तच्च श्रव­णा­द्य­धि­का­रि­वि­शे­ष­ण­मिति व्यवस्थापितं प्रथमसूत्रे इति भावः ।

सन्न्या­सा­पू­र्व­स्या­धि­का­रि­वि­शे­ष­णत्वे हेत्वन्तरमाह —
सह­का­र्य­न्त­रे­त्या­दिना प्रति­पा­द­ना­दि­त्य­न्तेन ।
सहकार्यन्तरस्य - विद्यां प्रति साधनान्तरस्य मौनस्य विधिः ‘अथ मुनिः’ इति शब्दः — इति सूत्रभागार्थः ।

सौत्रपदं तद्वत इति ।
तस्य व्याख्यानं विद्यावत इति । श्रव­णा­द्य­नु­ष्ठा­नो­प­यो­ग्या­पा­त­ज्ञा­न­वत इत्यर्थः ।

‘सह­का­र्य­न्त­र­विधिः’ इति सूत्रे तद्वतः सन्न्यासिनः इत्यनुक्तत्वात् कथं सन्न्यासिन इति लभ्यते, तत्राह —
तस्मादिति ।
तस्मादित्यपि श्रुतिपदमेव । यस्मात् अतीता ब्राह्मणा आपाततो ब्रह्मात्मानं विदित्वा तत्त्व­सा­क्षा­त्का­रार्थं व्युत्था­न­श­ब्दितं सन्न्यासं कृतवन्तः, तस्मात् इदानींतनोऽपि ब्राह्मणो मुमुक्षुः सन्न्यस्य पाण्डित्यादिकं तत्त्व­सा­क्षा­त्का­रा­र्थ­म­नु­ति­ष्ठेत् - इति श्रुत्यर्थः । पाण्डित्यं — श्रवणं, मौनं - ध्यानम् ।

तत इति ।
‘तस्मात् ब्राह्मणः’ इति वाक्यात् पूर्वमित्यर्थः ।

सन्न्या­सा­पू­र्व­स्या­धि­का­रि­वि­शे­ष­णत्वे वार्ति­क­स­म्म­ति­रूपं हेत्वन्तरमाह —
त्यक्तेति ।
वार्तिके प्रथमविशेषणं सन्न्यासपरम् । ततश्च सन्न्या­स­मु­मु­क्षा­जि­ज्ञा­सानां समुच्चयार्थेन चकारेण मुमु­क्षु­त्वा­दे­रिव सन्न्यासस्यापि वेदा­न्त­श्र­व­णा­दि­ष्व­धि­का­रि­वि­शे­ष­णत्वं भातीति भावः ।

सन्न्या­सा­पू­र्व­स्येति ।
सन्न्यासस्य त्याग­ल­क्ष­ण­क्रि­या­रू­प­तया स्वरू­पे­णा­नु­वृ­त्त्य­यो­गात् अपू­र्व­प­र्य­न्त­धा­व­न­मिति बोध्यम् ।

‘सन्न्यासस्य दृष्टद्वारा विद्योपयोगः’ इति द्वितीयपक्षं समर्थयते —
अपरे त्विति ।

ननु सन्न्यासस्य विद्या­ङ्ग­त्व­बो­ध­क­श्रु­त्या­दि­वत् तस्य श्रव­णा­द्य­ङ्ग­त्व­बो­ध­क­प्र­मा­णा­भा­वात् विव­र­णो­क्ति­र­नु­प­प­न्ने­त्या­शङ्क्य तस्या­स्ता­त्प­र्य­माह —
अन­न्य­व्या­पा­र­त­येति ।
कादाचित्कं श्रवणादिकं विद्योदयद्वारा नामृतत्वसाधनं, किं तु सार्वकालिकम् । ‘ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति’ [छा.उ. २-२३-१] ‘आसुप्तेरामृतेः कालं नये­द्वे­दा­न्त­चि­न्तया’ इत्या­दि­श्रु­ति­स्मृ­ति­श­तेभ्यः । तथा च अनन्यव्यापारतया श्रव­णा­द्य­नु­ष्ठानं विदधता शास्त्रेण सन्न्या­सोऽ­पे­क्ष्यते । गृहस्थादेः स्वाश्र­म­वि­हि­त­क­र्म­व्य­ग्रस्य सदा­श्र­व­णा­द्य­नु­ष्ठा­ना­स­म्भ­वात् । तथा विद्यासाधनत्वेन सन्न्यासं विदधताऽपि शास्त्रेण द्वारतया निर­न्त­र­श्र­व­णा­द्य­नु­ष्ठा­न­म­पे­क्ष्यते । सन्न्यासस्य साक्षा­द्वि­द्या­सा­ध­न­त्वा­भा­वात्, दृष्ट­द्वा­र­स­म्भवे अदृ­ष्ट­द्वा­र­क­ल्प­ना­नु­प­त्तेश्च । तत्रापि श्रवणादिकं तत्त्व­व्य­ञ्ज­क­त्वात् अर्थतः प्रधानं भवति, सन्न्यासस्तु उक्तहेत्वभावात् गुणभूततया व्यवतिष्ठते । एवं श्रवणादिविधेः सन्न्यासविधेश्च पर­स्प­रा­पे­क्षा­ब­लात् एक­वा­क्य­भा­व­मा­प­न्नाभ्यां विधिभ्यां सन्न्यासाङ्गकं मन­न­नि­दि­ध्या­स­न­स­हितं श्रवणं विधीयत इति सिद्धा सन्न्यासस्य श्रवणाद्यङ्गतया आत्म­ज्ञा­न­फ­ल­क­तेति भावः । यद्वा विवरणोक्तेरयं भावः — श्रव­ण­वि­धि­स्ता­वत् श्रवणसाधनतया विक्षे­प­नि­वृत्तिं तद्धे­तु­स­न्न्यासं चापेक्षते । विक्षिप्तचेतसः श्रव­णा­द्य­नु­ष्ठाने प्रवृ­त्त्य­स­म्भ­वात्, गृहस्थादेश्च स्वाश्र­म­क­र्म­क­र­ण­का­ला­ति­रि­क्त­का­लेऽपि बहुविषयतया विक्षे­पा­व­श्य­म्भा­वात् । सन्न्या­स­वि­धे­रपि, विक्षे­प­नि­वृ­त्ति­रू­प­दृ­ष्ट­द्वारा श्रवणादिकं घटयित्वा विद्यां सम्पा­द­य­तः­स­न्न्या­सस्य विधानेन चारि­ता­र्थ्य­स­म्भवे अदृष्टद्वारा विद्या­सा­ध­न­स­न्न्या­स­वि­धा­य­क­त्वा­स­म्भ­वात् । तथा च पूर्ववत् सन्न्यासस्य श्रव­णा­द्य­ङ्ग­त­यैव विद्याफलकत्वं नत्व­दृ­ष्ट­द्वा­रेति सिद्धमिति । अस्मिन् व्याख्याने ‘अन­न्य­व्या­पा­र­तया’ इत्यस्य विक्षे­प­नि­वृ­त्ति­द्वारा इत्यर्थो विवक्षितः ।

तस्येति ।
सन्न्या­स­स्ये­त्यर्थः ।

ननु — सन्न्यासस्य विक्षे­प­नि­वृ­त्ति­द्वारा श्रव­णा­द्य­ङ्ग­भा­व­मा­प­न्नस्य विद्या­सा­ध­न­त्व­मु­क्त­म­नु­प­प­न्नम्, सन्न्यासं विनाऽपि विक्षे­प­नि­वृत्तेः केषुचित् श्रवणाधिकारिषु सम्भवात् — इति शङ्कते —
यदि त्विति ।

अनलसस्येति ।
सत्त्व­गु­ण­प्र­धा­न­स्येति यावत् ।

धीमत इति ।
विषयेषु दोष­द­र्श­न­शी­ल­स्येति यावत् ।

पुरु­ष­धौ­रे­य­स्येति ।
विष­ये­भ्य­स्स­का­शात् इन्द्रियाणां निग्रहे सम­र्थ­स्ये­त्यर्थः । एतैर्विशेषणैः विक्षे­प­हे­तू­ना­म­भा­व­सू­च­नात् विक्षे­प­नि­वृ­त्ति­रुक्ता ।

सन्न्यासफलस्य विक्षेपाभावस्य सन्न्यासादिव सन्न्या­सा­द­न्य­तोऽपि प्राप्तौ सन्न्यासस्य विधित्सितस्य श्रव­णा­द्य­पे­क्षि­त­वि­क्षे­प­नि­वृत्तिं प्रति पक्षे प्राप्तिः पक्षे चाप्राप्तिरिति लभ्यते, तथा च मा भूत् सन्न्या­सा­श्र­म­वि­धि­र­पू­र्व­विधिः, नियमविधिस्तु भवेदेव - इति समाधत्ते —
तदेति ।

परिग्रहेणैवेति ।
विक्षे­प­नि­वृ­त्ति­द्वा­रेति शेषः ।

नन्व­स्मि­न्प­क्ष­द्वय इति ।
सन्न्या­स­स्या­धि­का­रि­वि­शे­ष­ण­त्व­पक्षे श्रव­णा­ङ्ग­त्व­पक्षे चेत्यर्थः ।

कथमिति ।
सन्न्या­सा­भा­वा­दिति भावः ।

तयो­स्स­न्न्या­सा­भावे हेतुमाह —
सन्न्यासस्येति ।

ब्राह्मणस्यैव सन्न्यासाधिकारे मानमाह —
ब्राह्मण इति ।
निर्वेदं - वैराग्यं - तत्पू­र्व­क­स­न्न्यासं कुर्यादित्यर्थः । निर्वे­द­श­ब्दि­त­वै­रा­ग्यस्य सन्न्यासं प्रति सामग्रीत्वेन तस्मिन् सति सन्न्या­स­स्या­व­श्य­क­त्वात् सन्न्या­स­वि­धि­रे­वा­य­मिति भावः ।

व्युत्थायेति ।
सन्न्य­स्ये­त्यर्थः । यस्मात् श्रुतौ अधिकारिविशेषस्य ज्ञानाय ब्राह्मणग्रहः तस्मात् क्षत्रि­य­वै­श्ययोः सन्न्या­स­वि­धि­र्ना­स्तीति वार्तिकयोजना । अत्र केचित् तयोः­श्र­व­णा­द्य­नु­ष्ठा­न­सिद्धिं समर्थयन्ते - इति सम्बन्धः ।

‘ब्रह्मचर्यं समाप्य गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत्’ इति पूर्वश्रुतौ चतु­र्णा­म­प्या­श्र­माणां समुच्चयं प्रतिपाद्य तेषां विकल्पं दर्शयति —
यदि वेतरथेति ।
यदि वा इत्यस्य, ब्रह्म­च­र्या­श्रमे एव वैरा­ग्य­मु­त्पन्नं चेदित्यर्थः ।

तत्र तदनुत्पत्तावाह —
गृहाद्वेति ।

गृहाश्रमेऽपि तदनुत्पत्तावाह —
वनाद्वेति ।

अविशेषेति ।
ब्राह्म­णा­दि­वि­शे­ष­ग्र­ह­ण­र­हि­ते­त्यर्थः ।

अत एवेति ।
वर्ण­त्र­य­सा­धा­र­ण­तया सन्न्यासस्य श्रुति­स्मृ­ति­सि­द्ध­त्वा­दे­वे­त्यर्थः । यदा ‘यदिवा’ इति श्रुतौ श्रूयते, तदा उपलक्षणार्थं स्यादिति सम्बन्धः ।

अन्ये त्विति ।
भाष्यानुवर्तिन इत्यर्थः ।

श्रुत्य­न्त­र­सि­द्ध­मिति ।
‘ब्राह्मणो व्युत्थाय’ इत्या­दि­श्रु­त्य­न्त­र­सि­द्ध­मि­त्यर्थः ।

सिद्धं कृत्वेति ।
विद्योद्देशेन सन्न्या­स­वि­धि­वा­क्यानां सर्वे­षा­मे­क­वा­क्य­त्वा­दिति भावः ।

कथमिति ।
तान्त­व­य­ज्ञो­प­वी­तादेः ब्राह्म­ण­त्व­व्य­ञ्ज­क­त्वात् परमहंससन्न्यासे च तदभावात् आक्षेप इत्यर्थः । यद्यत्र क्षत्रि­य­वै­श्य­यो­रपि सन्न्यासो विवक्षितः स्यात्, तदा ‘कथं ब्राह्मणः’ इतिवत् ‘कथं क्षत्रियः’ ‘कथं वैश्यः’ इत्यपि श्रूयेत, न तु श्रूयते । तस्मात् न तयोः सन्न्यासः श्रुत्यभिमत इति भावः ।

एवं सन्न्या­स­वि­धी­ना­मै­क­कण्ठ्ये स्थिते सति ‘ब्राह्मणः क्षत्रियो वाऽपि’ इति स्मृतिवचनं जाबा­ल­श्रु­ति­ता­त्प­र्या­ज्ञा­न­मू­ल­त्वा­द­प्र­मा­ण­मि­त्याह —
विरो­धा­धि­क­र­ण­न्या­ये­नेति ।
‘प्रत्य­क्ष­श्रु­ति­वि­रुद्धं स्मृतिवचनं अप्रमाणम्’ इति विरो­धा­धि­क­र­ण­न्यायः । ‘तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य’ इत्यादिश्रुतौ सन्न्या­सा­धि­का­रा­नु­रो­धेन ‘ब्राह्मणः सन्न्यस्य पाण्डि­त्या­दि­क­म­नु­ति­ष्ठेत्’ इति वाक्यार्थलाभात् ‘विद्या­र्थ­स­न्न्यासे विविदिषुणा क्रियमाणे ब्राह्म­ण­स्यै­वा­धि­कारः’ इति भगवतो भाष्यकारस्य मतम् । यदि वार्तिकवचनस्य प्रमा­ण­मू­ल­भा­ष्य­का­र­म­त­वि­रु­द्धेऽर्थे तात्पर्यं कल्प्येत, तदा सन्न्यासस्य साधा­र­ण्य­प्र­ति­पा­द­क­स्मृ­ति­व­च­न­व­द्वा­र्ति­क­व­च­न­मपि हेयमेव स्यात् ।

अतो भाष्या­वि­रु­द्धा­र्थ­परं वार्ति­क­व­च­न­मि­त्याह —
तद्वि­द्व­त्स­न्न्या­स­वि­ष­य­मिति ।

विवि­दि­षा­स­न्न्यासे सर्वा­धि­का­र­प्र­ति­पा­द­न­परं न भवति - इत्यत्र हेत्वन्तरमाह —
सर्वाधिकारेति ।
क्षत्रि­य­वै­श्य­यो­स्त­त्त्व­ज्ञा­न­म­भ्यु­पे­यते, न वा । नान्त्यः । जनकादीनां तत्त्व­ज्ञा­न­व­त्त्व­प्र­ति­पा­द­क­शा­स्त्र­वि­रो­धात् । नाद्यः । तत्त्वज्ञानेन कर्मा­धि­का­र­प्र­यो­ज­क­व­र्णा­श्र­मा­द्य­ध्या­स­नि­वृत्तौ सक­ल­क­र्म­नि­वृ­त्ति­रू­प­वि­द्व­त्स­न्न्या­सस्य क्षत्रि­य­वै­श्य­यो­रपि वारयितुमशक्यतया ‘विवि­दि­षा­स­न्न्यास इव विद्व­त्स­न्न्या­सेऽपि ब्राह्म­ण­स्यै­वा­धि­कारः’ इति नियमासम्भवादिति भावः । कुतो बलात् नियमः क्रियते, तादृशं बलं नास्तीत्यर्थः ।

एवं चेति ।
श्रवणाङ्गत्वेन अधि­का­रि­वि­शे­ष­ण­त्वेन वा विद्यासाधने विवि­दि­षा­स­न्न्यासे ब्राह्म­ण­स्यै­वा­धि­कार इति सिद्धे सतीत्यर्थः ।

ननु-स­न्न्या­स­स्या­धि­का­रि­वि­शे­ष­ण­तया अङ्गतया वा श्रव­णा­पे­क्षि­त­त्व­पक्षे श्रवणमात्रस्य सन्न्या­सा­पे­क्ष­त्वा­व­ग­मात्, क्षत्रि­य­वै­श्य­यो­र्वि­वि­दि­षा­स­न्न्या­स­र­हि­तयोः श्रवणानुष्ठानं नास्तीत्येव पर्यवस्यति, न तु तयोश्श्रवणं सन्न्या­स­नि­र­पे­क्ष­मिति । तथा च कथं तयो­श्श्र­व­णा­द्य­नु­ष्ठा­न­नि­र्वाहः, तत्राह —
न हीति ।

देवभावं प्राप्तस्येति ।
न च - सगुणोपासकस्य ब्रह्मलोकं गतस्य उपासनया देवभावं प्राप्तस्य निर्गु­ण­ब्र­ह्म­सा­क्षा­त्का­राय उपासकेन क्रियमाणे श्रवणादौ सन्न्यासस्य व्यभिचार इत्ययुक्तम्, तस्य सगु­ण­वि­द्या­सा­म­र्थ्या­देव निर्गु­ण­सा­क्षा­त्का­र­स­म्भ­वेन श्रव­णा­द्य­नु­ष्ठा­न­स्यै­वा­भा­वा­दिति - वाच्यम् । देवताधिकरणे सगुणविद्यया देवभावं प्राप्त­मु­पा­स­क­मेव प्राधान्येन विषयीकृत्य श्रवणादौ देवाद्यधिकारस्य निरूपितत्वेन तस्यापि श्रव­णा­द्य­नु­ष्ठानं विना विद्यानुदयस्य प्रागेव श्रव­ण­वि­धि­वि­चा­रा­व­सरे दर्शितत्वात् । तथा च तत्र व्यभिचारात् सन्न्यासो न श्रव­ण­मा­त्राङ्गं, किं तु ब्राह्म­ण­क­र्तृ­क­श्र­व­ण­स्यै­वा­ङ्ग­मिति क्षत्रि­य­वै­श्ययोः सन्न्या­सा­भा­वेऽपि श्रव­णा­द्य­नु­ष्ठा­न­नि­र्वाह इत्यर्थः ।

ननु देवानामपि कुत­स्स­न्न्या­सा­भावः, तत्राह —
देवानामिति ।

ननु — देवकर्तृकश्रवणे सन्न्या­सा­श्र­मस्य यदि व्यभिचारः, तर्हि त्रैव­र्णि­क­म­नु­ष्य­क­र्तृ­क­श्र­वणे सन्न्या­सा­श्र­मस्य हेतुत्वमस्तु, न तु ब्राह्म­ण­मा­त्र­क­र्तृके । तथा सङ्कोचे मानाभावात् । उक्तं हि प्रागेव चतु­र्ष्वा­श्र­मेषु सन्न्या­सा­श्र­म­प­रि­ग्र­हे­णैव श्रवणादि निर्वर्तनीयमिति । स चाश्रमविभागो वर्णत्रयसाधारण एव, न ब्राह्म­ण­मा­त्र­गतः । तथा च सन्न्यासहीनयोः क्षत्रि­य­वै­श्ययोः श्रवणादौ नाधिकारस्संभवति - इत्यस्वरसादाह —
अपरे त्विति ।
श्रुत्युदिता ब्रह्मणि संस्था यस्य सम्भवति तस्य मुख्याधिकार इति सम्बन्धः ।

संस्था­प­द­व्या­ख्यानं समाप्तिरिति ।
तस्या अपि व्याख्यानं अनन्येति ।

अमृतत्वकामस्य नैरन्तर्येण विचा­र­क­र्त­व्य­तायां स्मृति­व­च­ना­न्य­प्यु­दा­ह­रति —
गच्छत इति ।

स्वपत इति ।
शयानस्येत्यर्थः । 4‘स जीवति मनो यस्य मननेनैव जीवति’ [म.उ.३-१३] इत्या­दि­व­च­न­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् । मननं तत्त्वचिन्तनं, तद्रहितो जीवन्नेव मृत इत्यर्थः ।

अयं च मुख्याधिकारः सन्न्या­सि­ना­मे­वे­त्याह —
सा चेति ।

वैयग्र्यादिति ।
व्यग्र­त्वा­दि­त्यर्थः । सार्वकालिकी विक्षे­प­नि­वृत्तिः असन्न्यासिनां न सम्भवतीति भावः ।

न मुख्य इति ।
शास्त्री­योऽ­धि­कारो नास्तीत्यर्थः । अयं भावः — ‘ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति’ इति श्रुत्या पाण्डि­त्य­श्रु­त्येव ब्रह्म­नि­ष्ठा­ध­र्म­क­स्स­न्न्या­सा­श्रमो विधीयते, ब्रह्म­सं­स्था­श­ब्दि­तायाः ब्रह्मनिष्ठायाः सन्न्यासाश्रमे सम्भवात् आश्र­मा­न्त­रे­ष्व­स­म्भ­वात् - इति प्रतिपादितं सन्न्या­सा­धि­क­र­ण­भा­ष्यादौ । तथा च ब्रह्म­नि­ष्ठ­त्वस्य सन्न्या­सा­श्र­म­ध­र्म­त्वेन विहितत्वात् सन्न्यासिनो ब्राह्मणस्य ब्रह्मनिष्ठत्वं स्वधर्म इति सन्न्यासिनः तत्र मुख्योऽधिकारः । तस्य ब्रह्म­नि­ष्ठ­त्व­व्य­ति­क्रमे प्रत्य­वा­या­व­ग­माच्च । तथा च परमहंसोपनिषदि [३] श्रूयते — ‘काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः । स याति नरकान् घोरान् महा­रौ­र­व­सं­ज्ञ­कान् ॥’ [ना.प.उ. ५-१४] इति । काष्ठ­द­ण्डो­प­ल­क्षितः सन्न्यासाश्रमो धृतः - परिगृहीतः । सर्वाशी - सर्वं विषयजातं अशितुं - भोक्तुं शीलमस्यास्तीति सर्वाशी, बाह्या­न्तः­क­र­ण­ज­य­र­हित इति यावत् । ज्ञानवर्जितः - ज्ञाना­भ्या­स­व­र्जित इत्यर्थः । यः सन्न्यस्य शमदमादिसहितं ब्रह्मनिष्ठत्वं नानुतिष्ठति, स तीव्रां दुर्गतिं गच्छतीत्यर्थः । यथा सन्न्यासिनो ज्ञान­नि­ष्ठा­वि­धा­य­कानि ‘सन्न्यस्य श्रवणं कुर्यात्’ ‘गच्छतस्तिष्ठतो वाऽपि’ ‘आसुप्तेरामृतेः कालं’ इत्यादीनि स्मृतिवचनानि सहस्रशस्सन्ति, तथा तत्परित्यागे पाति­त्य­बो­ध­का­न्यपि स्मृतिवचनानि सहस्रशस्सन्ति । ‘त्वंप­दा­र्थ­वे­वि­काय सन्न्यासः सर्वकर्मणाम् । श्रुत्या विधीयते यस्मात् तत्त्यागी पतितो भवेत् ॥

नित्यं कर्म परित्यज्य वेदान्तश्रवणं विना । वर्तमानस्तु सन्न्यासी पतत्येव न संशयः ॥’ इत्यादीनि । सर्वा­श्र­म­सा­धा­र­ण्ये­नापि स्वधर्मस्य विगुणस्यापि परित्यागे महाननर्थः स्मर्यते — ‘श्रेयान् स्वधर्मो विगुणः पर­ध­र्मा­त्स्व­नु­ष्ठि­तात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥’ [भ.गी. ३-३५] इत्यादौ । सन्न्यासाधिकरणे भाष्यकारैः एत­त्स­र्व­म­भि­प्रेत्य सन्न्यासिनः अनन्यव्यापारतया श्रव­णा­दि­नि­ष्पा­द­न­म­कु­र्वतः पातित्यं कण्ठत एवोक्तम् । तथा च भाष्यम् — ‘ब्रह्म­नि­ष्ठ­त्व­मेव हि तस्य शम­द­मा­द्यु­प­बृं­हितं स्वाश्रमविहितं कर्म, यज्ञादीनि चेतरेषां, तद्व्यातिक्रमे च तस्य प्रत्यवायः’ [ब्र.सू. ३-४-२०] इति । तस्मात् श्रव­णा­दे­र्भिक्षुं प्रति विहितत्वात् तद्व्यतिक्रमे भिक्षोः प्रत्य­वा­या­व­ग­माच्च सन्न्यासिनः श्रवणादौ मुख्योऽधिकारः, सन्न्यासरहितान् प्रति तु श्रव­णा­दे­र­वि­हि­त­त्वात् अकरणे प्रत्य­वा­या­न­व­ग­माच्च नास्ति तेषां मुख्योऽधिकार इति ।

ननु क्षत्रियादिकं प्रति श्रव­णा­दि­वि­धा­ना­भावे सति अधिकार एव नास्तीति कुतो नोच्यत इति शङ्कते —
किं त्विति ।

नित्या­धि­का­र­रू­प­मु­ख्या­धि­का­रा­स­म्भ­वेऽपि काम्या­धि­का­र­रू­प­गौ­णा­धि­का­र­स­म्भ­वा­न्नै­व­मिति - भाष्येणोत्तरमाह —
दृष्टार्था चेति ।
किं तु अमु­ख्या­धि­का­र­मा­त्रेण श्रवणाद्यनुमतिः इति सम्बन्धः । यथा भुजिक्रिया क्षुद्बा­धा­नि­वृ­त्ति­रू­प­दृ­ष्ट­फला, तथा विद्याऽपि सर्वा­न­र्थ­मू­ला­वि­द्या­नि­वृ­त्ति­रू­प­दृ­ष्ट­फला श्रुतिसिद्धा । तथा च तस्यां विद्यायां अन­र्थ­नि­वृ­त्ति­का­मानां सर्वेषामेव अर्थि­त्व­ल­क्ष­णा­धि­कारः सम्भवति । तथा च विद्याधिकारिणां सर्वेषां अविशेषेण वेदा­न्त­श्र­व­णा­दा­व­धि­का­र­प्र­सक्तौ शूद्रस्य वेद­श्र­व­णा­दि­प्र­ति­षे­धा­न्ना­धि­कार इत्यु­क्त­म­प­शू­द्रा­धि­क­रणे । क्षत्रियादीनां च तथा प्रतिषेधाभावात् वेदा­न्त­श्र­व­णा­धि­कारो भाष्यानुमतो विधुरादेरिव — इत्यर्थः ।

ननु — अमु­ख्या­धि­का­रि­भि­र­नु­ष्ठि­त­श्र­व­णा­दे­रपि विद्यो­त्पा­द­क­त्व­म­वश्यं वाच्यम् । अन्यथा गौणा­धि­का­र­नि­रू­प­ण­प­र­भा­ष्य­वै­य­र्थ्य­प्र­स­ङ्गात् । विद्यो­त्पा­द­क­त्वा­व­श्यं­भावे च न काम्याधिकारस्य गौणत्वम्, मुख्य­गौ­णा­धि­का­रयोः फलतो विशेषाभावात्; इत्यत आह —
देहान्तर इति ।
अयं भावः ---- मुख्या­धि­का­रि­णा­म­न­न्य­व्या­पा­र­तया प्रत्यहं निर्वर्त्यमानं श्रवणादिकं निर­ङ्कु­श­ब्र­ह्म­च­र्या­हिं­सा­श­म­द­मा­दि­युक्तं अस्मिन्नेव जन्मनि प्रायेण विद्योत्पादकं सम्पद्यते । अमु­ख्या­धि­का­रिणां तु श्रवणादिकं अन­न्य­व्या­पा­र­रू­प­त्वा­भा­वात् सङ्कु­चि­त­ब्र­ह्म­च­र्या­दि­यु­क्त­त्वाच्च अस्मिन् जन्मनि विद्यो­त्पा­द­न­यो­ग्य­मेव न भवति । किं तु बहुषु जन्मसु किञ्चित् किञ्चित् श्रवणादिकं सम्पाद्यमानं सम्भूय देहान्तरे क्वचित् ज्ञान­मु­त्पा­द­ये­दिति महान् फलभेदो गौण­मु­ख्या­धि­का­रयोः ।

तथा च स्मूतिः — ‘अने­क­ज­न्म­सं­सि­द्ध­स्ततो याति परां गतिम्’ तेषां गौणाधिकारे सूत्र­सं­गृ­ही­ता­म­प्यु­प­प­त्ति­माह —
अतस्त्वितरदिति ।
अतः-अ­ना­श्र­मि­भि­र­नु­ष्ठि­त­वि­द्या­सा­ध­ना­पे­क्षया इतरत् - आश्र­मि­भि­र­नु­ष्ठितं विद्यासाधनं कर्म श्रवणादिकं वा ज्यायः-प्रशस्तं विद्यासाधनम् । ज्याय­स्त्वा­व­धा­र­णार्थः तुशब्दः । श्रुतिलिङ्गात् स्मृतिलिङ्गाच्च । ‘तेनैति ब्रह्म­वि­त्पु­ण्य­कृत्’ इतिवाक्यं श्रुतिलिङ्गम् । ‘अनाश्रमी न तिष्ठेत क्षणमेकमपि द्विजः’ इत्यादि स्मृतिवाक्यं स्मृतिलिङ्गम् । तेन - पुण्यलब्धेन ब्रह्मवेदनेन ब्रह्म - एति-प्रा­प्नो­तीति श्रुत्यर्थः । अत्र श्रुतौ पुण्यत्वेन प्रसि­द्धा­ना­मा­श्र­म­ध­र्मा­णा­मेव विशिष्य ब्रह्म­प्रा­प्ति­सा­ध­न­त्व­प्र­ति­पा­द­नात् अना­श्र­मि­ध­र्माणां ‘विशे­षा­नु­ग्र­हश्च’ [ब्र.सू. ३-४-३८] इति सूत्रो­क्त­न्या­येन विद्यो­प­यो­गि­ना­मपि निकर्षो भाति । स च निकर्षो विधुरादीनां विद्यार्थकर्मसु श्रवणादिषु च मुख्या­धि­का­रा­भा­व­प्र­युक्त एवेति वक्तव्यम् । हेत्व­न्त­रा­भा­वात्, अनाश्रमित्वस्य निन्दितत्वाच्च । न हि कर्म­ज्ञा­न­यो­र्मु­ख्या­धि­कारी निन्दार्हः - इति सूत्र­भा­ष्य­का­र­यो­र­भि­प्राय इत्यर्थः । ननु-वि­धु­रा­धि­क­रणे ‘विधु­रा­द्य­नु­ष्ठितं कर्म विद्यासाधनम्’ इत्ये­ता­व­दे­वोक्तं, न तु विधुरादेः श्रव­णा­द्य­धि­का­रोऽपि तत्र प्रतिपादितः ।

तथा च श्रवणादौ विधु­रा­द्य­धि­का­रस्य गौण­मु­ख्य­त्व­चिन्ता निरालम्बना - इत्याशङ्क्य परिहरति —
न च तत्रेति ।
विधुराधिकरणे इत्यर्थः ।

तत एवेति ।
सन्न्या­सा­भा­वा­दे­वे­त्यर्थः ।

अस्तु पुन­र्ब्रा­ह्म­ण­जन्म, इत्यत आह —
ब्रह्मलोकमिति ।

न च पुनरिति ।
ब्रह्म­लो­क­म­भि­स­म्पद्य पुनरिमं लोकं प्रति नावर्तत इत्यर्थः ।

एतच्छ्रुतिमूलं सूत्रमुदाहरति —
अनावृत्तिरिति ।
ब्रह्मलोकं गता­ना­मु­पा­स­का­ना­मा­वृ­त्ति­र्नास्ति, उदा­हृ­त­श्रु­ते­रि­त्यर्थः । ‘स्मृतेश्च’ [ब्र.सू. ४-३-११] इत्या­दि­सू­त्र­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् । तथा च स्मृतिः — ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥’ इति । ते - ब्रह्मलोकवासिनः ब्रह्मोपासकाः प्रतिसञ्चरे - महाप्रलये परस्य - हिरण्यगर्भस्य ब्रह्म­लो­क­स्वा­मिन आयुषः अन्ते कृतः-सा­क्षा­त्कृत आत्मा येषां ते तथा ।

नन्व­न­न्य­व्या­पा­र­त्व­स­म्भ­वेऽपि सन्न्यासो नास्ती­त्या­श­ङ्क्याह —
क्रममुक्तीति ।
मनुष्येष्वेव सन्न्यासो मुख्या­धि­का­र­प्र­यो­जकः, वर्णा­श्र­म­वि­भा­गस्य मनु­ष्य­वि­ष­य­त्वा­दिति भावः ।

अविहितेति ।
न्याय­शा­स्त्रा­दि­वि­चा­र­व­दि­त्यर्थः ।

एत­ज्ज­न्मी­य­वे­दा­न्त­वि­चा­रस्य आगामिजन्मीयां वेदा­न्ता­र्था­व­गतिं प्रति हेतुत्वासम्भवं कैमुतिकन्यायेन द्रढयति —
न खल्विति ।

मुख्या­धि­का­रि­कृ­त­वि­चा­र­दृ­ष्टा­न्तेन गौणा­धि­का­रि­श्र­व­णा­दे­रपि जन्मा­न्त­री­य­वि­द्यो­प­योगं शङ्कते —
न च वाच्यमिति ।

ततः किं, तत्राह —
तस्येति ।
यथा तस्य - मुख्या­धि­का­रि­कृ­त­श्र­व­णस्य प्रति­ब­न्धा­दि­ह­ज­न्मनि विद्यालक्षणं फलमजनयतो जन्मान्तरे फलजनकत्वम्, एव­म­मु­ख्या­धि­का­रि­कृ­त­मपि श्रवणं जन्मान्तरे फलजनकं स्यादिति न च वाच्यमिति सम्बन्धः ।

मुख्या­धि­का­रि­कृ­त­श्र­व­णस्य सति प्रतिबन्धके आमुष्मिकं विद्या­ज­न्मे­त्यत्र मानमाह —
ऐहिकमपीति ।
प्रस्तु­त­प्र­ति­बन्धे असति (सति) विद्याजन्म इह जन्मनि भवति, अपिशब्दात् सति प्रतिबन्धे जन्मान्तरे भवति । कुतः, तद्दर्शनात् - तस्य - प्रतिबन्धकवशात् जन्मान्तरे विद्योदयस्य वामदेवादिषु दर्शनादित्यर्थः ।

दृष्टा­न्त­वै­ष­म्ये­णो­त्त­र­माह —
शास्त्री­या­ङ्ग­यु­क्त­मिति ।
शास्त्रीयाङ्गं सन्न्यासः, तद्युक्तं, सन्न्यासिना अनुष्ठीयमानमिति यावत् ।

तथा च शास्त्री­या­ङ्ग­स­हितं श्रवणं ‘श्रव­ण­वि­धि­र­पू­र्व­विधिः’ इति पक्षे स्वयमेव विद्या­ल­क्ष­ण­फ­ल­प­र्य­न्त­म­दृष्टं जनयति ।
‘श्रव­ण­वि­धि­र्नि­य­म­विधिः’ इति पक्षे तु तादृशं श्रवणं नियमविशिष्टं सत् फलपर्यन्तं नियमादृष्टं जनयतीत्यर्थः ।

तच्चेति ।
श्रव­ण­ज­नि­ता­दृ­ष्ट­मि­त्यर्थः ।

जातीति ।
जातिः - जन्म । ततश्च यथा जाति­स्म­र­त्व­स­म्पा­द­क­म­दृष्टं पूर्व­ज­न्म­त­द्वृ­त्ता­न्ता­नु­भ­व­ज­न्य­सं­स्कारं अस्मिन् जन्मन्युद्बोध्य तदुद्बोधनद्वारा पूर्व­ज­न्म­त­द्वृ­त्ता­न्त­स्मृतिं घटयति, तथा प्राचि भवे श्रवणादिजनितं अदृष्टं संस्का­र­मु­द्बोध्य तत्सं­स्का­र­का­र­ण­भू­तस्य श्रवणस्य भाविजन्मनि विद्योपयोगित्वं घटयतीत्यर्थः ।

शास्त्री­या­ङ्ग­वि­धु­र­मिति ।
सन्न्या­स­र­हि­त­क्ष­त्रि­या­दिना क्रियमाणं श्रवणं अदृष्टोत्पादकं न भवति, क्षत्रियादिकं प्रत्य­वि­हि­त­त्वा­च्छ्र­व­णा­दे­रिति भावः ।

नन्व­वि­हि­त­श्र­व­ण­स्या­दृ­ष्टा­नु­त्पा­द­क­त्वेऽपि संस्का­र­ज­न­क­त्व­स­म्भ­वात् तद्बलादेव जन्मा­न्त­री­य­वि­द्या­हे­तुत्वं कुतो न स्यादित्यत आह —
घटकादृष्टं विनेति ।

अतिप्रसङ्गादिति ।
जन्मा­न्त­रा­नु­भू­त­स­क­ल­प­दा­र्थ­स्मृ­ति­प्र­स­ङ्गा­दि­त्यर्थः ।

कर्मणां विद्यायां विनियोग इति पक्षमाश्रित्य परिहरति —
उच्यत इति ।
यज्ञा­दि­भि­र्वि­द्यायां सम्पादनीयायां द्वारभूता या विविदिषा, तस्या उत्पादकं प्राचीनं च यद्वि­द्या­र्थ­य­ज्ञा­द्य­नु­ष्ठानं, तज्जन्येत्यर्थः । स्वपदं यज्ञा­द्य­नु­ष्ठा­न­ज­न्या­पू­र्व­प­रम् ।

वाचस्पतिमते मुख्या­धि­का­रि­कृ­त­श्र­व­ण­स्यापि यज्ञा­द्य­पू­र्वे­णैव निर्वाह इति दृष्टा­न्ता­भि­प्रा­ये­णाह —
श्रवणादौ विध्यभावपक्षे त्विति ।

विव­र­ण­प­क्षेऽ­प्ये­व­मेव निर्वाह इत्याह —
आचार्यास्त्विति ।
अयं भावः — प्रमा­णा­स­म्भा­व­ना­नि­वृत्तिः श्रवणफलं, प्रमे­या­स­म्भा­व­ना­नि­वृ­त्ति­र्म­न­न­फलं, विप­री­त­भा­व­ना­नि­वृ­त्ति­र्नि­दि­ध्या­स­न­फ­लम् । तथा च त्रिवि­ध­प्र­ति­ब­न्ध­क­नि­वृ­त्ति­ल­क्ष­ण­फ­ल­प­र्य­न्त­मा­वृ­त्ति­वि­शि­ष्टानि श्रवणादीनि यस्य मुख्याधिकारिणो निष्पन्नानि, तस्य निय­मा­दृ­ष्ट­मु­त्प­न्न­मेव । एवं सम्प­न्न­वि­द्या­सा­ध­न­स्यापि प्रतिबन्धवशात् यदि विद्या न जाता, तदा पुनर्जन्मलाभेन प्रतिबन्धक्षये सति पुन­र्वि­चा­र­म­न­पे­क्ष्यैव विद्या जायते । यथा वाम­दे­व­हि­र­ण्य­ग­र्भादेः । यस्य तु उक्त­प्र­ति­ब­न्ध­नि­वृ­त्ति­प­र्यन्तं श्रव­णा­द्या­वृ­त्तिर्न जाता, मध्ये मृतिश्च जाता, तस्य मुख्या­धि­का­रि­णोऽपि नियमादृष्टं न जायते । स च पुनर्जन्मान्तरे उक्त­प्र­ति­ब­न्ध­क­नि­वृ­त्ति­प­र्य­न्त­श्र­व­णा­दि­क­म­भ्यस्य श्रव­णा­दि­नि­य­मा­दृ­ष्ट­व­शेन विद्या­प्र­ति­ब­न्ध­क­क­ल्म­ष­क्षये सति विद्यां लभते । तदुक्तं भगवता श्रीकृष्णेन — ‘तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयस्संसिद्धौ कुरुनन्दन ॥’ [भ. गी. ६-४३] इति । तत्र-प्राप्ते साधुकुलजन्मनि तं - पूर्वदेहभवं इदानीं संस्का­रा­त्म­नाऽ­नु­व­र्त­मानं बुद्धिसंयोगं - श्रव­णा­दि­क­र्त­व्य­ता­बुद्ध्या सम्बन्धं लभते । ‘अस्मिन्नपि जन्मनि प्रति­ब­न्ध­नि­वृ­त्ति­द्वारा विद्योदयाय मया श्रव­णा­दि­क­म­नु­ष्ठे­यम्’ इति बुद्ध्या युक्तो भवतीत्यर्थः । ततः-पू­र्व­ज­न्मी­य­य­त्ना­पे­क्षया भूयः - अधिकं यतते संसि­द्ध्य­र्थ­मि­त्यर्थः । तथा च योऽयं फल­प­र्य­न्ता­वृ­त्ति­गु­ण­क­श्र­व­णा­दि­र­हितो योगभ्रष्टः तस्य निय­मा­दृ­ष्टा­भा­वात् यज्ञा­द्य­दृ­ष्टा­देव निर्वाहः कर्तव्य इति ।

प्रति­ब­न्ध­नि­वृ­त्ति­रू­प­फ­ल­प्राप्तेः पूर्वं निय­मा­दृ­ष्टा­नु­त्पत्तौ हेतुमाह —
तस्येति ।
निय­मा­दृ­ष्ट­स्ये­त्यर्थः । नियमादृष्टं हि न श्रव­ण­मा­त्र­जन्यं, किं तु श्रवणनियमजन्यम् । तन्नियमश्च श्रवणादेरेव फल­प­र्य­न्त­मा­वृत्तौ सत्यां निष्पद्यते । तथा च फलो­त्प­त्ते­र­र्वाक् श्रव­णा­दि­नि­य­म­स्यै­वा­भा­वात् न निय­मा­दृ­ष्टो­त्प­त्ति­रि­त्यर्थः ।

उक्तं प्रपञ्चयसि —
न हीत्यादिना ।

श्रवणनियमः श्रव­ण­स्यो­प­क्र­म­मा­त्रेण निर्वर्तितो न भवतीत्यत्र हेतुमाह —
अवधातवदिति ।
आवृ­त्ति­वि­शि­ष्ट­स्यै­वा­व­ह­न­नस्य तण्डु­ल­नि­ष्प­त्ति­ल­क्ष­ण­फ­ल­सा­ध­न­तायाः लोक­सि­द्ध­त्वा­दिति भावः ।

प्राक्तदिति ।
फलपर्यन्तं श्रव­ण­स्यै­वा­वृत्तौ सत्यां श्रवणस्य अप्रा­प्तां­श­प­रि­पू­र­ण­ल­क्ष­ण­नि­यमो निष्पन्नो भवति, न ततः प्रागित्यर्थः । श्रव­ण­स्या­र­म्भ­मात्रे वा कति­प­या­वृ­त्ति­मात्रे वा जाते सति श्रवणनियमो निष्पन्नः’ इति वचनं विषयाभावात् निरा­ल­म्ब­न­मि­त्यर्थः ।

तदनावृत्तावपीति ।
श्रव­णा­व­धा­ता­द्य­नु­ष्ठा­न­मु­प­क्रम्य (???) श्रवणादिकं त्यक्त्वा भाषा­प्र­ब­न्धा­दि­वि­चारे नखविदलनादौ च प्रवृत्तावपि निय­म­वि­धि­वि­रो­धा­भा­व­प्र­स­ङ्गा­दि­त्यर्थः ।

मुख्या­मु­ख्या­धि­का­रि­भि­र­न्वहं क्रियमाणस्य वेदान्तश्रवणस्य प्रति­ब­न्ध­क­नि­वृ­त्ति­रू­प­दृ­ष्ट­फ­लो­त्पा­द­क­त्व­वत् अदृ­ष्टो­त्पा­द­क­त्व­म­प्यस्ति, तथा च तद्बलात् जन्मान्तरे विद्योपयोगित्वं विचारस्य घटते - इति परिहारान्तरमाह —
केचित्त्विति ।

फलमिति ।
पुण्य­रू­प­मि­त्यर्थः । वचने तुशब्दः चार्थे । तथा च वेदान्तश्रवणस्य देव­ता­गु­रु­वे­दा­न्त­वि­ष­य­भ­क्ति­गु­रु­शु­श्रू­षा­भ्या­मु­पा­त्ताभ्यां अनुपात्तैश्च शम­द­म­ब्र­ह्म­च­र्या­हिं­सा­दिभिः समुच्चयार्थः तुशब्द इति भावः ।

स्वतन्त्रेति ।
वेदान्तश्रवणस्य स्वतन्त्रतया अदृ­ष्टो­त्पा­द­क­त्व­म­स्ती­त्यर्थः । स्वातन्त्र्यं च अदृष्टजनने श्रवणस्य विद्यायां विनि­यो­ग­बो­ध­क­श्र­व­ण­वि­धि­नै­र­पे­क्ष्य­मिति बोध्यम् ।

एक­स्यो­भ­या­र्थत्वे दृष्टान्तमाह —
यथाग्नीति ।
‘अग्नीनादधीत’ इति वचनात् आधानस्य आह­व­नी­या­द्य­ग्नि­सं­स्का­र­त्वो­प­ग­मा­दिति भावः ।

पुरु­ष­सं­स्का­रे­ष्विति ।
‘अग्न्या­धे­य­म­ग्नि­हो­त्रम्’ [गौ.ध.सू. ८-१७] इत्या­दि­पु­रु­ष­सं­स्का­र­स­ङ्ग्रा­ह­क­सूत्रे अग्न्या­धा­न­स्यापि पाठादित्यर्थः ।

अदृ­ष्ट­म­हि­म्नै­वेति ।
वेदा­न्त­श्र­व­ण­ज­नि­ता­दृ­ष्टस्य योग्यतया विद्यायामेव विनियोगस्य वक्तव्यतया तद्बलात् जन्मा­न्त­री­य­वि­द्यो­प­यो­गि­त्व­मिति भावः ।