कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
शुद्धब्रह्मजीवेश्वराणां मतभेदेन जगदुपादानत्वनिरूपणम्
पृच्छति —
अथेति ।
ननु वाक्यार्थभूतशुद्धब्रह्मण एव श्रुतौ लक्षणमुक्तम् । ‘तद्विजिज्ञासस्व’ इति वाक्यशेषे लक्षणीयस्य ब्रह्मणो जिज्ञास्यत्वाभिधानात् । तथा च निश्चितेऽर्थे प्रश्नानुपपत्तिरिति चेत्, न — यथा शुद्धस्य जिज्ञास्यत्वं एवं तत्त्वंपदार्थभूतयोः जीवेश्वरयोरपि शुद्धब्रह्मप्रतिपत्तिहेतुत्वेन जिज्ञास्यत्वमस्ति, तथा तयोरपि वक्ष्यमाणरीत्या अभिन्ननिमित्तोपादानत्वं च सम्भवति, इति जिज्ञास्यत्वकारणत्वयोः साधारणत्वेन प्रश्नोपपत्तेः इति भावः । ‘जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा । अविद्यातच्चितोर्योगः षडस्माकमनादयः ॥’ इति संप्रदायविद्वचने चैतन्यत्रैविध्यस्यैव प्रसिद्धत्वात् तदनुसारेण त्रेधा प्रश्नः । सामान्यज्ञानस्य विशेषबुभुत्साहेतुत्वात् ब्रह्मणः सामान्यरूपेणोपादानत्वज्ञानानन्तर्यं अथशब्दार्थः । प्रश्नो वा तदर्थः । ईश्वररूपं जीवरूपं वा ब्रह्म नोपादानं इत्येवकारार्थः । ‘जन्माद्यस्य यतः’ [ब्र.सू.१-१-२] इति सूत्रम् । जन्म आदिरस्येति बहुव्रीहिः । जन्मस्थितिभङ्गमन्यपदार्थः । जन्मादीति नपुंसकैकवचनेन अन्यपदार्थे समाहारद्वन्द्वसूचनात् । अन्यपदार्थभूतजन्मस्थितिभङ्गेषु इतरेतरयोगद्वन्द्वाश्रयणे तु जन्मादयः इति सूत्रापत्तेः । जन्मन आदित्वं च जायमानपदार्थेषु स्थितिभङ्गावपेक्ष्य दृष्टमिति सूत्रे जन्मनः प्राथम्यरूपादित्वनिर्देशः । ‘अस्य’ इति सर्वनाम्ना सूत्रकर्तुः बुद्धिस्थसकलप्रपञ्चनिर्देशः । षष्ठ्या च जगतो जन्मादेश्च सम्बन्धनिर्देशः । यत इति कारणनिर्देशः । सूत्रे तत्पदाध्याहारः । पूर्वसूत्रात् ब्रह्मपदानुषङ्गः । तथा च यतः कारणात् अस्य - जगतो जन्मादि तत् ब्रह्मेति सूत्रार्थः ।
ज्ञेयब्रह्मेति ।
वाक्यार्थभूतशुद्धब्रह्मण एव प्राधान्येन लक्षणीयत्वात् तस्यैव जन्मादिसूत्रे लक्षणमुच्यते, ‘अथातो ब्रह्मजिज्ञासा’ [ब्र.सू.१-१-१] इति पूर्वसूत्रे शास्त्रविषयसमर्पकेण ब्रह्मपदेन शुद्धब्रह्मण एवोपात्तत्वेन तस्यैव लक्षणाकाङ्क्षणाच्च, इति भावः । ननु, ‘आत्मन आकाशस्सम्भूतः’ । [तै.उ.२-१-१] ‘सोऽकामयत’ [तै.उ.२-६] ‘यस्सर्वज्ञस्सर्ववित्’ [मु.उ.१-१-९] इत्यादिकारणवाक्येषु ईश्वररूपब्रह्मणः कारणत्वमुच्यते, न शुद्धस्य । तस्य कामयितृत्वसर्वज्ञानकर्तृत्वाद्यनुपपत्तेः ।
अतस्तद्वाक्यगतात्मपदतत्पदसर्वज्ञादिपदानां शबलवाचित्वात् न कारणवाक्येभ्यश्शुद्धस्योपादानत्वसिद्धिरिति, नेत्याह —
तथाचेति ।
जन्मादिसूत्रतद्भाष्ययोः स्वारस्येन शुद्धस्योपादानत्वावगमे सतीत्यर्थः । लक्षणैव । स्वीक्रियते [इति शेषः] । अतः कारणवाक्येभ्यः शुद्धस्य कारणत्वावगतिर्युक्तेति भावः ।
अथ ‘शुद्धं ब्रह्मोपादानम्’ इत्यादिप्रश्ने द्वितीयपक्षमादाय प्रतिवचनमुत्थापयति —
विवरणेति ।
यस्य - प्रकृतस्य भूतयोनेः पूर्वमन्त्रोपात्तं तपः ज्ञानमयं - स्वरूपज्ञानविकारः, मायावृत्तिप्रतिबिम्बरूपमिति यावत् । तस्मात् - सर्वज्ञात् भूतयोनेः सकाशात् एतत् - सन्निहितं अपरकालीनम्, कार्यरूपमिति यावत् । ब्रह्म - हिरण्यगर्भाख्यं जायते । इति श्रुतेः ईश्वररूपमेव ब्रह्मोपादानमिति सम्बन्धः । न शुद्धं जीवरूपं वा इत्येवकारार्थः । सर्वज्ञत्वादीत्यादिपदेन सर्ववित्त्वकामयितृत्वसर्वेश्वरत्वादीनि गृह्यन्ते । मायोपाधिनिरूपितबिम्बत्वविशिष्टं सर्वज्ञत्वादिगुणयुक्तं च यदीश्वररूपं ब्रह्मचैतन्यं तदेवोपादानमित्यर्थः । ‘अथ शुद्धं ब्रह्मोपादानमिष्यते’ इति प्रश्नस्य प्रतिवचनावसरे ‘ईश्वररूपमेव ब्रह्मोपादानं’ इत्येतावति वक्तव्ये तस्य मायाशबलत्वविशेषणं ईश्वरोऽपि शुद्धचैतन्यमेवेति भ्रान्तिरासार्थम् । तस्य सर्वज्ञत्वाद्यनेकविशेषणोपादानं ईश्वररूपब्रह्मण उपादानत्वे ‘यस्सर्वज्ञः’ इत्यादि कारणवाक्यानां सर्वेषां ऐककण्ठ्यप्रदर्शनार्थमिति मन्तव्यम् ।
जीवशुद्धब्रह्मव्यावृत्तेश्वररूपब्रह्मण उपादानत्वे भाष्यसम्मतिमाह —
अत एवेति ।
ईश्वररूपब्रह्मण एवोपादानत्वाभ्युपगमादेवेत्यर्थः । इत्यादिश्रत्युक्तं सर्वोपादानत्वप्रयुक्तं सर्वात्मकत्वं ईश्वरलिङ्गमित्युपवर्णितं भाष्ये इति सम्बन्धः । यस्य सर्वोपादानत्वं तस्य सर्वात्मकत्वम्, उपादानोपादेययोस्तादात्म्यात्, नान्यस्य इत्यविवादम् । यदि प्रतिबिम्बत्वविशिष्टचैतन्यरूपे जीवे बिम्बत्वविशिष्टचैतन्यरूप ईश्वरे च विशेष्यतया अनुस्यूतशुद्धचैतन्यरूपब्रह्मणः सर्वोपादानत्वमिष्यते, तदा तस्यैव सर्वात्मकत्वं स्यात् न ईश्वरस्येति सार्वात्म्यस्य भाष्ये जीवव्यावृत्तेश्वरलिङ्गत्वोपन्यासो न स्यात् । न च विशेष्यभूतशुद्धब्रह्मगतं सर्वात्मकत्वं बिम्बत्वविशिष्टचैतन्यरूपेश्वरलिङ्गतया भाष्ये वर्णितमिति वाच्यम् । तथासति तस्य जीवव्यावृत्तत्वं न स्यात्, विशेष्यधर्मस्य सर्वात्मकत्वस्य ईश्वरधर्मत्ववत् जीवधर्मत्वस्यापि सत्त्वात्, इत्याशयेनाह - जीवेश्वरानुस्यूतेति [पृ. ५२] । छान्दोग्ये श्रूयते — ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः हिरण्यकेशः आप्रणखात् सर्व एव सुवर्णः’ [छा.उ.१-६-६] इत्युपक्रम्य ‘तस्य ऋक्च साम च गेष्णौ’ [छा.उ. १-६-८] इत्युक्त्वा उत्तरत्र ‘य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैव ऋक् तत् साम तदुक्तं तद्यजुः तद्ब्रह्म’ [छा.उ.१-७-५] इति चोक्त्वा ‘तद्य इमे वीणायां गायन्ति एतं ते गायन्ति’ [छा.उ. १-७-६] इति । अस्यार्थः - आदित्ये अन्तः यः पुरुषः शास्त्रतो दृश्यते, एष हिरण्मयः-ज्योतिर्मयः, स्वप्रकाशचैतन्यस्वरूपः इत्यर्थः ।
तस्योपासनार्थं शरीरमाह —
हिरण्यश्मश्रुरित्यादिना ।
हिरण्यसुवर्णशब्दौ ज्योतिःपरौ । प्रणखो नखाग्रम् । आङ् अभिव्याप्तौ । तस्य - हिरण्मयपुरुषस्य ऋक्सामनी गेष्णौ - परिमलोक्तरीत्या स्तुतिसाधनीभूते इत्यर्थः । इदं ऋक्सामगेष्णत्वं समस्तऋक्सामस्तुत्यत्वरूपं हिरण्मयपुरुषविशेषणम् । तस्य वेदे ऋक्सामस्तुत्यतया प्रसिद्धेन्द्राद्यात्मकत्वमादाय पर्यवस्यति । हिरण्मयपुरुषस्य इन्द्रादिभ्यस्सकाशात् भिन्नत्वे तु तद्विशेषणं न सिध्यति । अन्यस्तुतेरन्यविषयकत्वायोगात् ।
तस्यैव पुरुषस्य आदित्यस्थानवत् उपासनार्थं स्थानान्तरमाह —
य एषोऽन्तरक्षिणीति ।
सैव ऋगित्यादौ विधेयापेक्षया लिङ्गव्यत्यासः । स एव ऋक् । सः - पुरुषः । स साम । स उक्थम् । स यजुः । स ब्रह्म-वेदः । ब्रह्मपदं ऋगाद्यतिरिक्तवेदपरम् । तथा च गेष्णवाक्येन सर्वदेवात्मकत्वमुक्तम् । ‘सैव ऋक्….’ इति वाक्येन सर्ववेदात्मकत्वमुक्तम् । तथा — ये इमे — प्रसिद्धाः गायकाः वीणायां लौकिकपुरुषं गायन्ति तेऽपि एतं - प्रकृतं हिरण्मयपुरुषं गायन्ति इत्युक्त्या इन्द्राद्यात्मकत्ववत् लौकिकपुरुषात्मकत्वमपि सिद्ध्यति । तथा च सर्वदेवात्मकत्वसर्ववेदात्मकत्वसर्वलौकिकपुरुषात्मकत्वानि मिलित्वा सर्वात्मकत्वे पर्यवस्यन्ति । तिर्यगात्मकत्वस्याप्युक्तप्रायत्वात् । एवं स्थिते संशयः — आदित्ये अक्षिणि चान्तः श्रूयमाणो हिरण्मयपुरुषः मण्डलाभिमानिदेवताविशेषो वा, नित्यसिद्धपरमेश्वरो वेति । तत्र देवताविशेष एव हिरण्मयपुरुषः । तस्य संसारित्वेन हिरण्यश्मश्रुत्वादिरूपवत्त्वोपपत्तेः, सर्वात्मकत्वस्याप्युपासनार्थं तत्रारोपोपपत्तेश्च । न परमेश्वरः तस्य शरीरासम्भवादिति प्राप्तम् । एवं प्राप्ते ब्रूमः — ‘अन्तस्तद्धर्मोपदेशात् [ब्र.सूं.१-१-२०] इति । आदित्यादावन्तरवस्थितो हिरण्मयपुरुषो नित्यसिद्धपरमेश्वर एव । कुतः ? तद्धर्मस्य सर्वात्मकत्वस्य ‘सैव ऋक् तत्साम’ इत्यादावुपदेशात् । सर्वात्मकत्वं हि ईश्वरस्यैव धर्मः । तस्य सर्वोपादानत्वेन सर्वात्मकत्वोपपत्तेः । न च मुख्यसम्भवे सति आरोपकल्पना न्याय्या । परमेश्वरस्यापि साधकानुग्रहार्थं इच्छावशात् मायागतशुद्धसत्त्वांशपरिणामरूपशरीरसम्भवात्, ‘उमासहायं परमेश्वरं प्रभुम्’ [कै.उ.७] इत्यादिश्रुतिषु ‘जन्म कर्म च मे दिव्यम्’ [भ.गी ४-९] इत्यादिस्मृतिषु च प्रसिद्धत्वाच्च, इति निर्णयः । ‘सर्वं खल्विदं ब्रह्म’ [छा.उ.३-१४-१] इति प्रकृत्य ‘स क्रतुं कुर्वीत’ [छा.उ. ३-१४-१] इति वाक्येन क्रतुशब्दवाच्यमुपासनं विधाय उपास्याकाङ्क्षायां पठ्यते - ‘मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः, एष म आत्माऽन्तर्हृदये’ [छा.उ.३-१४-२,३] इति । अयमर्थः — मनोमयः - मनःप्रधानः । प्राणः शरीरमस्येति प्राणशरीरः । भाः - चैतन्यं रूपमस्येति भारूपः । सत्याः - अप्रतिहताः सङ्कल्पाः सृष्ट्यादिगोचराः अस्य । आकाशवत् आत्मा - व्यापकत्वनिर्लेपत्वसूक्ष्मत्वादियुक्तं स्वरूपं अस्य । सर्वाणि कर्माणि - क्रियन्त इति व्युत्पत्त्या कार्याणि अस्य । यद्वा भूतगुणगन्धरसादिसन्निधानात् कर्मपदं परिस्पन्दपरम् । सर्वे परिस्पन्दा अस्येत्यर्थः । सर्वे कामाः - इच्छारूपाः सुखविशेषरूपा वा अस्य । सर्वे गन्धाः पुण्यरूपा अस्य । ‘पुण्यो गन्धः पृथिव्यां च’ [भ.गी.७-९] इति स्मृतेः । सर्वे रसा अस्य । इदं - दृश्यं सर्वं अभि- आभिमुख्येन - तादात्म्येन आत्तः - व्याप्तः । वागेव वाकः, वाकः अस्यास्तीति वाकी, न वाकी अवाकी - वागिन्द्रियशून्य इति यावत् । वाग्ग्रहणं कर्मेन्द्रियाणां मुख्यप्राणस्य च उपलक्षणम् । क्रियाशक्तिमत्त्वाविशेषात् । आदरः-कामः, सोऽस्य नास्तीत्यनादरः । आदरनिषेधेन तत्परिणामि मनो निषिद्धं भवति । मनोनिषेधेन च ज्ञानेन्द्रियाणां निषेधस्सिद्धो भवति । ज्ञानशक्तिमत्वाविशेषात् । अत्र परिस्पन्देच्छागन्धरसवत्त्वं तदाश्रयैः वायुमानःपृथिवीजलैः भूतविशेषैः तादात्म्यं विना न सम्भवतीति सर्वकर्मत्वादिवचनेन, अविशेषेण सर्वतादात्म्यप्रतिपादक ‘सर्वमिदमभ्यात्तः’ इति वचनेन च, मनोमयत्वादिगुणकस्य सर्वात्मकत्वं प्रतीयते । तच्च ब्रह्मण एवोपपद्यते । तस्य सर्वोपादानत्वेन सर्वात्मकत्वोपपत्तेः । न जीवो मनोमयत्वादिगुणकः । तस्य सार्वात्म्यासम्भवात् । न च मनोमयत्वप्राणशरीरत्वयोः जीवधर्मयोः ब्रह्मण्यसम्भव इति ब्रह्मैवोपास्यत्वेनेह निर्दिश्यते । कुतः ? सर्वत्र - वेदान्तेषु प्रसिद्धस्य ब्रह्मणः ‘सर्वं खल्विदं ब्रह्म’ इति पूर्ववाक्ये स्वशब्देनैवोपदेशात्, अस्मिन्नपि वाक्ये प्राणः शरीरमस्येत्यादिविग्रहवाक्येषु प्रकृतब्रह्माकर्षकसर्वनामश्रुतीनां सत्त्वाच्च ब्रह्मैव सगुणमुपास्यमत्रेति सिद्धम् ।
सर्वोपादानत्वे त्विति ।
शुद्धब्रह्मवज्जीवस्य सर्वोपादानत्वोपगमेऽपि सर्वात्मकत्वं जीवव्यावृत्तमीश्वरलिङ्गं न स्यादिति तुशब्दार्थः ।
ननु सङ्क्षेपशारीरके मायाशबलस्य उपादानत्वं निरस्तमिति तद्विरोध इति, अत आह —
सङ्क्षेपशारीरक इति ।
मायाया अपि बिम्बभूतेश्वरविशेषणतया उपादानत्वाश्रयकोटौ निवेश एव तत्र दूषितः, न तु बिम्बत्वविशिष्टचैतन्यरूपेश्वरस्य तन्निरस्तं, इति न तद्विरोध इत्यर्थः । ननु — शबलस्योपादानत्वं निराकृत्य जगदुपादानत्वस्य ज्ञेयब्रह्मलक्षणत्वसमर्थनपरस्य सङ्क्षेपशारीरकग्रन्थस्य कथमेवमभिप्रायः कल्पयितुं शक्यते ? स्वरसतस्तस्य बिम्बप्रतिबिम्बानुगतशुद्धब्रह्मोपादानत्वप्रतिपादनपरत्वावगमादिति, नेत्याह — तत्रैवेति । सङ्क्षेपशारीरक एवेत्यर्थः । न च - तत्पदार्थवृत्तित्वं तत्पदलक्ष्यार्थवृत्तित्वं विवक्षितं, लक्ष्यार्थश्च शुद्धं ब्रह्म, इति न सङ्क्षेपशारीरकग्रन्थस्य पूर्वापरविरोधः, न वा तेन बिम्बभूतेश्वरस्य उपादानत्वलाभः - इति वाच्यम् । लक्ष्यार्थत्वस्य वाक्यार्थसाधारणतया तत्पदार्थवृत्तित्वविशेषणवैयर्थ्यापत्तेः । अतस्तत्पदार्थवृत्तित्वं तत्पदवाच्यार्थवृत्तित्वमेव वक्तव्यमिति तदविरोधाय सर्वज्ञत्वादिगुणकेश्वरस्यजगत्कारणत्वप्रतिपादकबहुश्रुत्यविरोधाय च शबलोपादानत्वनिराकरणं मायाविशिष्टोपादानत्वनिराकरणरूपमेव वक्तव्यमिति न सङ्क्षेपशारीरकविरोध इति भावः ।
तर्हि जन्मादिसूत्रतद्भाष्ययोः ज्ञेयब्रह्मलक्षणत्वोक्तिविरोध इति, नेत्याह —
एवं चेति ।
अभिन्ननिमित्तोपादानत्वरूपलक्षणस्य अन्तस्तद्धर्माद्यधिकरणभाष्यपर्यालोचनया बिम्बभूतेश्वरगतत्वे सिद्धे सतीत्यर्थः । अपिशब्दः चैतन्यमित्यनेन सम्बध्यते । कारणत्वमित्यनन्तरं ईश्वरमितरव्यावृत्ततया बोधयत् सत् इति शेषः ।
तदनुगतमिति ।
बिम्बत्वविशिष्टचैतन्यरूपेश्वरानुगतमित्यर्थः ।
अखण्डचैतन्यमिति ।
विशेष्यभूतशुद्धचैतन्यमित्यर्थः । तटस्थत्वं च लक्ष्यस्वरूपबहिर्भूतत्वं वा, लक्ष्यावृत्तिधर्मत्वं वा, उपलक्षणत्वं वा बोध्यम् । ‘क्व चन्द्रः’ इति प्रश्ने ‘शाखायाम्’ इत्युत्तरं भवति । तत्र यथा शाखा दिगन्तरगतनक्षत्रव्यावृत्तं चन्द्रमुपलक्षयति, तथा ईश्वरगतं कारणत्वं ईश्वरमितरव्यावृत्ततया बोधयत् सत् तटस्थतया ईश्वरानुगतमखण्डचैतन्यमपि इतरव्यावृत्ततया उपलक्षयितुं शक्नोत्येवेत्यर्थः । ईश्वरगतेनाभिन्ननिमित्तोपादानत्वेन बिम्बत्वविशिष्टचैतन्यरूपेश्वरस्य जगदुपादानत्वसम्भवशून्यात् जीवात् तत्कर्तृत्वसम्भवरहितात् प्रधानादेश्च सकाशाद्व्यावृत्तौ गम्यमानायां सत्यां विशेष्यभूतज्ञेयब्रह्मणोऽपि प्रधानादिव्यावृत्तिर्गम्यत इत्यभिप्रेत्य तस्य ज्ञेयब्रह्मलक्षणत्वं जन्मादिसूत्रतद्भाष्ययोस्सङ्क्षेपशारीरके चोक्तमिति भावः । एवं तटस्थलक्षणेन प्रधानादिव्यावृत्तत्वेनावगतं ब्रह्म कीदृक्स्वरूपमिति विशेषजिज्ञासायां सत्यज्ञानानन्दात्मकं ब्रह्मेति स्वरूपलक्षणं प्रवर्तते । अनेनैवाभिप्रायेण भाष्यकारैरुक्तम् - ‘तस्य च निर्णयवाक्यं ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते’ [तै.उ.३-६] इति’ । ‘यतो वा’ इत्यादिवाक्येन यस्मात् कारणात् इमानि भूतानि जायन्ते इति यदुक्तं तत् वस्तुतस्सत्यज्ञानानन्तस्वरूपादानन्दादेव नान्यस्मात् कारणात् इत्येतत् हि - प्रसिद्धं पूर्ववल्ल्यामिति श्रुत्यर्थः । अनेन स्वरूपलक्षणेन बिम्बभूतेश्वरानुगतं तत्पदलक्ष्यं वस्तुतो वाक्यार्थभूतं ज्ञेयं ब्रह्म विशेषतो निर्धारितं भवति । इयं च स्वरूपलक्षणविवक्षा मूले अखण्डपदेन सूचिता । जगत्प्रकृतिभूतमायाप्रतिबिम्ब ईश्वरः, माया चेश्वराश्रिता । न च - प्रतिबिम्बत्वस्य मायाकल्पितत्वात् तद्विशिष्टचैतन्याश्रितत्वं मायाया न सम्भवति, प्रतिबिम्बत्वकल्पनात्प्रागेव तस्याश्चैतन्याश्रितत्वस्य वक्तव्यत्वात् - इति वाच्यम् । प्रतिबिम्बत्वस्याप्यनादित्वेन तस्यास्तद्विशिष्टचैतन्याश्रितत्वोपपत्तेः । वस्तुतो निर्विशेषचैतन्ये अनादिकालमारभ्य कल्पितप्रतिबिम्बत्वस्थितेरनिर्वचनीयमायाधीनत्वमात्रेण प्रतिबिम्बत्वस्य तत्कल्पितत्वम्; न तु प्रतिबिम्बत्वस्य वियदादेरिव मायापरिणामत्वमुपेयते । तथा सति प्रतिबिम्बभूतेश्वरस्य सादित्वप्रसङ्गात् । न च - माया अनादिकालमारभ्य चैतन्ये प्रतिबिम्बत्वं घटयति, तद्विशिष्टमेव च चैतन्यमाश्रयते, इति कथं सम्भावयितुं शक्यम् - इति वाच्यम् । मायाया अघटितघटनापटीयस्त्वात् । न च शुद्धचैतन्याश्रितैव माया तत्र प्रतिबिम्बभावं घटयतीति कुतो नाश्रीयत इति वाच्यम् । ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ [श्वे.उ.४-१०] इति श्रुतिविरोधात्, ‘मायिनम्’ इतिपदेन मायाया ईश्वराश्रितत्वप्रतीतेः । जीवास्त्वविद्याप्रतिबिम्बाः । ‘जीवेशावाभासेन करोति’ [नृ.उ.९-३] इति श्रुतेः । प्रकृता मूलप्रकृतिः जीवेशौ प्रतिबिम्बरूपौ करोतीत्यर्थः । न ह्युपाधिभेदं विना प्रतिबिम्बभेदस्सम्भवति । न चैकस्मिन्नपि दर्पणे अनेकप्रतिबिम्बदर्शनात् प्रतिबिम्बभेद उपाधिभेदव्याप्यो न भवतीति वाच्यम् । एकस्मिन् दर्पणे बिम्बभेदेन प्रतिबिम्बभेदेऽपि सूर्यादिबिम्बैक्यस्थले उपाधिभेदं विना प्रतिबिम्बभेदादर्शनात् । बिम्बभूतचैतन्यस्य चैकत्वात् । तस्मात् ईश्वरोपाधिमायापेक्षया भिन्ना एव जीवोपाधिभूता अविद्याः स्वीकर्तव्याः । न च - मूलप्रकृतिं प्रकृत्य प्रवृत्तायां ‘जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति’ [नृ.उ.९.३.] इतिश्रुतौ जीवेशरूपप्रतिबिम्बाधारयोर्मायाविद्ययोः ‘स्वयमेव’ इत्यनेन प्रकृतमूलप्रकृत्यात्मकत्वप्रतिपादनं मायाविद्ययोर्भेदपक्षे विरुध्यते - इति वाच्यम् । मायाया वियदादिप्रकृतित्वत् अविद्याया अपि लिङ्गशरीरादिप्रकृतित्वस्य वक्ष्यमाणत्वेन मायाविद्ये प्रकृतित्वेनैकीकृत्य स्वयमेवेत्येकप्रकृत्यात्मकत्वप्रतिपादनस्याविरोधात् । ‘अविद्या च’ इत्येकवचनस्यापि जात्यभिप्रायत्वोपपत्तेः न तन्नानात्वविरोधोऽपि । बिम्बैक्यस्थले उपाधिभेदं विना प्रतिबिम्बभेदासम्भवस्य दर्शितत्वात् । प्रतिबिम्बजीवानां च नानात्वात् । अदृश्यत्वाधिकरणभाष्येऽपि ‘अव्याकृतमीश्वराश्रयं तस्यैवोपाधिभूतम्’ इति मायाया ईश्वरोपाधित्वतदाश्रयत्वयोरुक्तत्वात् । तथा आनुमानिकाधिकरणभाष्ये ‘मुक्तानां च न पुनरुत्पत्तिः, तस्या अविद्याबीजशक्तेः विद्यया दाहात्’ इत्यत्र जीवनानात्वस्य तदुपाधिभूताविद्यानानात्वस्य च स्पष्टमभिहितत्वात् । भामतीनिबन्धने तद्भाष्यस्य जीवोपाधिभूताविद्यैक्यनिराकरणपरतयैव व्याख्यातत्वाच्च । ‘आभास एव च’ इति [ब्र.सू.२-३-५०] सूत्रतद्भाष्ययोः जीवानां प्रतिबिम्बत्वरूपतायाः स्पष्टमभिहितत्वाच्च ।
तथा च मायाविद्याभेदः श्रुत्यादिसम्मत इति ‘ये मन्यन्ते तेषां मतमुपन्यस्यति —
वियदादिप्रपञ्च इत्यादिना ।
पूर्वमते ईश्वररूपं ब्रह्मोपादानमित्युक्तम् । तत् सत्यमेव, परं तु क्वचिज्जगति जीवस्याप्युपादानत्वमभ्युपगन्तव्यम् - इत्यभिप्रायेणास्य मतस्य प्रवृत्तिर्बोध्या ।
ईश्वराश्रितमायापरिणाम इति ।
‘मायां तु प्रकृतिं विद्यात्’ इति श्रुतेरिति भावः ।
तत्रेति ।
वियदादावीश्वर एव उपादानमित्यर्थः ।
अन्तःकरणादौ तुशब्दसूचितविशेषं दर्शयति —
ईश्वरेति ।
भूतैरुपष्टम्भकलक्षणैस्संसृष्टत्वं भूतोपसृष्टत्वम् । तच्च जीवाविद्याकृतानां भूतसूक्ष्माणां विशेषणम् । भूतानां सूक्ष्मत्वं परिच्छिन्नत्वम् ।
अत एवेति ।
अन्तःकरणादौ जीवाविद्यापरिणामसूक्ष्मभूतानां तदुपष्टम्भकतया मायापरिणाममहाभूतानां च उपादानतया प्रविष्टत्वादेवेत्यर्थः । यथा गङ्गाद्या नद्यः समुद्रं प्राप्यास्तं गच्छन्ति, एवमेव अस्य-विदुषः परितः-सर्वत्र आत्मानं पूर्णं पश्यतः कलाः - लिङ्गशरीरैकदेशभूताः पुरुषायणाः - पुरुषः-चिदात्मा अयनं-अधिष्ठानं यासां ताः पुरुषायणाः पुरुषं प्राप्य अस्तं गच्छन्ति - पुरुषे लीयन्ते इत्यर्थः ।
दर्शित इति ।
पुरुषे इति शेषः । प्रतिष्ठा इति द्वितीयाबहुवचनम् । मायापरिणामात्मकमहाभूतानीति द्वितीयाबहुवचनार्थः । पञ्चदश कलाः प्रतिष्ठाः प्रति गताः-तासु लीना इति यावत् ।
तदनिवर्त्येति ।
ईश्वरोपाधिभूतमायाया जीवगतविद्यानिवर्त्यत्वाभावादिति भावः । यदि कलानां जीवाविद्यामात्रपरिणामत्वं, तदा तासामशेषतः पुरुष एव लयः स्यात्, तथा चा तासां भूतेषु लयप्रतिपादकवचनं निर्विषयं स्यात्, अतो मायाकार्यमहाभूतानामपि लिङ्गशरीरोपादानत्वं वाच्यमिति तत्र उभयोरुपादानत्वे श्रुतिद्वयव्यवस्थासिद्धिरेव फलमित्यर्थः । न च मायायास्तत्त्वज्ञाननिवर्त्यत्वाभावे मिथ्यात्वसिद्धिर्न स्यादिति वाच्यम् । ब्रह्मणि सर्वदृश्यनिषेधश्रुतिबलात् दृश्यत्वादिलिङ्गैश्च तन्मिथ्यात्वसिद्धेः । न च मायाया विद्यया निवृत्त्यभावे निवर्तकान्तराभावात् सर्वमुक्तावपि तदनुवृत्तिप्रसङ्ग इति वाच्यम् । महाप्रलयकाले सर्वप्राणिभोगप्रदकर्मणां युगपदुपरमे सति ईश्वरसङ्कल्पमात्रादेव सर्वप्रपञ्चलयवत् सर्वमुक्तिकाले ‘इतः परं सकार्याया मायायाः प्रयोजनं नास्ति’ इत्यनुसन्धानवत ईश्वरस्य सत्यसङ्कल्पस्य ‘माया स्वकार्यैस्सह मयि वस्तुतश्चिदेकरसे निश्शेषं लयं यातु’ इत्येवंरूपादेव मायापरिणामलक्षणसङ्कल्पात् तल्लयोपपत्तेः । श्रुतिस्मृतिपुराणादिषु तत्त्वज्ञानात् मायानिवृत्तिप्रतिपादकग्रन्थजातमविद्यानिवृत्त्यभिप्रायम् । यद्वा तत्त्वज्ञानमात्रं अविद्याया इव मायाया निवर्तनयोग्यमपि नानाप्राणिकर्मप्रतिबन्धात् न तस्या निवर्तकं, चरमं मुच्यमानस्यैव तु तत्त्वज्ञानं प्रतिबन्धकाभावात्तन्निवर्तकं, इत्यादि कल्पनीयमिति सङ्क्षेपः ।
अन्तःकरणादावुभयोरुपादानत्वमसिद्धम्, श्रुतिद्वयव्यवस्थाया भाष्यकारैरेवान्यथाप्रतिपादितत्वात् - इति मतान्तरं दर्शयति —
यथा वियदादीति ।
तत्त्वविदो दृष्टिः - तत्त्वसाक्षात्कारः । अत्र दृष्टिपदेन तत्फलभूतः कलाक्षयो विवक्षितः, तद्विषया पुरुषे कलाप्रलयश्रुतिः इत्यर्थः । भूतेषु कलाप्रलयवचनं तु कलानामपि मायापरिणाममहाभूतकार्यत्वभ्रमवतां भ्रान्तिसिद्धार्थानुवादकमिति भावः । चूर्णीभावपर्यन्तो घटनाशो यथा भूमौ दृश्यते तद्वन्मन्यन्ते इत्यक्षरार्थः ।
प्रतीतिविषयेति ।
प्रतीतिरत्र भ्रान्तिरूपा । तद्विषयविषयकेत्यर्थः ।
स्पष्टत्वादिति ।
‘तानि परे तथा ह्याह’ [ब्र.सू.४-२-१५] इति तदधिकरणसूत्रम् । तानि-मनआदीनि परे-पुरुषे निरवशेषं लीयन्ते, तथा हि श्रुतिराह - ‘एक्मेवास्य’ इत्यादिश्रुतिः निरवशेषं लयमाह हि इति सूत्रार्थः ।
अन्तःकरणादीनां मायाकार्यत्वाभावे ईश्वरस्यान्तःकरणाद्युपादानत्वप्रतिपादकश्रुतिविरोध इति दोषं सूचयति —
एकदेशिन इति ।
मायैवाविद्या ।
सा चेश्वरस्यैवोपाधिः, जीवानां तु प्रतिबिम्बरूपाणां अन्तःकरणान्येवोपाधयः, इति मायाऽविद्ययोरभेदवादिनोऽपि केचित् अन्तःकरणादौ जीवस्यैवोपादानत्वं तद्भेदवादिन इव वदन्तीत्याह —
तदभेदवादिष्वपीति ।
अपिशब्दः क्वचिदंशे पूर्वमतसाम्यार्थकः । तच्च तत्साम्यं तथापीत्यादिना स्पष्टं भविष्यति ।
ननु वियदादिप्रपञ्चेऽपि जीव एवोपादानं किं न स्यादित्यत आह —
यद्यपीति ।
ईश्वराश्रितमायापरिणामत्वात् ईश्वर एव वियदादावुपादानं न जीव इत्यर्थः ।
ननु मायाऽविद्ययोरभेदोपगमे अविद्यापरिणामान्तः करणादीनामपीश्वराश्रितमायापरिणामत्वाविशेषात् ईश्वर एवान्तःकरणादावप्युपादानमिति वक्तुमुचितमिति, नेत्याह —
तथापीत्यादिना ।
जीवेति ।
‘अहं कर्ता, अहं प्राणिमि, अहं काणः, अहं मूकः, अहं स्थूलः’ इत्यादिप्रकारेण अन्तःकरणादीनां शरीरान्तानां जीवतादात्म्यं प्रतीयते, तच्च तेषां जीवेऽध्यस्तत्वं विना न सम्भवतीति जीवस्यैव तदधिष्ठानत्वरूपमुपादानत्वं नेश्वरस्येत्यर्थः ।
प्रतिकर्मव्यवस्थेति ।
ब्रह्मणः स्वरूपचैतन्येन सर्वदा सर्वावभासकत्वरूपे सर्वज्ञत्वे उक्ते ‘तर्हि जीवस्यापि स्वरूपचैतन्येनैव सर्वदा सर्वद्रष्टृत्वम्’ इति दोषप्रसक्तौ जीवं प्रति विषयव्यवस्थाप्रतिपादकग्रन्थे इत्यर्थः ।
ब्रह्मेति ।
बिम्बचैतन्यरूपब्रह्मणः सर्वोपादानतया घटादितादात्म्यरूपः संसर्गः कॢप्तः इत्यर्थः । अविद्याया व्यापकत्वेन तत्प्रतिबिम्बरूपजीवस्य व्यापकत्वेऽपि न घटादिभिस्तस्य तादात्म्यम्, उपादानत्वाभावात्, अन्तःकरणादिभिस्तु जीवस्य तादात्म्यलक्षणः संसर्गोऽस्ति, इति प्रतिपादितं विवरणे इत्यर्थः । अनेन जीवस्यान्तःकरणादावुपादानत्वमुक्तं भवति, अन्यथा घटादिभिरिवान्तःकरणादिभिरप्युक्तसङ्गित्वं जीवस्य न स्यात् उपादानत्वाभावाविशेषात्, इति भावः । अत्र अन्तःकरणादिपरिणाम्युपादानभूताया अविद्याया ईश्वराश्रितमायया सहाभेदाङ्गीकारे ईश्वरस्यैवान्तःकरणादावुपादानत्वं वक्तुमुचितम् । यदि जीवतादात्म्यप्रतिपत्त्यादिभिरुक्तहेतुभिः जीवस्यैवान्तःकरणादावुपादानत्वं वक्तव्यं, तदा अन्तःकरणादिपरिणामिभूताविद्याया जीवश्रितत्वं ईश्वराश्रितमायायास्सकाशात् भिन्नत्वं च वक्तव्यम् । कार्यात्मना परिणममानप्रकृत्याश्रयत्वातिरिक्तस्य चैतन्यगतोपादानत्वस्य अभावात् । अतो मायाऽविद्ययोरभेदाङ्गीकारः जीवस्यैवान्तःकरणादावुपादानत्वाङ्गीकारश्च परस्परविरुद्धः — इत्यस्वरसः ‘तदभेदवादिष्वपि’ इति ‘अपि’ शब्देन सूचितः ।
ईश्वरस्यान्तःकरणादावप्युपादानत्वमुपेत्यापि तस्य कार्यमात्रे उपादानत्वं नास्तीति विशेषं वक्तुं मतान्तरमवतारयति —
एतस्मादिति ।
प्रकृतादीश्वरादित्यर्थः । प्रकृतित्वं पञ्चम्यर्थः । जीवस्त्विति तुशब्दः अवधारणार्थः । ‘स्वाप्नप्रपञ्चस्य’ इत्यनन्तरं ‘उपादानम्’ इत्यनुषङ्गः । किं कृत्स्नं ब्रह्म जगदाकारेण परिणमते, एकदेशेन वा ।
नाद्य इत्याह —
तस्येति ।
यथा दध्याकारेण परिणतस्य क्षीरस्य पूर्वरूपात् प्रच्युतिः, एवं ब्रह्मणोऽपि स्वरूपात् प्रच्युतिः स्यादित्यर्थः ।
ब्रह्मण एकदेशः परिणमते इति द्वितीयकल्पं दूषयति —
एकदेशेनेति ।
पूर्वपक्षे इति ।
उभयथाऽपि ब्रह्मण उपादानत्वं न सम्भवतीति पूर्वपक्षे प्राप्ते सतीत्यर्थः । यदि ब्रह्मण उपादानत्वं क्षीरपृथिव्यादिवत् परिणामित्वरूपमभ्युपगम्येत, तदा कृत्स्नप्रसक्त्यादिदोषः प्रसज्येत । न तु तथा अभ्युपगम्यते । किं तु रज्ज्वादेः सर्पाद्युपादानत्ववत् विवर्तोपादानत्वं ब्रह्मण उपेयते ।
अतो नोक्तदोषावकाश इति सिद्धान्तयति —
आत्मनि चेति ।
एकश्चकारो यथाशब्दसमानार्थकः । द्वितीयश्चकारः तथाशब्दसमानार्थकः । हिशब्दो हेत्वर्थः । ततश्च यथा आत्मनि जीवे स्वप्नद्रष्टरि विचित्रा रथादिसृष्टयो जीवचैतन्यस्वरूपोपमर्दं विनैव भवन्ति, स्वप्नावस्थानिवृत्त्यनन्तरमपि बुद्ध्यादिसाक्षितया जीवचैतन्यस्य यथापूर्वमवस्थानात्, एवं ब्रह्मणि तत्स्वरूपप्रच्युतिं विनैव विचित्रा वियदादिसृष्टयः सम्भवन्ति, सृष्टिस्थितिसंहारेषु सच्चिदानन्दस्वरूपेण ब्रह्मानुवृत्तेः श्रुतिसिद्धत्वात्, इति सूत्रार्थः । ‘अथ शुद्धं ब्रह्मोपादानम्’ इत्यादिप्रश्ने तृतीयपक्षमादाय प्रतिवचनमवतारयति —
जीव इति ।
परिपूर्णश्चिदात्मा अविद्यया अवच्छेदप्रतिबिम्बभावौ विनाऽपि प्राप्तजीवभावः सन् आत्मानमेव सर्वेश्वरं कल्पयति । प्राप्तेश्वरभावात् स्वस्मादेव गगनादिसृष्टिं कल्पयति । स्वस्य स्वकल्पितादीश्वरात् भेदं तन्नियम्यत्वं च कल्पयति । तथा क्रमेण मनुष्यादिभावं कल्पयति । यथा वियदादिप्रपञ्चो व्यावहारिकसत्यः स्वप्नप्रपञ्चः प्रातिभासिकः इति पक्षे स्वप्नद्रष्टा जीव एव देवतिर्यङ्मनुष्यादिभावेन तन्नियन्तृपरमेश्वररूपेण ततो भिन्नत्वादिरूपेण चात्मानं कल्पयति, तद्वत् । तथा च स्वस्मिन्नेव सर्वप्रपञ्चकल्पकत्वात् जीवभावापन्नं ब्रह्म सर्वोपादानमिति दृष्टिसृष्टिवादिन आहुरित्यर्थः ।
जीवभावापन्नब्रह्मणः सर्वोपादानत्वमित्यस्मिन् पक्षे जीवादधिकस्येश्वरस्य अभावात् ईश्वरस्य सर्वजीवनियन्तृत्वप्रतिपादकश्रुतिस्मृतिन्यायसूत्रभाष्यादिविरोधो बन्धमोक्षव्यवस्थानुपपत्तिश्च -इति दोषं सूचयति —
इत्यपि केचिदिति ।
तथा च जीवेऽतिव्याप्त्यभावात् ईश्वररूपमेव ब्रह्म सर्वोपादानमिति स्थितम् ॥