अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

शुद्धब्रह्मजीवेश्वराणां मतभेदेन जगदुपादानत्वनिरूपणम्

पृच्छति —
अथेति ।
ननु वाक्या­र्थ­भू­त­शु­द्ध­ब्र­ह्मण एव श्रुतौ लक्षणमुक्तम् । ‘तद्वि­जि­ज्ञा­सस्व’ इति वाक्यशेषे लक्षणीयस्य ब्रह्मणो जिज्ञा­स्य­त्वा­भि­धा­नात् । तथा च निश्चितेऽर्थे प्रश्ना­नु­प­प­त्ति­रिति चेत्, न — यथा शुद्धस्य जिज्ञास्यत्वं एवं तत्त्वं­प­दा­र्थ­भू­तयोः जीवेश्वरयोरपि शुद्ध­ब्र­ह्म­प्र­ति­प­त्ति­हे­तु­त्वेन जिज्ञा­स्य­त्व­मस्ति, तथा तयोरपि वक्ष्यमाणरीत्या अभि­न्न­नि­मि­त्तो­पा­दा­नत्वं च सम्भवति, इति जिज्ञा­स्य­त्व­का­र­ण­त्वयोः साधारणत्वेन प्रश्नोपपत्तेः इति भावः । ‘जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा । अवि­द्या­त­च्चि­तो­र्योगः षडस्माकमनादयः ॥’ इति संप्र­दा­य­वि­द्व­चने चैत­न्य­त्रै­वि­ध्य­स्यैव प्रसिद्धत्वात् तदनुसारेण त्रेधा प्रश्नः । सामान्यज्ञानस्य विशे­ष­बु­भु­त्सा­हे­तु­त्वात् ब्रह्मणः सामा­न्य­रू­पे­णो­पा­दा­न­त्व­ज्ञा­ना­न­न्तर्यं अथशब्दार्थः । प्रश्नो वा तदर्थः । ईश्वररूपं जीवरूपं वा ब्रह्म नोपादानं इत्येवकारार्थः । ‘जन्माद्यस्य यतः’ [ब्र.सू.१-१-२] इति सूत्रम् । जन्म आदिरस्येति बहुव्रीहिः । जन्म­स्थि­ति­भ­ङ्ग­म­न्य­प­दार्थः । जन्मादीति नपुंसकैकवचनेन अन्यपदार्थे समा­हा­र­द्व­न्द्व­सू­च­नात् । अन्य­प­दा­र्थ­भू­त­ज­न्म­स्थि­ति­भ­ङ्गेषु इत­रे­त­र­यो­ग­द्व­न्द्वा­श्र­यणे तु जन्मादयः इति सूत्रापत्तेः । जन्मन आदित्वं च जायमानपदार्थेषु स्थिति­भ­ङ्गा­व­पेक्ष्य दृष्टमिति सूत्रे जन्मनः प्राथ­म्य­रू­पा­दि­त्व­नि­र्देशः । ‘अस्य’ इति सर्वनाम्ना सूत्रकर्तुः बुद्धि­स्थ­स­क­ल­प्र­प­ञ्च­नि­र्देशः । षष्ठ्या च जगतो जन्मादेश्च सम्बन्धनिर्देशः । यत इति कारणनिर्देशः । सूत्रे तत्पदाध्याहारः । पूर्वसूत्रात् ब्रह्म­प­दा­नु­षङ्गः । तथा च यतः कारणात् अस्य - जगतो जन्मादि तत् ब्रह्मेति सूत्रार्थः ।

ज्ञेयब्रह्मेति ।
वाक्या­र्थ­भू­त­शु­द्ध­ब्र­ह्मण एव प्राधान्येन लक्षणीयत्वात् तस्यैव जन्मादिसूत्रे लक्षणमुच्यते, ‘अथातो ब्रह्मजिज्ञासा’ [ब्र.सू.१-१-१] इति पूर्वसूत्रे शास्त्र­वि­ष­य­स­म­र्प­केण ब्रह्मपदेन शुद्धब्रह्मण एवोपात्तत्वेन तस्यैव लक्ष­णा­का­ङ्क्ष­णाच्च, इति भावः । ननु, ‘आत्मन आकाशस्सम्भूतः’ । [तै.उ.२-१-१] ‘सोऽकामयत’ [तै.उ.२-६] ‘यस्स­र्व­ज्ञ­स्स­र्व­वित्’ [मु.उ.१-१-९] इत्या­दि­का­र­ण­वा­क्येषु ईश्व­र­रू­प­ब्र­ह्मणः कारणत्वमुच्यते, न शुद्धस्य । तस्य काम­यि­तृ­त्व­स­र्व­ज्ञा­न­क­र्तृ­त्वा­द्य­नु­प­पत्तेः ।

अत­स्त­द्वा­क्य­ग­ता­त्म­प­द­त­त्प­द­स­र्व­ज्ञा­दि­प­दानां शबलवाचित्वात् न कार­ण­वा­क्ये­भ्य­श्शु­द्ध­स्यो­पा­दा­न­त्व­सि­द्धि­रिति, नेत्याह —
तथाचेति ।
जन्मा­दि­सू­त्र­त­द्भा­ष्ययोः स्वारस्येन शुद्ध­स्यो­पा­दा­न­त्वा­व­गमे सतीत्यर्थः । लक्षणैव । स्वीक्रियते [इति शेषः] । अतः कारणवाक्येभ्यः शुद्धस्य कार­ण­त्वा­व­ग­ति­र्यु­क्तेति भावः ।

अथ ‘शुद्धं ब्रह्मोपादानम्’ इत्यादिप्रश्ने द्विती­य­प­क्ष­मा­दाय प्रति­व­च­न­मु­त्था­प­यति —
विवरणेति ।
यस्य - प्रकृतस्य भूतयोनेः पूर्व­म­न्त्रो­पात्तं तपः ज्ञानमयं - स्वरू­प­ज्ञा­न­वि­कारः, माया­वृ­त्ति­प्र­ति­बि­म्ब­रू­प­मिति यावत् । तस्मात् - सर्वज्ञात् भूतयोनेः सकाशात् एतत् - सन्निहितं अपरकालीनम्, कार्यरूपमिति यावत् । ब्रह्म - हिरण्यगर्भाख्यं जायते । इति श्रुतेः ईश्वररूपमेव ब्रह्मो­पा­दा­न­मिति सम्बन्धः । न शुद्धं जीवरूपं वा इत्येवकारार्थः । सर्व­ज्ञ­त्वा­दी­त्या­दि­प­देन सर्व­वि­त्त्व­का­म­यि­तृ­त्व­स­र्वे­श्व­र­त्वा­दीनि गृह्यन्ते । मायो­पा­धि­नि­रू­पि­त­बि­म्ब­त्व­वि­शिष्टं सर्व­ज्ञ­त्वा­दि­गु­ण­युक्तं च यदीश्वररूपं ब्रह्मचैतन्यं तदे­वो­पा­दा­न­मि­त्यर्थः । ‘अथ शुद्धं ब्रह्मो­पा­दा­न­मि­ष्यते’ इति प्रश्नस्य प्रतिवचनावसरे ‘ईश्वररूपमेव ब्रह्मोपादानं’ इत्येतावति वक्तव्ये तस्य माया­श­ब­ल­त्व­वि­शे­षणं ईश्वरोऽपि शुद्ध­चै­त­न्य­मे­वेति भ्रान्ति­रा­सा­र्थम् । तस्य सर्व­ज्ञ­त्वा­द्य­ने­क­वि­शे­ष­णो­पा­दानं ईश्वररूपब्रह्मण उपादानत्वे ‘यस्सर्वज्ञः’ इत्यादि कारणवाक्यानां सर्वेषां ऐक­क­ण्ठ्य­प्र­द­र्श­ना­र्थ­मिति मन्तव्यम् ।

जीव­शु­द्ध­ब्र­ह्म­व्या­वृ­त्ते­श्व­र­रू­प­ब्र­ह्मण उपादानत्वे भाष्यसम्मतिमाह —
अत एवेति ।
ईश्वररूपब्रह्मण एवो­पा­दा­न­त्वा­भ्यु­प­ग­मा­दे­वे­त्यर्थः । इत्या­दि­श्र­त्युक्तं सर्वो­पा­दा­न­त्व­प्र­युक्तं सर्वात्मकत्वं ईश्व­र­लि­ङ्ग­मि­त्यु­प­व­र्णितं भाष्ये इति सम्बन्धः । यस्य सर्वोपादानत्वं तस्य सर्वात्मकत्वम्, उपा­दा­नो­पा­दे­य­यो­स्ता­दा­त्म्यात्, नान्यस्य इत्यविवादम् । यदि प्रति­बि­म्ब­त्व­वि­शि­ष्ट­चै­त­न्य­रूपे जीवे बिम्ब­त्व­वि­शि­ष्ट­चै­त­न्य­रूप ईश्वरे च विशेष्यतया अनु­स्यू­त­शु­द्ध­चै­त­न्य­रू­प­ब्र­ह्मणः सर्वो­पा­दा­न­त्व­मि­ष्यते, तदा तस्यैव सर्वात्मकत्वं स्यात् न ईश्वरस्येति सार्वात्म्यस्य भाष्ये जीव­व्या­वृ­त्ते­श्व­र­लि­ङ्ग­त्वो­प­न्यासो न स्यात् । न च विशे­ष्य­भू­त­शु­द्ध­ब्र­ह्म­गतं सर्वात्मकत्वं बिम्ब­त्व­वि­शि­ष्ट­चै­त­न्य­रू­पे­श्व­र­लि­ङ्ग­तया भाष्ये वर्णितमिति वाच्यम् । तथासति तस्य जीव­व्या­वृ­त्तत्वं न स्यात्, विशेष्यधर्मस्य सर्वात्मकत्वस्य ईश्वरधर्मत्ववत् जीव­ध­र्म­त्व­स्यापि सत्त्वात्, इत्याशयेनाह - जीवे­श्व­रा­नु­स्यू­तेति [पृ. ५२] । छान्दोग्ये श्रूयते — ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः हिरण्यकेशः आप्रणखात् सर्व एव सुवर्णः’ [छा.उ.१-६-६] इत्युपक्रम्य ‘तस्य ऋक्च साम च गेष्णौ’ [छा.उ. १-६-८] इत्युक्त्वा उत्तरत्र ‘य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैव ऋक् तत् साम तदुक्तं तद्यजुः तद्ब्रह्म’ [छा.उ.१-७-५] इति चोक्त्वा ‘तद्य इमे वीणायां गायन्ति एतं ते गायन्ति’ [छा.उ. १-७-६] इति । अस्यार्थः - आदित्ये अन्तः यः पुरुषः शास्त्रतो दृश्यते, एष हिर­ण्म­यः-ज्यो­ति­र्मयः, स्वप्र­का­श­चै­त­न्य­स्व­रूपः इत्यर्थः ।

तस्योपासनार्थं शरीरमाह —
हिर­ण्य­श्म­श्रु­रि­त्या­दिना ।
हिर­ण्य­सु­व­र्ण­शब्दौ ज्योतिःपरौ । प्रणखो नखाग्रम् । आङ् अभिव्याप्तौ । तस्य - हिरण्मयपुरुषस्य ऋक्सामनी गेष्णौ - परिमलोक्तरीत्या स्तुतिसाधनीभूते इत्यर्थः । इदं ऋक्सामगेष्णत्वं सम­स्त­ऋ­क्सा­म­स्तु­त्य­त्व­रूपं हिर­ण्म­य­पु­रु­ष­वि­शे­ष­णम् । तस्य वेदे ऋक्सा­म­स्तु­त्य­तया प्रसि­द्धे­न्द्रा­द्या­त्म­क­त्व­मा­दाय पर्यवस्यति । हिरण्मयपुरुषस्य इन्द्रा­दि­भ्य­स्स­का­शात् भिन्नत्वे तु तद्विशेषणं न सिध्यति । अन्य­स्तु­ते­र­न्य­वि­ष­य­क­त्वा­यो­गात् ।

तस्यैव पुरुषस्य आदित्यस्थानवत् उपासनार्थं स्थानान्तरमाह —
य एषोऽ­न्त­र­क्षि­णीति ।
सैव ऋगित्यादौ विधेयापेक्षया लिङ्गव्यत्यासः । स एव ऋक् । सः - पुरुषः । स साम । स उक्थम् । स यजुः । स ब्रह्म-वेदः । ब्रह्मपदं ऋगा­द्य­ति­रि­क्त­वे­द­प­रम् । तथा च गेष्णवाक्येन सर्व­दे­वा­त्म­क­त्व­मु­क्तम् । ‘सैव ऋक्….’ इति वाक्येन सर्व­वे­दा­त्म­क­त्व­मु­क्तम् । तथा — ये इमे — प्रसिद्धाः गायकाः वीणायां लौकिकपुरुषं गायन्ति तेऽपि एतं - प्रकृतं हिरण्मयपुरुषं गायन्ति इत्युक्त्या इन्द्रा­द्या­त्म­क­त्व­वत् लौकि­क­पु­रु­षा­त्म­क­त्व­मपि सिद्ध्यति । तथा च सर्व­दे­वा­त्म­क­त्व­स­र्व­वे­दा­त्म­क­त्व­स­र्व­लौ­कि­क­पु­रु­षा­त्म­क­त्वानि मिलित्वा सर्वात्मकत्वे पर्यवस्यन्ति । तिर्य­गा­त्म­क­त्व­स्या­प्यु­क्त­प्रा­य­त्वात् । एवं स्थिते संशयः — आदित्ये अक्षिणि चान्तः श्रूयमाणो हिरण्मयपुरुषः मण्ड­ला­भि­मा­नि­दे­व­ता­वि­शेषो वा, नित्य­सि­द्ध­प­र­मे­श्वरो वेति । तत्र देवताविशेष एव हिरण्मयपुरुषः । तस्य संसारित्वेन हिर­ण्य­श्म­श्रु­त्वा­दि­रू­प­व­त्त्वो­प­पत्तेः, सर्वा­त्म­क­त्व­स्या­प्यु­पा­स­नार्थं तत्रा­रो­पो­प­प­त्तेश्च । न परमेश्वरः तस्य शरीरासम्भवादिति प्राप्तम् । एवं प्राप्ते ब्रूमः — ‘अन्त­स्त­द्ध­र्मो­प­दे­शात् [ब्र.सूं.१-१-२०] इति । आदि­त्या­दा­व­न्त­र­व­स्थितो हिरण्मयपुरुषो नित्य­सि­द्ध­प­र­मे­श्वर एव । कुतः ? तद्धर्मस्य सर्वात्मकत्वस्य ‘सैव ऋक् तत्साम’ इत्या­दा­वु­प­दे­शात् । सर्वात्मकत्वं हि ईश्वरस्यैव धर्मः । तस्य सर्वोपादानत्वेन सर्वा­त्म­क­त्वो­प­पत्तेः । न च मुख्यसम्भवे सति आरोपकल्पना न्याय्या । परमेश्वरस्यापि साध­का­नु­ग्र­हार्थं इच्छावशात् माया­ग­त­शु­द्ध­स­त्त्वां­श­प­रि­णा­म­रू­प­श­री­र­स­म्भ­वात्, ‘उमासहायं परमेश्वरं प्रभुम्’ [कै.उ.७] इत्यादिश्रुतिषु ‘जन्म कर्म च मे दिव्यम्’ [भ.गी ४-९] इत्यादिस्मृतिषु च प्रसि­द्ध­त्वाच्च, इति निर्णयः । ‘सर्वं खल्विदं ब्रह्म’ [छा.उ.३-१४-१] इति प्रकृत्य ‘स क्रतुं कुर्वीत’ [छा.उ. ३-१४-१] इति वाक्येन क्रतु­श­ब्द­वा­च्य­मु­पा­सनं विधाय उपा­स्या­का­ङ्क्षायां पठ्यते - ‘मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्व­मि­द­म­भ्या­त्तोऽ­वा­क्य­ना­दरः, एष म आत्माऽ­न्त­र्हृ­दये’ [छा.उ.३-१४-२,३] इति । अयमर्थः — मनोमयः - मनःप्रधानः । प्राणः शरीरमस्येति प्राणशरीरः । भाः - चैतन्यं रूपमस्येति भारूपः । सत्याः - अप्रतिहताः सङ्कल्पाः सृष्ट्या­दि­गो­चराः अस्य । आकाशवत् आत्मा - व्याप­क­त्व­नि­र्ले­प­त्व­सू­क्ष्म­त्वा­दि­युक्तं स्वरूपं अस्य । सर्वाणि कर्माणि - क्रियन्त इति व्युत्पत्त्या कार्याणि अस्य । यद्वा भूत­गु­ण­ग­न्ध­र­सा­दि­स­न्नि­धा­नात् कर्मपदं परिस्पन्दपरम् । सर्वे परिस्पन्दा अस्येत्यर्थः । सर्वे कामाः - इच्छारूपाः सुखविशेषरूपा वा अस्य । सर्वे गन्धाः पुण्यरूपा अस्य । ‘पुण्यो गन्धः पृथिव्यां च’ [भ.गी.७-९] इति स्मृतेः । सर्वे रसा अस्य । इदं - दृश्यं सर्वं अभि- आभिमुख्येन - तादात्म्येन आत्तः - व्याप्तः । वागेव वाकः, वाकः अस्यास्तीति वाकी, न वाकी अवाकी - वागि­न्द्रि­य­शून्य इति यावत् । वाग्ग्रहणं कर्मे­न्द्रि­याणां मुख्यप्राणस्य च उपलक्षणम् । क्रिया­श­क्ति­म­त्त्वा­वि­शे­षात् । आदरः-कामः, सोऽस्य नास्तीत्यनादरः । आदरनिषेधेन तत्परिणामि मनो निषिद्धं भवति । मनोनिषेधेन च ज्ञाने­न्द्रि­याणां निषेधस्सिद्धो भवति । ज्ञान­श­क्ति­म­त्वा­वि­शे­षात् । अत्र परि­स्प­न्दे­च्छा­ग­न्ध­र­स­वत्त्वं तदाश्रयैः वायु­मा­नः­पृ­थि­वी­जलैः भूतविशेषैः तादात्म्यं विना न सम्भवतीति सर्व­क­र्म­त्वा­दि­व­च­नेन, अविशेषेण सर्व­ता­दा­त्म्य­प्र­ति­पा­दक ‘सर्व­मि­द­म­भ्यात्तः’ इति वचनेन च, मनो­म­य­त्वा­दि­गु­ण­कस्य सर्वात्मकत्वं प्रतीयते । तच्च ब्रह्मण एवोपपद्यते । तस्य सर्वोपादानत्वेन सर्वा­त्म­क­त्वो­प­पत्तेः । न जीवो मनो­म­य­त्वा­दि­गु­णकः । तस्य सार्वा­त्म्या­स­म्भ­वात् । न च मनो­म­य­त्व­प्रा­ण­श­री­र­त्वयोः जीवधर्मयोः ब्रह्मण्यसम्भव इति ब्रह्मै­वो­पा­स्य­त्वे­नेह निर्दिश्यते । कुतः ? सर्वत्र - वेदान्तेषु प्रसिद्धस्य ब्रह्मणः ‘सर्वं खल्विदं ब्रह्म’ इति पूर्ववाक्ये स्वश­ब्दे­नै­वो­प­दे­शात्, अस्मिन्नपि वाक्ये प्राणः शरी­र­म­स्ये­त्या­दि­वि­ग्र­ह­वा­क्येषु प्रकृ­त­ब्र­ह्मा­क­र्ष­क­स­र्व­ना­म­श्रु­तीनां सत्त्वाच्च ब्रह्मैव सगु­ण­मु­पा­स्य­म­त्रेति सिद्धम् ।

सर्वोपादानत्वे त्विति ।
शुद्ध­ब्र­ह्म­व­ज्जी­वस्य सर्वो­पा­दा­न­त्वो­प­ग­मेऽपि सर्वात्मकत्वं जीव­व्या­वृ­त्त­मी­श्व­र­लिङ्गं न स्यादिति तुशब्दार्थः ।

ननु सङ्क्षेपशारीरके मायाशबलस्य उपादानत्वं निरस्तमिति तद्विरोध इति, अत आह —
सङ्क्षेपशारीरक इति ।
मायाया अपि बिम्ब­भू­ते­श्व­र­वि­शे­ष­ण­तया उपा­दा­न­त्वा­श्र­य­कोटौ निवेश एव तत्र दूषितः, न तु बिम्ब­त्व­वि­शि­ष्ट­चै­त­न्य­रू­पे­श्व­रस्य तन्निरस्तं, इति न तद्विरोध इत्यर्थः । ननु — शब­ल­स्यो­पा­दा­नत्वं निराकृत्य जगदुपादानत्वस्य ज्ञेय­ब्र­ह्म­ल­क्ष­ण­त्व­स­म­र्थ­न­प­रस्य सङ्क्षे­प­शा­री­र­क­ग्र­न्थस्य कथमेवमभिप्रायः कल्पयितुं शक्यते ? स्वरसतस्तस्य बिम्ब­प्र­ति­बि­म्बा­नु­ग­त­शु­द्ध­ब्र­ह्मो­पा­दा­न­त्व­प्र­ति­पा­द­न­प­र­त्वा­व­ग­मा­दिति, नेत्याह — तत्रैवेति । सङ्क्षेपशारीरक एवेत्यर्थः । न च - तत्प­दा­र्थ­वृ­त्तित्वं तत्प­द­ल­क्ष्या­र्थ­वृ­त्तित्वं विवक्षितं, लक्ष्यार्थश्च शुद्धं ब्रह्म, इति न सङ्क्षे­प­शा­री­र­क­ग्र­न्थस्य पूर्वापरविरोधः, न वा तेन बिम्ब­भू­ते­श्व­रस्य उपादानत्वलाभः - इति वाच्यम् । लक्ष्या­र्थ­त्वस्य वाक्या­र्थ­सा­धा­र­ण­तया तत्प­दा­र्थ­वृ­त्ति­त्व­वि­शे­ष­ण­वै­य­र्थ्या­पत्तेः । अत­स्त­त्प­दा­र्थ­वृ­त्तित्वं तत्प­द­वा­च्या­र्थ­वृ­त्ति­त्व­मेव वक्तव्यमिति तदविरोधाय सर्व­ज्ञ­त्वा­दि­गु­ण­के­श्व­र­स्य­ज­ग­त्का­र­ण­त्व­प्र­ति­पा­द­क­ब­हु­श्रु­त्य­वि­रो­धाय च शब­लो­पा­दा­न­त्व­नि­रा­क­रणं माया­वि­शि­ष्टो­पा­दा­न­त्व­नि­रा­क­र­ण­रू­प­मेव वक्तव्यमिति न सङ्क्षे­प­शा­री­र­क­वि­रोध इति भावः ।

तर्हि जन्मा­दि­सू­त्र­त­द्भा­ष्ययोः ज्ञेय­ब्र­ह्म­ल­क्ष­ण­त्वो­क्ति­वि­रोध इति, नेत्याह —
एवं चेति ।
अभि­न्न­नि­मि­त्तो­पा­दा­न­त्व­रू­प­ल­क्ष­णस्य अन्त­स्त­द्ध­र्मा­द्य­धि­क­र­ण­भा­ष्य­प­र्या­लो­च­नया बिम्ब­भू­ते­श्व­र­ग­तत्वे सिद्धे सतीत्यर्थः । अपिशब्दः चैतन्यमित्यनेन सम्बध्यते । कार­ण­त्व­मि­त्य­न­न्तरं ईश्व­र­मि­त­र­व्या­वृ­त्त­तया बोधयत् सत् इति शेषः ।

तदनुगतमिति ।
बिम्ब­त्व­वि­शि­ष्ट­चै­त­न्य­रू­पे­श्व­रा­नु­ग­त­मि­त्यर्थः ।

अखण्डचैतन्यमिति ।
विशे­ष्य­भू­त­शु­द्ध­चै­त­न्य­मि­त्यर्थः । तटस्थत्वं च लक्ष्य­स्व­रू­प­ब­हि­र्भू­तत्वं वा, लक्ष्या­वृ­त्ति­ध­र्मत्वं वा, उपलक्षणत्वं वा बोध्यम् । ‘क्व चन्द्रः’ इति प्रश्ने ‘शाखायाम्’ इत्युत्तरं भवति । तत्र यथा शाखा दिग­न्त­र­ग­त­न­क्ष­त्र­व्या­वृत्तं चन्द्र­मु­प­ल­क्ष­यति, तथा ईश्वरगतं कारणत्वं ईश्व­र­मि­त­र­व्या­वृ­त्त­तया बोधयत् सत् तटस्थतया ईश्व­रा­नु­ग­त­म­ख­ण्ड­चै­त­न्य­मपि इतरव्यावृत्ततया उपलक्षयितुं शक्नो­त्ये­वे­त्यर्थः । ईश्व­र­ग­ते­ना­भि­न्न­नि­मि­त्तो­पा­दा­न­त्वेन बिम्ब­त्व­वि­शि­ष्ट­चै­त­न्य­रू­पे­श्व­रस्य जग­दु­पा­दा­न­त्व­स­म्भ­व­शू­न्यात् जीवात् तत्क­र्तृ­त्व­स­म्भ­व­र­हि­तात् प्रधानादेश्च सका­शा­द्व्या­वृत्तौ गम्यमानायां सत्यां विशे­ष्य­भू­त­ज्ञे­य­ब्र­ह्म­णोऽपि प्रधा­ना­दि­व्या­वृ­त्ति­र्ग­म्यत इत्यभिप्रेत्य तस्य ज्ञेय­ब्र­ह्म­ल­क्ष­णत्वं जन्मा­दि­सू­त्र­त­द्भा­ष्य­यो­स्स­ङ्क्षे­प­शा­री­रके चोक्तमिति भावः । एवं तटस्थलक्षणेन प्रधा­ना­दि­व्या­वृ­त्त­त्वे­ना­व­गतं ब्रह्म कीदृ­क्स्व­रू­प­मिति विशे­ष­जि­ज्ञा­सायां सत्य­ज्ञा­ना­न­न्दा­त्मकं ब्रह्मेति स्वरूपलक्षणं प्रवर्तते । अने­नै­वा­भि­प्रा­येण भाष्य­का­रै­रु­क्तम् - ‘तस्य च निर्णयवाक्यं ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते’ [तै.उ.३-६] इति’ । ‘यतो वा’ इत्यादिवाक्येन यस्मात् कारणात् इमानि भूतानि जायन्ते इति यदुक्तं तत् वस्तु­त­स्स­त्य­ज्ञा­ना­न­न्त­स्व­रू­पा­दा­न­न्दा­देव नान्यस्मात् कारणात् इत्येतत् हि - प्रसिद्धं पूर्व­व­ल्ल्या­मिति श्रुत्यर्थः । अनेन स्वरूपलक्षणेन बिम्ब­भू­ते­श्व­रा­नु­गतं तत्पदलक्ष्यं वस्तुतो वाक्यार्थभूतं ज्ञेयं ब्रह्म विशेषतो निर्धारितं भवति । इयं च स्वरू­प­ल­क्ष­ण­वि­वक्षा मूले अखण्डपदेन सूचिता । जग­त्प्र­कृ­ति­भू­त­मा­या­प्र­ति­बिम्ब ईश्वरः, माया चेश्वराश्रिता । न च - प्रति­बि­म्ब­त्वस्य माया­क­ल्पि­त­त्वात् तद्वि­शि­ष्ट­चै­त­न्या­श्रि­तत्वं मायाया न सम्भवति, प्रति­बि­म्ब­त्व­क­ल्प­ना­त्प्रा­गेव तस्या­श्चै­त­न्या­श्रि­त­त्वस्य वक्तव्यत्वात् - इति वाच्यम् । प्रति­बि­म्ब­त्व­स्या­प्य­ना­दि­त्वेन तस्या­स्त­द्वि­शि­ष्ट­चै­त­न्या­श्रि­त­त्वो­प­पत्तेः । वस्तुतो निर्वि­शे­ष­चै­तन्ये अनादिकालमारभ्य कल्पि­त­प्र­ति­बि­म्ब­त्व­स्थि­ते­र­नि­र्व­च­नी­य­मा­या­धी­न­त्व­मा­त्रेण प्रति­बि­म्ब­त्वस्य तत्कल्पितत्वम्; न तु प्रति­बि­म्ब­त्वस्य वियदादेरिव माया­प­रि­णा­म­त्व­मु­पे­यते । तथा सति प्रति­बि­म्ब­भू­ते­श्व­रस्य सादि­त्व­प्र­स­ङ्गात् । न च - माया अनादिकालमारभ्य चैतन्ये प्रतिबिम्बत्वं घटयति, तद्विशिष्टमेव च चैतन्यमाश्रयते, इति कथं सम्भावयितुं शक्यम् - इति वाच्यम् । मायाया अघ­टि­त­घ­ट­ना­प­टी­य­स्त्वात् । न च शुद्ध­चै­त­न्या­श्रि­तैव माया तत्र प्रतिबिम्बभावं घटयतीति कुतो नाश्रीयत इति वाच्यम् । ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ [श्वे.उ.४-१०] इति श्रुतिविरोधात्, ‘मायिनम्’ इतिपदेन मायाया ईश्व­रा­श्रि­त­त्व­प्र­तीतेः । जीवा­स्त्व­वि­द्या­प्र­ति­बिम्बाः । ‘जीवेशावाभासेन करोति’ [नृ.उ.९-३] इति श्रुतेः । प्रकृता मूलप्रकृतिः जीवेशौ प्रतिबिम्बरूपौ करोतीत्यर्थः । न ह्युपाधिभेदं विना प्रति­बि­म्ब­भे­द­स्स­म्भ­वति । न चैकस्मिन्नपि दर्पणे अने­क­प्र­ति­बि­म्ब­द­र्श­नात् प्रतिबिम्बभेद उपा­धि­भे­द­व्याप्यो न भवतीति वाच्यम् । एकस्मिन् दर्पणे बिम्बभेदेन प्रति­बि­म्ब­भे­देऽपि सूर्या­दि­बि­म्बै­क्य­स्थले उपाधिभेदं विना प्रति­बि­म्ब­भे­दा­द­र्श­नात् । बिम्ब­भू­त­चै­त­न्यस्य चैकत्वात् । तस्मात् ईश्व­रो­पा­धि­मा­या­पे­क्षया भिन्ना एव जीवोपाधिभूता अविद्याः स्वीकर्तव्याः । न च - मूलप्रकृतिं प्रकृत्य प्रवृत्तायां ‘जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति’ [नृ.उ.९.३.] इतिश्रुतौ जीवे­श­रू­प­प्र­ति­बि­म्बा­धा­र­यो­र्मा­या­वि­द्ययोः ‘स्वयमेव’ इत्यनेन प्रकृ­त­मू­ल­प्र­कृ­त्या­त्म­क­त्व­प्र­ति­पा­दनं माया­वि­द्य­यो­र्भे­द­पक्षे विरुध्यते - इति वाच्यम् । मायाया विय­दा­दि­प्र­कृ­ति­त्वत् अविद्याया अपि लिङ्ग­श­री­रा­दि­प्र­कृ­ति­त्वस्य वक्ष्यमाणत्वेन मायाविद्ये प्रकृ­ति­त्वे­नै­की­कृत्य स्वय­मे­वे­त्ये­क­प्र­कृ­त्या­त्म­क­त्व­प्र­ति­पा­द­न­स्या­वि­रो­धात् । ‘अविद्या च’ इत्येकवचनस्यापि जात्य­भि­प्रा­य­त्वो­प­पत्तेः न तन्ना­ना­त्व­वि­रो­धोऽपि । बिम्बैक्यस्थले उपाधिभेदं विना प्रति­बि­म्ब­भे­दा­स­म्भ­वस्य दर्शितत्वात् । प्रति­बि­म्ब­जी­वानां च नानात्वात् । अदृ­श्य­त्वा­धि­क­र­ण­भा­ष्येऽपि ‘अव्या­कृ­त­मी­श्व­रा­श्रयं तस्यै­वो­पा­धि­भू­तम्’ इति मायाया ईश्व­रो­पा­धि­त्व­त­दा­श्र­य­त्व­यो­रु­क्त­त्वात् । तथा आनु­मा­नि­का­धि­क­र­ण­भाष्ये ‘मुक्तानां च न पुनरुत्पत्तिः, तस्या अवि­द्या­बी­ज­शक्तेः विद्यया दाहात्’ इत्यत्र जीवनानात्वस्य तदु­पा­धि­भू­ता­वि­द्या­ना­ना­त्वस्य च स्पष्ट­म­भि­हि­त­त्वात् । भामतीनिबन्धने तद्भाष्यस्य जीवो­पा­धि­भू­ता­वि­द्यै­क्य­नि­रा­क­र­ण­प­र­त­यैव व्याख्या­त­त्वाच्च । ‘आभास एव च’ इति [ब्र.सू.२-३-५०] सूत्र­त­द्भा­ष्ययोः जीवानां प्रति­बि­म्ब­त्व­रू­प­तायाः स्पष्ट­म­भि­हि­त­त्वाच्च ।

तथा च मायाविद्याभेदः श्रुत्यादिसम्मत इति ‘ये मन्यन्ते तेषां मतमुपन्यस्यति —
वियदादिप्रपञ्च इत्यादिना ।
पूर्वमते ईश्वररूपं ब्रह्मो­पा­दा­न­मि­त्यु­क्तम् । तत् सत्यमेव, परं तु क्वचिज्जगति जीव­स्या­प्यु­पा­दा­न­त्व­म­भ्यु­प­ग­न्त­व्यम् - इत्य­भि­प्रा­ये­णास्य मतस्य प्रवृ­त्ति­र्बोध्या ।
ईश्व­रा­श्रि­त­मा­या­प­रि­णाम इति ।
‘मायां तु प्रकृतिं विद्यात्’ इति श्रुतेरिति भावः ।

तत्रेति ।
वियदादावीश्वर एव उपादानमित्यर्थः ।

अन्तःकरणादौ तुश­ब्द­सू­चि­त­वि­शेषं दर्शयति —
ईश्वरेति ।
भूतै­रु­प­ष्ट­म्भ­क­ल­क्ष­णै­स्सं­सृ­ष्टत्वं भूतोपसृष्टत्वम् । तच्च जीवा­वि­द्या­कृ­तानां भूतसूक्ष्माणां विशेषणम् । भूतानां सूक्ष्मत्वं परिच्छिन्नत्वम् ।

अत एवेति ।
अन्तःकरणादौ जीवा­वि­द्या­प­रि­णा­म­सू­क्ष्म­भू­तानां तदुपष्टम्भकतया माया­प­रि­णा­म­म­हा­भू­तानां च उपादानतया प्रवि­ष्ट­त्वा­दे­वे­त्यर्थः । यथा गङ्गाद्या नद्यः समुद्रं प्राप्यास्तं गच्छन्ति, एवमेव अस्य-विदुषः परितः-सर्वत्र आत्मानं पूर्णं पश्यतः कलाः - लिङ्ग­श­री­रै­क­दे­श­भूताः पुरुषायणाः - पुरुषः-चिदात्मा अयनं-अधिष्ठानं यासां ताः पुरुषायणाः पुरुषं प्राप्य अस्तं गच्छन्ति - पुरुषे लीयन्ते इत्यर्थः ।

दर्शित इति ।
पुरुषे इति शेषः । प्रतिष्ठा इति द्विती­या­ब­हु­व­च­नम् । माया­प­रि­णा­मा­त्म­क­म­हा­भू­ता­नीति द्विती­या­ब­हु­व­च­नार्थः । पञ्चदश कलाः प्रतिष्ठाः प्रति गताः-तासु लीना इति यावत् ।

तदनिवर्त्येति ।
ईश्व­रो­पा­धि­भू­त­मा­याया जीव­ग­त­वि­द्या­नि­व­र्त्य­त्वा­भा­वा­दिति भावः । यदि कलानां जीवा­वि­द्या­मा­त्र­प­रि­णा­मत्वं, तदा तासामशेषतः पुरुष एव लयः स्यात्, तथा चा तासां भूतेषु लयप्रतिपादकवचनं निर्विषयं स्यात्, अतो माया­का­र्य­म­हा­भू­ता­ना­मपि लिङ्ग­श­री­रो­पा­दा­नत्वं वाच्यमिति तत्र उभयोरुपादानत्वे श्रुति­द्व­य­व्य­व­स्था­सि­द्धि­रेव फलमित्यर्थः । न च माया­या­स्त­त्त्व­ज्ञा­न­नि­व­र्त्य­त्वा­भावे मिथ्या­त्व­सि­द्धिर्न स्यादिति वाच्यम् । ब्रह्मणि सर्व­दृ­श्य­नि­षे­ध­श्रु­ति­ब­लात् दृश्य­त्वा­दि­लि­ङ्गैश्च तन्मि­थ्या­त्व­सिद्धेः । न च मायाया विद्यया निवृत्त्यभावे निव­र्त­का­न्त­रा­भा­वात् सर्वमुक्तावपि तद­नु­वृ­त्ति­प्र­सङ्ग इति वाच्यम् । महाप्रलयकाले सर्व­प्रा­णि­भो­ग­प्र­द­क­र्मणां युगपदुपरमे सति ईश्व­र­स­ङ्क­ल्प­मा­त्रा­देव सर्व­प्र­प­ञ्च­ल­य­वत् सर्वमुक्तिकाले ‘इतः परं सकार्याया मायायाः प्रयोजनं नास्ति’ इत्यनुसन्धानवत ईश्वरस्य सत्यसङ्कल्पस्य ‘माया स्वकार्यैस्सह मयि वस्तु­त­श्चि­दे­क­रसे निश्शेषं लयं यातु’ इत्येवंरूपादेव माया­प­रि­णा­म­ल­क्ष­ण­स­ङ्क­ल्पात् तल्लयोपपत्तेः । श्रुति­स्मृ­ति­पु­रा­णा­दिषु तत्त्वज्ञानात् माया­नि­वृ­त्ति­प्र­ति­पा­द­क­ग्र­न्थ­जा­त­म­वि­द्या­नि­वृ­त्त्य­भि­प्रा­यम् । यद्वा तत्त्व­ज्ञा­न­मात्रं अविद्याया इव मायाया निवर्तनयोग्यमपि नाना­प्रा­णि­क­र्म­प्र­ति­ब­न्धात् न तस्या निवर्तकं, चरमं मुच्यमानस्यैव तु तत्त्वज्ञानं प्रति­ब­न्ध­का­भा­वा­त्त­न्नि­व­र्तकं, इत्यादि कल्पनीयमिति सङ्क्षेपः ।

अन्तः­क­र­णा­दा­वु­भ­यो­रु­पा­दा­न­त्व­म­सि­द्धम्, श्रुति­द्व­य­व्य­व­स्थाया भाष्य­का­रै­रे­वा­न्य­था­प्र­ति­पा­दि­त­त्वात् - इति मतान्तरं दर्शयति —
यथा वियदादीति ।
तत्त्वविदो दृष्टिः - तत्त्व­सा­क्षा­त्कारः । अत्र दृष्टिपदेन तत्फलभूतः कलाक्षयो विवक्षितः, तद्विषया पुरुषे कलाप्रलयश्रुतिः इत्यर्थः । भूतेषु कलाप्रलयवचनं तु कलानामपि माया­प­रि­णा­म­म­हा­भू­त­का­र्य­त्व­भ्र­म­वतां भ्रान्ति­सि­द्धा­र्था­नु­वा­द­क­मिति भावः । चूर्णी­भा­व­प­र्यन्तो घटनाशो यथा भूमौ दृश्यते तद्वन्मन्यन्ते इत्यक्षरार्थः ।

प्रतीतिविषयेति ।
प्रतीतिरत्र भ्रान्तिरूपा । तद्वि­ष­य­वि­ष­य­के­त्यर्थः ।

स्पष्टत्वादिति
‘तानि परे तथा ह्याह’ [ब्र.सू.४-२-१५] इति तदधिकरणसूत्रम् । तानि-मनआदीनि परे-पुरुषे निरवशेषं लीयन्ते, तथा हि श्रुतिराह - ‘एक्मेवास्य’ इत्यादिश्रुतिः निरवशेषं लयमाह हि इति सूत्रार्थः ।

अन्तःकरणादीनां माया­का­र्य­त्वा­भावे ईश्व­र­स्या­न्तः­क­र­णा­द्यु­पा­दा­न­त्व­प्र­ति­पा­द­क­श्रु­ति­वि­रोध इति दोषं सूचयति —
एकदेशिन इति ।
मायैवाविद्या ।

सा चेश्व­र­स्यै­वो­पाधिः, जीवानां तु प्रति­बि­म्ब­रू­पाणां अन्तः­क­र­णा­न्ये­वो­पा­धयः, इति मायाऽ­वि­द्य­यो­र­भे­द­वा­दि­नोऽपि केचित् अन्तःकरणादौ जीव­स्यै­वो­पा­दा­नत्वं तद्भेदवादिन इव वदन्तीत्याह —
तद­भे­द­वा­दि­ष्व­पीति ।
अपिशब्दः क्वचिदंशे पूर्व­म­त­सा­म्या­र्थकः । तच्च तत्साम्यं तथापीत्यादिना स्पष्टं भविष्यति ।

ननु विय­दा­दि­प्र­प­ञ्चेऽपि जीव एवोपादानं किं न स्यादित्यत आह —
यद्यपीति ।
ईश्व­रा­श्रि­त­मा­या­प­रि­णा­म­त्वात् ईश्वर एव वियदादावुपादानं न जीव इत्यर्थः ।

ननु मायाऽ­वि­द्य­यो­र­भे­दो­प­गमे अवि­द्या­प­रि­णा­मान्तः कर­णा­दी­ना­म­पी­श्व­रा­श्रि­त­मा­या­प­रि­णा­म­त्वा­वि­शे­षात् ईश्वर एवा­न्तः­क­र­णा­दा­व­प्यु­पा­दा­न­मिति वक्तुमुचितमिति, नेत्याह —
तथापीत्यादिना ।

जीवेति ।
‘अहं कर्ता, अहं प्राणिमि, अहं काणः, अहं मूकः, अहं स्थूलः’ इत्यादिप्रकारेण अन्तःकरणादीनां शरीरान्तानां जीवतादात्म्यं प्रतीयते, तच्च तेषां जीवेऽध्यस्तत्वं विना न सम्भवतीति जीवस्यैव तद­धि­ष्ठा­न­त्व­रू­प­मु­पा­दा­नत्वं नेश्व­र­स्ये­त्यर्थः ।

प्रति­क­र्म­व्य­व­स्थेति ।
ब्रह्मणः स्वरूपचैतन्येन सर्वदा सर्वा­व­भा­स­क­त्व­रूपे सर्वज्ञत्वे उक्ते ‘तर्हि जीवस्यापि स्वरू­प­चै­त­न्ये­नैव सर्वदा सर्व­द्र­ष्टृ­त्वम्’ इति दोषप्रसक्तौ जीवं प्रति विष­य­व्य­व­स्था­प्र­ति­पा­द­क­ग्रन्थे इत्यर्थः ।

ब्रह्मेति ।
बिम्ब­चै­त­न्य­रू­प­ब्र­ह्मणः सर्वोपादानतया घटा­दि­ता­दा­त्म्य­रूपः संसर्गः कॢप्तः इत्यर्थः । अविद्याया व्यापकत्वेन तत्प्र­ति­बि­म्ब­रू­प­जी­वस्य व्यापकत्वेऽपि न घटादिभिस्तस्य तादात्म्यम्, उपा­दा­न­त्वा­भा­वात्, अन्तः­क­र­णा­दि­भिस्तु जीवस्य तादात्म्यलक्षणः संसर्गोऽस्ति, इति प्रतिपादितं विवरणे इत्यर्थः । अनेन जीव­स्या­न्तः­क­र­णा­दा­वु­पा­दा­न­त्व­मुक्तं भवति, अन्यथा घटा­दि­भि­रि­वा­न्तः­क­र­णा­दि­भि­र­प्यु­क्त­स­ङ्गित्वं जीवस्य न स्यात् उपा­दा­न­त्वा­भा­वा­वि­शे­षात्, इति भावः । अत्र अन्तः­क­र­णा­दि­प­रि­णा­म्यु­पा­दा­न­भू­ताया अविद्याया ईश्व­रा­श्रि­त­मा­यया सहाभेदाङ्गीकारे ईश्व­र­स्यै­वा­न्तः­क­र­णा­दा­वु­पा­दा­नत्वं वक्तुमुचितम् । यदि जीव­ता­दा­त्म्य­प्र­ति­प­त्त्या­दि­भि­रु­क्त­हे­तुभिः जीव­स्यै­वा­न्तः­क­र­णा­दा­वु­पा­दा­नत्वं वक्तव्यं, तदा अन्तः­क­र­णा­दि­प­रि­णा­मि­भू­ता­वि­द्याया जीवश्रितत्वं ईश्व­रा­श्रि­त­मा­या­या­स्स­का­शात् भिन्नत्वं च वक्तव्यम् । कार्यात्मना परि­ण­म­मा­न­प्र­कृ­त्या­श्र­य­त्वा­ति­रि­क्तस्य चैत­न्य­ग­तो­पा­दा­न­त्वस्य अभावात् । अतो मायाऽ­वि­द्य­यो­र­भे­दा­ङ्गी­कारः जीव­स्यै­वा­न्तः­क­र­णा­दा­वु­पा­दा­न­त्वा­ङ्गी­का­रश्च परस्परविरुद्धः — इत्यस्वरसः ‘तद­भे­द­वा­दि­ष्वपि’ इति ‘अपि’ शब्देन सूचितः ।

ईश्व­र­स्या­न्तः­क­र­णा­दा­व­प्यु­पा­दा­न­त्व­मु­पे­त्यापि तस्य कार्यमात्रे उपादानत्वं नास्तीति विशेषं वक्तुं मतान्तरमवतारयति —
एतस्मादिति ।
प्रकृ­ता­दी­श्व­रा­दि­त्यर्थः । प्रकृतित्वं पञ्चम्यर्थः । जीवस्त्विति तुशब्दः अवधारणार्थः । ‘स्वाप्न­प्र­प­ञ्चस्य’ इत्यनन्तरं ‘उपादानम्’ इत्यनुषङ्गः । किं कृत्स्नं ब्रह्म जगदाकारेण परिणमते, एकदेशेन वा ।

नाद्य इत्याह —
तस्येति ।
यथा दध्याकारेण परिणतस्य क्षीरस्य पूर्वरूपात् प्रच्युतिः, एवं ब्रह्मणोऽपि स्वरूपात् प्रच्युतिः स्यादित्यर्थः ।

ब्रह्मण एकदेशः परिणमते इति द्वितीयकल्पं दूषयति —
एकदेशेनेति ।

पूर्वपक्षे इति ।
उभयथाऽपि ब्रह्मण उपादानत्वं न सम्भवतीति पूर्वपक्षे प्राप्ते सतीत्यर्थः । यदि ब्रह्मण उपादानत्वं क्षीर­पृ­थि­व्या­दि­वत् परि­णा­मि­त्व­रू­प­म­भ्यु­प­ग­म्येत, तदा कृत्स्न­प्र­स­क्त्या­दि­दोषः प्रसज्येत । न तु तथा अभ्युपगम्यते । किं तु रज्ज्वादेः सर्पा­द्यु­पा­दा­न­त्व­वत् विव­र्तो­पा­दा­नत्वं ब्रह्मण उपेयते ।

अतो नोक्तदोषावकाश इति सिद्धान्तयति —
आत्मनि चेति ।
एकश्चकारो यथा­श­ब्द­स­मा­ना­र्थकः । द्वितीयश्चकारः तथा­श­ब्द­स­मा­ना­र्थकः । हिशब्दो हेत्वर्थः । ततश्च यथा आत्मनि जीवे स्वप्नद्रष्टरि विचित्रा रथादिसृष्टयो जीव­चै­त­न्य­स्व­रू­पो­प­मर्दं विनैव भवन्ति, स्वप्ना­व­स्था­नि­वृ­त्त्य­न­न्त­र­मपि बुद्ध्या­दि­सा­क्षि­तया जीवचैतन्यस्य यथा­पू­र्व­म­व­स्था­नात्, एवं ब्रह्मणि तत्स्व­रू­प­प्र­च्युतिं विनैव विचित्रा वियदादिसृष्टयः सम्भवन्ति, सृष्टि­स्थि­ति­सं­हा­रेषु सच्चि­दा­न­न्द­स्व­रू­पेण ब्रह्मा­नु­वृत्तेः श्रुति­सि­द्ध­त्वात्, इति सूत्रार्थः । ‘अथ शुद्धं ब्रह्मोपादानम्’ इत्यादिप्रश्ने तृतीयपक्षमादाय प्रति­व­च­न­म­व­ता­र­यति —

जीव इति ।
परि­पू­र्ण­श्चि­दात्मा अविद्यया अव­च्छे­द­प्र­ति­बि­म्ब­भावौ विनाऽपि प्राप्तजीवभावः सन् आत्मानमेव सर्वेश्वरं कल्पयति । प्राप्ते­श्व­र­भा­वात् स्वस्मादेव गगनादिसृष्टिं कल्पयति । स्वस्य स्वक­ल्पि­ता­दी­श्व­रात् भेदं तन्नियम्यत्वं च कल्पयति । तथा क्रमेण मनुष्यादिभावं कल्पयति । यथा वियदादिप्रपञ्चो व्यावहारिकसत्यः स्वप्नप्रपञ्चः प्रातिभासिकः इति पक्षे स्वप्नद्रष्टा जीव एव देव­ति­र्य­ङ्म­नु­ष्या­दि­भा­वेन तन्नि­य­न्तृ­प­र­मे­श्व­र­रू­पेण ततो भिन्न­त्वा­दि­रू­पेण चात्मानं कल्पयति, तद्वत् । तथा च स्वस्मिन्नेव सर्व­प्र­प­ञ्च­क­ल्प­क­त्वात् जीवभावापन्नं ब्रह्म सर्वोपादानमिति दृष्टि­सृ­ष्टि­वा­दिन आहुरित्यर्थः ।

जीव­भा­वा­प­न्न­ब्र­ह्मणः सर्वो­पा­दा­न­त्व­मि­त्य­स्मिन् पक्षे जीवा­द­धि­क­स्ये­श्व­रस्य अभावात् ईश्वरस्य सर्व­जी­व­नि­य­न्तृ­त्व­प्र­ति­पा­द­क­श्रु­ति­स्मृ­ति­न्या­य­सू­त्र­भा­ष्या­दि­वि­रोधो बन्ध­मो­क्ष­व्य­व­स्था­नु­प­प­त्तिश्च -इति दोषं सूचयति —
इत्यपि केचिदिति ।
तथा च जीवेऽ­ति­व्या­प्त्य­भा­वात् ईश्वररूपमेव ब्रह्म सर्वोपादानमिति स्थितम् ॥