कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
दृष्टिसृष्टिवादनिरूपणम्
तं स्वप्नविचारेण बुद्धिमागतं दर्शयति —
दृष्टिसृष्टिवादिनस्त्विति ।
‘दृष्ट्या सह समः समयो यस्याः (सा) तां सृष्टिं कृत्स्नस्य जाग्रत्प्रपञ्चस्योपेत्य’ इत्यत्र पूर्ववाक्येन हेतुमाह —
कल्पितस्येति ।
स्वाप्नप्रपञ्चस्येवेति शेषः । घटादिदृष्टेर्या अनुविधानप्रतीतिः तामसङ्गच्छमानां स्वप्नवदेव — भ्रममात्ररूपां समर्थयमाना इति सम्बन्धः ।
असङ्गच्छमानत्वे हेतुः —
दृष्टेः पूर्वं घटाद्यभावेनेति ।
तत्र च हेतुःदृष्टिसमसमया सृष्टिः ।
न चाक्षुष इति ।
किं तु स्वप्नानुभववदेव केवलसाक्षिरूप इत्यर्थः ।
कल्पितत्वोपगम इति ।
प्रातिभासिकत्वोपगम इत्यर्थः ।
किंशब्दसूचितं विकल्पं दर्शयति —
निरुपाधिरिति ।
निरपेक्षश्चिदात्मैव संसारकल्पक इति प्रथमं कल्पं दूषयति —
मोक्षेऽपीति ।
अनुवृत्त्येति ।
अनुवृत्त्यापत्त्येत्यर्थः ।
अविद्याया अपीति ।
तस्या अपि कादाचित्कत्वाभ्युपगमे अविद्यासृष्टेः पूर्वमेव अविद्योपहितस्य चिदात्मनोऽविद्यादिकल्पकस्य वक्तव्यत्वात् तदभावादविद्यादिसृष्टिर्न सम्भवति, तथा च सदा संसारानुपलम्भप्रसङ्ग इति भावः ।
नन्वेवमपि प्रथमाविद्यायाः कः कल्पकः तत्राह —
अनिदमिति ।
इदंप्रथमत्वाभावात् प्रथमाविद्यैव काचिन्नास्ति, अतो न चोद्यावकाश इति भावः ।
तर्ह्यनवस्थेत्याशङ्क्य - सा न दोषाय, अविद्योपहितात्मनः प्रपञ्चकल्पकत्वेन श्रुतिसिद्धस्य पूर्वपूर्वाविद्यां विना तत्कल्पकत्वनिर्वाहाभावात् - इत्याशयेनाह —
नानवस्थादोष इति ।
ननु — x‘जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा । अविद्या तच्चितोर्योगःषडस्माकमनादयः’ । इति सिद्धान्तविरुद्धं अविद्यायाः प्रवाहानादित्वकल्पनम् ।
तस्याः स्वरूपानादित्वस्यैव सिद्धान्तसङ्ग्रहश्लोके चैतन्यवत् प्रतीतेः इति शङ्कते —
न चेति ।
सिद्धान्तमुल्लङ्घ्य प्रवृत्तावपि दोषमाह —
अन्यथेति ।
अविद्यादीनां स्वरूपानादित्वानुपगम इत्यर्थः ।
अनुपपत्तेरिति ।
उक्तविभागस्य लोकशास्त्रसिद्धत्वादिति भावः ।
श्रुत्येकसमधिगम्यविशुद्धचैतन्यव्यतिरिक्तमात्रे दृष्टिसृष्टिमुपेत्यैव साद्यनादिविभागबोधकलौकिकवैदिकप्रमाणानां सिद्धान्तप्रवादस्य च आलम्बनत्वेन भ्रमविशेषं सदृष्टान्तमाह —
यथेत्यादिना ।
किञ्चिदन्यथेति ।
किञ्चित् — अविद्यादिकम्, अन्यथा — अनादित्वेन, कल्प्यते पूर्वपूर्वाविद्योपहितेनात्मनेत्यर्थः । तावता-कल्पनामात्रेणेत्यर्थः । ननु-प्रत्यक्षे विषयस्य कारणतया घटादिदृष्टेः पूर्वमज्ञातो घटादिर्वाच्यः । अन्यथा कार्यकारणविभागो न स्यात् ।
तथा अविद्योपहितस्य चिदात्मन एकस्यैव स्वस्मिन् संसारकल्पकत्वे संसारवतो जीवस्यैकत्वेन गुरुशिष्यविभागो देवतिर्यङ्मनुष्यादिविभागश्च न स्यात् इति - अत आह —
एतेनेति ।
साद्यनादिविभागोपपत्तिकथनेनेत्यर्थः ।
व्याख्यात इति ।
वस्तुतः प्रत्यक्षे विषयस्याकारणत्वेऽपि स तत्कारणत्वेन कल्प्यते, तथा अन्यदपि स्वप्नभ्रमवदेव सर्वमूह्यमित्यर्थः ।
कल्पकस्याविद्योपहितस्यानन्त्यपरिहाराय साद्यनादिविभागाञ्जस्याय च दृष्टिसृष्टेस्संङ्कोचमाह —
अन्ये त्विति ।
वस्तुत इति ।
स्वरूपत इत्यर्थः ।
तर्हि दृष्टिसृष्टिः कुत्रापि नोपेया मानाभावादिति शङ्कते —
किं त्विति ।
स्वापप्रबोधयोः कार्यप्रपञ्चमात्रस्य प्रलयप्रभवप्रतिपादकबहुश्रुतिसिद्धत्वात् नैवमिति परिहरति —
(ततः) अन्यत्रेति ।
अविद्यादेस्सकाशादिति शेषः । मात्रपदं कार्त्स्न्यार्थकम् । ननु-दृष्टिसमय एव प्रपञ्चसृष्टिरिति मतेऽपि दृष्टिशब्देन प्रत्यक्षप्रतीतिरेव विवक्षिता, न परोक्षप्रतीतिः, अपरोक्षप्रतीतेरेव विषयाविनाभूतत्वेन प्रातिभासिकविषयसाधकत्वात्, परोक्षप्रतितेश्चातथात्वात् ।
तथास्थिते सति बाधकमाशङ्कते —
नन्वेवमपीति ।
अविद्योपहितस्यात्मनः प्रत्यक्षवस्तुकल्पकत्वेऽपीत्यर्थः । यदि वियदादिसर्गः श्रुत्या प्रत्यक्षेण च प्रतीतो भवेत्, तदा प्रत्यक्षबलात् घटादेरिव तस्यापि प्रातिभासिकस्य सिद्धिः सम्भवेत्, न त्वेतदस्तीत्याशयेन मात्रपदं दत्तम् । वाय्वादिसङ्ग्रहार्थं प्रथममादिपदम् । वियदादिप्रलयतत्क्रमसङ्ग्रहार्थं द्वितीयमादिपदम् ।
क इति ।
कल्पको न सम्भवत्येवेत्यर्थः ।
कल्पकाभावे इष्टापत्तिमाह दृष्टिसृष्टिवादी —
न कोऽपीति ।
तर्हि सृष्ट्यादिश्रुतिप्रतिपाद्यस्य वियदादिसृष्टितत्क्रभादेः शशशृङ्गायमाणतया श्रुतेरालम्बनाभावादप्रामाण्यं स्यादिति शङ्कते —
किमिति ।
तात्पर्यविषयीभूतार्थस्य सत्त्वात् नाप्रामाण्यापत्तिरिति परिहरति —
निष्प्रपञ्चेति ।
ननु — सृष्ट्यादिवाक्यानां श्रुतार्थपरित्यागेनाश्रुतार्थे तात्पर्यकल्पनमयुक्तम् ।
किं तु श्रुत्यनुसारेण वियदादिसर्गस्य तत्कल्पकस्य च कल्पनमेव युक्तं, इत्यत आह —
अध्यारोपेति ।
यथा लोके गगनतत्त्वबोधनाय प्रवृत्तः कश्चित् प्रथमं नैल्यवैशाल्याद्यध्यारोपोपेतं गगनं ग्राहयित्वा पश्चात् ‘नेदं वस्तुतो नैल्यादियुक्तं’ इति तदपवादेन नीरूपं व्यापकमुदासीनं गगनतत्त्वमिति बोधयति, तथा वेदान्ता अपि प्रथमं ‘यद्वियदादिसर्गप्रलयादिकारणं सृष्ट्यादिवाक्यैः प्रतीयते तद्ब्रह्म’ इत्यध्यारोपितसर्गादियुक्ततया ब्रह्म ग्राहयित्वा पश्चान्निषेधवाक्यैरध्यारोपितसर्गाद्यपवादेन निष्प्रपञ्चब्रह्मात्मैक्यं प्रतिपादयन्ति । तथा च सृष्ट्यादिवाक्यानां निषेधवाक्यापेक्षितनिषेध्यसमर्पकतया तदेकवाक्यतापन्नानां निष्प्रपञ्चब्रह्मप्रतिपत्तिप्रयोजनकत्वमेव, न तु स्वार्थसृष्ट्यादिप्रतिपादनमात्रेण चारितार्थ्यम् । अर्थवादादीनामिव तेषां स्वार्थप्रतिपादने फलाभावात् । निष्फलेऽर्थे वेदतात्पर्यायोगात् । अतो युक्तमेव स्वार्थत्यागेन निष्प्रपञ्चब्रह्मात्मैक्ये तात्पर्यकल्पनम् । तज्ज्ञानस्य मुक्तिफलकतायाः श्रुतिसिद्धत्वात् । एवं च प्रथममध्यारोपेण सप्रपञ्चब्रह्मप्रतिपत्तिर्भवति ।
पश्चात् प्रपञ्चापवादेन तस्यैव ब्रह्मणो निष्प्रपञ्चत्वप्रतिपत्तिर्भवति ।
पूर्वप्रतिपत्तिश्चोत्तरप्रतिपत्तेश्शेष एव न स्वतन्त्रेति निष्कर्षः । प्रपञ्चस्तु भाष्यादिष्वेव द्रष्टव्य इत्यर्थः ।
शङ्कते —
व्यर्थ इति ।
तर्हीत्यस्य व्याख्या तात्पर्याभाव इति । वियदादिसर्गतत्क्रमादाविति शेषः । यत्नो व्यर्थः, सूत्रकारभाष्यकारयोरिति शेषः । तात्पर्याविषये विद्यमानस्यापि श्रुतिविरोधस्य अकिञ्चित्करत्वादिति भावः ।
परिहरति —
न व्यर्थ इति ।
न्यायेति ।
वियत्प्राणपादद्वयगताधिकरणेषु निरूपिता ये सिद्धान्तन्यायाः तेषां बोधार्थमित्यर्थः । तेषां न्यायानां सृष्ट्यादिवाक्यार्थाविरोधनिर्णयायानपेक्षितानामपि श्रतितात्पर्यविषये क्वचिदेवंविरोधप्रसक्तौ तत्समाधानायोपयोगस्तेषां भविष्यतीत्याशयेन प्रवृत्तस्सूत्रकारादियत्नोऽर्थवानित्यर्थः ।
तत्प्रवृत्तेरिति ।
वियत्प्राणपादयोः प्रवृत्तेरित्यर्थः ।
सृष्ट्यादिश्रुतीनां स्वार्थे तात्पर्यमभ्युपेत्यैव वियत्पादादिप्रवृत्तिः - इत्यत्र कल्पतरुकारसम्मतिमाह —
उक्तं हीति ।
इदमिति ।
विरोधसमाधानमित्यर्थः ।
इहेति ।
वियत्प्राणपादयोरित्यर्थः । तुशब्दोऽवधारणे । तासां-सृष्ट्यादिश्रुतीनां ब्रह्मात्मैक्यपरत्वादेव तत् - तात्पर्यं नास्त्येव । तासां स्वार्थेऽपि तात्पर्ये वाक्यभेदप्रसङ्गात् स्वार्थे फलाभावाच्चेत्यर्थः ।
एवं दृष्टिसृष्टिवादे सृष्ट्यादिश्रुतीनां निरालम्बनत्वं परिहृत्य कर्मोपासनावाक्यानामपि निरालम्बनत्वं परिहरति —
ज्योतिष्टोमादीत्यादिना ।
ज्योतिष्टोमादिश्रुत्या स्वर्गादिसाधनत्वेन बोधितस्य यागादेरनुष्ठानात् स्वर्गादिफलसिद्धिरित्यर्थः ।
स्वाप्नेति ।
स्वप्ने हि कश्चित् कदाचिज्ज्योतिष्टोमादिश्रुतिं कल्पयित्वा ततस्साधनविशेषमुपलभ्य तदनुष्ठानात् फलं लभते, तत्तुल्यं जागरणेऽपि स्वर्गादिफललम्भनमित्यर्थः । वस्तुतस्तु — श्रुतिमात्रप्रतीतवियदादिसर्गतत्क्रमादेरिव श्रुतिमात्रप्रतीतस्वर्गादिफलस्याप्यसत्त्वमेवाभिप्रेतम्, कल्पकाभावस्य तुल्यत्वादिति बोध्यम् ।
तर्हि तासामप्रामाण्यं स्यादिति, नेत्याह —
ज्योतिष्टोमादिश्रुतीनां चेति ।
कर्मवाक्यैरुपासनावाक्यैश्च विहितानि कर्मोपासनान्यनुतिष्ठतः सत्वशुद्धिर्भवति ।
शुद्धसत्वस्य चाधिकारिणो वेदान्तशास्त्रं ब्रह्मप्रमितिं जनयति ।
तथा च कर्मोपासनाकाण्डयोः अधिकारिसम्पादनद्वारा ब्रह्मप्रमितिशेषत्वात् तयोस्तत्रैव तात्पर्यं न स्वार्थे स्वर्गसाधनत्वादाविति नाप्रामाण्यप्रसङ्ग इति भावः । न च वेदानामशेषतो ब्रह्मप्रतिपत्तिपरत्वे नास्ति मानमिति वाच्यम् ।
‘सर्वे वेदा यत्पदमामनन्ति’ [क.उ. २-१५] ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ [बृ.उ.४-४-२२] इत्यादिश्रुतिसहस्त्रस्य तत्र मानत्वात् - इत्यादिकमभिप्रेत्याह —
इत्यादिदृष्टिसृष्टिव्युत्पादनप्रक्रियाप्रपञ्चस्त्विति ।
अयमेको दृष्टिसृष्टिवाद इति सम्बन्धः । अन्यस्तु सिद्धान्तमुक्तावल्यादिदर्शितो दृष्टिसृष्टिवाद इति सम्बन्धः ।
द्वितीयं निरूपयति —
दृष्टिरेवेति ।
दृष्टिः - दर्शनं स्वप्रकाशज्ञानस्वरूपमित्यर्थः ।
एतदुक्तं भवतिदृश्यप्रपञ्चतादात्म्यापन्नं ज्ञानस्वरूपमेव प्रपञ्चस्य आद्यक्षणावच्छिन्नं सत् तस्य सृष्टिरित्युच्यत इति ।
ननु दृग्दृश्ययोर्भिन्नयोरभिन्नसत्ताकत्वरूपं तादात्म्यमसिद्धमित्याशङ्क्याह —
दृश्यस्येति ।
दृष्टिर्ज्ञानं, तस्मात् भेदेभिन्नसत्ताकत्वे इत्यर्थः । अन्यथा ‘सन् घटः’ इत्यादिरूपेण सद्रूपस्य ज्ञानस्य घटादेश्च सामानाधिकरण्यप्रत्ययो न स्यादिति भावः ।
स्मृतौ एतदिति ।
प्रत्यक्षसिद्धमित्यर्थः ।
अर्थस्वरूपमिति ।
अर्थपदं स्वत[न्त्रार्थ](न्त्र)परम् ।
कुदृष्टय इति ।
कुतर्कदूषितज्ञाना इत्यर्थः । तथा च एतज्जगत् अन्ये कुदृष्टयो भ्रान्ताः ज्ञानस्वरूपसत्तापेक्षया भिन्नसत्ताकं पश्यन्तीति उत्तरार्धेन भेददृष्ट्यपवादाच्च तयोरभिन्नसत्ताकत्वसिद्धिरित्यर्थः ।
स्मृतेश्चेति ।
चकाराच्छ्रुतेश्चेत्यर्थः । ‘चिद्धीदं सर्वं’ [नृसिंहोत्तर-७] इत्यादिश्रुतिरुदाहर्तव्या । मनःप्रत्ययो मनसोविश्वासः - प्रामाणिकत्वनिश्चयः, तमलभमाना इत्यर्थः । तदलाभे च हेतुः जाग्रत्प्रपञ्चस्यापि प्रातिभासिकत्वाभ्युपगमः, वियदादिसर्गाद्यपलापः, कर्मोपासनाकाण्डार्थानुष्ठानाधीनस्वर्गलोकब्रह्मलोकाद्यपलापः, जाग्रति चक्षुराद्यनुविधानप्रतीतेर्भ्रममात्रत्वाभ्युपगमः - इत्यादिरिति द्रष्टव्यम् ।