कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
निर्गुणोपासनात्मकयोगस्य ब्रह्मसाक्षात्कारसाधनत्वनिरूपणम्
एवमुत्तममध्यमाधिकारिणां साङ्ख्यमार्गं निरूप्य तदशक्तानामत्यन्तमन्दाधिकारिणां योगमार्गं निरूपयितुमुपक्रमते —
एवमिति ।
सर्वसम्प्रतिपन्न इति ।
सर्वश्रुतिस्मृतिषु सम्यक् प्रतिपन्ने-निश्चिते इत्यर्थः ।
आहुरिति ।
सम्यक् निरूपितवन्तः इत्यर्थः । न तु ‘नूतनतया कल्पितवन्त’ इति भ्रमितव्यम् । तस्यापि श्रुत्यादिसिद्धत्वात् । तत् - प्रकृतं कारणत्वोपलक्षितं ब्रह्म साङ्ख्ययोगाभ्यां विद्याद्वारा आभिमुख्येन-प्रत्यक्त्वेन प्राप्तमिति श्रुत्यर्थः । साङ्ख्यैः - श्रवणादिपरैः योगैः - उपासकैः यत् स्थानं ब्रह्मस्वरूपं विद्याद्वारा गम्यते - प्राप्यते इत्यर्थः । योगैरपीत्यपिशब्दात् योगमार्गस्यानुकल्पत्वं भातीति बोध्यम् ।
अपीति ।
‘विद्यावाप्त्युपायः’ इत्यनुषङ्गः ।
निर्गुणब्रह्मोपासनं मानशून्यमित्याशङ्क्य परिहरति —
न चेत्यादिना ।
ननु - इयं शङ्का न युक्ता, ‘तत्कारणं’ ‘यत्साङ्ख्यैः’ इति श्रुतिस्मृत्योः आदावेव तत्र प्रमाणत्वेनोदाहृतत्वात् । न च उदाहृतश्रुतिस्मृतिगतयोगपदस्य सगुणोपासनपरत्वसम्भवात् आशङ्का युक्तेति वाच्यम् । भिन्नविषययोरुपासनसाक्षात्कारयोः कार्यकारणभावासम्भवेन निर्गुणविद्याहेतुभूतस्य योगस्य निर्गुणोपासनरूपत्वावश्यंभावात् । न च — ‘यत्साङ्ख्यैः’ इतिवचनगतयोगपदस्य उपास्तिपरत्वमेवासिद्धम्, तस्य गीताभाष्ये कर्मयोगपरत्वेन व्याख्यातत्वादिति — वाच्यम् । ‘यत्साङ्ख्यैः’ इतिवचनस्य वस्तुतो निर्गुणोपास्तिपरस्यैव सतो भगवता श्रीकृष्णेन कर्मविषये उदाहृतत्वेन तदनुरोधेन भाष्ये तथाव्याख्यानोपपत्तेः, योगपदस्य ध्याने रूढत्वेन वस्तुतः कर्मपरत्वाभावात्, तद्वचनमूलभूतायां ‘तत्कारणम्’ इतिश्रुतौ योगपदस्य ध्यानपरतया शारीरकभाष्ये व्याख्यातत्वाच्च, ‘कर्मयोगस्य मुख्ययोगद्वारा ब्रह्मप्राप्तिसाधनत्वं न तु साक्षात्’ इति ज्ञापनाय अस्य वचनस्य कर्मविषयतया भगवता उदाहरणसम्भवाच्च । तस्मात् मानाभावशङ्का न युक्तेति चेत्, न - उदाहृतश्रुतिस्मृतिव्यतिरेकेण अन्यत्र क्वापि निर्गुणोपासनं न दृष्टं इत्येतावदभिप्रायेण शङ्कोपपत्तेः ।
अत एव सर्वासु श्रुतिषु निर्गुणोपासनं दृष्टमिति मन्दाधिकारिणामाश्वासनायाह —
प्रश्नोपनिषदीत्यादिना ।
त्रिमात्रेणेति ।
द्वितीयार्थे तृतीया । तिस्रः - अकारोकारमकाराख्याः मात्राः यस्योङ्कारस्य, सः त्रिमात्रः ।
‘ ॐङ्कारे निर्गुणमेव ब्रह्म तदभेदेन ध्येयम्’ इत्यत्र भाष्यादिसम्मतिमाह —
तदनन्तरमिति ।
ध्यानवाक्यानन्तरमित्यर्थः । जीवरूपः परमात्मनो घनः-घटाकाशवदुपाधिपरिच्छिन्नचैतन्यात्मा जीवघनः, तस्मात् परः पुरुषः निरुपाधिकः परमात्मा, तं सः - ध्याता पुरि-हार्दाकाशे बुद्धिसाक्षित्वेन शयं - वर्तमानं ईक्षते-साक्षात्करोतीत्यर्थः । उपासनावाक्ये । ‘परं पुरुषमभिध्यायीत’ इति वाक्ये इत्यर्थः ।
कार्येति ।
ईक्षणवाक्यस्य ध्यानफलभूतसाक्षात्कारप्रतिपादकत्वेन ध्यानवाक्यैकवाक्यत्वात् ध्यानेक्षणयोः कार्यकारणभावोऽवगम्यत इति भावः ।
नियमादिति ।
अन्यध्यानादन्यसाक्षात्कारादर्शनादिति भावः । ननु - कल्पतरौ ध्यातव्यस्य सूर्यान्तस्स्थत्वं ‘स तेजसि सूर्ये संपन्नः’ [प्र.उ. ५-५] इति सूर्यसम्पत्तिवचनानुसारेण विशेषणं दत्तम् । तथा च ओङ्कारेध्यातव्यपुरुषस्य निर्गुणब्रह्मरूपत्वं कल्पतरुकारैर्नाङ्गीकृतमिति प्रतीयते - इति चेत्, न - सूर्यसम्पत्तिवचनस्य अर्चिरादिमार्गप्राप्तिपरतायाः चतुर्थाध्याये व्यवस्थापितत्वेन सूर्यतदन्तस्स्थेश्वरप्राप्तिपरत्वाभावात्, कल्पतरुकाराणामपि तदीयवचनान्तरपर्यालोचनया श्रुतेर्मार्गपरतया च सूर्यान्तस्स्थत्वविशेषणदाने तात्पर्याभावस्य परिमले प्रतिपादितत्वाच्च इति भावः । ‘देवा ह वै प्रजापतिमब्रुवन् अणोरणीयांसमिममात्मानमोङ्कारं नो व्याचक्ष्व’ [नृ.उ. १] इत्याद्या तापनीयश्रुतिः । अणोः-सूक्ष्मादपि सूक्ष्मं - दुर्विज्ञेयं इमं - प्रत्यग्रूपं परमात्मानं ओङ्कारगम्यं इत्यर्थः । ‘एतद्ध्येवाक्षरं ब्रह्म’ [क.उ. २-१६] इत्याद्या कठवल्लीश्रुतिः ‘ॐमित्येतदक्षरमिदं सर्वम्’ [मा.उ.९] इत्यादिमाण्डूक्यश्रुतिः ‘ॐमित्येवं ध्यायथ आत्मानम्’ [मु.उ.२-२-६] इति मुण्डकश्रुतिश्च आदिपदार्थः ।
निर्गुणस्योपास्यत्वे सूत्रसम्मतिमाह —
सूत्रकृताऽपीति ।
सूत्रकृता निर्गुणेऽपि गुणानामुपसंहारस्य दर्शितत्वादिति सम्बन्धः ।
निर्गुणे गुणोपसंहारो निर्गुणब्रह्मप्रमित्यर्थ एव, न निर्गुणब्रह्मोपास्त्यर्थः - इति शङ्काव्यवच्छेदाय पादं विशिनष्टि —
उपास्यगुणपरिच्छेदार्थमिति ।
परिच्छेदः-निर्णयः । निर्गुणे गुणोपसंहारनिरूपणस्य निर्गुणोपास्तिरपि फलमिति वक्तव्यम्, अन्यथा तन्निरूपणस्य पादासङ्गतिप्रसङ्गादिति भावः । आनन्दादयः क्वचिच्छ्रुताः अन्यत्राप्युपसंहर्तव्याः, प्रधानस्य - वेद्यब्रह्मणः सर्ववेदान्तेष्वभेदेन ब्रह्मविद्याया एकत्वात् - इति सूत्रार्थः । भावरूपाणामितिविशेषणं ‘अक्षरधियाम्’ इत्यधिकरणस्य ‘आनन्दादयः’ इत्यधिकरणेन पौनरुक्त्यपरिहारार्थमिति बोध्यम् । अक्षरे-ब्रह्मणि धीः यैरस्थूलादिशब्दवाच्यार्थभूतैरभावैर्भवति तेऽक्षरधियः, तेषामवरोधः-उपसंहारः इतरेषु वेदान्तेषु कर्तव्य एव इति सूत्रभागार्थः । स्थौल्यादिनिषेधानां निष्प्रपञ्चब्रह्मप्रमितिहेतुत्वादिति भावः ।
व्याघातं शङ्कते —
नन्विति ।
आनन्दादिगुणानां उपास्यकोटौ निवेशो नाङ्गीक्रियते, येन उपास्यं ब्रह्म सगुणं स्यात् ।
किं तु उपास्यनिर्गुणनिर्णयद्वारा निर्गुणोपास्तावुपयोगमात्रं स्वीक्रियते - इति समाधत्ते —
नेति ।
आनन्दादिगुणानामस्थूलादिगुणानां चोपसंहारो हि तद्वाचकपदानां सहोच्चारणरूपो विवक्षितः । तथा च ‘उपाधिविशिष्टचैतन्यवाचकैरानन्दादिपदैः स्थौल्याद्यभावविशिष्टचैतन्यवाचकैरस्थूलादिशब्दैश्च वाच्यार्थेषु सर्वेषु अनुगतमखण्डैकरसं यत् ब्रह्म लक्षणया बोध्यते तदहमस्मि’ इत्युपासनसम्भवादित्यर्थः । उक्तं च ध्यानदीपे — ‘आनन्दादिभिरस्थूलादिभिश्चात्माऽत्र लक्षितः । योऽखण्डैकरसः सोऽहमस्मीत्येवमुपासते ।’ [पं.द. ९-७३] इति ।
अत्रेति ।
वेदान्तेष्वित्यर्थः ।
एवं श्रुतिसूत्राभ्यां निर्गुणस्योपास्यत्वं निरूप्य निर्गुणोपासनस्य श्रुत्यन्तरविरोधमाशङ्क्य परिहरति —
ननु तदेवेत्यादिना ।
तदेवेति ।
बुद्ध्यादिसाक्षिचैतन्यमेवेत्यर्थः ।
उपास्यस्य ब्रह्मत्वनिषेधवत् वेद्यस्यापि ब्रह्मत्वनिषेधात् परब्रह्मवेदनमपि न सिद्ध्येदित्याह —
अन्यदेवेति ।
‘वेदनविषयादन्यत् ब्रह्म’ इत्युक्ते अर्थात् ब्रह्म वेद्यं न भवतीति सिद्ध्यतीत्यर्थः ।
अस्त्विति ।
वेद्यत्वमुपास्यत्वं वा ब्रह्मणि परमार्थतो नास्तीति निषेधश्रुतीनां तात्पर्यमिति भावः ।
निर्गुणोपासनेऽधिकारिणं दर्शयति —
एवं चेति ।
निर्गुणोपासने प्रमाणसिद्धे सतीत्यर्थः ।
केषां चित् मुमुक्षूणां श्रवणासम्भवे प्रमाणमाह —
श्रवणायापीति ।
बहुभिर्मुमुक्षुभिः यः परमात्मा श्रोतुमपि न लभ्यते तस्य श्रुतस्यापि साक्षात्कारो दूरापास्त इत्यर्थः ।
बहूनां श्रवणालाभे श्रुत्यभिमतं कारणं दर्शयति —
येषामिति ।
बुद्धीति ।
उक्तं च ध्यानदीपे — ‘अत्यन्तबुद्धिमान्द्याद्वा सामग्र्या वाऽप्यसम्भवात् । यो विचारं न लभते ब्रह्मोपासीत सोऽनिशम् ॥’ [पं.द. ९-५४] इति ।
तत्र सामग्र्यसम्भवं विवृणोति —
न्यायेति ।
येषां अत्यन्तबुद्धिमान्द्यात् श्रवणादिकं न सम्भवति, येषां च कुशलमतीनामपि सामग्र्यभावात् श्रवणादिकं न सम्भवतीत्यर्थः । विशिष्टत्वं असम्भिन्नार्यमर्यादत्वकारुणिकत्वादिलक्षणं बोध्यम् ।
तेषां ब्रह्मजिज्ञासाहेतुमाह —
अध्ययनेति ।
अधिगमितः - अवगमितः ब्रह्मात्मभावो येषां ते तथोक्ताः, तेषामित्यर्थः । तेषां तद्विचारं विनैव गुरुभ्योऽवधार्य तदनुष्ठानात् साक्षात्कारः सम्पद्यत इति सम्बन्धः । निर्गुणब्रह्मविचारं विनैव निर्गुणब्रह्मोपासनानुष्ठानात् इत्यर्थः ।
ननु प्रश्नोपनिषदादावुपासनमात्रमुक्तं न तु तदनुष्ठानप्रकारोऽपि, इत्याशङ्क्याह —
आर्षग्रन्थेष्विति ।
ननु — पञ्चीकरणे वेदान्तलक्ष्ये अखण्डैकरसे प्रणवमात्रात्मककृत्स्नप्रपञ्चप्रविलापनोक्तिपूर्वकं ‘अहंब्रह्मास्मीत्यभेदेनावस्थानं समाधिः’ इत्युक्त्या ‘योऽखण्डैकरसस्सोऽहमस्मीत्येवमुपासते’ इत्युदाहृतध्यानदीपवचनेन च प्रकृतनिर्गुणोपासनं अहंग्रहरूपं विवक्षितम् । प्रश्नोपनिषद्गतशैब्यप्रश्ने तु ओंकाररूपे प्रतीके निर्गुणब्रह्मदृष्टिर्विवक्षिता । तथा कठवल्ल्यामपि । तथा च कथं प्रश्नादिवाक्यं प्रकृतोपासने प्रमाणत्वेनोदाहृतमिति चेत्, न — प्रकृतोपासने तापनीयमाण्डूक्यमुण्डकश्रुतीनामेव प्रमाणत्वेन विवक्षितत्वात् । प्रश्नकठवल्लीश्रुत्युदाहरणं तु ‘निर्गुणस्याप्युपासनं अन्यत्रापि दृष्टं’ इत्येतावन्मात्रेणेति न विरोध इति भावः । पञ्चीकरणादिषु च निर्धारितानुष्ठानप्रकारमिति सम्बन्धः ।
तत्र दृष्टान्तमाह —
अनेकशाखेति ।
अनेकासु शाखासु विप्रकीर्णतया - विशकलिततया स्थितानां पदार्थानां उपसंहारेण यथा अग्निहोत्रादिकर्म निर्धारितानुष्ठानप्रकारं भवति, तथेत्यर्थः । उपासनानुष्ठानप्रकारः सम्प्रदायः, तन्मात्रविद्भ्योऽपि गुरुभ्यः सकाशात् निश्चित्येत्यर्थः । उक्तं च भगवता श्रीकृष्णेन निर्गुणप्रकरणे —‘श्रुत्वाऽन्येभ्य उपासते’ [भ.गी. १३-२५] इति । क्रमेणेति । उपासनापरिपाकक्रमेणेत्यर्थः ।
ननु निर्गुणोपासनस्य कथं प्रमालक्षणसाक्षात्कारपर्यवसानं, इत्यत आह —
अविसंवादीति ।
अयमर्थः — क्वचित् गृहविशेषे स्थितस्य श्रीकृष्णरूपबिम्बस्य प्रतिबिम्बं गृहात् बहिः पश्यतो दूरस्थितस्य पुरुषस्य प्रतिबिम्बे श्रीकृष्णोऽयमिति भ्रमो जायते, तेन भ्रमेण प्रतिबिम्बाध्यासोपाधिसमीपं गतस्य पुरुषस्य सत्यश्रीकृष्णगोचरप्रमा जायते इति लोकसिद्धम् । तत्र प्रतिबिम्बे बिम्बभूतश्रीकृष्णभ्रमोऽविसंवादिभ्रमः । विसंवादः फलाभावः, तद्रहितः - अविसंवादिभ्रमः, फलवद्भ्रम इति यावत् ।यथा तेन भ्रमेण प्रवृत्तस्य श्रीकृष्णप्राप्तिलक्षणफलकाले श्रीकृष्णप्रमा जायते, तथा नुर्गुणोपासने प्रवृत्तस्यापि ब्रह्मप्राप्तिलक्षणफलकाले निर्गुणप्रमा जायत इति । ननु — संवादिभ्रमदृष्टान्तेन निर्गुणोपास्तेः प्रमापर्यवसानमुक्तमनुपपन्नम्, दृष्टान्तवैषम्यात् । तत्र हि समीपोपसर्पणानन्तरं सत्यश्रीकृष्णस्य चक्षुस्सन्निकर्षे सति श्रीकृष्णप्रमा जायते, न तु संवादिभ्रममात्रात् ।
प्रकृते च निर्गुणोपासनस्य प्रमाजनने सामर्थ्याभावात् सामग्र्यन्तराभावाच्च कथं प्रमापर्यवसानं-इत्याशङ्क्य, निर्गुणोपासनस्यैव स्वसमानविषयकप्रमाजननसामर्थ्यसम्भावनाय तस्य यथार्थत्वं सदृष्टान्तमाह —
पाणाविति ।
पिधायेति ।
तदुत्तरवक्तुरविदितमिति शेषः ।
तदुत्तरेति ।
दैवयोगात् ‘पञ्चैव वराटकाः तव पाणौ सन्ति’ इत्युत्तरवक्तुरित्यर्थः । निर्गुणोपासनस्यापि वस्तुतो यथार्थत्वेनेति सम्बन्धः । ‘अखण्डैकरसं ब्रह्माहमस्मि’ इति प्रत्ययसन्ततिरूपोपास्तेः विषयबाधाभावाद्यथार्थत्वमिति भावः ।
ननु प्रकृतोपासनस्य निर्विचिकित्सतत्त्वज्ञानपूर्वकत्वादेव श्रवणमननोत्तरकालीननिदिध्यासनस्येव यथार्थत्वसम्भवात् किमिति दैवयोगाद्यथार्थत्वं समर्थ्यते, तत्राह —
अर्थतथात्वेति ।
अर्थस्य - ब्रह्मणः तथात्वं - प्रत्यग्रूपत्वनिष्प्रपञ्चत्वादि, तस्य विवेचकं - निर्णायकं यत् निर्विचिकित्सं - अन्यपरत्वादिशङ्काशून्यं मूलप्रमाणं श्रुतिरूपं, तन्निरपेक्षस्येत्यर्थः । निदिध्यासनस्येव प्रकृतनिर्गुणोपासनस्य विचारपूर्वकत्वाभावात् न निर्विचिकित्सतत्त्वनिर्णयपूर्वकत्वप्रयुक्तं यथार्थत्वमिति भावः ।
ननु विचारपूर्वकं प्रत्यगभिन्नब्रह्मनिर्णयाभावे कथं ‘अहंब्रह्मास्मि’ इतिप्रत्ययसन्ततिरूपोपास्तिरनुष्ठीयते, तत्राह —
दहरादीति ।
यथा सगुणस्येश्वरस्य विचारपूर्वकं जीवाभिन्नत्वनिर्णयाभावेऽपि ‘स्वस्य सगुणेश्वराभेदचिन्तनं कर्तव्यम्’ इत्येवंरूपं सगुणोपासनाविधिशास्त्रमवलम्ब्य सगुणोपासनं क्रियते, तथा ‘निर्गुणोपासनं कर्तव्यम्’ इत्येवमात्मकं शास्त्रमात्रमवलम्ब्य निर्गुणोपास्तिरनुष्ठीयते इत्यर्थः ।
निर्गुणोपासनस्य साक्षात्कारहेतुत्वे दृष्टान्तमाह —
दहराद्युपासनेनेवेति ।
अवश्यम्भावादिति ।
समानविषयकध्यानसामर्थ्यात् विषयाबाधाच्चेत्यर्थः ।
साङ्ख्ययोगमार्गयोस्तुल्यकल्पत्वभ्रममपनयति —
इयांस्त्विति ।
बुद्धिमान्द्यादिप्रतिबन्धरहितस्य विशिष्टगुर्वादिलाभे सति साङ्ख्यमार्ग एवानुष्ठेयः, तस्य त्वरया सिद्धिहेतुत्वात्; साङ्ख्यालाभे तु योगोऽनुष्ठेय इति अनुकल्पः सः - इत्यर्थः ।