अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

दृष्टिसृष्टिवादनिरूपणम्

तं स्वप्नविचारेण बुद्धिमागतं दर्शयति —
दृष्टि­सृ­ष्टि­वा­दि­न­स्त्विति ।

‘दृष्ट्या सह समः समयो यस्याः (सा) तां सृष्टिं कृत्स्नस्य जाग्र­त्प्र­प­ञ्च­स्यो­पेत्य’ इत्यत्र पूर्ववाक्येन हेतुमाह —
कल्पितस्येति ।
स्वाप्न­प्र­प­ञ्च­स्ये­वेति शेषः । घटादिदृष्टेर्या अनु­वि­धा­न­प्र­तीतिः तामसङ्गच्छमानां स्वप्नवदेव — भ्रममात्ररूपां समर्थयमाना इति सम्बन्धः ।

असङ्गच्छमानत्वे हेतुः —
दृष्टेः पूर्वं घटाद्यभावेनेति ।
तत्र च हेतुः­दृ­ष्टि­स­म­स­मया सृष्टिः ।

न चाक्षुष इति ।
किं तु स्वप्नानुभववदेव केवलसाक्षिरूप इत्यर्थः ।

कल्पितत्वोपगम इति ।
प्राति­भा­सि­क­त्वो­प­गम इत्यर्थः ।

किंशब्दसूचितं विकल्पं दर्शयति —
निरुपाधिरिति ।

निर­पे­क्ष­श्चि­दा­त्मैव संसारकल्पक इति प्रथमं कल्पं दूषयति —
मोक्षेऽपीति ।

अनुवृत्त्येति ।
अनु­वृ­त्त्या­प­त्त्ये­त्यर्थः ।

अविद्याया अपीति ।
तस्या अपि कादा­चि­त्क­त्वा­भ्यु­प­गमे अविद्यासृष्टेः पूर्वमेव अविद्योपहितस्य चिदा­त्म­नोऽ­वि­द्या­दि­क­ल्प­कस्य वक्तव्यत्वात् तद­भा­वा­द­वि­द्या­दि­सृ­ष्टिर्न सम्भवति, तथा च सदा संसा­रा­नु­प­ल­म्भ­प्र­सङ्ग इति भावः ।

नन्वेवमपि प्रथमाविद्यायाः कः कल्पकः तत्राह —
अनिदमिति ।
इदं­प्र­थ­म­त्वा­भा­वात् प्रथमाविद्यैव काचिन्नास्ति, अतो न चोद्यावकाश इति भावः ।

तर्ह्य­न­व­स्थे­त्या­शङ्क्य - सा न दोषाय, अवि­द्यो­प­हि­ता­त्मनः प्रप­ञ्च­क­ल्प­क­त्वेन श्रुतिसिद्धस्य पूर्व­पू­र्वा­विद्यां विना तत्क­ल्प­क­त्व­नि­र्वा­हा­भा­वात् - इत्याशयेनाह —
नानवस्थादोष इति ।
ननु — x‘जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा । अविद्या तच्चि­तो­र्यो­गः­ष­ड­स्मा­क­म­ना­दयः’ । इति सिद्धा­न्त­वि­रुद्धं अविद्यायाः प्रवा­हा­ना­दि­त्व­क­ल्प­नम् ।

तस्याः स्वरू­पा­ना­दि­त्व­स्यैव सिद्धा­न्त­स­ङ्ग्र­ह­श्लोके चैतन्यवत् प्रतीतेः इति शङ्कते —
न चेति ।

सिद्धा­न्त­मु­ल्लङ्घ्य प्रवृत्तावपि दोषमाह —
अन्यथेति ।
अविद्यादीनां स्वरू­पा­ना­दि­त्वा­नु­प­गम इत्यर्थः ।

अनुपपत्तेरिति ।
उक्तविभागस्य लोक­शा­स्त्र­सि­द्ध­त्वा­दिति भावः ।

श्रुत्ये­क­स­म­धि­ग­म्य­वि­शु­द्ध­चै­त­न्य­व्य­ति­रि­क्त­मात्रे दृष्टि­सृ­ष्टि­मु­पे­त्यैव साद्य­ना­दि­वि­भा­ग­बो­ध­क­लौ­कि­क­वै­दि­क­प्र­मा­णानां सिद्धा­न्त­प्र­वा­दस्य च आलम्बनत्वेन भ्रमविशेषं सदृष्टान्तमाह —
यथेत्यादिना ।

किञ्चिदन्यथेति ।
किञ्चित् — अविद्यादिकम्, अन्यथा — अनादित्वेन, कल्प्यते पूर्व­पू­र्वा­वि­द्यो­प­हि­ते­ना­त्म­ने­त्यर्थः । ताव­ता-क­ल्प­ना­मा­त्रे­णे­त्यर्थः । ननु-प्रत्यक्षे विषयस्य कारणतया घटादिदृष्टेः पूर्वमज्ञातो घटादिर्वाच्यः । अन्यथा कार्यकारणविभागो न स्यात् ।

तथा अविद्योपहितस्य चिदात्मन एकस्यैव स्वस्मिन् संसारकल्पकत्वे संसारवतो जीवस्यैकत्वेन गुरुशिष्यविभागो देव­ति­र्य­ङ्म­नु­ष्या­दि­वि­भा­गश्च न स्यात् इति - अत आह —
एतेनेति ।
साद्य­ना­दि­वि­भा­गो­प­प­त्ति­क­थ­ने­ने­त्यर्थः ।

व्याख्यात इति ।
वस्तुतः प्रत्यक्षे विष­य­स्या­का­र­ण­त्वेऽपि स तत्कारणत्वेन कल्प्यते, तथा अन्यदपि स्वप्नभ्रमवदेव सर्व­मू­ह्य­मि­त्यर्थः ।

कल्प­क­स्या­वि­द्यो­प­हि­त­स्या­न­न्त्य­प­रि­हा­राय साद्य­ना­दि­वि­भा­गा­ञ्ज­स्याय च दृष्टि­सृ­ष्टे­स्सं­ङ्को­च­माह —
अन्ये त्विति ।

वस्तुत इति ।
स्वरूपत इत्यर्थः ।

तर्हि दृष्टिसृष्टिः कुत्रापि नोपेया मानाभावादिति शङ्कते —
किं त्विति ।

स्वापप्रबोधयोः कार्य­प्र­प­ञ्च­मा­त्रस्य प्रल­य­प्र­भ­व­प्र­ति­पा­द­क­ब­हु­श्रु­ति­सि­द्ध­त्वात् नैवमिति परिहरति —
(ततः) अन्यत्रेति ।
अवि­द्या­दे­स्स­का­शा­दिति शेषः । मात्रपदं कार्त्स्न्या­र्थ­कम् । ननु-दृष्टिसमय एव प्रप­ञ्च­सृ­ष्टि­रिति मतेऽपि दृष्टिशब्देन प्रत्य­क्ष­प्र­ती­ति­रेव विवक्षिता, न परोक्षप्रतीतिः, अप­रो­क्ष­प्र­ती­ते­रेव विष­या­वि­ना­भू­त­त्वेन प्राति­भा­सि­क­वि­ष­य­सा­ध­क­त्वात्, परो­क्ष­प्र­ति­ते­श्चा­त­था­त्वात् ।

तथास्थिते सति बाधकमाशङ्कते —
नन्वेवमपीति ।
अवि­द्यो­प­हि­त­स्या­त्मनः प्रत्य­क्ष­व­स्तु­क­ल्प­क­त्वेऽ­पी­त्यर्थः । यदि वियदादिसर्गः श्रुत्या प्रत्यक्षेण च प्रतीतो भवेत्, तदा प्रत्यक्षबलात् घटादेरिव तस्यापि प्रातिभासिकस्य सिद्धिः सम्भवेत्, न त्वेत­द­स्ती­त्या­श­येन मात्रपदं दत्तम् । वाय्वा­दि­स­ङ्ग्र­हार्थं प्रथममादिपदम् । विय­दा­दि­प्र­ल­य­त­त्क्र­म­स­ङ्ग्र­हार्थं द्वितीयमादिपदम् ।

क इति ।
कल्पको न सम्भ­व­त्ये­वे­त्यर्थः ।

कल्पकाभावे इष्टापत्तिमाह दृष्टि­सृ­ष्टि­वादी —
न कोऽपीति ।

तर्हि सृष्ट्या­दि­श्रु­ति­प्र­ति­पा­द्यस्य विय­दा­दि­सृ­ष्टि­त­त्क्र­भादेः शशशृङ्गायमाणतया श्रुते­रा­ल­म्ब­ना­भा­वा­द­प्रा­माण्यं स्यादिति शङ्कते —
किमिति ।

तात्प­र्य­वि­ष­यी­भू­ता­र्थस्य सत्त्वात् नाप्रा­मा­ण्या­प­त्ति­रिति परिहरति —
निष्प्रपञ्चेति ।
ननु — सृष्ट्या­दि­वा­क्यानां श्रुता­र्थ­प­रि­त्या­गे­ना­श्रु­तार्थे तात्प­र्य­क­ल्प­न­म­यु­क्तम् ।

किं तु श्रुत्यनुसारेण वियदादिसर्गस्य तत्कल्पकस्य च कल्पनमेव युक्तं, इत्यत आह —
अध्यारोपेति ।
यथा लोके गगनतत्त्वबोधनाय प्रवृत्तः कश्चित् प्रथमं नैल्य­वै­शा­ल्या­द्य­ध्या­रो­पो­पेतं गगनं ग्राहयित्वा पश्चात् ‘नेदं वस्तुतो नैल्यादियुक्तं’ इति तदपवादेन नीरूपं व्यापकमुदासीनं गगनतत्त्वमिति बोधयति, तथा वेदान्ता अपि प्रथमं ‘यद्वि­य­दा­दि­स­र्ग­प्र­ल­या­दि­का­रणं सृष्ट्या­दि­वाक्यैः प्रतीयते तद्ब्रह्म’ इत्य­ध्या­रो­पि­त­स­र्गा­दि­यु­क्त­तया ब्रह्म ग्राहयित्वा पश्चा­न्नि­षे­ध­वा­क्यै­र­ध्या­रो­पि­त­स­र्गा­द्य­प­वा­देन निष्प्र­प­ञ्च­ब्र­ह्मा­त्मैक्यं प्रतिपादयन्ति । तथा च सृष्ट्या­दि­वा­क्यानां निषे­ध­वा­क्या­पे­क्षि­त­नि­षे­ध्य­स­म­र्प­क­तया तदे­क­वा­क्य­ता­प­न्नानां निष्प्र­प­ञ्च­ब्र­ह्म­प्र­ति­प­त्ति­प्र­यो­ज­न­क­त्व­मेव, न तु स्वार्थ­सृ­ष्ट्या­दि­प्र­ति­पा­द­न­मा­त्रेण चारितार्थ्यम् । अर्थवादादीनामिव तेषां स्वार्थ­प्र­ति­पा­दने फलाभावात् । निष्फलेऽर्थे वेद­ता­त्प­र्या­यो­गात् । अतो युक्तमेव स्वार्थत्यागेन निष्प्र­प­ञ्च­ब्र­ह्मा­त्मैक्ये तात्पर्यकल्पनम् । तज्ज्ञानस्य मुक्तिफलकतायाः श्रुति­सि­द्ध­त्वात् । एवं च प्रथममध्यारोपेण सप्र­प­ञ्च­ब्र­ह्म­प्र­ति­प­त्ति­र्भ­वति ।

पश्चात् प्रपञ्चापवादेन तस्यैव ब्रह्मणो निष्प्र­प­ञ्च­त्व­प्र­ति­प­त्ति­र्भ­वति ।
पूर्व­प्र­ति­प­त्ति­श्चो­त्त­र­प्र­ति­प­त्ते­श्शेष एव न स्वतन्त्रेति निष्कर्षः । प्रपञ्चस्तु भाष्यादिष्वेव द्रष्टव्य इत्यर्थः ।

शङ्कते —
व्यर्थ इति ।
तर्हीत्यस्य व्याख्या तात्पर्याभाव इति । विय­दा­दि­स­र्ग­त­त्क्र­मा­दा­विति शेषः । यत्नो व्यर्थः, सूत्र­का­र­भा­ष्य­का­र­यो­रिति शेषः । तात्पर्याविषये विद्यमानस्यापि श्रुतिविरोधस्य अकि­ञ्चि­त्क­र­त्वा­दिति भावः ।

परिहरति —
न व्यर्थ इति ।

न्यायेति ।
विय­त्प्रा­ण­पा­द­द्व­य­ग­ता­धि­क­र­णेषु निरूपिता ये सिद्धा­न्त­न्यायाः तेषां बोधा­र्थ­मि­त्यर्थः । तेषां न्यायानां सृष्ट्या­दि­वा­क्या­र्था­वि­रो­ध­नि­र्ण­या­या­न­पे­क्षि­ता­ना­मपि श्रति­ता­त्प­र्य­वि­षये क्वचि­दे­वं­वि­रो­ध­प्र­सक्तौ तत्स­मा­धा­ना­यो­प­यो­ग­स्तेषां भवि­ष्य­ती­त्या­श­येन प्रवृ­त्त­स्सू­त्र­का­रा­दि­य­त्नोऽ­र्थ­वा­नि­त्यर्थः ।

तत्प्र­वृ­त्ते­रिति ।
विय­त्प्रा­ण­पा­दयोः प्रवृ­त्ते­रि­त्यर्थः ।

सृष्ट्या­दि­श्रु­तीनां स्वार्थे तात्प­र्य­म­भ्यु­पे­त्यैव विय­त्पा­दा­दि­प्र­वृत्तिः - इत्यत्र कल्प­त­रु­का­र­स­म्म­ति­माह —
उक्तं हीति ।

इदमिति ।
विरो­ध­स­मा­धा­न­मि­त्यर्थः ।

इहेति ।
विय­त्प्रा­ण­पा­द­यो­रि­त्यर्थः । तुशब्दोऽवधारणे । तासां-सृ­ष्ट्या­दि­श्रु­तीनां ब्रह्मा­त्मै­क्य­प­र­त्वा­देव तत् - तात्पर्यं नास्त्येव । तासां स्वार्थेऽपि तात्पर्ये वाक्य­भे­द­प्र­स­ङ्गात् स्वार्थे फला­भा­वा­च्चे­त्यर्थः ।

एवं दृष्टि­सृ­ष्टि­वादे सृष्ट्या­दि­श्रु­तीनां निरालम्बनत्वं परिहृत्य कर्मो­पा­स­ना­वा­क्या­ना­मपि निरालम्बनत्वं परिहरति —
ज्योति­ष्टो­मा­दी­त्या­दिना ।
ज्योति­ष्टो­मा­दि­श्रुत्या स्वर्गा­दि­सा­ध­न­त्वेन बोधितस्य यागा­दे­र­नु­ष्ठा­नात् स्वर्गा­दि­फ­ल­सि­द्धि­रि­त्यर्थः ।

स्वाप्नेति ।
स्वप्ने हि कश्चित् कदा­चि­ज्ज्यो­ति­ष्टो­मा­दि­श्रुतिं कल्पयित्वा तत­स्सा­ध­न­वि­शे­ष­मु­प­लभ्य तदनुष्ठानात् फलं लभते, तत्तुल्यं जागरणेऽपि स्वर्गा­दि­फ­ल­ल­म्भ­न­मि­त्यर्थः । वस्तुतस्तु — श्रुति­मा­त्र­प्र­ती­त­वि­य­दा­दि­स­र्ग­त­त्क्र­मा­दे­रिव श्रुति­मा­त्र­प्र­ती­त­स्व­र्गा­दि­फ­ल­स्या­प्य­स­त्त्व­मे­वा­भि­प्रे­तम्, कल्पकाभावस्य तुल्यत्वादिति बोध्यम् ।

तर्हि तासामप्रामाण्यं स्यादिति, नेत्याह —
ज्योति­ष्टो­मा­दि­श्रु­तीनां चेति ।
कर्म­वा­क्यै­रु­पा­स­ना­वा­क्यैश्च विहितानि कर्मो­पा­स­ना­न्य­नु­ति­ष्ठतः सत्व­शु­द्धि­र्भ­वति ।

शुद्धसत्वस्य चाधिकारिणो वेदान्तशास्त्रं ब्रह्मप्रमितिं जनयति ।
तथा च कर्मो­पा­स­ना­का­ण्डयोः अधि­का­रि­स­म्पा­द­न­द्वारा ब्रह्म­प्र­मि­ति­शे­ष­त्वात् तयोस्तत्रैव तात्पर्यं न स्वार्थे स्वर्ग­सा­ध­न­त्वा­दा­विति नाप्रा­मा­ण्य­प्र­सङ्ग इति भावः । न च वेदानामशेषतो ब्रह्म­प्र­ति­प­त्ति­प­रत्वे नास्ति मानमिति वाच्यम् ।

‘सर्वे वेदा यत्पदमामनन्ति’ [क.उ. २-१५] ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ [बृ.उ.४-४-२२] इत्या­दि­श्रु­ति­स­ह­स्त्रस्य तत्र मानत्वात् - इत्या­दि­क­म­भि­प्रे­त्याह —
इत्या­दि­दृ­ष्टि­सृ­ष्टि­व्यु­त्पा­द­न­प्र­क्रि­या­प्र­प­ञ्च­स्त्विति ।
अयमेको दृष्टिसृष्टिवाद इति सम्बन्धः । अन्यस्तु सिद्धा­न्त­मु­क्ता­व­ल्या­दि­द­र्शितो दृष्टिसृष्टिवाद इति सम्बन्धः ।

द्वितीयं निरूपयति —
दृष्टिरेवेति ।
दृष्टिः - दर्शनं स्वप्र­का­श­ज्ञा­न­स्व­रू­प­मि­त्यर्थः ।

एतदुक्तं भव­ति­दृ­श्य­प्र­प­ञ्च­ता­दा­त्म्या­पन्नं ज्ञानस्वरूपमेव प्रपञ्चस्य आद्य­क्ष­णा­व­च्छिन्नं सत् तस्य सृष्टि­रि­त्यु­च्यत इति ।

ननु दृग्दृ­श्य­यो­र्भि­न्न­यो­र­भि­न्न­स­त्ता­क­त्व­रूपं तादा­त्म्य­म­सि­द्ध­मि­त्या­श­ङ्क्याह —
दृश्यस्येति ।
दृष्टिर्ज्ञानं, तस्मात् भेदे­भि­न्न­स­त्ता­कत्वे इत्यर्थः । अन्यथा ‘सन् घटः’ इत्यादिरूपेण सद्रूपस्य ज्ञानस्य घटादेश्च सामा­ना­धि­क­र­ण्य­प्र­त्ययो न स्यादिति भावः ।

स्मृतौ एतदिति ।
प्रत्य­क्ष­सि­द्ध­मि­त्यर्थः ।

अर्थस्वरूपमिति ।
अर्थपदं स्वत[न्त्रा­र्थ](न्त्र)प­रम् ।

कुदृष्टय इति ।
कुत­र्क­दू­षि­त­ज्ञाना इत्यर्थः । तथा च एतज्जगत् अन्ये कुदृष्टयो भ्रान्ताः ज्ञान­स्व­रू­प­स­त्ता­पे­क्षया भिन्नसत्ताकं पश्यन्तीति उत्तरार्धेन भेद­दृ­ष्ट्य­प­वा­दाच्च तयो­र­भि­न्न­स­त्ता­क­त्व­सि­द्धि­रि­त्यर्थः ।

स्मृतेश्चेति ।
चका­रा­च्छ्रु­ते­श्चे­त्यर्थः । ‘चिद्धीदं सर्वं’ [नृसिंहोत्तर-७] इत्या­दि­श्रु­ति­रु­दा­ह­र्तव्या । मनःप्रत्ययो मनसोविश्वासः - प्रामा­णि­क­त्व­नि­श्चयः, तमलभमाना इत्यर्थः । तदलाभे च हेतुः जाग्र­त्प्र­प­ञ्च­स्यापि प्राति­भा­सि­क­त्वा­भ्यु­प­गमः, विय­दा­दि­स­र्गा­द्य­प­लापः, कर्मो­पा­स­ना­का­ण्डा­र्था­नु­ष्ठा­ना­धी­न­स्व­र्ग­लो­क­ब्र­ह्म­लो­का­द्य­प­लापः, जाग्रति चक्षु­रा­द्य­नु­वि­धा­न­प्र­ती­ते­र्भ्र­म­मा­त्र­त्वा­भ्यु­प­गमः - इत्यादिरिति द्रष्टव्यम् ।