अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

निर्गुणोपासनात्मकयोगस्य ब्रह्मसाक्षात्कारसाधनत्वनिरूपणम्

एव­मु­त्त­म­म­ध्य­मा­धि­का­रिणां साङ्ख्यमार्गं निरूप्य तद­श­क्ता­ना­म­त्य­न्त­म­न्दा­धि­का­रिणां योगमार्गं निरू­प­यि­तु­मु­प­क्र­मते —
एवमिति ।

सर्व­स­म्प्र­ति­पन्न इति ।
सर्व­श्रु­ति­स्मृ­तिषु सम्यक् प्रति­प­न्ने-नि­श्चिते इत्यर्थः ।

आहुरिति ।
सम्यक् निरूपितवन्तः इत्यर्थः । न तु ‘नूतनतया कल्पितवन्त’ इति भ्रमितव्यम् । तस्यापि श्रुत्या­दि­सि­द्ध­त्वात् । तत् - प्रकृतं कार­ण­त्वो­प­ल­क्षितं ब्रह्म साङ्ख्य­यो­गाभ्यां विद्याद्वारा आभि­मु­ख्ये­न-प्र­त्य­क्त्वेन प्राप्तमिति श्रुत्यर्थः । साङ्ख्यैः - श्रवणादिपरैः योगैः - उपासकैः यत् स्थानं ब्रह्मस्वरूपं विद्याद्वारा गम्यते - प्राप्यते इत्यर्थः । योगै­र­पी­त्य­पि­श­ब्दात् योग­मा­र्ग­स्या­नु­क­ल्पत्वं भातीति बोध्यम् ।

अपीति ।
‘विद्या­वा­प्त्यु­पायः’ इत्यनुषङ्गः ।

निर्गु­ण­ब्र­ह्मो­पा­सनं मान­शू­न्य­मि­त्या­शङ्क्य परिहरति —
न चेत्यादिना ।
ननु - इयं शङ्का न युक्ता, ‘तत्कारणं’ ‘यत्साङ्ख्यैः’ इति श्रुतिस्मृत्योः आदावेव तत्र प्रमा­ण­त्वे­नो­दा­हृ­त­त्वात् । न च उदा­हृ­त­श्रु­ति­स्मृ­ति­ग­त­यो­ग­प­दस्य सगु­णो­पा­स­न­प­र­त्व­स­म्भ­वात् आशङ्का युक्तेति वाच्यम् । भिन्न­वि­ष­य­यो­रु­पा­स­न­सा­क्षा­त्का­रयोः कार्य­का­र­ण­भा­वा­स­म्भ­वेन निर्गु­ण­वि­द्या­हे­तु­भू­तस्य योगस्य निर्गु­णो­पा­स­न­रू­प­त्वा­व­श्यं­भा­वात् । न च — ‘यत्साङ्ख्यैः’ इति­व­च­न­ग­त­यो­ग­प­दस्य उपा­स्ति­प­र­त्व­मे­वा­सि­द्धम्, तस्य गीताभाष्ये कर्मयोगपरत्वेन व्याख्या­त­त्वा­दिति — वाच्यम् । ‘यत्साङ्ख्यैः’ इतिवचनस्य वस्तुतो निर्गु­णो­पा­स्ति­प­र­स्यैव सतो भगवता श्रीकृष्णेन कर्मविषये उदाहृतत्वेन तदनुरोधेन भाष्ये तथा­व्या­ख्या­नो­प­पत्तेः, योगपदस्य ध्याने रूढत्वेन वस्तुतः कर्म­प­र­त्वा­भा­वात्, तद्व­च­न­मू­ल­भू­तायां ‘तत्कारणम्’ इतिश्रुतौ योगपदस्य ध्यानपरतया शारीरकभाष्ये व्याख्या­त­त्वाच्च, ‘कर्मयोगस्य मुख्ययोगद्वारा ब्रह्म­प्रा­प्ति­सा­ध­नत्वं न तु साक्षात्’ इति ज्ञापनाय अस्य वचनस्य कर्मविषयतया भगवता उदाहरणसम्भवाच्च । तस्मात् मानाभावशङ्का न युक्तेति चेत्, न - उदा­हृ­त­श्रु­ति­स्मृ­ति­व्य­ति­रे­केण अन्यत्र क्वापि निर्गुणोपासनं न दृष्टं इत्ये­ता­व­द­भि­प्रा­येण शङ्कोपपत्तेः ।

अत एव सर्वासु श्रुतिषु निर्गुणोपासनं दृष्टमिति मन्दा­धि­का­रि­णा­मा­श्वा­स­ना­याह —
प्रश्नो­प­नि­ष­दी­त्या­दिना ।

त्रिमात्रेणेति ।
द्वितीयार्थे तृतीया । तिस्रः - अका­रो­का­र­म­का­राख्याः मात्राः यस्योङ्कारस्य, सः त्रिमात्रः ।

‘ ॐङ्कारे निर्गुणमेव ब्रह्म तदभेदेन ध्येयम्’ इत्यत्र भाष्या­दि­स­म्म­ति­माह —
तदनन्तरमिति ।
ध्यान­वा­क्या­न­न्त­र­मि­त्यर्थः । जीवरूपः परमात्मनो घनः-घ­टा­का­श­व­दु­पा­धि­प­रि­च्छि­न्न­चै­त­न्यात्मा जीवघनः, तस्मात् परः पुरुषः निरुपाधिकः परमात्मा, तं सः - ध्याता पुरि-हार्दाकाशे बुद्धि­सा­क्षि­त्वेन शयं - वर्तमानं ईक्ष­ते-सा­क्षा­त्क­रो­ती­त्यर्थः । उपासनावाक्ये । ‘परं पुरु­ष­म­भि­ध्या­यीत’ इति वाक्ये इत्यर्थः ।

कार्येति ।
ईक्षणवाक्यस्य ध्यान­फ­ल­भू­त­सा­क्षा­त्का­र­प्र­ति­पा­द­क­त्वेन ध्यान­वा­क्यै­क­वा­क्य­त्वात् ध्यानेक्षणयोः कार्य­का­र­ण­भा­वोऽ­व­ग­म्यत इति भावः ।

नियमादिति ।
अन्य­ध्या­ना­द­न्य­सा­क्षा­त्का­रा­द­र्श­ना­दिति भावः । ननु - कल्पतरौ ध्यातव्यस्य सूर्या­न्त­स्स्थत्वं ‘स तेजसि सूर्ये संपन्नः’ [प्र.उ. ५-५] इति सूर्य­स­म्प­त्ति­व­च­ना­नु­सा­रेण विशेषणं दत्तम् । तथा च ओङ्का­रे­ध्या­त­व्य­पु­रु­षस्य निर्गु­ण­ब्र­ह्म­रू­पत्वं कल्प­त­रु­का­रै­र्ना­ङ्गी­कृ­त­मिति प्रतीयते - इति चेत्, न - सूर्य­स­म्प­त्ति­व­च­नस्य अर्चि­रा­दि­मा­र्ग­प्रा­प्ति­प­र­तायाः चतुर्थाध्याये व्यव­स्था­पि­त­त्वेन सूर्य­त­द­न्त­स्स्थे­श्व­र­प्रा­प्ति­प­र­त्वा­भा­वात्, कल्प­त­रु­का­रा­णा­मपि तदी­य­व­च­ना­न्त­र­प­र्या­लो­च­नया श्रुते­र्मा­र्ग­प­र­तया च सूर्या­न्त­स्स्थ­त्व­वि­शे­ष­ण­दाने तात्पर्याभावस्य परिमले प्रति­पा­दि­त­त्वाच्च इति भावः । ‘देवा ह वै प्रजा­प­ति­म­ब्रु­वन् अणो­र­णी­यां­स­मि­म­मा­त्मा­न­मो­ङ्कारं नो व्याचक्ष्व’ [नृ.उ. १] इत्याद्या तापनीयश्रुतिः । अणोः-सू­क्ष्मा­दपि सूक्ष्मं - दुर्विज्ञेयं इमं - प्रत्यग्रूपं परमात्मानं ओङ्कारगम्यं इत्यर्थः । ‘एत­द्ध्ये­वा­क्षरं ब्रह्म’ [क.उ. २-१६] इत्याद्या कठवल्लीश्रुतिः ‘ॐमि­त्ये­त­द­क्ष­र­मिदं सर्वम्’ [मा.उ.९] इत्या­दि­मा­ण्डू­क्य­श्रुतिः ‘ॐमित्येवं ध्यायथ आत्मानम्’ [मु.उ.२-२-६] इति मुण्डकश्रुतिश्च आदिपदार्थः ।

निर्गु­ण­स्यो­पा­स्यत्वे सूत्रसम्मतिमाह —
सूत्रकृताऽपीति ।
सूत्रकृता निर्गुणेऽपि गुणा­ना­मु­प­सं­हा­रस्य दर्शितत्वादिति सम्बन्धः ।

निर्गुणे गुणोपसंहारो निर्गु­ण­ब्र­ह्म­प्र­मि­त्यर्थ एव, न निर्गु­ण­ब्र­ह्मो­पा­स्त्यर्थः - इति शङ्का­व्य­व­च्छे­दाय पादं विशिनष्टि —
उपा­स्य­गु­ण­प­रि­च्छे­दा­र्थ­मिति ।
परि­च्छे­दः-नि­र्णयः । निर्गुणे गुणो­प­सं­हा­र­नि­रू­प­णस्य निर्गु­णो­पा­स्ति­रपि फलमिति वक्तव्यम्, अन्यथा तन्निरूपणस्य पादा­स­ङ्ग­ति­प्र­स­ङ्गा­दिति भावः । आनन्दादयः क्वचिच्छ्रुताः अन्य­त्रा­प्यु­प­सं­ह­र्तव्याः, प्रधानस्य - वेद्यब्रह्मणः सर्व­वे­दा­न्ते­ष्व­भे­देन ब्रह्मविद्याया एकत्वात् - इति सूत्रार्थः । भाव­रू­पा­णा­मि­ति­वि­शे­षणं ‘अक्षरधियाम्’ इत्यधिकरणस्य ‘आनन्दादयः’ इत्यधिकरणेन पौन­रु­क्त्य­प­रि­हा­रा­र्थ­मिति बोध्यम् । अक्षरे-ब्रह्मणि धीः यैर­स्थू­ला­दि­श­ब्द­वा­च्या­र्थ­भू­तै­र­भा­वै­र्भ­वति तेऽक्षरधियः, तेषा­म­व­रो­धः-उ­प­सं­हारः इतरेषु वेदान्तेषु कर्तव्य एव इति सूत्रभागार्थः । स्थौल्या­दि­नि­षे­धानां निष्प्र­प­ञ्च­ब्र­ह्म­प्र­मि­ति­हे­तु­त्वा­दिति भावः ।

व्याघातं शङ्कते —
नन्विति ।
आनन्दादिगुणानां उपास्यकोटौ निवेशो नाङ्गीक्रियते, येन उपास्यं ब्रह्म सगुणं स्यात् ।

किं तु उपा­स्य­नि­र्गु­ण­नि­र्ण­य­द्वारा निर्गु­णो­पा­स्ता­वु­प­यो­ग­मात्रं स्वीक्रियते - इति समाधत्ते —
नेति ।
आन­न्दा­दि­गु­णा­ना­म­स्थू­ला­दि­गु­णानां चोपसंहारो हि तद्वाचकपदानां सहोच्चारणरूपो विवक्षितः । तथा च ‘उपा­धि­वि­शि­ष्ट­चै­त­न्य­वा­च­कै­रा­न­न्दा­दि­पदैः स्थौल्या­द्य­भा­व­वि­शि­ष्ट­चै­त­न्य­वा­च­कै­र­स्थू­ला­दि­श­ब्दैश्च वाच्यार्थेषु सर्वेषु अनुगतमखण्डैकरसं यत् ब्रह्म लक्षणया बोध्यते तदहमस्मि’ इत्यु­पा­स­न­स­म्भ­वा­दि­त्यर्थः । उक्तं च ध्यानदीपे — ‘आन­न्दा­दि­भि­र­स्थू­ला­दि­भि­श्चा­त्माऽत्र लक्षितः । योऽखण्डैकरसः सोऽह­म­स्मी­त्ये­व­मु­पा­सते ।’ [पं.द. ९-७३] इति ।

अत्रेति ।
वेदा­न्ते­ष्वि­त्यर्थः ।

एवं श्रुति­सू­त्राभ्यां निर्गु­ण­स्यो­पा­स्यत्वं निरूप्य निर्गुणोपासनस्य श्रुत्य­न्त­र­वि­रो­ध­मा­शङ्क्य परिहरति —
ननु तदेवेत्यादिना ।

तदेवेति ।
बुद्ध्या­दि­सा­क्षि­चै­त­न्य­मे­वे­त्यर्थः ।

उपास्यस्य ब्रह्म­त्व­नि­षे­ध­वत् वेद्यस्यापि ब्रह्म­त्व­नि­षे­धात् परब्रह्मवेदनमपि न सिद्ध्येदित्याह —
अन्यदेवेति ।
‘वेद­न­वि­ष­या­द­न्यत् ब्रह्म’ इत्युक्ते अर्थात् ब्रह्म वेद्यं न भवतीति सिद्ध्य­ती­त्यर्थः ।

अस्त्विति ।
वेद्य­त्व­मु­पा­स्यत्वं वा ब्रह्मणि परमार्थतो नास्तीति निषेधश्रुतीनां तात्पर्यमिति भावः ।

निर्गु­णो­पा­स­नेऽ­धि­का­रिणं दर्शयति —
एवं चेति ।
निर्गुणोपासने प्रमाणसिद्धे सतीत्यर्थः ।

केषां चित् मुमुक्षूणां श्रवणासम्भवे प्रमाणमाह —
श्रवणायापीति ।
बहु­भि­र्मु­मु­क्षुभिः यः परमात्मा श्रोतुमपि न लभ्यते तस्य श्रुतस्यापि साक्षात्कारो दूरापास्त इत्यर्थः ।

बहूनां श्रवणालाभे श्रुत्यभिमतं कारणं दर्शयति —
येषामिति ।

बुद्धीति ।
उक्तं च ध्यानदीपे — ‘अत्य­न्त­बु­द्धि­मा­न्द्याद्वा सामग्र्या वाऽप्यसम्भवात् । यो विचारं न लभते ब्रह्मोपासीत सोऽनिशम् ॥’ [पं.द. ९-५४] इति ।

तत्र सामग्र्यसम्भवं विवृणोति —
न्यायेति ।
येषां अत्य­न्त­बु­द्धि­मा­न्द्यात् श्रवणादिकं न सम्भवति, येषां च कुशलमतीनामपि सामग्र्यभावात् श्रवणादिकं न सम्भवतीत्यर्थः । विशिष्टत्वं अस­म्भि­न्ना­र्य­म­र्या­द­त्व­का­रु­णि­क­त्वा­दि­ल­क्षणं बोध्यम् ।

तेषां ब्रह्म­जि­ज्ञा­सा­हे­तु­माह —
अध्ययनेति ।
अधिगमितः - अवगमितः ब्रह्मात्मभावो येषां ते तथोक्ताः, तेषामित्यर्थः । तेषां तद्विचारं विनैव गुरुभ्योऽवधार्य तदनुष्ठानात् साक्षात्कारः सम्पद्यत इति सम्बन्धः । निर्गु­ण­ब्र­ह्म­वि­चारं विनैव निर्गु­ण­ब्र­ह्मो­पा­स­ना­नु­ष्ठा­नात् इत्यर्थः ।

ननु प्रश्नो­प­नि­ष­दा­दा­वु­पा­स­न­मा­त्र­मुक्तं न तु तद­नु­ष्ठा­न­प्र­का­रोऽपि, इत्याशङ्क्याह —
आर्ष­ग्र­न्थे­ष्विति ।
ननु — पञ्चीकरणे वेदान्तलक्ष्ये अखण्डैकरसे प्रण­व­मा­त्रा­त्म­क­कृ­त्स्न­प्र­प­ञ्च­प्र­वि­ला­प­नो­क्ति­पू­र्वकं ‘अहं­ब्र­ह्मा­स्मी­त्य­भे­दे­ना­व­स्थानं समाधिः’ इत्युक्त्या ‘योऽख­ण्डै­क­र­स­स्सोऽ­ह­म­स्मी­त्ये­व­मु­पा­सते’ इत्यु­दा­हृ­त­ध्या­न­दी­प­व­च­नेन च प्रकृ­त­नि­र्गु­णो­पा­सनं अहंग्रहरूपं विवक्षितम् । प्रश्नो­प­नि­ष­द्ग­त­शै­ब्य­प्रश्ने तु ओंकाररूपे प्रतीके निर्गु­ण­ब्र­ह्म­दृ­ष्टि­र्वि­व­क्षिता । तथा कठवल्ल्यामपि । तथा च कथं प्रश्नादिवाक्यं प्रकृतोपासने प्रमा­ण­त्वे­नो­दा­हृ­त­मिति चेत्, न — प्रकृतोपासने ताप­नी­य­मा­ण्डू­क्य­मु­ण्ड­क­श्रु­ती­ना­मेव प्रमाणत्वेन विवक्षितत्वात् । प्रश्न­क­ठ­व­ल्ली­श्रु­त्यु­दा­ह­रणं तु ‘निर्गु­ण­स्या­प्यु­पा­सनं अन्यत्रापि दृष्टं’ इत्ये­ता­व­न्मा­त्रे­णेति न विरोध इति भावः । पञ्चीकरणादिषु च निर्धा­रि­ता­नु­ष्ठा­न­प्र­का­र­मिति सम्बन्धः ।

तत्र दृष्टान्तमाह —
अनेकशाखेति ।
अनेकासु शाखासु विप्रकीर्णतया - विशकलिततया स्थितानां पदार्थानां उपसंहारेण यथा अग्नि­हो­त्रा­दि­कर्म निर्धा­रि­ता­नु­ष्ठा­न­प्र­कारं भवति, तथेत्यर्थः । उपा­स­ना­नु­ष्ठा­न­प्र­कारः सम्प्रदायः, तन्मा­त्र­वि­द्भ्योऽपि गुरुभ्यः सकाशात् निश्चि­त्ये­त्यर्थः । उक्तं च भगवता श्रीकृष्णेन निर्गुणप्रकरणे —‘श्रुत्वाऽ­न्येभ्य उपासते’ [भ.गी. १३-२५] इति । क्रमेणेति । उपा­स­ना­प­रि­पा­क­क्र­मे­णे­त्यर्थः ।

ननु निर्गुणोपासनस्य कथं प्रमा­ल­क्ष­ण­सा­क्षा­त्का­र­प­र्य­व­सानं, इत्यत आह —
अविसंवादीति ।
अयमर्थः — क्वचित् गृहविशेषे स्थितस्य श्रीकृ­ष्ण­रू­प­बि­म्बस्य प्रतिबिम्बं गृहात् बहिः पश्यतो दूरस्थितस्य पुरुषस्य प्रतिबिम्बे श्रीकृ­ष्णोऽ­य­मिति भ्रमो जायते, तेन भ्रमेण प्रति­बि­म्बा­ध्या­सो­पा­धि­स­मीपं गतस्य पुरुषस्य सत्य­श्री­कृ­ष्ण­गो­च­र­प्रमा जायते इति लोकसिद्धम् । तत्र प्रतिबिम्बे बिम्ब­भू­त­श्री­कृ­ष्ण­भ्र­मोऽ­वि­सं­वा­दि­भ्रमः । विसंवादः फलाभावः, तद्रहितः - अविसंवादिभ्रमः, फलवद्भ्रम इति यावत् ।यथा तेन भ्रमेण प्रवृत्तस्य श्रीकृ­ष्ण­प्रा­प्ति­ल­क्ष­ण­फ­ल­काले श्रीकृष्णप्रमा जायते, तथा नुर्गुणोपासने प्रवृत्तस्यापि ब्रह्म­प्रा­प्ति­ल­क्ष­ण­फ­ल­काले निर्गुणप्रमा जायत इति । ननु — संवा­दि­भ्र­म­दृ­ष्टा­न्तेन निर्गुणोपास्तेः प्रमा­प­र्य­व­सा­न­मु­क्त­म­नु­प­प­न्नम्, दृष्टा­न्त­वै­ष­म्यात् । तत्र हि समी­पो­प­स­र्प­णा­न­न्तरं सत्य­श्री­कृ­ष्णस्य चक्षु­स्स­न्नि­कर्षे सति श्रीकृष्णप्रमा जायते, न तु संवा­दि­भ्र­म­मा­त्रात् ।

प्रकृते च निर्गुणोपासनस्य प्रमाजनने सामर्थ्याभावात् साम­ग्र्य­न्त­रा­भा­वाच्च कथं प्रमा­प­र्य­व­सा­नं-इ­त्या­शङ्क्य, निर्गु­णो­पा­स­न­स्यैव स्वस­मा­न­वि­ष­य­क­प्र­मा­ज­न­न­सा­म­र्थ्य­स­म्भा­व­नाय तस्य यथार्थत्वं सदृष्टान्तमाह —
पाणाविति ।

पिधायेति ।
तदु­त्त­र­व­क्तु­र­वि­दि­त­मिति शेषः ।

तदुत्तरेति ।
दैवयोगात् ‘पञ्चैव वराटकाः तव पाणौ सन्ति’ इत्यु­त्त­र­व­क्तु­रि­त्यर्थः । निर्गु­णो­पा­स­न­स्यापि वस्तुतो यथार्थत्वेनेति सम्बन्धः । ‘अखण्डैकरसं ब्रह्माहमस्मि’ इति प्रत्य­य­स­न्त­ति­रू­पो­पास्तेः विष­य­बा­धा­भा­वा­द्य­था­र्थ­त्व­मिति भावः ।

ननु प्रकृतोपासनस्य निर्वि­चि­कि­त्स­त­त्त्व­ज्ञा­न­पू­र्व­क­त्वा­देव श्रव­ण­म­न­नो­त्त­र­का­ली­न­नि­दि­ध्या­स­न­स्येव यथा­र्थ­त्व­स­म्भ­वात् किमिति दैव­यो­गा­द्य­था­र्थत्वं समर्थ्यते, तत्राह —
अर्थतथात्वेति ।
अर्थस्य - ब्रह्मणः तथात्वं - प्रत्य­ग्रू­प­त्व­नि­ष्प्र­प­ञ्च­त्वादि, तस्य विवेचकं - निर्णायकं यत् निर्विचिकित्सं - अन्य­प­र­त्वा­दि­श­ङ्का­शून्यं मूलप्रमाणं श्रुतिरूपं, तन्नि­र­पे­क्ष­स्ये­त्यर्थः । निदिध्यासनस्येव प्रकृ­त­नि­र्गु­णो­पा­स­नस्य विचा­र­पू­र्व­क­त्वा­भा­वात् न निर्वि­चि­कि­त्स­त­त्त्व­नि­र्ण­य­पू­र्व­क­त्व­प्र­युक्तं यथार्थत्वमिति भावः ।

ननु विचारपूर्वकं प्रत्य­ग­भि­न्न­ब्र­ह्म­नि­र्ण­या­भावे कथं ‘अहं­ब्र­ह्मास्मि’ इति­प्र­त्य­य­स­न्त­ति­रू­पो­पा­स्ति­र­नु­ष्ठी­यते, तत्राह —
दहरादीति ।
यथा सगुणस्येश्वरस्य विचारपूर्वकं जीवा­भि­न्न­त्व­नि­र्ण­या­भा­वेऽपि ‘स्वस्य सगु­णे­श्व­रा­भे­द­चि­न्तनं कर्तव्यम्’ इत्येवंरूपं सगु­णो­पा­स­ना­वि­धि­शा­स्त्र­म­व­लम्ब्य सगुणोपासनं क्रियते, तथा ‘निर्गुणोपासनं कर्तव्यम्’ इत्येवमात्मकं शास्त्र­मा­त्र­म­व­लम्ब्य निर्गु­णो­पा­स्ति­र­नु­ष्ठी­यते इत्यर्थः ।

निर्गुणोपासनस्य साक्षा­त्का­र­हे­तुत्वे दृष्टान्तमाह —
दह­रा­द्यु­पा­स­ने­ने­वेति ।

अवश्यम्भावादिति ।
समा­न­वि­ष­य­क­ध्या­न­सा­म­र्थ्यात् विष­या­बा­धा­च्चे­त्यर्थः ।

साङ्ख्य­यो­ग­मा­र्ग­यो­स्तु­ल्य­क­ल्प­त्व­भ्र­म­म­प­न­यति —
इयांस्त्विति ।
बुद्धि­मा­न्द्या­दि­प्र­ति­ब­न्ध­र­हि­तस्य विशि­ष्ट­गु­र्वा­दि­लाभे सति साङ्ख्यमार्ग एवानुष्ठेयः, तस्य त्वरया सिद्धि­हे­तु­त्वात्; साङ्ख्यालाभे तु योगोऽनुष्ठेय इति अनुकल्पः सः - इत्यर्थः ।