अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

घटादिज्ञानानां मूलाज्ञानानिवर्तकत्वसमर्थनम्

अत्राहुरिति ।
‘घटादिज्ञानमपि मूला­ज्ञा­न­नि­व­र्तकं स्यात् चैत­न्य­वि­ष­य­क­त्वात् देवा­न्त­ज­न्य­ज्ञा­न­वत्’ इति चोद्ये हेत्व­सि­द्धि­मा­हु­रि­त्यर्थः । अस्य - आत्मनः रूपं सन्दृशे - (सन्दृशः) चक्षुषो योग्यत्वे न तिष्ठति । रूपादिहीनत्वात् । अतो न कश्चित् एनं - आत्मानं चक्षुषा पश्यति । पराञ्चि - पराग्विषयाणि खानि - इन्द्रियाणि व्यतृणत् - हिंसितवान् ईश्वरः । जडा­र्थ­वि­ष­य­क­त्वे­नैव करणानि सृष्टवानिति यावत् । तस्मात् - तथा सृष्टत्वात् पराङ्-पराञ्चं सर्वो लोक इन्द्रि­यै­रु­प­ल­भते, न अन्तरात्मानं चैत­न्य­स्व­भा­व­मि­त्यर्थः । ‘न चक्षुषा गृह्यते’ इत्यादिश्रुतिः आदिपदार्थः ।

तस्येति ।
चैत­न्य­स्ये­त्यर्थः ।

ननु - यदि इन्द्रि­या­यो­ग्य­त्वो­प­दे­शा­दु­प­नि­ष­दे­क­ग­म्य­त्व­श्र­व­णाच्च चैतन्यं घटा­दि­वृ­त्ति­वि­षयो न भवतीत्युपेयते, तर्हि वार्तिकविरोधः — इति शङ्कते —
न च सर्वेति ।
यद्यत् वस्तु प्रतीयते, तत् सर्वं सदित्येव प्रतीयते । तथा च अनुभवबलात् सद्रूपं ब्रह्म सर्व­प्र­त्य­य­वे­द्य­तया व्यव­स्थि­त­मि­त्यर्थः । चैतन्यस्य सर्व­प्र­त्य­य­वे­द्यत्वं गौणमेव वार्ति­क­का­रा­णा­म­भि­मतं, न घटादिवन्मुख्यम् । उदा­हृ­त­श्रु­ति­वि­रो­धात् ।

तथा च न वार्तिकविरोध इति समाधत्ते —
तस्येति ।
वार्ति­क­व­च­न­स्ये­त्यर्थः । यथा घटस्य घट­गो­च­र­वृ­त्त्य­धी­न­व्य­व­हा­र­वि­ष­यत्वं, तथा घटा­द्य­धि­ष्ठा­न­स­द्रू­प­ब्र­ह्म­णोऽपि घटा­दि­वृ­त्त्य­धी­न­व्य­व­हा­र­वि­ष­य­त्व­मस्ति - इत्यनेन गुणेन, सद्रूपं ब्रह्म घटा­दि­प्र­त्य­य­वे­द्य­मिति वार्ति­क­का­रै­रु­च्यत इत्यर्थः । न चैवं परो­क्ष­वृ­त्ति­वि­ष­ये­ष्वा­व­र­णा­भि­भ­वा­भा­वात् उक्तगतिस्तत्र न सम्भवतीति वाच्यम् । वार्तिके प्रत्य­य­प­द­स्या­व­र­णा­भि­भा­व­क­वृ­त्ति­प­र­त्वो­प­प­त्ते­रिति भावः ।

ननु — घटादिवृत्तेः घटा­द्य­व­च्छि­न्न­चै­त­न्य­वि­ष­य­क­त्वा­भावे चैत­न्या­वा­र­का­ज्ञा­ना­भि­भा­व­कत्वं न सम्भवति, ज्ञानाज्ञानयोः समा­न­वि­ष­य­क­त्वा­भा­वात्, इत्यत आह —
आवरणाभिभावकत्वं चेति ।

जड­स्या­प्य­ज्ञा­न­वि­ष­यत्वं अनुभवबलात् स्वीका­र्य­मि­त्याह —
घटादेरपीति ।
अवस्थापदं मूला­ज्ञा­न­व्य­व­च्छे­दाय । तस्य ‘ब्रह्म न जानामि’ इति ब्रह्म­मा­त्र­वि­ष­य­क­त्वा­नु­भ­वात् न जडविषयकत्वमिति भावः ।

न च तत्रेति ।
जड­व­स्तु­नी­त्यर्थः ।

न युक्त इति ।
अज्ञानाश्रयत्वं जडे न युक्तम्, तत्रा­व­र­णा­भा­वात्, तदभावश्च फलाभावात्, इत्यर्थः । ‘घटं न जानामि’ इत्यनुभवस्तु घट­त­द­धि­ष्ठा­न­चै­त­न्य­यो­स्ता­दा­त्म्या­च्चै­त­न्य­वि­ष­य­क­त्वे­ना­प्यु­प­प­द्यत इति भावः ।

ननु — जडस्यावरणाभावे कथं तदप्रकाशः सम्भवति ।न च - तत्प्र­का­श­क­चै­त­न्य­सं­स­र्गा­भा­वा­दे­वा­प्र­काशः, न त्वावरणबलादिति - वाच्यम् । जडस्य स्वप्र­का­श­चै­तन्ये अध्यस्ततया तस्य सदा अव­भा­स­क­चै­त­न्य­सं­स­र्ग­स­त्त्वात् । अतो जडस्याप्रकाश एव जडावरणफलं, इत्यत आह —
तद्भासकस्येति ।
अत्र तच्छब्दत्रयं जडपरम् ।

उक्तभङ्ग्येति ।
‘तत्रा­व­र­ण­कृ­त्या­भा­वा­द­ज्ञा­ना­ङ्गी­कारो न युक्तः’ इति वाक्येन जडे साक्षा­द­ज्ञा­ना­श्र­य­त्वस्य साक्षा­द­ज्ञा­न­वि­ष­य­त्वस्य च प्रति­क्षे­पेऽ­पी­त्यर्थः ।

ननु तद्वाक्यस्य जडे साक्षा­द­ज्ञा­न­वि­ष­य­त्व­प्र­ति­क्षे­प­प­रत्वं किमिति कल्प्यते, साक्षा­त्प­र­म्प­रा­सा­धा­र­णा­ज्ञा­न­वि­ष­य­त्व­मा­त्र­प्र­ति­क्षे­प­प­र­त्व­स­म्भ­वात् इत्याशङ्क्य तथासति ‘तद्भासकस्य तद­व­च्छि­न्न­चै­त­न्यस्य आवरणादेव तद­प्र­का­शो­प­पत्तेः’ इत्यु­त्त­र­वा­क्येन जडेऽपि परम्परया अज्ञा­न­वि­ष­य­त्वा­भ्यु­प­ग­म­वि­रो­ध­प्र­स­ङ्गात् - इत्याशयेनाह —
जडा­व­च्छि­न्ने­त्या­दिना ।
शङ्काग्रन्थे ‘तद­प्र­का­शो­प­पत्तेः’ इत्यनेनांशेन जडे ‘अस्ति प्रकाशते प्रियं च’ इत्ये­व­मा­त्म­क­व्य­व­हा­रा­यो­ग्य­त्व­ल­क्ष­ण­मा­व­र­ण­म­भ्यु­प­ग­तम् ।

‘चैत­न्य­स्या­व­र­णा­देव’ इत्यनेनांशेन जडावरणस्य कारणत्वेन चैत­न्या­व­र­ण­म­भ्यु­प­गतं - इति प्रतिपादयति —
अज्ञानेनेति ।

तत इति ।
चैत­न्या­व­र­णा­दि­त्यर्थः ।

चैतन्यस्य स्वप्रकाशतया तस्य यथा सदा प्रस­क्त­प्र­का­शत्वं आवरणकल्पकमस्ति, तथा जडस्यापि सदा चैत­न्य­प्र­का­श­सं­सृ­ष्ट­तया सदा प्रस­क्त­प्र­का­शत्वं आवणकल्पकं तुल्यमिति सूचयति —
नित्य­चै­त­न्य­प्र­का­श­सं­स­र्गेऽ­पीति ।
इतिशब्दः प्रकारवचनः । ननु उक्तरीत्या अव­च्छि­न्न­चै­त­न्य­नि­ष्ठ­म­व­स्था­ज्ञानं जड­त­द­व­च्छि­न्न­चै­त­न्य­यो­रु­भ­यो­र­प्या­वा­र­क­मिति लभ्यते ।

तथा च घटादिज्ञानस्य जड­मा­त्र­वि­ष­य­क­त्व­स्वी­का­रेण तस्य अज्ञानेन सह सर्वांशे समा­न­वि­ष­य­क­त्वा­भा­वात् अज्ञा­न­नि­व­र्त­कत्वं न स्यात्, इत्यत आह —
साक्षादिति ।
ज्ञान­स्या­ज्ञा­न­स­मा­न­वि­ष­य­क­त्व­मात्रं विरो­ध­प्र­यो­ज­क­श­रीरे प्रविष्टं, न तु सर्वांशेऽपि समानविषयकत्वम्, गौरवादिति भावः ।

न चैवमिति ।
ज्ञानाज्ञानयोः सर्वांशे समा­न­वि­ष­य­क­त्वा­ना­दरे इत्यर्थः ।

उक्तरीत्येति ।
अव­च्छि­न्न­चै­त­न्यस्य स्वरूपेण सत्यतया ब्रह्मस्वरूपस्य अव­स्था­ज्ञा­न­वि­ष­य­त्व­वत् मूला­ज्ञा­न­वि­ष­य­त्व­म­प्यस्ति । तथा च अव­स्था­ज्ञा­न­कृ­त­चै­त­न्या­व­र­ण­ब­लात् जडस्यापि परम्परया अव­स्था­ज्ञा­न­वि­ष­यत्वं इत्युक्तरीत्या मूला­ज्ञा­न­कृ­त­चै­त­न्या­व­र­ण­ब­लात् मूला­ज्ञा­न­वि­ष­य­त्व­मपि जडस्य घटादेरपरिहार्यं स्यादित्यर्थः ।

ततः किं तत्राह —
घटादीति ।
यथा अवस्थाज्ञानं प्रति परम्परया विष­य­भू­त­ज­ड­सा­क्षा­त्का­रा­देव अव­च्छि­न्न­चै­त­न्य­नि­ष्ठा­व­स्था­ज्ञा­नस्य निवृत्तिः, तथा मूलाज्ञानं प्रत्यपि परम्परया विष­य­भू­त­ज­ड­सा­क्षा­त्का­रा­देव ब्रह्म­चै­त­न्य­नि­ष्ठ­मू­ला­ज्ञा­न­स्यापि निवृत्त्यापात इत्यर्थः ।

‘मूला­ज्ञा­न­नि­वृ­त्त्या­पातो न च’ इत्यत्र हेतुमाह —
फलबलादित्यादिना ।
घटा­दि­सा­क्षा­त्कारे सत्यपि मूला­ज्ञा­ना­नु­वृ­त्ति­रू­प­फ­ल­ब­ला­दि­त्यर्थः । मूला­ज्ञा­न­त­त्का­र्या­ति­रिक्तो यो मूलाज्ञानविषयः चिन्मात्रं तद्वि­ष­य­क­त्व­स्यैव ज्ञाने मूला­ज्ञा­न­नि­व­र्त­कत्वे तन्त्र­त्व­क­ल्प­नात् घटा­दि­सा­क्षा­त्कारे च तदभावात् न मूला­ज्ञा­न­नि­व­र्त­क­त्वा­प­त्ति­रि­त्यर्थः । ‘जड­मा­त्र­गो­च­र­वृत्त्या कथ­म­व­च्छि­न्न­चै­त­न्या­वा­र­का­ज्ञा­न­नि­वृत्तिः भिन्न­वि­ष­य­त्वात्’ इति शङ्कायां ‘अवस्थाज्ञानं अव­च्छि­न्न­चै­त­न्यस्य, वरणद्वारा जडमप्यावृणोति, अतो जड­मा­त्र­गो­च­र­याऽपि वृत्त्या अव­स्था­ज्ञा­न­नि­वृ­त्ति­स्स­म्भ­वति इति प्रतिपादितम् ।

इदानीं तस्यामेव शङ्कायां प्रकारान्तरेण समाधानं दर्शयति —
अथवेति ।
अथवा अवस्थाज्ञानानां तत्तज्जडमेव विषय इति सम्बन्धः । ‘घटं न जानामि’ इत्या­दि­पू­र्वो­क्ता­नु­भ­वा­दे­वेति भावः ।

तर्ह्य­व­स्था­ज्ञा­ना­ना­मा­श्र­योऽपि ततज्जडमेव स्यात्, तथा­चा­प­सि­द्धान्तः, इत्यत आह —
अव­च्छि­न्न­चै­त­न्या­श्रि­ता­ना­मिति ।

ननु जड­स्या­ज्ञा­न­वि­ष­य­त्वो­प­गमे ‘जडमज्ञानस्य विषयो न भवति’ इति सिद्धान्तस्य क गतिः, अत आह —
मूला­ज्ञा­न­स्यै­वेति ।
जड­स्या­ज्ञा­ना­वि­ष­य­त्व­सि­द्धान्तो मूला­ज्ञा­न­मा­त्र­वि­षय इति भावः ।

अन्यथेति ।
जडस्यानावृतत्वे इत्यर्थः ।

चन्द­न­ख­ण्ड­गो­च­र­चा­क्षु­ष­वृत्त्या तद­व­च्छि­न्न­चै­तन्यं अभिव्यज्यते न वा ? आद्ये दोषमाह —
तत्संसर्गिण इति ।
चन्द­न­नि­ष्ठ­ग­न्ध­स्यापि चन्दनस्येव आप­रो­क्ष्या­पत्तिः, अभि­व्य­क्त­चै­त­न्य­सं­स­र्गि­त्वस्य उभयत्राविशेषात् । जड­स्या­वृ­त­त्व­पक्षे तु नायं दोषः, चाक्षुषवृत्त्या गन्धा­व­र­णा­नि­वृत्तेः, इत्यर्थः ।

द्वितीये दोषमाह —
तद­न­भि­व्य­क्ता­विति ।

अप्र­का­शा­प­त्ते­रिति ।
चन्द­न­गो­च­र­चा­क्षु­ष­वृ­त्ति­काले चन्द­न­त­द्रू­प­प्र­का­शा­भा­वोऽ­निष्ट इति भावः ।

चन्द­न­ख­ण्ड­घ­ट­प­टा­दि­द्र­व्या­णा­मिव एक­द्र­व्य­वृ­त्ति­गु­णा­ना­मपि चैत­न्या­व­च्छे­द­क­त्व­म­स्ती­त्य­भि­प्रे­त्या­श­ङ्कते —
न चेति ।

एकत्र द्रव्ये रूप­र­स­ग­न्धा­दि­भे­देन चैतन्यभेदो नास्ति, मानाभावादित्याह —
चैतन्यस्येति ।
चैतन्यस्य निरवयवतया द्रव्ये द्रव्या­व­च्छे­दे­नैका गुणा­व­च्छे­दे­ना­परा वृत्तिः सम्भवतीत्यर्थः ।

यद्येकत्र द्रव्ये प्रदेशभेदेन गन्धादयःस्युः, तदा तत्र द्रव्ये गन्धादिभेदेन चैत­न्य­भे­द­श­ङ्काऽपि स्यात्, न त्वेतदस्ति, गन्धादीनां व्याप्य­वृ­त्ति­त्वा­नु­भ­वाद् - इत्याशयेनाह —
व्याप्येति ।

गगनेति ।
यथा घटादिद्रव्याणां गगनभेदकत्वमस्ति तथा गन्धादीनां गगनभेदकत्वं नास्ति, गन्धादिभेदेन गग­न­भे­दा­न­नु­भ­वा­दिति भावः ।

गन्धादिभेदेन चैतन्यभेदाभावे सिद्धे चन्द­न­चै­त­न्या­भि­व्य­क्त्य­न­भि­व्य­क्ति­कृतौ पूर्वोक्तदोषौ दुष्प­रि­ह­रा­वि­त्याह —
तेषामिति ।

शुक्तीति ।
यथा शुक्ती­द­मं­शा­व­च्छि­न्न­चै­तन्ये रजतस्याध्यासात् रजतं शुक्ती­द­मं­श­चै­त­न्ये­नै­वा­व­भास्यं न त्विद­मं­शा­व­च्छि­न्न­चै­त­न्या­पे­क्षया पृथग्भूतेन स्वाव­च्छि­न्न­चै­त­न्ये­ना­व­भा­स्यम्, तथा द्रव्या­व­च्छि­न्न­चै­तन्ये कल्पिता रूपादयोऽपि द्रव्या­व­च्छि­न्न­चै­त­न्ये­नैव प्रकाश्या इत्यर्थः ।

ननु चन्दनगन्धस्य अभि­व्य­क्त­चै­त­न्य­प्र­का­श­सं­सृ­ष्ट­स्यापि गन्ध­गो­च­र­वृ­त्त्य­भा­वा­दे­वा­प­रो­क्ष्या­भावः - इति शङ्कामनूद्य निराकरोति —
न च गन्धाकारेति ।

‘नियमो न च’ इत्यत्र हेतुमाह —
प्रका­श­सं­स­र्ग­स्यै­वेति ।
न तु वृत्त्यु­प­हि­ता­ना­वृ­त­प्र­का­श­सं­स­र्गस्य प्रका­श­मा­न­ता­श­ब्दा­र्थत्वं, सुखा­दि­गो­च­र­वृ­त्त्य­नु­प­हि­त­सा­क्षि­प्र­का­श­सं­स­र्गिणि सुखादौ प्रका­श­मा­न­श­ब्दा­र्थ­त्वा­भा­व­प्र­स­ङ्गात् इत्यर्थः ।

गन्धस्य अभि­व्य­क्त­चै­त­न्य­सं­सर्ग एव नास्ती­त्या­श­ङ्क्याह —
अभिव्यक्तस्य चेति ।
चकारस्य असम्भवादित्यनेन सम्बन्धः । उपा­दा­न­प­द­म­धि­ष्ठा­न­प­रम् ।

असम्भवादिति ।
तथा च जड­स्या­ना­वृ­त­त्व­पक्षे चन्द­न­चै­त­न्या­भि­व्य­क्ति­द­शायां गन्ध­स्या­प्या­प­रो­क्ष्या­प­त्ति­र­प­रि­हा­र्येति भावः ।

जड­स्या­वृ­त­त्व­पक्षे तु नोक्त­दो­ष­प्र­स­क्ति­रि­त्याह —
तस्मादिति ।
जडे आवरणस्य सिद्ध­त्वा­दि­त्यर्थः ।

ननु — जड­स्या­वृ­त­त्व­प­क्षेऽपि चन्द­न­गो­च­र­चा­क्षु­वृ­त्त्यैव गन्धावरणस्यापि निवृ­त्ति­स्स्यात्, गुण­गु­णि­नो­स्ता­दा­त्म्यात् । तथा च चन्द­ना­प­रो­क्ष्य­द­शायां तद्ग­न्धा­प­रो­क्ष्य­दो­षोऽ­त्रापि तुल्यः — इति शङ्कां दृष्टान्तेन परिहरति —
यथेति ।
न अन्यं प्रत्या­वा­र­का­ज्ञा­न­स्यापि निवृ­त्तिः-इ­त्ये­व­का­रार्थः ।

तस्यैवेति ।
चैत्रस्यैव घटप्रकाशः नान्यस्य मैत्रा­दे­रि­त्यर्थः ।

तथेति ।
गुण­गु­णि­नो­स्ता­दा­त्म्येऽपि भेदस्यापि सत्त्वात् न चन्द­न­गो­च­र­वृत्त्या गन्धा­दे­रा­प­रो­क्ष्य­प्र­स­क्ति­रि­त्यर्थः ।

ननु चन्द­न­सं­वि­द­भि­न्नस्य गन्धस्य आवृतस्यापि कथं नापरोक्ष्यं इत्याशङ्क्य, अनावृतसुखादावेव संविदभेदस्य आप­रो­क्ष्य­प्र­यो­ज­क­त्व­द­र्श­नात् मैवमित्याह —
अना­वृ­ता­र्थ­स्यै­वेति ।

नन्वेकत्र चन्द­ना­व­च्छि­न्न­चै­तन्ये अवस्थाज्ञानस्य चैत्रं प्रति चन्दनावारकस्य एकत्वात् तस्य च चन्द­न­गो­च­र­वृत्त्या निवृत्तत्वात् चन्दनवृत्तिकाले गन्ध­स्या­व­र­ण­म­युक्तं इत्याशङ्कां निराकरोति —
इति प्रमा­तृ­भे­दे­ने­वेति ।
‘यथा एकत्र विषये चैत्र­मै­त्रा­दि­भे­दे­ना­ज्ञा­न­म­ने­क­मस्ति, तथा एकत्रापि चन्द­ना­व­च्छि­न्न­चै­तन्ये गन्धा­दि­वि­ष­य­भे­दे­ना­प्य­ज्ञा­न­म­ने­क­म­स्तीति वक्तव्यम्, चन्द­ना­प­रो­क्ष्य­द­शायां गन्धा­प­रो­क्ष्या­द­र्श­ना­देव’ इत्ययं हेतुः प्रकृतपरामशिंना इतिपदेन समर्प्यते । तथा च चन्द­ना­प­रो­क्ष्य­काले गन्धा­दे­रा­व­र­ण­स­म्भ­वात् नोक्तदोष इति भावः ।

जड­वि­ष­य­क­त्व­मि­तीति ।
जड­वि­ष­य­क­त्वा­दि­त्यर्थः ।

न काचि­द­नु­प­प­त्ति­रिति ।
‘घटादिवृत्तीनां चैत­न्य­वि­ष­य­क­त्वा­भावे ज्ञानाज्ञानयोः समा­न­वि­ष­य­क­त्व­रूपं विरोधप्रयोजकं न सम्भवति, तासां जड­मा­त्र­गो­च­र­त्वात् अज्ञानस्य च चैत­न्य­मा­त्र­वि­ष­य­क­त्वात्’ इति पूर्वो­क्ता­नु­प­प­त्ति­र्नास्ति । अव­स्था­ज्ञा­न­स्यापि जड­मा­त्र­वि­ष­य­क­त्वा­भ्यु­प­ग­मात् । तथा जड­स्या­व­र­णा­भ्यु­प­गमे अप­सि­द्धा­न्ता­प­त्ति­रू­पा­नु­प­प­त्ति­रपि नास्ति । जडा­व­र­णा­न­भ्यु­प­ग­मस्य मूला­ज्ञा­न­वि­ष­य­त्वात् । तथा तत्त­ज्ज­डा­वा­र­का­ज्ञा­न­ना­ना­त्वा­भ्यु­प­गमे तदे­क­त्व­सि­द्धा­न्त­वि­रो­ध­रू­पा­नु­प­प­त्ति­रपि नास्ति । तदे­क­त्वा­भ्यु­प­ग­म­स्यापि मूला­ज्ञा­न­वि­ष­य­त्वात्, जडा­वा­र­का­ज्ञा­नानां च अवस्थारूपत्वात् — इत्या­दि­क­म­भि­प्रेत्य न काचि­द­नु­प­प­त्ति­रि­त्यु­क्तम् ।

परमप्रकृतमाह —
न वेति ।
घटा­दि­वृ­त्ती­ना­मपि मूला­ज्ञा­न­नि­व­र्त­क­त्वा­पत्तिः — इति यत् पूर्व­वा­दि­न­श्चोद्यं आदौ प्रकृतं तत् नास्त्येव, घटादिवृत्तीनां मूला­ज्ञा­न­वि­ष­य­चै­त­न्य­वि­ष­य­क­त्वा­न­भ्यु­प­ग­मा­दि­त्यर्थः ।

न चैवमपीति ।
घटादिवृत्तीनां चैत­न्य­वि­ष­य­क­त्वा­भा­वेऽपि अहमर्थरूपजीवस्य चिद­चि­त्सं­व­लि­त­रू­प­तया अहं­वृ­त्ते­श्चै­त­न्य­वि­ष­य­क­त्वा­व­श्य­म्भा­वा­दि­त्यर्थः ।

तस्या इति ।
स्वप्रकाशतया स्वयमेव प्रकाशमानायां चिति चित्संवलितः - चित्ता­दा­त्म्ये­ना­ध्यस्तो योऽयमचिदंशः तन्मा­त्र­वि­ष­य­क­त्वा­द­ह­मा­का­र­वृत्तेः न तस्या अपि चैत­न्य­वि­ष­य­क­त्वम्, औप­नि­ष­द­त्व­श्रु­ति­वि­रो­धा­दे­वे­त्यर्थः ।

ननु —‘योऽहं स्वप्ने श्रीकृ­ष्ण­म­न्व­भूवं सोऽहं जागरे तं स्मरामि’ इत्या­दि­प्र­त्य­भि­ज्ञा­या­श्चै­त­न्य­वि­ष­य­क­त्व­मा­व­श्य­कम्, अन्यथा तया चिदा­त्म­नः­स्था­यित्वं संघा­त­व्य­ति­रि­क्तत्वं च न सिद्ध्येत्, इत्यत आह —
सोऽहमिति ।
प्रत्यभिज्ञाऽपि स्वयमेव प्रकाशमाने चैतन्ये ‘अहम्’ इत्य­न्तः­क­र­ण­ता­दा­त्म्य­मिव तत्ता­दि­वै­शि­ष्ट्य­मपि विषयीकरोति, न तु स्वप्र­का­श­चै­त­न्यम् । अस्मिन्मते चिदा­त्म­न­स्स्था­यि­त्वादेः श्रुतिबलादेव सिद्धिः न प्रत्यभिज्ञया इति बोध्यम् । ‘घटा­दि­वृ­त्ती­ना­मपि चैत­न्य­वि­ष­य­क­त्वा­वि­शे­षात् वेदा­न्त­ज­न्य­ज्ञा­न­वत् मूला­ज्ञा­न­नि­व­र्त­क­त्वा­पत्तिः’ इति चोद्ये, हेतो­रे­वा­स­त्त्वा­न्नो­क्ता­ति­प्र­सङ्ग इति समाधानमुक्तम् ।

इदानीं तासां चैत­न्य­वि­ष­य­क­त्वा­भ्यु­प­ग­मेऽपि नोक्तातिप्रसङ्ग इत्याह —
केचित्त्विति ।

अभ्युपगम्येति ।
न च एवमभ्युपगमे चैतन्यस्य चक्षु­रा­दि­वि­ष­य­त्व­नि­षे­ध­श्रु­तीनां बाधः स्यादिति वाच्यम् । तासां निरु­पा­धि­क­चै­त­न्य­वि­ष­य­त्वा­भ्यु­प­ग­मेन अव­च्छि­न्न­चै­त­न्यस्य चक्षु­रा­दि­वृ­त्ति­वि­ष­यत्वे तद्वि­रो­धा­भा­वा­दिति भावः । अत एव ब्रह्मचैतन्यस्य सर्व­प्र­त्य­य­वे­द्य­त्व­प्र­ति­पा­दकं पूर्वो­दा­हृ­त­वा­र्ति­क­व­च­न­मपि सङ्गच्छते । अज्ञा­त­ज्ञा­प­कत्वं हि प्रामाण्यम् । अज्ञातं च वस्तु चैतन्यमेव । तस्यैव स्वप्रकाशतया सदा प्रस­क्त­प्र­का­शस्य अज्ञा­न­वि­ष­य­त्व­क­ल्प­नौ­चि­त्यात् । अव­भा­स­क­चै­त­न्य­स्या­व­रणे सति जडानवभाससम्भवेन तस्य पृथ­गा­व­र­ण­क­ल्प­ना­यो­गात् । अज्ञानस्य चैत­न्या­श्रि­त­त्व­नि­य­मेन तस्य तमस इव स्वाश्र­या­द­न्यत्र आव­र­ण­हे­तु­त्वा­नु­प­प­त्तेश्च । तथा च प्रत्य­क्षा­दी­ना­मपि प्रामा­ण्य­सि­द्धये घटा­द्य­व­च्छि­न्न­चै­त­न्य­वि­ष­य­क­त्व­मेव स्वीकर्तव्यं, न तु जड­मा­त्र­वि­ष­य­क­त्वम् । एवं सर्वेषामेव मानानां फल­श­ब्दि­त­चै­त­न्य­वि­ष­य­क­त्वात् अमृतत्वसाधने ब्रह्मदर्शने सर्वेषां मानानां कारणत्वप्रसक्तौ वेदान्तानामेव अवरोधेच्छया - नियमनेच्छया ‘श्रोतव्यः’ इति वचः ‘वेदान्तानामेव विचारः कर्तव्यः’ इत्यमुमर्थं प्राह — इति वार्तिकार्थः । घटादिवृत्तीनां तु चैत­न्य­वि­ष­य­क­त्वेऽपि वेदा­न्त­ज­न्य­त्वा­भा­वेन श्रोत­व्य­वि­धि­सि­द्ध­नि­य­मा­दृ­ष्ट­सा­हि­त्या­भा­वात् न मूला­ज्ञा­न­नि­व­र्त­क­त्व­प्र­सङ्ग इति भावः ।

अप्रतिबद्धमिति ।
नियमादृष्टेन प्रति­ब­न्ध­क­दु­रि­तस्य क्षीणत्वादिति भावः । ‘तत्त्व­म­स्या­दि­वा­क्योत्थं ज्ञानं मोक्षस्य साधनम्’ इति नार­द­व­च­न­द­र्श­नात्, ‘तत्त्व­म­स्या­दि­वा­क्योत्थं यज्जी­व­प­र­मा­त्मनोः ।

तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥’ [वायवृत्तिः ६] इति भग­व­त्पा­दी­य­व­च­न­द­र्श­नाच्च, मूलाज्ञानस्य जीव­ब्र­ह्मा­भे­दा­वा­र­क­त्वाच्च, जीव­ब्र­ह्म­णो­रै­क्य­ल­क्ष­ण­ता­दा­त्म्य­वि­ष­यकं यत् ज्ञानं इदमेव मुक्तिसाधनम्, अतो नोक्ता­ति­प्र­सङ्गः —
इति समाधानान्तरं दर्शयति —
अन्ये त्विति ।

इतीति ।
वाक्य­ज­न्या­भे­द­ज्ञा­न­मेव अज्ञाननिवर्तकं इति स्थिते तदभेदागोचरात् घटादिज्ञानात् न मूला­ज्ञा­न­नि­वृ­त्ति­प्र­सङ्ग इत्यर्थः ।

न चेति ।
जीवब्रह्माभेदः चैतन्यापेक्षया अतिरिक्तः — इति वक्तुं न शक्यते । तथा सति वेदा­न्त­ता­त्प­र्य­गो­च­र­स्या­भे­दस्य सत्य­त्वा­व­श्यं­भा­वेन चैत­न्य­स्या­द्वि­ती­य­त्व­हा­ना­पत्तेः, वेदा­न्त­ता­त्प­र्य­वि­ष­य­स्या­भे­द­स्या­स­त्यत्वे वेदान्तानां तत्त्वा­वे­द­क­त्व­ल­क्ष­णस्य प्रामाण्यस्य सिद्धा­न्त­स­म्म­तस्य भङ्गापत्तेः इत्यर्थः । अत्र तत्पदं पर­मा­र्थ­व­स्तु­प­रम् ।

न हीति ।
घटादिज्ञाने चैतन्यविषयकेऽपि जीवब्रह्माभेदो न विषयः, महा­वा­क्या­र्थ­ज्ञाने तु तयोरभेदो विषयः, इत्येवं घटा­दि­ज्ञा­ना­पे­क्षया महा­वा­क्य­ज­न्य­ज्ञा­नस्य विषयतो विशेषं न ब्रूमः, येनो­क्त­दो­ष­ता­द­वस्थ्यं स्यादित्यर्थः । ननु — ‘इदं रजतम्’ इतिभ्रमे यावदधिष्ठानांशो भासते तावदपेक्षया अधि­क­शु­क्ति­त्वा­दि­वि­शे­ष­वि­ष­य­कस्य शुक्त्या­दि­ज्ञा­नस्य रज­ता­दि­भ्र­म­वि­रो­धित्वं दृष्टम् ।

तथा च ‘सन् घटः, स्फुरति घटः’ इत्यादिभ्रमेषु यावदधिष्ठानभूतं चैतन्यं विषयः तावदपेक्षया अधि­का­भे­द­वि­ष­य­क­त्वस्य वाक्य­ज­न्य­ज्ञा­नेऽ­न­भ्यु­प­गमे वाक्यो­त्थ­ज्ञा­नस्य भ्रम­नि­व­र्त­क­त्व­मेव न स्यात्, अतो विषयतो विशे­षोऽ­भ्यु­प­ग­न्तव्यः —इति शङ्कते —
किं त्विति ।
भ्रमा­धि­क­वि­ष­या­णा­मेव ज्ञानानां भ्रम­नि­व­र्त­क­त्व­मिति नियमो नास्ति, भ्रमा­ना­धि­क­वि­ष­या­णा­मपि भ्रम­नि­व­र्त­क­त्व­द­र्श­नेन व्यभिचारात् । तथाहि — वस्तुतो घोषाधारभूते गङ्गातीरे यस्य तटा­क­ती­र­त्व­भ्र­मेण ‘तटाकतीरे घोषः’ इति भ्रमोऽस्ति, तं प्रति ‘गङ्गायां घोषः’ इति वाक्यप्रयोगे सति तस्माद्वाक्यात् तस्य पुरुषस्य ‘गङ्गातीरे घोषः’ इति बोधो जायते । तेन च बोधेन तस्य गङ्गातीरे तटाकतीरत्वभ्रमो निवर्तते । न च तत्र भ्रम­वि­ष­य­ग­ङ्गा­ती­रांशे भ्रमापेक्षया वाक्यजन्यबोधे कश्चिद्विशेषो विषयो दृष्टः । न च तत्र वाक्यजन्यज्ञाने तटा­क­ती­र­व्या­व­र्त­कस्य गङ्गा­ती­र­त्व­रू­प­वि­शे­षस्य विषयत्वदर्शनात् विशे­षा­वि­ष­य­क­त्व­म­सि­द्ध­मिति वाच्यम् । यत्र तीर­त्व­मा­त्र­प्र­का­र­क­ता­त्प­र्येण ‘गङ्गायां घोषः’ इति प्रयोगः, तथैव तस्य भ्रान्तस्य तात्प­र्य­ग्र­हश्च, तत्र गङ्गा­ती­र­त्व­प्र­का­र­क­बा­धा­भा­वेऽपि भ्रम­नि­वृ­त्ति­द­र्श­नेन व्यभि­चा­र­ध्रौ­व्यात् । तथा — ‘येन केनचित् कपालेन तुषोपवापः कर्तव्यः’ इति भ्रमवन्तं पुरुषं प्रति कपा­ल­त्व­मा­त्र­प्र­का­र­क­ता­त्प­र्येण प्रयुक्तात् तन्मा­त्र­ता­त्प­र्य­व­त्तया गृहीतात् ‘पुरोडाशकपालेन तुषानुपवपति’ इति वाक्यात् ‘कपालेन तुषोपवापः कर्तव्यः’ इत्येव तस्य पुरुषस्य बोधो जायते । तत्र कपालांशे कपा­ला­न्त­र­व्या­व­र्त­क­वि­शे­षा­ग्र­ह­णेऽपि पुरो­डा­श­क­पा­ला­ति­रि­क्त­क­पा­लेषु तुषो­प­वा­प­सा­ध­न­त्व­भ्र­म­नि­वृ­त्ति­द­र्श­नेन तत्रापि व्यभिचारात् । तस्मात् ‘तीरे घोषः’ इति शाब्दबोधस्य गङ्गा­ती­र­त्व­रू­प­वि­शे­ष­वि­ष­य­क­त्वा­भा­वेऽपि तद्धे­प­दा­र्थो­प­स्थि­ति­काले तीरस्य गङ्गा­स­म्ब­न्धि­त्वे­नो­प­स्थि­त­त्वात् तदु­प­स्थि­ति­म­हिम्ना वस्तुगत्या गङ्गा­ती­र­वि­ष­य­कस्य भ्रमा­न­धि­क­वि­ष­य­स्यापि तस्य भ्रम­नि­व­र्त­क­त्व­मिति वक्तव्यम् । तथा — ‘कपालेन तुषोपवापः कर्तव्यः’ इति शाब्दबोधस्य स्वयं कपा­ला­न्त­र­व्या­व­र्त­क­वि­शे­ष­वि­ष­य­क­त्वा­भा­वेऽपि तादृ­श­शा­ब्द­बो­ध­हे­तु­प­दा­र्थो­प­स्थि­ति­काले कपालस्य पुरो­डा­श­स­म्ब­न्धि­त्वे­नो­प­स्थि­ति­स­त्त्वात् तदु­प­स्थि­ति­म­हिम्ना तस्य भ्रमा­न­धि­क­वि­ष­य­स्यापि भ्रम­नि­व­र्त­क­त्व­मिति वक्तव्यम् । तथा च ज्ञानस्य भ्रमविरोधित्वे साम­ग्री­वि­शे­ष­प्र­यो­ज्यत्वं प्रयोजकं, न तु भ्रमा­धि­क­वि­ष­य­त्वम् । व्यभिचारात् । किं च महा­वा­क्य­ज­न्य­ज्ञा­नस्य संसा­र­मू­ल­भ्र­म­वि­रो­धित्वं श्रुति­स्मृ­ति­वि­द्व­द­नु­भ­वै­स्सिद्धं, महावाक्यानां च चैत­न्य­स्व­रू­प­मा­त्र­बो­ध­कत्वं द्विती­य­प­रि­च्छेदे मुक्ति­सा­ध­न­म­हा­वा­क्य­ज­न्य­ज्ञानं प्रति चैत­न्य­मा­त्र­रू­प­वि­ष­य­नि­या­म­क­श्रु­त्यु­दा­ह­र­णेन अस्मा­भि­स्सा­धि­तम् । प्रपञ्चितं च निबन्धनेष्वेतत् ।

तथा च शुक्ति­र­ज­ता­दि­स्थले भ्रमा­धि­क­वि­ष­य­शु­क्ति­ज्ञा­नादौ भ्रमविरोधिनि भ्रमा­धि­क­वि­ष­य­त्व­स्येव दोषा­भा­वा­दि­घ­टि­त­सा­म­ग्री­वि­शे­षा­धी­न­त्व­स्यापि दृष्टत्वेन अख­ण्डा­र्थ­क­वे­दा­न्ता­नु­सा­रेण पूर्वो­दा­हृ­त­व्य­भि­चा­र­स्थ­ला­नु­रो­धेन च ज्ञानस्य भ्रमविरोधित्वे साम­ग्री­वि­शे­षा­धी­न­त्व­मे­वा­नु­गतं प्रयोजकं कल्पयितुं युक्तं, न तु भ्रमा­धि­क­वि­ष­यत्वं —इत्यभिप्रेत्य महा­वा­क्या­र्थ­ज्ञा­नस्य भ्रमा­न­धि­क­वि­ष­य­स्यापि भ्रमनिवर्तकत्वं सम्भवतीति समाधत्ते —
तत्त्वमिति ।
तत्त्वं­प­द­यो­र्वा­च्या­र्थ­भूतौ जीवेश्वरावेव धर्मिद्वयम् । तस्य तत्त्वंपदाभ्यां प्रथमं शक्त्या स्मृतिरूपः परामर्शः, तदनन्तरं तत्त्वं­प­द­सा­मा­ना­धि­क­र­ण्य­ब­लात् ‘जीव ईश्वराभिन्नः’ इति तयो­र्वि­शे­ष­ण­वि­शे­ष्य­भा­वे­ना­व­गतिः, तदनन्तरं च ‘विशि­ष्ट­यो­रैक्यं न सम्भवति’ इति विरोधप्रतीतिः, तदनन्तरं च तत्त्वंपदाभ्यां वाच्या­र्थ­रू­प­वि­शि­ष्टा­न्त­र्ग­त­यो­र्वि­शे­ष्य­चै­त­न्यां­श­यो­र­भे­द­यो­ग्ययोः लक्षणया प्रतीतिः, ततश्च विशे­ष्य­द्व­या­भे­द­गो­च­र­शा­ब्द­बोधः — इति क्रममभिप्रेत्य आदिपदम् । वाक्य­ज­न्य­ज्ञा­नस्य स्वविषयचैतन्येन सह यः स्वरू­प­स­म्ब­न्ध­वि­शेषः साम­ग्री­वि­शे­षा­धी­न­त्व­प्र­युक्तः, तेन सम्बन्धेन यत् चैतन्यगोचरत्वं घट­ज्ञा­ना­दि­व्या­वृत्तं तदेव तस्या­भे­द­ज्ञा­नत्वं, तद्बलादेव तस्य मूला­ज्ञा­न­मि­थ्या­ज्ञा­ना­दि­वि­रो­धित्वं इत्यर्थः ।

महा­वा­क्य­ज­न्य­ज्ञा­नस्य घटा­दि­ज्ञा­ना­पे­क्षया चैतन्यांशे विषयतो विशेषाभावेऽपि साम­ग्री­वि­शे­षा­देव घटा­दि­ज्ञा­ना­पे­क्षया अभे­द­ज्ञा­न­त्व­रूपे वैलक्षण्ये दृष्टान्तमाह —
यथा हीति ।

विशि­ष्ट­ज्ञा­न­स्येति ।
‘दण्डी पुरुषः’ इति ज्ञान­स्ये­त्यर्थः । विशे­ष­ण­वि­शे­ष्य­यो­र­सं­स­र्गा­ग्रह आदिपदार्थः ।

समूहालम्बनेति ।
‘दण्ड­पु­रु­ष­सं­योगाः’ इति ज्ञानेत्यर्थः । तदुक्तं चिन्तामणिकृता —‘कारणकृतः’ इति । विशिष्टज्ञानस्य समू­हा­ल­म्ब­ना­पे­क्षया विशे­ष­ण­ज्ञा­ना­दि­रू­प­का­र­ण­कृतो विशेष इति तदर्थः ।

स्थाणुत्वेति ।
‘स्थाणु­त्व­त­द्वि­रु­द्ध­पु­रु­ष­त्व­वान्’ इति निश्चयः संशयसमानविषयको य आहा­र्य­वृ­त्ति­रूपः तद्व्या­वृ­त्त­मि­त्यर्थः । विशे­ष­द­र्श­न­द­शा­या­म­ना­हा­र्य­नि­श्च­या­स­म्भ­वात् — आहा­र्ये­त्यु­क्तम् ।

विषयत इति ।
विशिष्टज्ञाने ‘स्थाणुः पुरुषो वा’ इति संशये च इति शेषः । न केवलं तत्त्व­म­सि­वा­क्य­ज­न्य­ज्ञा­न­स्या­भे­द­ज्ञा­नत्वे इयं रीतिः ।

‘सोऽयं घटः’ ‘सोऽयं देवदत्तः’ इत्या­दि­वा­क्य­ज­न्य­ज्ञा­न­स्यापि केव­ल­घ­ट­श­ब्द­दे­व­द­त्त­श­ब्दा­दि­ज­न्य­ज्ञा­न­व्या­वृ­त्ता­भे­द­ज्ञा­न­त्वेऽपि इयं रीति­र­नु­स­र्त­व्ये­त्याह —
तथा घटादावपीति ।

अतिरिक्तेति ।
केव­ल­घ­ट­श­ब्द­दे­व­द­त्त­श­ब्दा­दि­ज­न्य­ज्ञा­न­वि­ष­य­घ­टा­दि­स्व­रू­पा­पे­क्षया ‘सोऽयम्’ इति वाक्य­ग­म्या­भे­द­स्या­ति­रि­क्तत्वे मानाभावात् । तथा च विषयतो विशेषासम्भवात् ‘सोऽयं घटः’ इत्यादावपि ‘तत्त्वमसि’ इत्यत्रेव ‘सोऽयम्’ इति पद­द्व­य­वा­च्या­र्थ­रू­प­ध­र्मि­द्व­य­प­रा­म­र्शा­दि­रू­प­का­र­ण­वि­शे­षा­धी­न­स्व­रू­प­स­म्ब­न्ध­वि­शे­षेण घटा­दि­स्व­रू­प­वि­ष­य­क­त्व­मेव घटा­द्य­भे­द­ज्ञा­नत्वं नान्यदिति वक्तव्यमिति भावः । ननु - केव­ल­घ­ट­श­ब्दा­दि­ज­न्य­ज्ञा­न­स्यापि विषयेण स्वरूपसम्बन्ध एव, तथा च कथं स्वरू­प­स­म्ब­न्ध­कृता अभे­द­ज्ञा­न­त्वा­दि­व्य­वस्था । न च वृत्तिज्ञानानां विषयैस्सह विष­य­वि­ष­यि­भा­व­प्र­यो­ज­क­स्व­रू­प­स­म्ब­न्धानां अविशेषेऽपि तेष्वेव विष­य­त­ज्ज्ञा­न­स्व­रू­पा­त्म­क­स­म्ब­न्धेषु साम­ग्री­वि­शे­षा­धी­न­त्व­प्र­यु­क्त­प­र­स्प­र­वै­ल­क्ष­ण्य­क­ल्प­नया व्यवस्थोपपादनं कर्तुं शक्यत इति वाच्यम् ।

स्वरू­प­स­म्ब­न्धेषु वैलक्षण्यस्य क्वाप्य­दृ­ष्ट­त्वेन तथा­क­ल्प­ना­नु­प­पत्तेः, इत्यत आह —
अभा­व­सा­दृ­श्या­दी­ना­मिति ।
ननु — वृत्तीनां विषयैस्सह विषयविषयिभावः स्वरू­प­स­म्ब­न्ध­कृत एव न भवति, किं तु संयोगादिकृतः ।

तथा च तासां तैस्सह स्वरू­प­स­म्ब­न्धा­ना­मे­वा­सि­द्ध­त्वात् तेषु वैल­क्ष­ण्या­त्म­क­वि­शे­ष­क­ल्पना दूरापास्ता, इत्यत आह —
संयोगेति ।
वृत्तिसंयोगस्य वृत्ति­वि­ष­य­त्व­प्र­यो­ज­कत्वे चक्षु­र्गो­ल­का­दे­रपि घटा­दि­वृ­त्ति­सं­यो­गि­त्वेन तद्वि­ष­य­त्व­प्र­स­ङ्गात्, वृत्ति­ता­दा­त्म्यस्य वृत्ति­वि­ष­य­त्व­प्र­यो­ज­कत्वे वृत्त्य­धि­ष्ठा­न­तया वृत्ति­ता­दा­त्म्या­प­न्नस्य घटा­द्य­व­च्छि­न्न­चै­त­न्यस्य घटा­दि­वृ­त्ति­वि­ष­य­त्व­स­म्भ­वेऽपि घटा­दे­र्वृ­त्ति­ता­दा­म्य­हि­तस्य तद­वि­ष­य­त्व­प्र­स­ङ्गात्, तद्वृ­त्ति­प­रि­णा­म्य­न्तः­क­र­णस्य घटा­दि­वृ­त्ति­वि­ष­य­त्व­प्र­स­ङ्गाच्च, परि­णा­म­प­रि­णा­मि­नो­स्ता­दा­म्यात् — इत्यर्थः ।

ननु तत्त्व­म­स्या­दि­वा­क्य­ज­न्य­ज्ञा­नस्य विषयेण सह यस्स्व­रू­प­स­म्बन्धः चैत­न्य­त­द्गो­च­र­ज्ञा­नो­भ­य­स्व­रू­पा­त्मकः तत्र साम­ग्री­वि­शे­ष­ब­ला­दपि विष­य­स्व­रू­पा­त्मके सम्बन्धे विशेषो निरूपयितुं न शक्यत इति, अत आह —
विष­य­वि­शे­ष­नि­रू­प­णा­स­म्भव इति ।
विषये निर्वि­शे­ष­चै­त­न्या­त्मके विशे­षा­धा­ना­स­म्भ­वेऽपि स्वरू­प­स­म्ब­न्धा­न्त­र्ग­त­तया कॢप्त एव ज्ञान­स्व­रू­पा­त्मके सम्बन्धे साम­ग्री­वि­शे­ष­व­ला­द्वि­शे­षा­धा­न­स­म्भ­वात् नोक्तदोष इति भावः । यद्वा वृत्तीनां विषयेऽपि संयो­ग­ता­दा­त्म्य­यो­र­ति­प्र­सक्त्या विष­य­वि­शे­ष­नि­रू­प­णा­सं­भवे विष­यै­र्वि­ष­य­वि­ष­यि­भा­व­रू­प­स्व­रू­प­स­म्ब­न्ध­व­ती­ना­मिति सम्बन्धः । अभा­व­सा­दृ­श्या­दी­ना­म­धि­क­र­णा­दा­विव वृत्तीनामपि विषये संयो­ग­ता­दा­त्म्य­यो­र­ति­प्र­स­क्त­त्वेन ताभ्यां वृत्तीः प्रति विष­य­वि­शे­ष­नि­य­म­ना­स­म्भवे सति परिशेषात् विष­य­वि­ष­यि­भा­व­प्र­यो­ज­क­स्व­रू­प­स­म्ब­न्ध­व­ती­ना­मि­त्यर्थः । रूपपदं नियामकपरम् । विषयविषयिभावस्य स्वरू­प­स­म्ब­न्ध­नि­य­म्य­त्वेन तयोरभेदस्य रूपशब्दार्थस्य अयोगात् ।

ननु — संयो­ग­ता­दा­त्म्य­यो­र्वि­ष­य­वि­शे­ष­नि­या­म­क­त्वा­भा­वेऽपि वृत्तीनां विषये स्वरू­प­स­म्ब­न्ध­वत्त्वं परिशेषात् न सिद्ध्यति, स्वरू­प­स­म्ब­न्धा­ति­रि­क्तस्य सम्बन्धान्तरस्य कल्पनोपपत्तेः, इत्यत आह —
कॢप्त एवेति ।
स्वरू­प­स­म्ब­न्धस्य वृत्त्या­दि­स्व­रू­प­तया तस्य कॢप्तत्वात् कॢप्त एव स्वरूपसम्बन्धे विशेषकल्पनायां लाघवं, सम्बन्धान्तरं कल्पयित्वा तस्मिन् सम्बन्धान्तरे अभे­द­ज्ञा­न­त्वा­दि­नि­र्वा­ह­क­वि­शे­ष­क­ल्प­नायां गौरवं, अतो वृत्तीनां विषयैस्सह स्वरू­प­स­म्ब­न्ध­व­त्त्व­मे­वेति भावः ।

ननु ‘तत्त्व­म­स्या­दि­वा­क्यात् जीवस्य ब्रह्मा­भे­द­ज्ञा­नो­प­गमे तदभेदस्यैव संसर्गविधया भानात् वेदान्तानां संस­र्गा­गो­च­र­प्र­मि­ति­ज­न­क­त्व­रू­पा­ख­ण्डा­र्थ­त्वा­भ्यु­प­ग­म­हानिः’ इत्येतच्चोद्यं निरवकाशमित्याह —
एवं चेति ।
महा­वा­क्य­ज­न्य­ज्ञा­न­ग­ता­भे­द­ज्ञा­न­त्वस्य अन्य­थो­प­पा­दि­त­त्वेन अभे­द­सं­स­र्ग­भा­ना­न­पे­क्षायां सत्यामित्यर्थः ।

हानिरपीति ।
घटादिवृत्तीनां मूला­ज्ञा­न­नि­व­र्त­क­त्वा­प­त्ति­र्नास्ति, अख­ण्डा­र्थ­त्व­हा­निश्च नास्ती­त्य­पि­श­ब्दार्थः ।