कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
घटादिज्ञानानां मूलाज्ञानानिवर्तकत्वसमर्थनम्
अत्राहुरिति ।
‘घटादिज्ञानमपि मूलाज्ञाननिवर्तकं स्यात् चैतन्यविषयकत्वात् देवान्तजन्यज्ञानवत्’ इति चोद्ये हेत्वसिद्धिमाहुरित्यर्थः । अस्य - आत्मनः रूपं सन्दृशे - (सन्दृशः) चक्षुषो योग्यत्वे न तिष्ठति । रूपादिहीनत्वात् । अतो न कश्चित् एनं - आत्मानं चक्षुषा पश्यति । पराञ्चि - पराग्विषयाणि खानि - इन्द्रियाणि व्यतृणत् - हिंसितवान् ईश्वरः । जडार्थविषयकत्वेनैव करणानि सृष्टवानिति यावत् । तस्मात् - तथा सृष्टत्वात् पराङ्-पराञ्चं सर्वो लोक इन्द्रियैरुपलभते, न अन्तरात्मानं चैतन्यस्वभावमित्यर्थः । ‘न चक्षुषा गृह्यते’ इत्यादिश्रुतिः आदिपदार्थः ।
तस्येति ।
चैतन्यस्येत्यर्थः ।
ननु - यदि इन्द्रियायोग्यत्वोपदेशादुपनिषदेकगम्यत्वश्रवणाच्च चैतन्यं घटादिवृत्तिविषयो न भवतीत्युपेयते, तर्हि वार्तिकविरोधः — इति शङ्कते —
न च सर्वेति ।
यद्यत् वस्तु प्रतीयते, तत् सर्वं सदित्येव प्रतीयते । तथा च अनुभवबलात् सद्रूपं ब्रह्म सर्वप्रत्ययवेद्यतया व्यवस्थितमित्यर्थः । चैतन्यस्य सर्वप्रत्ययवेद्यत्वं गौणमेव वार्तिककाराणामभिमतं, न घटादिवन्मुख्यम् । उदाहृतश्रुतिविरोधात् ।
तथा च न वार्तिकविरोध इति समाधत्ते —
तस्येति ।
वार्तिकवचनस्येत्यर्थः । यथा घटस्य घटगोचरवृत्त्यधीनव्यवहारविषयत्वं, तथा घटाद्यधिष्ठानसद्रूपब्रह्मणोऽपि घटादिवृत्त्यधीनव्यवहारविषयत्वमस्ति - इत्यनेन गुणेन, सद्रूपं ब्रह्म घटादिप्रत्ययवेद्यमिति वार्तिककारैरुच्यत इत्यर्थः । न चैवं परोक्षवृत्तिविषयेष्वावरणाभिभवाभावात् उक्तगतिस्तत्र न सम्भवतीति वाच्यम् । वार्तिके प्रत्ययपदस्यावरणाभिभावकवृत्तिपरत्वोपपत्तेरिति भावः ।
ननु — घटादिवृत्तेः घटाद्यवच्छिन्नचैतन्यविषयकत्वाभावे चैतन्यावारकाज्ञानाभिभावकत्वं न सम्भवति, ज्ञानाज्ञानयोः समानविषयकत्वाभावात्, इत्यत आह —
आवरणाभिभावकत्वं चेति ।
जडस्याप्यज्ञानविषयत्वं अनुभवबलात् स्वीकार्यमित्याह —
घटादेरपीति ।
अवस्थापदं मूलाज्ञानव्यवच्छेदाय । तस्य ‘ब्रह्म न जानामि’ इति ब्रह्ममात्रविषयकत्वानुभवात् न जडविषयकत्वमिति भावः ।
न च तत्रेति ।
जडवस्तुनीत्यर्थः ।
न युक्त इति ।
अज्ञानाश्रयत्वं जडे न युक्तम्, तत्रावरणाभावात्, तदभावश्च फलाभावात्, इत्यर्थः । ‘घटं न जानामि’ इत्यनुभवस्तु घटतदधिष्ठानचैतन्ययोस्तादात्म्याच्चैतन्यविषयकत्वेनाप्युपपद्यत इति भावः ।
ननु — जडस्यावरणाभावे कथं तदप्रकाशः सम्भवति ।न च - तत्प्रकाशकचैतन्यसंसर्गाभावादेवाप्रकाशः, न त्वावरणबलादिति - वाच्यम् । जडस्य स्वप्रकाशचैतन्ये अध्यस्ततया तस्य सदा अवभासकचैतन्यसंसर्गसत्त्वात् । अतो जडस्याप्रकाश एव जडावरणफलं, इत्यत आह —
तद्भासकस्येति ।
अत्र तच्छब्दत्रयं जडपरम् ।
उक्तभङ्ग्येति ।
‘तत्रावरणकृत्याभावादज्ञानाङ्गीकारो न युक्तः’ इति वाक्येन जडे साक्षादज्ञानाश्रयत्वस्य साक्षादज्ञानविषयत्वस्य च प्रतिक्षेपेऽपीत्यर्थः ।
ननु तद्वाक्यस्य जडे साक्षादज्ञानविषयत्वप्रतिक्षेपपरत्वं किमिति कल्प्यते, साक्षात्परम्परासाधारणाज्ञानविषयत्वमात्रप्रतिक्षेपपरत्वसम्भवात् इत्याशङ्क्य तथासति ‘तद्भासकस्य तदवच्छिन्नचैतन्यस्य आवरणादेव तदप्रकाशोपपत्तेः’ इत्युत्तरवाक्येन जडेऽपि परम्परया अज्ञानविषयत्वाभ्युपगमविरोधप्रसङ्गात् - इत्याशयेनाह —
जडावच्छिन्नेत्यादिना ।
शङ्काग्रन्थे ‘तदप्रकाशोपपत्तेः’ इत्यनेनांशेन जडे ‘अस्ति प्रकाशते प्रियं च’ इत्येवमात्मकव्यवहारायोग्यत्वलक्षणमावरणमभ्युपगतम् ।
‘चैतन्यस्यावरणादेव’ इत्यनेनांशेन जडावरणस्य कारणत्वेन चैतन्यावरणमभ्युपगतं - इति प्रतिपादयति —
अज्ञानेनेति ।
तत इति ।
चैतन्यावरणादित्यर्थः ।
चैतन्यस्य स्वप्रकाशतया तस्य यथा सदा प्रसक्तप्रकाशत्वं आवरणकल्पकमस्ति, तथा जडस्यापि सदा चैतन्यप्रकाशसंसृष्टतया सदा प्रसक्तप्रकाशत्वं आवणकल्पकं तुल्यमिति सूचयति —
नित्यचैतन्यप्रकाशसंसर्गेऽपीति ।
इतिशब्दः प्रकारवचनः । ननु उक्तरीत्या अवच्छिन्नचैतन्यनिष्ठमवस्थाज्ञानं जडतदवच्छिन्नचैतन्ययोरुभयोरप्यावारकमिति लभ्यते ।
तथा च घटादिज्ञानस्य जडमात्रविषयकत्वस्वीकारेण तस्य अज्ञानेन सह सर्वांशे समानविषयकत्वाभावात् अज्ञाननिवर्तकत्वं न स्यात्, इत्यत आह —
साक्षादिति ।
ज्ञानस्याज्ञानसमानविषयकत्वमात्रं विरोधप्रयोजकशरीरे प्रविष्टं, न तु सर्वांशेऽपि समानविषयकत्वम्, गौरवादिति भावः ।
न चैवमिति ।
ज्ञानाज्ञानयोः सर्वांशे समानविषयकत्वानादरे इत्यर्थः ।
उक्तरीत्येति ।
अवच्छिन्नचैतन्यस्य स्वरूपेण सत्यतया ब्रह्मस्वरूपस्य अवस्थाज्ञानविषयत्ववत् मूलाज्ञानविषयत्वमप्यस्ति । तथा च अवस्थाज्ञानकृतचैतन्यावरणबलात् जडस्यापि परम्परया अवस्थाज्ञानविषयत्वं इत्युक्तरीत्या मूलाज्ञानकृतचैतन्यावरणबलात् मूलाज्ञानविषयत्वमपि जडस्य घटादेरपरिहार्यं स्यादित्यर्थः ।
ततः किं तत्राह —
घटादीति ।
यथा अवस्थाज्ञानं प्रति परम्परया विषयभूतजडसाक्षात्कारादेव अवच्छिन्नचैतन्यनिष्ठावस्थाज्ञानस्य निवृत्तिः, तथा मूलाज्ञानं प्रत्यपि परम्परया विषयभूतजडसाक्षात्कारादेव ब्रह्मचैतन्यनिष्ठमूलाज्ञानस्यापि निवृत्त्यापात इत्यर्थः ।
‘मूलाज्ञाननिवृत्त्यापातो न च’ इत्यत्र हेतुमाह —
फलबलादित्यादिना ।
घटादिसाक्षात्कारे सत्यपि मूलाज्ञानानुवृत्तिरूपफलबलादित्यर्थः । मूलाज्ञानतत्कार्यातिरिक्तो यो मूलाज्ञानविषयः चिन्मात्रं तद्विषयकत्वस्यैव ज्ञाने मूलाज्ञाननिवर्तकत्वे तन्त्रत्वकल्पनात् घटादिसाक्षात्कारे च तदभावात् न मूलाज्ञाननिवर्तकत्वापत्तिरित्यर्थः । ‘जडमात्रगोचरवृत्त्या कथमवच्छिन्नचैतन्यावारकाज्ञाननिवृत्तिः भिन्नविषयत्वात्’ इति शङ्कायां ‘अवस्थाज्ञानं अवच्छिन्नचैतन्यस्य, वरणद्वारा जडमप्यावृणोति, अतो जडमात्रगोचरयाऽपि वृत्त्या अवस्थाज्ञाननिवृत्तिस्सम्भवति इति प्रतिपादितम् ।
इदानीं तस्यामेव शङ्कायां प्रकारान्तरेण समाधानं दर्शयति —
अथवेति ।
अथवा अवस्थाज्ञानानां तत्तज्जडमेव विषय इति सम्बन्धः । ‘घटं न जानामि’ इत्यादिपूर्वोक्तानुभवादेवेति भावः ।
तर्ह्यवस्थाज्ञानानामाश्रयोऽपि ततज्जडमेव स्यात्, तथाचापसिद्धान्तः, इत्यत आह —
अवच्छिन्नचैतन्याश्रितानामिति ।
ननु जडस्याज्ञानविषयत्वोपगमे ‘जडमज्ञानस्य विषयो न भवति’ इति सिद्धान्तस्य क गतिः, अत आह —
मूलाज्ञानस्यैवेति ।
जडस्याज्ञानाविषयत्वसिद्धान्तो मूलाज्ञानमात्रविषय इति भावः ।
अन्यथेति ।
जडस्यानावृतत्वे इत्यर्थः ।
चन्दनखण्डगोचरचाक्षुषवृत्त्या तदवच्छिन्नचैतन्यं अभिव्यज्यते न वा ? आद्ये दोषमाह —
तत्संसर्गिण इति ।
चन्दननिष्ठगन्धस्यापि चन्दनस्येव आपरोक्ष्यापत्तिः, अभिव्यक्तचैतन्यसंसर्गित्वस्य उभयत्राविशेषात् । जडस्यावृतत्वपक्षे तु नायं दोषः, चाक्षुषवृत्त्या गन्धावरणानिवृत्तेः, इत्यर्थः ।
द्वितीये दोषमाह —
तदनभिव्यक्ताविति ।
अप्रकाशापत्तेरिति ।
चन्दनगोचरचाक्षुषवृत्तिकाले चन्दनतद्रूपप्रकाशाभावोऽनिष्ट इति भावः ।
चन्दनखण्डघटपटादिद्रव्याणामिव एकद्रव्यवृत्तिगुणानामपि चैतन्यावच्छेदकत्वमस्तीत्यभिप्रेत्याशङ्कते —
न चेति ।
एकत्र द्रव्ये रूपरसगन्धादिभेदेन चैतन्यभेदो नास्ति, मानाभावादित्याह —
चैतन्यस्येति ।
चैतन्यस्य निरवयवतया द्रव्ये द्रव्यावच्छेदेनैका गुणावच्छेदेनापरा वृत्तिः सम्भवतीत्यर्थः ।
यद्येकत्र द्रव्ये प्रदेशभेदेन गन्धादयःस्युः, तदा तत्र द्रव्ये गन्धादिभेदेन चैतन्यभेदशङ्काऽपि स्यात्, न त्वेतदस्ति, गन्धादीनां व्याप्यवृत्तित्वानुभवाद् - इत्याशयेनाह —
व्याप्येति ।
गगनेति ।
यथा घटादिद्रव्याणां गगनभेदकत्वमस्ति तथा गन्धादीनां गगनभेदकत्वं नास्ति, गन्धादिभेदेन गगनभेदाननुभवादिति भावः ।
गन्धादिभेदेन चैतन्यभेदाभावे सिद्धे चन्दनचैतन्याभिव्यक्त्यनभिव्यक्तिकृतौ पूर्वोक्तदोषौ दुष्परिहरावित्याह —
तेषामिति ।
शुक्तीति ।
यथा शुक्तीदमंशावच्छिन्नचैतन्ये रजतस्याध्यासात् रजतं शुक्तीदमंशचैतन्येनैवावभास्यं न त्विदमंशावच्छिन्नचैतन्यापेक्षया पृथग्भूतेन स्वावच्छिन्नचैतन्येनावभास्यम्, तथा द्रव्यावच्छिन्नचैतन्ये कल्पिता रूपादयोऽपि द्रव्यावच्छिन्नचैतन्येनैव प्रकाश्या इत्यर्थः ।
ननु चन्दनगन्धस्य अभिव्यक्तचैतन्यप्रकाशसंसृष्टस्यापि गन्धगोचरवृत्त्यभावादेवापरोक्ष्याभावः - इति शङ्कामनूद्य निराकरोति —
न च गन्धाकारेति ।
‘नियमो न च’ इत्यत्र हेतुमाह —
प्रकाशसंसर्गस्यैवेति ।
न तु वृत्त्युपहितानावृतप्रकाशसंसर्गस्य प्रकाशमानताशब्दार्थत्वं, सुखादिगोचरवृत्त्यनुपहितसाक्षिप्रकाशसंसर्गिणि सुखादौ प्रकाशमानशब्दार्थत्वाभावप्रसङ्गात् इत्यर्थः ।
गन्धस्य अभिव्यक्तचैतन्यसंसर्ग एव नास्तीत्याशङ्क्याह —
अभिव्यक्तस्य चेति ।
चकारस्य असम्भवादित्यनेन सम्बन्धः । उपादानपदमधिष्ठानपरम् ।
असम्भवादिति ।
तथा च जडस्यानावृतत्वपक्षे चन्दनचैतन्याभिव्यक्तिदशायां गन्धस्याप्यापरोक्ष्यापत्तिरपरिहार्येति भावः ।
जडस्यावृतत्वपक्षे तु नोक्तदोषप्रसक्तिरित्याह —
तस्मादिति ।
जडे आवरणस्य सिद्धत्वादित्यर्थः ।
ननु — जडस्यावृतत्वपक्षेऽपि चन्दनगोचरचाक्षुवृत्त्यैव गन्धावरणस्यापि निवृत्तिस्स्यात्, गुणगुणिनोस्तादात्म्यात् । तथा च चन्दनापरोक्ष्यदशायां तद्गन्धापरोक्ष्यदोषोऽत्रापि तुल्यः — इति शङ्कां दृष्टान्तेन परिहरति —
यथेति ।
न अन्यं प्रत्यावारकाज्ञानस्यापि निवृत्तिः-इत्येवकारार्थः ।
तस्यैवेति ।
चैत्रस्यैव घटप्रकाशः नान्यस्य मैत्रादेरित्यर्थः ।
तथेति ।
गुणगुणिनोस्तादात्म्येऽपि भेदस्यापि सत्त्वात् न चन्दनगोचरवृत्त्या गन्धादेरापरोक्ष्यप्रसक्तिरित्यर्थः ।
ननु चन्दनसंविदभिन्नस्य गन्धस्य आवृतस्यापि कथं नापरोक्ष्यं इत्याशङ्क्य, अनावृतसुखादावेव संविदभेदस्य आपरोक्ष्यप्रयोजकत्वदर्शनात् मैवमित्याह —
अनावृतार्थस्यैवेति ।
नन्वेकत्र चन्दनावच्छिन्नचैतन्ये अवस्थाज्ञानस्य चैत्रं प्रति चन्दनावारकस्य एकत्वात् तस्य च चन्दनगोचरवृत्त्या निवृत्तत्वात् चन्दनवृत्तिकाले गन्धस्यावरणमयुक्तं इत्याशङ्कां निराकरोति —
इति प्रमातृभेदेनेवेति ।
‘यथा एकत्र विषये चैत्रमैत्रादिभेदेनाज्ञानमनेकमस्ति, तथा एकत्रापि चन्दनावच्छिन्नचैतन्ये गन्धादिविषयभेदेनाप्यज्ञानमनेकमस्तीति वक्तव्यम्, चन्दनापरोक्ष्यदशायां गन्धापरोक्ष्यादर्शनादेव’ इत्ययं हेतुः प्रकृतपरामशिंना इतिपदेन समर्प्यते । तथा च चन्दनापरोक्ष्यकाले गन्धादेरावरणसम्भवात् नोक्तदोष इति भावः ।
जडविषयकत्वमितीति ।
जडविषयकत्वादित्यर्थः ।
न काचिदनुपपत्तिरिति ।
‘घटादिवृत्तीनां चैतन्यविषयकत्वाभावे ज्ञानाज्ञानयोः समानविषयकत्वरूपं विरोधप्रयोजकं न सम्भवति, तासां जडमात्रगोचरत्वात् अज्ञानस्य च चैतन्यमात्रविषयकत्वात्’ इति पूर्वोक्तानुपपत्तिर्नास्ति । अवस्थाज्ञानस्यापि जडमात्रविषयकत्वाभ्युपगमात् । तथा जडस्यावरणाभ्युपगमे अपसिद्धान्तापत्तिरूपानुपपत्तिरपि नास्ति । जडावरणानभ्युपगमस्य मूलाज्ञानविषयत्वात् । तथा तत्तज्जडावारकाज्ञाननानात्वाभ्युपगमे तदेकत्वसिद्धान्तविरोधरूपानुपपत्तिरपि नास्ति । तदेकत्वाभ्युपगमस्यापि मूलाज्ञानविषयत्वात्, जडावारकाज्ञानानां च अवस्थारूपत्वात् — इत्यादिकमभिप्रेत्य न काचिदनुपपत्तिरित्युक्तम् ।
परमप्रकृतमाह —
न वेति ।
घटादिवृत्तीनामपि मूलाज्ञाननिवर्तकत्वापत्तिः — इति यत् पूर्ववादिनश्चोद्यं आदौ प्रकृतं तत् नास्त्येव, घटादिवृत्तीनां मूलाज्ञानविषयचैतन्यविषयकत्वानभ्युपगमादित्यर्थः ।
न चैवमपीति ।
घटादिवृत्तीनां चैतन्यविषयकत्वाभावेऽपि अहमर्थरूपजीवस्य चिदचित्संवलितरूपतया अहंवृत्तेश्चैतन्यविषयकत्वावश्यम्भावादित्यर्थः ।
तस्या इति ।
स्वप्रकाशतया स्वयमेव प्रकाशमानायां चिति चित्संवलितः - चित्तादात्म्येनाध्यस्तो योऽयमचिदंशः तन्मात्रविषयकत्वादहमाकारवृत्तेः न तस्या अपि चैतन्यविषयकत्वम्, औपनिषदत्वश्रुतिविरोधादेवेत्यर्थः ।
ननु —‘योऽहं स्वप्ने श्रीकृष्णमन्वभूवं सोऽहं जागरे तं स्मरामि’ इत्यादिप्रत्यभिज्ञायाश्चैतन्यविषयकत्वमावश्यकम्, अन्यथा तया चिदात्मनःस्थायित्वं संघातव्यतिरिक्तत्वं च न सिद्ध्येत्, इत्यत आह —
सोऽहमिति ।
प्रत्यभिज्ञाऽपि स्वयमेव प्रकाशमाने चैतन्ये ‘अहम्’ इत्यन्तःकरणतादात्म्यमिव तत्तादिवैशिष्ट्यमपि विषयीकरोति, न तु स्वप्रकाशचैतन्यम् । अस्मिन्मते चिदात्मनस्स्थायित्वादेः श्रुतिबलादेव सिद्धिः न प्रत्यभिज्ञया इति बोध्यम् । ‘घटादिवृत्तीनामपि चैतन्यविषयकत्वाविशेषात् वेदान्तजन्यज्ञानवत् मूलाज्ञाननिवर्तकत्वापत्तिः’ इति चोद्ये, हेतोरेवासत्त्वान्नोक्तातिप्रसङ्ग इति समाधानमुक्तम् ।
इदानीं तासां चैतन्यविषयकत्वाभ्युपगमेऽपि नोक्तातिप्रसङ्ग इत्याह —
केचित्त्विति ।
अभ्युपगम्येति ।
न च एवमभ्युपगमे चैतन्यस्य चक्षुरादिविषयत्वनिषेधश्रुतीनां बाधः स्यादिति वाच्यम् । तासां निरुपाधिकचैतन्यविषयत्वाभ्युपगमेन अवच्छिन्नचैतन्यस्य चक्षुरादिवृत्तिविषयत्वे तद्विरोधाभावादिति भावः । अत एव ब्रह्मचैतन्यस्य सर्वप्रत्ययवेद्यत्वप्रतिपादकं पूर्वोदाहृतवार्तिकवचनमपि सङ्गच्छते । अज्ञातज्ञापकत्वं हि प्रामाण्यम् । अज्ञातं च वस्तु चैतन्यमेव । तस्यैव स्वप्रकाशतया सदा प्रसक्तप्रकाशस्य अज्ञानविषयत्वकल्पनौचित्यात् । अवभासकचैतन्यस्यावरणे सति जडानवभाससम्भवेन तस्य पृथगावरणकल्पनायोगात् । अज्ञानस्य चैतन्याश्रितत्वनियमेन तस्य तमस इव स्वाश्रयादन्यत्र आवरणहेतुत्वानुपपत्तेश्च । तथा च प्रत्यक्षादीनामपि प्रामाण्यसिद्धये घटाद्यवच्छिन्नचैतन्यविषयकत्वमेव स्वीकर्तव्यं, न तु जडमात्रविषयकत्वम् । एवं सर्वेषामेव मानानां फलशब्दितचैतन्यविषयकत्वात् अमृतत्वसाधने ब्रह्मदर्शने सर्वेषां मानानां कारणत्वप्रसक्तौ वेदान्तानामेव अवरोधेच्छया - नियमनेच्छया ‘श्रोतव्यः’ इति वचः ‘वेदान्तानामेव विचारः कर्तव्यः’ इत्यमुमर्थं प्राह — इति वार्तिकार्थः । घटादिवृत्तीनां तु चैतन्यविषयकत्वेऽपि वेदान्तजन्यत्वाभावेन श्रोतव्यविधिसिद्धनियमादृष्टसाहित्याभावात् न मूलाज्ञाननिवर्तकत्वप्रसङ्ग इति भावः ।
अप्रतिबद्धमिति ।
नियमादृष्टेन प्रतिबन्धकदुरितस्य क्षीणत्वादिति भावः । ‘तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम्’ इति नारदवचनदर्शनात्, ‘तत्त्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः ।
तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥’ [वायवृत्तिः ६] इति भगवत्पादीयवचनदर्शनाच्च, मूलाज्ञानस्य जीवब्रह्माभेदावारकत्वाच्च, जीवब्रह्मणोरैक्यलक्षणतादात्म्यविषयकं यत् ज्ञानं इदमेव मुक्तिसाधनम्, अतो नोक्तातिप्रसङ्गः —
इति समाधानान्तरं दर्शयति —
अन्ये त्विति ।
इतीति ।
वाक्यजन्याभेदज्ञानमेव अज्ञाननिवर्तकं इति स्थिते तदभेदागोचरात् घटादिज्ञानात् न मूलाज्ञाननिवृत्तिप्रसङ्ग इत्यर्थः ।
न चेति ।
जीवब्रह्माभेदः चैतन्यापेक्षया अतिरिक्तः — इति वक्तुं न शक्यते । तथा सति वेदान्ततात्पर्यगोचरस्याभेदस्य सत्यत्वावश्यंभावेन चैतन्यस्याद्वितीयत्वहानापत्तेः, वेदान्ततात्पर्यविषयस्याभेदस्यासत्यत्वे वेदान्तानां तत्त्वावेदकत्वलक्षणस्य प्रामाण्यस्य सिद्धान्तसम्मतस्य भङ्गापत्तेः इत्यर्थः । अत्र तत्पदं परमार्थवस्तुपरम् ।
न हीति ।
घटादिज्ञाने चैतन्यविषयकेऽपि जीवब्रह्माभेदो न विषयः, महावाक्यार्थज्ञाने तु तयोरभेदो विषयः, इत्येवं घटादिज्ञानापेक्षया महावाक्यजन्यज्ञानस्य विषयतो विशेषं न ब्रूमः, येनोक्तदोषतादवस्थ्यं स्यादित्यर्थः । ननु — ‘इदं रजतम्’ इतिभ्रमे यावदधिष्ठानांशो भासते तावदपेक्षया अधिकशुक्तित्वादिविशेषविषयकस्य शुक्त्यादिज्ञानस्य रजतादिभ्रमविरोधित्वं दृष्टम् ।
तथा च ‘सन् घटः, स्फुरति घटः’ इत्यादिभ्रमेषु यावदधिष्ठानभूतं चैतन्यं विषयः तावदपेक्षया अधिकाभेदविषयकत्वस्य वाक्यजन्यज्ञानेऽनभ्युपगमे वाक्योत्थज्ञानस्य भ्रमनिवर्तकत्वमेव न स्यात्, अतो विषयतो विशेषोऽभ्युपगन्तव्यः —इति शङ्कते —
किं त्विति ।
भ्रमाधिकविषयाणामेव ज्ञानानां भ्रमनिवर्तकत्वमिति नियमो नास्ति, भ्रमानाधिकविषयाणामपि भ्रमनिवर्तकत्वदर्शनेन व्यभिचारात् । तथाहि — वस्तुतो घोषाधारभूते गङ्गातीरे यस्य तटाकतीरत्वभ्रमेण ‘तटाकतीरे घोषः’ इति भ्रमोऽस्ति, तं प्रति ‘गङ्गायां घोषः’ इति वाक्यप्रयोगे सति तस्माद्वाक्यात् तस्य पुरुषस्य ‘गङ्गातीरे घोषः’ इति बोधो जायते । तेन च बोधेन तस्य गङ्गातीरे तटाकतीरत्वभ्रमो निवर्तते । न च तत्र भ्रमविषयगङ्गातीरांशे भ्रमापेक्षया वाक्यजन्यबोधे कश्चिद्विशेषो विषयो दृष्टः । न च तत्र वाक्यजन्यज्ञाने तटाकतीरव्यावर्तकस्य गङ्गातीरत्वरूपविशेषस्य विषयत्वदर्शनात् विशेषाविषयकत्वमसिद्धमिति वाच्यम् । यत्र तीरत्वमात्रप्रकारकतात्पर्येण ‘गङ्गायां घोषः’ इति प्रयोगः, तथैव तस्य भ्रान्तस्य तात्पर्यग्रहश्च, तत्र गङ्गातीरत्वप्रकारकबाधाभावेऽपि भ्रमनिवृत्तिदर्शनेन व्यभिचारध्रौव्यात् । तथा — ‘येन केनचित् कपालेन तुषोपवापः कर्तव्यः’ इति भ्रमवन्तं पुरुषं प्रति कपालत्वमात्रप्रकारकतात्पर्येण प्रयुक्तात् तन्मात्रतात्पर्यवत्तया गृहीतात् ‘पुरोडाशकपालेन तुषानुपवपति’ इति वाक्यात् ‘कपालेन तुषोपवापः कर्तव्यः’ इत्येव तस्य पुरुषस्य बोधो जायते । तत्र कपालांशे कपालान्तरव्यावर्तकविशेषाग्रहणेऽपि पुरोडाशकपालातिरिक्तकपालेषु तुषोपवापसाधनत्वभ्रमनिवृत्तिदर्शनेन तत्रापि व्यभिचारात् । तस्मात् ‘तीरे घोषः’ इति शाब्दबोधस्य गङ्गातीरत्वरूपविशेषविषयकत्वाभावेऽपि तद्धेपदार्थोपस्थितिकाले तीरस्य गङ्गासम्बन्धित्वेनोपस्थितत्वात् तदुपस्थितिमहिम्ना वस्तुगत्या गङ्गातीरविषयकस्य भ्रमानधिकविषयस्यापि तस्य भ्रमनिवर्तकत्वमिति वक्तव्यम् । तथा — ‘कपालेन तुषोपवापः कर्तव्यः’ इति शाब्दबोधस्य स्वयं कपालान्तरव्यावर्तकविशेषविषयकत्वाभावेऽपि तादृशशाब्दबोधहेतुपदार्थोपस्थितिकाले कपालस्य पुरोडाशसम्बन्धित्वेनोपस्थितिसत्त्वात् तदुपस्थितिमहिम्ना तस्य भ्रमानधिकविषयस्यापि भ्रमनिवर्तकत्वमिति वक्तव्यम् । तथा च ज्ञानस्य भ्रमविरोधित्वे सामग्रीविशेषप्रयोज्यत्वं प्रयोजकं, न तु भ्रमाधिकविषयत्वम् । व्यभिचारात् । किं च महावाक्यजन्यज्ञानस्य संसारमूलभ्रमविरोधित्वं श्रुतिस्मृतिविद्वदनुभवैस्सिद्धं, महावाक्यानां च चैतन्यस्वरूपमात्रबोधकत्वं द्वितीयपरिच्छेदे मुक्तिसाधनमहावाक्यजन्यज्ञानं प्रति चैतन्यमात्ररूपविषयनियामकश्रुत्युदाहरणेन अस्माभिस्साधितम् । प्रपञ्चितं च निबन्धनेष्वेतत् ।
तथा च शुक्तिरजतादिस्थले भ्रमाधिकविषयशुक्तिज्ञानादौ भ्रमविरोधिनि भ्रमाधिकविषयत्वस्येव दोषाभावादिघटितसामग्रीविशेषाधीनत्वस्यापि दृष्टत्वेन अखण्डार्थकवेदान्तानुसारेण पूर्वोदाहृतव्यभिचारस्थलानुरोधेन च ज्ञानस्य भ्रमविरोधित्वे सामग्रीविशेषाधीनत्वमेवानुगतं प्रयोजकं कल्पयितुं युक्तं, न तु भ्रमाधिकविषयत्वं —इत्यभिप्रेत्य महावाक्यार्थज्ञानस्य भ्रमानधिकविषयस्यापि भ्रमनिवर्तकत्वं सम्भवतीति समाधत्ते —
तत्त्वमिति ।
तत्त्वंपदयोर्वाच्यार्थभूतौ जीवेश्वरावेव धर्मिद्वयम् । तस्य तत्त्वंपदाभ्यां प्रथमं शक्त्या स्मृतिरूपः परामर्शः, तदनन्तरं तत्त्वंपदसामानाधिकरण्यबलात् ‘जीव ईश्वराभिन्नः’ इति तयोर्विशेषणविशेष्यभावेनावगतिः, तदनन्तरं च ‘विशिष्टयोरैक्यं न सम्भवति’ इति विरोधप्रतीतिः, तदनन्तरं च तत्त्वंपदाभ्यां वाच्यार्थरूपविशिष्टान्तर्गतयोर्विशेष्यचैतन्यांशयोरभेदयोग्ययोः लक्षणया प्रतीतिः, ततश्च विशेष्यद्वयाभेदगोचरशाब्दबोधः — इति क्रममभिप्रेत्य आदिपदम् । वाक्यजन्यज्ञानस्य स्वविषयचैतन्येन सह यः स्वरूपसम्बन्धविशेषः सामग्रीविशेषाधीनत्वप्रयुक्तः, तेन सम्बन्धेन यत् चैतन्यगोचरत्वं घटज्ञानादिव्यावृत्तं तदेव तस्याभेदज्ञानत्वं, तद्बलादेव तस्य मूलाज्ञानमिथ्याज्ञानादिविरोधित्वं इत्यर्थः ।
महावाक्यजन्यज्ञानस्य घटादिज्ञानापेक्षया चैतन्यांशे विषयतो विशेषाभावेऽपि सामग्रीविशेषादेव घटादिज्ञानापेक्षया अभेदज्ञानत्वरूपे वैलक्षण्ये दृष्टान्तमाह —
यथा हीति ।
विशिष्टज्ञानस्येति ।
‘दण्डी पुरुषः’ इति ज्ञानस्येत्यर्थः । विशेषणविशेष्ययोरसंसर्गाग्रह आदिपदार्थः ।
समूहालम्बनेति ।
‘दण्डपुरुषसंयोगाः’ इति ज्ञानेत्यर्थः । तदुक्तं चिन्तामणिकृता —‘कारणकृतः’ इति । विशिष्टज्ञानस्य समूहालम्बनापेक्षया विशेषणज्ञानादिरूपकारणकृतो विशेष इति तदर्थः ।
स्थाणुत्वेति ।
‘स्थाणुत्वतद्विरुद्धपुरुषत्ववान्’ इति निश्चयः संशयसमानविषयको य आहार्यवृत्तिरूपः तद्व्यावृत्तमित्यर्थः । विशेषदर्शनदशायामनाहार्यनिश्चयासम्भवात् — आहार्येत्युक्तम् ।
विषयत इति ।
विशिष्टज्ञाने ‘स्थाणुः पुरुषो वा’ इति संशये च इति शेषः । न केवलं तत्त्वमसिवाक्यजन्यज्ञानस्याभेदज्ञानत्वे इयं रीतिः ।
‘सोऽयं घटः’ ‘सोऽयं देवदत्तः’ इत्यादिवाक्यजन्यज्ञानस्यापि केवलघटशब्ददेवदत्तशब्दादिजन्यज्ञानव्यावृत्ताभेदज्ञानत्वेऽपि इयं रीतिरनुसर्तव्येत्याह —
तथा घटादावपीति ।
अतिरिक्तेति ।
केवलघटशब्ददेवदत्तशब्दादिजन्यज्ञानविषयघटादिस्वरूपापेक्षया ‘सोऽयम्’ इति वाक्यगम्याभेदस्यातिरिक्तत्वे मानाभावात् । तथा च विषयतो विशेषासम्भवात् ‘सोऽयं घटः’ इत्यादावपि ‘तत्त्वमसि’ इत्यत्रेव ‘सोऽयम्’ इति पदद्वयवाच्यार्थरूपधर्मिद्वयपरामर्शादिरूपकारणविशेषाधीनस्वरूपसम्बन्धविशेषेण घटादिस्वरूपविषयकत्वमेव घटाद्यभेदज्ञानत्वं नान्यदिति वक्तव्यमिति भावः । ननु - केवलघटशब्दादिजन्यज्ञानस्यापि विषयेण स्वरूपसम्बन्ध एव, तथा च कथं स्वरूपसम्बन्धकृता अभेदज्ञानत्वादिव्यवस्था । न च वृत्तिज्ञानानां विषयैस्सह विषयविषयिभावप्रयोजकस्वरूपसम्बन्धानां अविशेषेऽपि तेष्वेव विषयतज्ज्ञानस्वरूपात्मकसम्बन्धेषु सामग्रीविशेषाधीनत्वप्रयुक्तपरस्परवैलक्षण्यकल्पनया व्यवस्थोपपादनं कर्तुं शक्यत इति वाच्यम् ।
स्वरूपसम्बन्धेषु वैलक्षण्यस्य क्वाप्यदृष्टत्वेन तथाकल्पनानुपपत्तेः, इत्यत आह —
अभावसादृश्यादीनामिति ।
ननु — वृत्तीनां विषयैस्सह विषयविषयिभावः स्वरूपसम्बन्धकृत एव न भवति, किं तु संयोगादिकृतः ।
तथा च तासां तैस्सह स्वरूपसम्बन्धानामेवासिद्धत्वात् तेषु वैलक्षण्यात्मकविशेषकल्पना दूरापास्ता, इत्यत आह —
संयोगेति ।
वृत्तिसंयोगस्य वृत्तिविषयत्वप्रयोजकत्वे चक्षुर्गोलकादेरपि घटादिवृत्तिसंयोगित्वेन तद्विषयत्वप्रसङ्गात्, वृत्तितादात्म्यस्य वृत्तिविषयत्वप्रयोजकत्वे वृत्त्यधिष्ठानतया वृत्तितादात्म्यापन्नस्य घटाद्यवच्छिन्नचैतन्यस्य घटादिवृत्तिविषयत्वसम्भवेऽपि घटादेर्वृत्तितादाम्यहितस्य तदविषयत्वप्रसङ्गात्, तद्वृत्तिपरिणाम्यन्तःकरणस्य घटादिवृत्तिविषयत्वप्रसङ्गाच्च, परिणामपरिणामिनोस्तादाम्यात् — इत्यर्थः ।
ननु तत्त्वमस्यादिवाक्यजन्यज्ञानस्य विषयेण सह यस्स्वरूपसम्बन्धः चैतन्यतद्गोचरज्ञानोभयस्वरूपात्मकः तत्र सामग्रीविशेषबलादपि विषयस्वरूपात्मके सम्बन्धे विशेषो निरूपयितुं न शक्यत इति, अत आह —
विषयविशेषनिरूपणासम्भव इति ।
विषये निर्विशेषचैतन्यात्मके विशेषाधानासम्भवेऽपि स्वरूपसम्बन्धान्तर्गततया कॢप्त एव ज्ञानस्वरूपात्मके सम्बन्धे सामग्रीविशेषवलाद्विशेषाधानसम्भवात् नोक्तदोष इति भावः । यद्वा वृत्तीनां विषयेऽपि संयोगतादात्म्ययोरतिप्रसक्त्या विषयविशेषनिरूपणासंभवे विषयैर्विषयविषयिभावरूपस्वरूपसम्बन्धवतीनामिति सम्बन्धः । अभावसादृश्यादीनामधिकरणादाविव वृत्तीनामपि विषये संयोगतादात्म्ययोरतिप्रसक्तत्वेन ताभ्यां वृत्तीः प्रति विषयविशेषनियमनासम्भवे सति परिशेषात् विषयविषयिभावप्रयोजकस्वरूपसम्बन्धवतीनामित्यर्थः । रूपपदं नियामकपरम् । विषयविषयिभावस्य स्वरूपसम्बन्धनियम्यत्वेन तयोरभेदस्य रूपशब्दार्थस्य अयोगात् ।
ननु — संयोगतादात्म्ययोर्विषयविशेषनियामकत्वाभावेऽपि वृत्तीनां विषये स्वरूपसम्बन्धवत्त्वं परिशेषात् न सिद्ध्यति, स्वरूपसम्बन्धातिरिक्तस्य सम्बन्धान्तरस्य कल्पनोपपत्तेः, इत्यत आह —
कॢप्त एवेति ।
स्वरूपसम्बन्धस्य वृत्त्यादिस्वरूपतया तस्य कॢप्तत्वात् कॢप्त एव स्वरूपसम्बन्धे विशेषकल्पनायां लाघवं, सम्बन्धान्तरं कल्पयित्वा तस्मिन् सम्बन्धान्तरे अभेदज्ञानत्वादिनिर्वाहकविशेषकल्पनायां गौरवं, अतो वृत्तीनां विषयैस्सह स्वरूपसम्बन्धवत्त्वमेवेति भावः ।
ननु ‘तत्त्वमस्यादिवाक्यात् जीवस्य ब्रह्माभेदज्ञानोपगमे तदभेदस्यैव संसर्गविधया भानात् वेदान्तानां संसर्गागोचरप्रमितिजनकत्वरूपाखण्डार्थत्वाभ्युपगमहानिः’ इत्येतच्चोद्यं निरवकाशमित्याह —
एवं चेति ।
महावाक्यजन्यज्ञानगताभेदज्ञानत्वस्य अन्यथोपपादितत्वेन अभेदसंसर्गभानानपेक्षायां सत्यामित्यर्थः ।
हानिरपीति ।
घटादिवृत्तीनां मूलाज्ञाननिवर्तकत्वापत्तिर्नास्ति, अखण्डार्थत्वहानिश्च नास्तीत्यपिशब्दार्थः ।