अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

वृत्तिनिर्गमनप्रयोजनविचारः

एवं बाह्य­गो­च­रा­प­रो­क्ष­वृ­त्ती­ना­मे­वा­व­र­णा­भि­भा­व­क­त्व­मिति नियमस्य भ्रम­स्थ­ली­ये­द­मा­का­र­वृत्तौ व्यभि­चा­र­श­ङ्कायां सत्यां तद्वृ­त्त्य­भ्यु­प­ग­मा­न­भ्यु­प­ग­माभ्यां तां परिहृत्य, प्रसङ्गात् ज्ञानद्वयपक्षे किञ्चिद्विचार्य पूर्वोक्तं वृत्ति­नि­र्ग­म­मा­क्षि­पति —
नन्विति ।

किं वृत्येति ।
वृत्तिरेव मास्तु, तन्निर्गमो दूरापास्त एवेत्याशयः । ननु - केवलसाक्षिण एव विष­या­नु­भ­व­रू­पत्वे कालान्तरे विषयानुसन्धानं न स्यात्, अनु­भ­व­ना­श­ल­क्ष­ण­सं­स्का­रा­भा­वात् । तथा आग­न्तु­क­वृ­त्त्य­न­ङ्गी­कारे चक्षु­रा­द्य­नु­वि­धानं न स्यात्, नित्यसाक्षिणि चक्षु­रा­दे­र­नु­प­यो­गात् ।

अतो वृत्ति­रा­द­र्त्तव्या - इत्याशङ्क्य तामङ्गीकरोति —
घटादीति ।

ननु विषयप्रकाश एव तन्नि­र्ग­म­फ­ल­मिति, नेत्याह —
परोक्षस्थल इवेति ।

ननु प्रत्य­क्ष­प­रो­क्ष­ज्ञा­न­यो­र्वै­ल­क्ष­ण्य­म­नु­भ­व­सि­द्धम्, तच्च प्रत्यक्षस्थले वृत्ति­नि­र्ग­मा­भ्यु­प­गमे निर्वहति — बहि­र्नि­र्ग­त­वृ­त्त्य­व­च्छि­न्न­चै­त­न्य­म­प­रो­क्ष­ज्ञानं, अनि­र्ग­त­वृ­त्त्य­व­च्छि­न्न­चै­तन्यं परो­क्ष­ज्ञा­न­मिति, नेत्याह —
न च तथासतीत्यादिना ।
वृत्त्यनिर्गमने सतीत्यर्थः । इन्द्रियजन्यं ज्ञानं प्रत्यक्षं तदजन्यं ज्ञानं परोक्षमिति वैल­क्ष­ण्यो­प­प­त्ते­रि­त्यर्थः । यथा शाब्दज्ञाने शब्द­रू­प­क­र­ण­वि­शे­ष­प्र­युक्तं शाब्दत्वरूपं वैजात्यं, यथावा अनु­मि­ता­व­नु­मि­तित्वं, तथेत्यर्थः । करणविशेषः इन्द्रियं अनुमानादि च, तत्प्रयुक्तं वृत्तिषु वैजात्यं प्रत्य­क्ष­त्वा­दि­जा­ति­रू­प­मु­पा­धि­रूपं वा, तस्मा­दे­वे­त्यर्थः ।

वृत्तिनिर्गमं साधयति —
अत्र केचिदाहुरिति ।
विषयाधिष्ठानतया विषयावच्छिन्नं यच्चैतन्यं तदेव विषयप्रकाशः, न जीवचैतन्यम्, तस्य विषयं प्रत्यु­पा­दा­न­त्वा­भा­वेन साक्षा­त्ता­दा­त्म्य­स­म्ब­न्धा­भा­वा­दि­त्यर्थः ।

अन्यस्य वेति ।
पर­म्प­रा­स­म्ब­न्धस्य वेत्यर्थः । तादा­त्म्य­रू­प­सं­ब­न्ध­स­म्भवे स्वरू­प­स­म्ब­न्ध­क­ल्प­ना­यो­गात्, साक्षा­त्स­म्ब­न्ध­स­म्भवे अन्यस्य संबन्धस्य कल्पनायोगात्, इति विभागः ।

ततः किं, तत्राह —
इति तद­भि­व्य­क्त्य­र्थ­मिति ।
विष­या­व­च्छि­न्न­ब्र­ह्म­चै­त­न्य­स्यैव विष­य­प्र­का­श­क­त्वात् तस्य च आवृतत्वात् आव­र­णा­भि­भ­व­रू­पा­भि­व्य­क्ति­सि­द्ध्य­र्थ­मि­त्यर्थः ।

ननु - उक्तयुक्त्या परोक्षस्थलेऽपि विष­या­व­च्छि­न्न­ब्र­ह्म­चै­त­न्य­मेव विषयावभासकं स्यात्, ततश्च तत्रापि तन्निर्गमः प्रसज्येतेति, नेत्याह —
परोक्षस्थल इति ।

वृत्ति­नि­र्ग­म­न­हे­तु­स­न्नि­क­र्षा­भा­वा­दि­त्या­श­ये­नाह —
व्यवहित इति ।

वृत्तिनिर्गमने उपपत्त्यन्तरमाह —
अन्ये त्विति ।

संसर्गिषु कॢप्तमिति ।
संसर्गः - तादात्म्यम् । विषयापरोक्ष्ये क्वचि­त्कॢ­प्त­प्र­यो­ज­कस्य संस­र्ग­स्यै­वा­न्य­त्रापि सम्भवे तत्त्या­गा­यो­गा­दिति भावः ।

विष­य­सं­सृ­ष्ट­मे­वेति ।
न तु तदसंसृष्टं जीवचैतन्यं इत्येवकारार्थः ।

तदभिव्यक्तय इति ।
विष­या­व­च्छि­न्न­ब्र­ह्म­चै­त­न्या­भि­व्य­क्तये इत्यर्थः ।

प्रत्यक्षे वस्तुनि आव­र­णा­भि­भ­व­स्या­व­श्य­क­ता­प्र­ति­पा­द­न­पू­र्वकं तदभिभवार्थं वृत्तिनिर्गमनं इति प्रतिपादयति —
इतरे त्विति ।

ननु शब्दा­द्य­व­ग­तेऽ­प्यर्थे स्पष्टता किं न स्यादिति, नेत्याह —
न हीति ।
परिमलं-सुगन्धः । आदिपदं रसा­ल­ग­त­र­स­स­ङ्ग्र­हा­र्थम् । ‘आम्रफले मधुररसादिरस्ति’ इत्ये­वं­रू­पा­दा­प्त­वा­क्या­च्छ­त­वा­र­मु­क्ता­दपि मधु­र­त्वा­दि­सा­मा­न्य­वि­शि­ष्ट­त­यैव रसादिज्ञानं भवति, न तु मधु­र­त्व­व्या­प्य­जा­ति­वि­शे­ष­वि­शि­ष्ट­र­सा­दि­ज्ञा­नम् ।

तथा च रसा­दि­ग­त­जा­ति­वि­शे­ष­ज्ञा­ना­भा­वा­देव जातिविशेषे जिज्ञासा उपपद्यते, न तु शब्दादवगतेऽपि स्पष्ट­त्वा­भा­वात् इत्याशयेन शङ्कते —
न च शब्दादिति ।
माधु­र्युं-म­धु­र­रसः । माधु­र्या­दि­मा­त्रा­व­ग­मेऽपि शब्दा­द­सा­धा­र­ण­जा­ति­वि­शे­षा­व­च्छि­न्न­मा­धु­र्या­व­गमो नास्तीति सम्बन्धः । असाधारणो यो जातिविशेषः तदवच्छिन्नतया माधुर्यावगमो नास्तीत्यर्थः ।

जाति­वि­शे­षा­व­ग­मा­भावे उपायाभावं हेतुमाह —
रसालेत्यादिना ।
रसालस्य यन्माधुर्यादि तद्वृत्तिर्यः अवा­न्त­र­जा­ति­वि­शेषः तद्वा­च­क­श­ब्दा­भा­वा­दि­त्यर्थः ।

तद्बो­ध­क­श­ब्द­म­ङ्गी­कृ­त्यापि शक्ति­ग्र­हा­भा­वा­त्त­द­व­गमो न सम्भवतीत्याह —
तत्सत्त्वेऽपीति ।

तस्येति ।
अवा­न्त­र­जा­ति­वि­शे­ष­वा­च­क­श­ब्द­स्ये­त्यर्थः । न च शङ्क्यमिति सम्बन्धः । तद्वा­च­क­प­दा­भा­वेऽपि तद्बोधको वाक्य­रू­प­श्श­ब्दोऽस्ति । तेन च जाति­वि­शे­षा­व­ग­मोऽ­प्यस्ति ।

तथा चावगते जातिविशेषे स्पष्ट­त्वा­भा­वा­देव जिज्ञासा - इत्याशयेनाह —
रसाल इत्यादिना ।

अयं शब्दः किं तद्गतं जातिविशेषं बोधयति, किं वा अन्यगतम् ? आद्यमङ्गीकरोति —
तद्गतावान्तरेति ।

द्वितीयं दूषयति —
न ह्ययमिति ।

तत्रेति ।
रसा­ल­मा­धु­र्या­दा­वि­त्यर्थः । तात्पर्यविषय एव शब्दस्य प्रामा­ण्या­भ्यु­प­ग­मा­दिति भावः । न चाप्रामाण्ये इष्टापत्ति रिति वाच्यम्, आप्तवाक्यस्य तद­ङ्गी­का­रा­यो­गा­दिति भावः ।

माधु­र्य­ग­त­जा­ति­वि­शे­षा­व­ग­म­म­ङ्गी­कृत्य शङ्कते —
न च तद्गतमेवेति ।

सामान्येनेति ।
विशेषत्वं रसालमाधुर्यगते जातिविशेष इव फला­न्त­र­मा­धु­र्य­ग­तेषु जातिविशेषेष्वपि सत्त्वात् सामान्यरूपमिति भावः ।

न विशिष्येति ।
जाति­वि­शे­ष­ग­त­वि­शे­ष­वि­शि­ष्ट­तया जातिविशेषं न बोधयति । तथा च रसा­ल­मा­धु­र्य­ग­त­जा­ति­वि­शे­षस्य स्वरूपेण शब्दा­द­व­ग­त­त्वेऽपि स्क्गता­सा­धा­र­ण­वि­शे­ष­वि­शि­ष्ट­तया अनवगतत्वादेव जिज्ञा­स्य­त्व­मिति भावः । जाति­वि­शे­ष­ग­तोऽ­सा­धा­र­ण­वि­शेषः किं जातिरूपः, किं वा जाति­वि­शे­षा­श्र­ये­त­रा­वृ­त्तित्वे सति जाति­वि­शे­षा­श्र­य­वृ­त्ति­त्व­रूप उपाधिर्वा । नाद्यः । जातौ तदनङ्गीकारात् । न द्वितीयः । रसा­ल­मा­धु­र्य­ग­त­जा­ति­वि­शेषे प्रत्यक्षेणापि तदग्रहणेन प्रत्य­क्षा­व­ग­तेऽपि जातिविशेषे जिज्ञा­सा­नु­वृ­त्ति­प्र­स­ङ्गात् ।

तस्मात् प्रत्यक्षेणापि स जातिविशेषः स्वरूपेणैव गृह्यत इति वक्तव्यम्, स्वरूपेण तदवगमश्च उक्त­श­ब्दा­द­प्य­स्त्ये­वेति शब्दावगतस्यापि स्पष्टत्वे तत्र जिज्ञा­सा­नु­वृ­त्तिर्न स्यात् इत्याशयेनाह —
प्रत्य­क्षे­णा­पीति ।

तस्मादिति ।
प्रत्यक्षावगत इव शब्दा­दि­ग­म्येऽर्थे स्पष्ट­त्वा­भा­वा­दि­त्यर्थः ।

अनुभवसिद्धायाः स्पष्टतायाः प्रयोजकमाह —
अभिव्यक्तेति ।
अपरोक्षत्वं - स्वप्रकाशत्वम् । एकरसत्वम् - एकरूपत्वम् । अभिव्यक्त यदपरोक्षैकरसं चैतन्यं - तत्तादात्म्यात् प्रत्य­क्ष­ग्राह्ये स्पष्टता विष­य­ता­वि­शे­ष­रू­पे­त्यर्थः । अनेन विष­य­ग­त­स्प­ष्ट­ता­प्र­यो­ज­की­भूता या विष­य­चै­त­न्या­भि­व्यक्तिः आव­र­ण­नि­वृ­त्ति­रूपा तस्यास्सिद्धये वृत्ति­नि­र्ग­म­न­म­पे­क्षि­त­मिति सूचितम् ।

आवरणनिवृत्तेः स्पष्ट­ता­प्र­यो­ज­कत्वे अन्वयव्यतिरेकौ दर्शयति —
अत एवेत्यादिना ।
अभि­व्य­क्त­चै­त­न्य­सं­स­र्गा­दे­वे­त्यर्थः ।

शब्दवृत्तीति ।
शब्दजन्या वृत्तिः मन­ना­द्य­नु­ष्ठा­ना­त्प्रा­ग­स­म्भा­व­ना­वि­प­री­त­भा­व­नाभ्यां प्रतिबद्धत्वात् अज्ञा­ना­नि­व­र्तिका, तद­नु­ष्ठा­ना­न­न्त­र­म­प्र­ति­ब­द्ध­त्वा­द­ज्ञा­न­नि­व­र्ति­केति भावः ।

नन्वेतावतापीति ।
अत्र­के­चि­दा­हु­रि­त्या­दिना मत­त्र­यो­प­न्या­सा­त्म­क­ग्र­न्थे­ना­पी­त्यर्थः ।

विष­या­वा­र­का­ज्ञा­नस्य पुरुषगतत्वमते अनिर्गतवृत्त्या निवृ­त्ति­स­म्भ­वेऽपि तस्य विष­या­व­च्छि­न्न­चै­त­न्य­ग­त­त्व­पक्षे तन्नि­र्ग­मा­पेक्षा स्यात् इत्याशङ्क्य, अनि­र्ग­त­वृ­त्त्यैव विष­य­ग­ता­ज्ञा­न­स्यापि निवृत्तौ नास्ति बाधकं इत्याशयेन अज्ञानं विशिनष्टि —
विष­या­व­च्छि­न्न­चै­त­न्य­ग­त­स्येति ।
ननु - ज्ञानाज्ञानयोः निव­र्त्य­नि­व­र्त­क­भा­व­ल­क्षणे विरोधे समानाश्रयत्वे सति समानविषयकत्वं तन्त्रम् । समानाश्रयत्वं च वृत्तिनिर्गमने सति सम्भवति, अज्ञानाश्रये विषयचैतन्ये वृत्ति­रू­प­ज्ञा­न­स्यापि स्थितिलाभात् ।

तन्निर्गमाभावे तु तयोः समा­ना­श्र­य­त्वा­स­म्भ­वात् समा­न­वि­ष­य­क­त्व­मात्रं विरोधप्रयोजकं पर्यवस्यति, तथा चातिप्रसङ्गः - इति शङ्कते —
न च तथासतीति ।
वृत्ति­नि­र्ग­मा­नु­प­गमे सतीत्यर्थः ।

सत्त्वादिति ।
देव­द­त्ती­य­घ­ट­ज्ञा­न­य­ज्ञ­द­त्ती­य­घ­टा­ज्ञा­न­यो­रिति शेषः ।

अहमर्थेति ।
वृत्ति­नि­र्ग­म­ना­भावे सति ज्ञान­म­ह­म­र्थ­नि­ष्ठ­मेव, न विष­य­चै­त­न्य­नि­ष्ठम् । विष­या­वा­र­का­ज्ञानं च विष­य­चै­त­न्य­नि­ष्ठ­मेव, न त्वहमर्थनिष्ठम् । तथा च समानाश्रयत्वं बाधितत्वात् न प्रयो­ज­क­को­टि­प्र­वि­ष्ट­मि­त्यर्थः ।

समा­ना­श्र­य­वि­ष­य­त्व­मिति ।
ज्ञाना­ज्ञा­न­यो­र्वि­रोधे समानाश्रयत्वे सति समानविषयकत्वं प्रयोजकं परिकल्प्य तन्निर्वाहाय वृत्तिनिर्गमे स्वीकृतेऽपि उक्त­दो­ष­ता­द­व­स्थ्येन तयोर्विरोधे उक्त­प्र­यो­ज­का­द­न्य­देव प्रयोजकं कल्पनीयम् ।

तच्च वृत्तिनिर्गमं विनैव सिद्ध्यति ।
अतो विरो­ध­प्र­यो­ज­को­प­पा­द­क­त­याऽपि वृत्तिनिर्गमो न सिद्ध्यतीति समुदायार्थः ।

देवदत्तीयेति ।
यज्ञ­द­त्ती­य­घ­टा­ज्ञा­ना­श्रये घटा­व­च्छि­न्न­चै­तन्ये देव­द­त्ती­य­घ­ट­ज्ञा­न­रू­प­वृ­त्ते­र्नि­र्ग­म­न­द्वारा सम्बन्धे सति देव­द­त्ती­य­घ­ट­ज्ञा­न­य­ज्ञ­द­त्ती­य­घ­टा­ज्ञा­न­यो­स्स­मा­ना­श्र­यत्वे सति समानविषयकत्वं लभ्यते, न च देव­द­त्ती­य­घ­ट­वृत्त्या यज्ञ­द­त्ती­य­घ­टा­ज्ञा­न­नि­वृ­त्ति­र­स्तीति उक्त­दो­ष­ता­द­व­स्थ्य­मि­त्यर्थः ।

यदि इदं प्रयोजकं न भवति किं तर्हि तत्प्रयोजकं वृत्ति­नि­र्ग­म­न­नि­र­पेक्षं पूर्व­वा­दि­न­स्त­वा­भि­प्रे­तम्, तत्राह —
यदज्ञानमिति ।

तदिति ।
तदज्ञानं तत्पु­रु­षी­य­त­द्वि­ष­य­क­ज्ञा­न­नि­व­र्त्य­मि­त्यर्थः । तथा च प्रयोजकशरीरे यं पुरुषं प्रतीत्यनेन तदीयेत्यनेन च यज्ञदत्तं प्रति विष­या­वा­र­का­ज्ञा­नस्य यज्ञ­द­त्ती­य­ज्ञा­ने­नैव निवृत्तिः न देव­द­त्त­ज्ञा­ने­नेति नियमलाभात् नोक्तातिप्रसङ्ग इति सूचितम् ।

वृत्तिनिर्गमं साध­यि­तु­मु­प­क्र­मते —
अत्रा­हु­रि­त्या­दिना ।

किं तदिति ।
अपरोक्षत्वं जाति­रु­पा­धि­र्वेति किंशब्दार्थः ।

आद्यं दूषयति —
न तावदिति ।
पूर्वं दण्डविशिष्टतया गृहीते विष्णुमित्रे वर्तमानकाले दण्डवियुक्ते प्रत्य­क्ष­प्र­त्य­भि­ज्ञानं संस्का­र­रू­पो­प­ना­य­क­स­हि­ता­दि­न्द्रि­यात् जायते ‘अयं विष्णुमित्रो दण्ड्यासीत्’ इति । तत्र दण्डांशे प्रत्य­क्ष­त्व­मस्ति न वा ।

आद्ये दोषमाह —
दण्डांशेऽपीति ।

निवृ­त्त्या­पा­ता­दिति ।
न चात्रे­ष्टा­प­त्ति­र्वक्तुं शक्या, ‘स दण्ड इदानीं कीदृशः’ इति जिज्ञा­सा­नु­द­य­प्र­स­ङ्गा­दिति भावः । ननु-अ­ज्ञा­न­नि­वृ­त्त्यु­नु­भ­व­यो­र­भा­वेऽपि दण्डांशे प्रत्यक्षत्वं कल्प्यते । कल्पकं च इन्द्रि­य­स­न्नि­क­र्ष­ज­न्य­त्वम् ।

सन्निकर्षश्च विष­य­प्र­त्या­सत्तिः इति मतमनुसृत्य संस्कारः कल्प्यते — इत्याशङ्क्य, अतिप्रसङ्गमाह —
अन­नु­भ­वेऽ­पी­त्या­दिना ।
अनुमितौ लिङ्गज्ञानं सन्निकर्षः, उपमितौ सादृश्यज्ञानं सन्निकर्षः, शाब्दे पदा­र्थो­प­स्थि­ति­स्स­न्नि­कर्षः, अर्था­प­त्ता­व­नु­प­प­द्य­मा­न­प­दा­र्थ­ज्ञानं सन्निकर्षः, अभावज्ञाने प्रतियोगिज्ञानं सन्निकर्षः, इति कल्पनया प्रत्य­क्ष­प्र­मा­ण­प­रि­शे­षा­प­त्ते­रिति भावः ।

तदङ्गीकारेति ।
अप­रो­क्ष­त्वा­ङ्गी­का­रा­प­त्ते­रि­त्यर्थः ।

दण्डांशेऽपि न प्रत्य­क्ष­त्व­म­स्तीति द्वितीयकल्पं दूषयति —
दण्डांश इति ।

व्याप्य­वृ­त्ति­त्व­नि­य­मा­दिति ।
अन्यथा एकस्यामेव प्रत्यभिज्ञायां तत्तांशे संस्कारजन्यतया स्मृतित्वापत्तौ जाति­सं­क­रा­प­त्ते­रिति भावः ।

तदनियमेऽपीति ।
जाते­र्व्या­प्य­वृ­त्ति­त्व­नि­य­मा­भा­वेऽपि प्रकृते प्रत्यभिज्ञायां विष्णुमित्रांशे प्रत्यक्षत्वं दण्डांशे तदभावश्चास्तीति वक्तव्यम् । ततश्च अवच्छेदकभेदं विना प्रति­यो­गि­त­द­भा­व­यो­रे­कत्र वृत्त्य­यो­गा­दु­पा­धि­भेदो वाच्यः । स च दुर्निरूपः । तस्मात् अपरोक्षत्वजातेः स्वस­मा­ना­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­रू­पा­व्या­प्य­वृ­त्ति­त्वा­यो­गा­द्व्या­प्य­वृ­त्ति­जा­ति­त्व­मेव वाच्यम् । तत्र च दूषणमुक्तमिति भावः । ननु-प्रकृते उपा­धि­भे­दा­नि­रू­प­ण­म­सि­द्धम्, लौकि­क­स­न्नि­क­र्ष­ज­न्य­त्व­त­द­भा­व­योर्वा संस्का­रा­ज­न्य­ज्ञा­न­त्व­त­द­भा­व­योर्वा विष्णु­मि­त्र­वि­ष­य­क­त्व­त­द­भा­व­योर्वा अप­रो­क्ष­त्व­त­द­भावौ प्रति उपा­धि­त्व­स­म्भ­वात् इति चत्, न - उक्तोपाधीनामपि भावाभावरूपतया तद­र्थ­मु­पा­ध्य­न्त­रा­पे­क्षा­या­म­न­व­स्था­प्र­स­ङ्गा­दिति भावः ।

अप­रो­क्ष­त्व­मु­पा­धि­रिति पक्षं दूषयति —
नापीति ।
अनि­र्व­च­न­म­सि­द्ध­मिति चेत्, तत्र वक्तव्यम् — किमि­न्द्रि­य­ज­न्य­त्व­म­प­रो­क्षत्वं, किं वा तत्स­न्नि­क­र्ष­ज­न्यत्वं, सिद्धा­न्त्य­भि­मतं वा ।

तत्राद्यमनूद्य दूषयति —
इन्द्रियेति ।

सुखा­दि­प्र­त्य­क्ष­रूपे नित्य­सा­क्षि­ण्य­व्या­प्ति­मुक्त्वा अति­व्या­प्ति­म­प्याह —
अनुमितीति ।
यस्मिन् घटे अनुमानेन वा शब्देन वा गुरुत्वमनुभूतं तस्मिन् इन्द्रि­य­स­न्नि­कर्षे सति ‘घटोऽयं गुरुः’ इति प्रत्यक्षं भवति । तत्र विशे­ष­णी­भू­त­गु­रु­त्वां­शेऽ­ति­व्या­प्ते­रि­त्यर्थः ।

ननु गुरुत्वस्य इन्द्रि­या­यो­ग्य­तया परोक्षे तदंशज्ञाने तज्ज­न्य­त्व­म­सि­द्ध­मिति, अत आह —
करणान्तरेति ।

परोक्षेऽपीति ।
यथा रुचिदत्तमते अनुमितौ मनसः करणत्वं तथेति भावः । न च - इन्द्रि­य­त्वे­ने­न्द्रि­य­ज­न्य­त्व­म­प­रो­क्ष­त्वम्, गुरु­त्वां­श­ज्ञाने च न तथा तज्जन्यत्वमिति नाति­व्या­प्ति­रिति — वाच्यम्, तथापि साक्षि­प्र­त्य­क्षा­व्या­प्त्य­नि­रा­सा­दिति भावः । अनेकेषु रूपा­दि­सा­क्षा­त्का­रेषु तज्जन्यत्वं दुर्ग्रहम् ।

अनु­ग­त­ज­न्य­ता­व­च्छे­द­का­भा­वेन तज्ज्ञानं विना जन्य­त्व­ज्ञा­ना­स­म्भ­वा­दि­त्याह —
अनुगतेति ।

ननु ‘साक्षात्करोमि’ इत्यनुभवसिद्धः कश्चि­द­ख­ण्डो­पा­धि­रेव जन्य­ता­व­च्छे­द­कोऽस्तु इत्याशङ्क्य तर्हि स एवापरोक्षत्वं भवेत् नान्यदित्याह —
तद्ग्रहे एति ।
अव­च्छे­द्य­ज­न्य­त्व­ग्र­हात् पूर्वमेव अव­च्छे­द­क­ग्र­ह­स्या­व­श्य­क­त्वात्, ‘साक्षात्करोमि’ इत्य­नु­भ­व­यो­ग्य­स्या­प­रो­क्ष­त्वस्य तद­यो­ग्य­ध­र्म­रू­प­त्वा­यो­गा­च्चे­त्यर्थः । अस्तु तर्हि उक्ता­व­च्छे­द­को­पा­धे­रे­वा­प­रो­क्ष­त्व­रू­प­त्वम् । स किं व्याप्यवृत्तिः अव्या­प्य­वृ­त्तिर्वा । नाद्यः - ‘दण्ड्ययमासीत्’ इति प्रत्यक्षे दण्डां­शेऽ­ति­व्याप्तेः । न द्विती­यः-अ­व­च्छे­द­क­भे­दा­नि­रू­प­णात् । न च - विष्णु­मि­त्र­वि­ष­य­क­त्वा­व­च्छे­देन तत्रा­प­रो­क्ष­त्व­रू­पो­पा­धि­रस्ति, दण्ड­वि­ष­य­क­त्वा­व­च्छे­देन तत्रैव तद­भा­वोऽ­प्य­स्तीति - वाच्यम् । तथासति दण्डांशे विष्णु­मि­त्र­वि­ष­क­त्वा­भा­वस्य वक्तव्यतया तत्र प्रत्यक्षे विष्णु­मि­त्र­वि­ष­य­क­त्व­त­द­भा­व­यो­र­वि­रो­धा­या­व­च्छे­द­का­न्त­रा­पे­क्षायां पूर्वो­क्ता­न­व­स्था­प्र­स­ङ्गात्, अख­ण्डो­पा­धि­स्वी­कारे जाति­मा­त्र­वि­ल­य­प्र­स­ङ्गाच्च नोक्तो­पा­धि­प­क्ष­स्स­म्भ­व­तीति भावः ।

उपाधिपक्षे द्वितीयविकल्पं निराचष्टे —
एतेनेति ।
अव्या­प्त्या­दि­दो­ष­प्र­स­ङ्गे­ने­त्यर्थः ।

इन्द्रि­य­ज­न्य­त्व­म­प­रो­क्ष­त्व­मिति पक्षे या अति­व्या­प्ति­रुक्ता सा तत्स­न्नि­क­र्ष­ज­न्यत्वं तदिति पक्षे नास्तीत्याह शङ्ककः —
उपनयेति ।
करणान्तराभावेन इन्द्रि­य­ज­न्य­त्व­स­त्त्वेऽपि तत्स­न्नि­क­र्ष­ज­न्यत्वं नास्ति, उपनयस्य सन्नि­क­र्ष­त्वा­स­म्भ­वात् सन्नि­क­र्षा­न्त­रा­भा­वा­च्चेति भावः ।

दूषणान्तरमाह —
संयोगादीति ।
संयो­ग­सं­यु­क्त­स­म­वा­या­दि­स­न्नि­क­र्षा­णा­म­न­नु­ग­मने - संयो­गा­दि­ष्व­नु­ग­त­स­न्नि­क­र्ष­त्वा­भा­वे­नेति यावत् ।

अननुगमाच्चेति ।
इन्द्रि­य­स­न्नि­क­र्ष­ज­न्य­त्व­स्येति शेषः । तथा च घट­त­द्रू­प­रू­प­त्व­श­ब्द­श­ब्द­त्व­सु­खा­दि­गो­च­र­सा­क्षा­त्का­रेषु ‘साक्षात्करोमि’ इत्य­नु­ग­त­प्र­त्यक्षं न स्यादिति भावः ।

उपाधिपक्षे तृती­य­मु­पा­धि­मा­श­ङ्कते —
यत्तवाभिमतमिति ।
तव सिद्धान्तियो यत् ज्ञान­ग­त­म­प­रो­क्षत्वं सम्मतं तदेव मम मतेऽप्यस्तु, तथा च अप्र­रो­क्ष­त्व­स्या­ज्ञा­न­नि­व­र्त­क­ज्ञा­न­वि­शे­ष­ण­त्व­स­म्भ­वात् न परोक्षज्ञानेन तन्नि­वृ­त्ति­प्र­सङ्ग इति भावः ।

मद­भि­म­ता­प­रो­क्ष­त्वस्य ज्ञाने तन्नि­वृ­त्ति­प्र­यो­ज­कत्वं न सम्भवतीति सिद्धान्ती दूषयति —
न तस्येति ।
मद­भि­म­ता­प­रो­क्ष­त्व­स्ये­त्यर्थः । प्रस्तावः — प्रकरणम् । तच्च तृती­य­प­रि­च्छे­दा­व­साने द्रष्टव्यम् ।

तत्रैव दर्शनीययेति ।
ज्ञान­स्या­प­रो­क्षत्वं हि न कर­ण­वि­शे­ष­प्र­युक्तं, किं त्वप­रो­क्षा­र्था­भि­न्न­त्वम् । इदं चापरोक्षत्वं विष­या­व­भा­स­क­चै­त­न्य­रू­प­ज्ञा­न­निष्ठं, न वृत्तिनिष्ठम् । अतो न साक्षि­प्र­त्य­क्षा­व्याप्तिः । अर्थापरोक्ष्यं च स्वव्य­व­हा­रा­नु­कू­ल­चै­त­न्या­भि­न्न­त्वम् । स्वपदमर्थपरम् । तद्व्य­व­हा­रा­नु­कूलं च चैतन्यं निवृत्तावरणं तत्त­धि­ष्ठा­न­चै­त­न्य­मेव । तथा च घटाद्यर्थस्य स्वव्य­व­हा­रा­नु­कू­लेन स्वाधि­ष्ठा­न­चै­त­न्येन स्वगो­च­र­वृ­त्त्य­भि­व्य­क्तेन तादा­त्म्य­ल­क्ष­णा­भे­द­स­त्त्वात् स्वव्य­व­हा­रा­नु­कू­ल­चै­त­न्या­भि­न्न­त्व­रू­प­म­प­रो­क्ष­त्व­मु­प­प­न्नम् । तथा अहङ्कारादिषु तदधिष्ठानभूतस्य केव­ल­सा­क्षि­रू­प­त­त्प्र­त्य­क्ष­ज्ञा­नस्य बाह्यघटादिषु तत्त­दा­का­र­वृ­त्त्यु­प­हि­तस्य घटा­दि­प्र­त्य­क्ष­ज्ञा­न­रू­पस्य घटा­द्य­धि­ष्ठा­न­चै­त­न्यस्य च तेनतेन विषयेण तादा­त्म्य­स­त्त्वात् अप­रो­क्षा­र्था­भि­न्न­त्व­रू­प­म­प­रो­क्ष­त्व­मु­प­प­न्न­मिति हि तत्र दर्शनीया रीतिः ।

प्रयो­ज्य­त्वे­नेति ।
विष­य­चै­त­न्य­ग­ता­ज्ञा­न­नि­वृत्तौ सत्यां विषयस्य घटा­दे:स्व­व्य­व­हा­रा­नु­कू­ल­चै­त­न्या­भि­न्न­त्व­रू­प­म­प­रो­क्षत्वं लभ्यते । विषयस्य तल्लाभे सति तज्ज्ञा­न­स्या­प­रो­क्षा­र्था­भि­न्न­त्व­रू­प­म­प­रो­क्षत्वं लभ्यते । तथा च विष­य­चै­त­न्य­ग­ता­ज्ञा­न­नि­वृत्तेः पूर्वं ज्ञान­स्या­प­रो­क्ष­त्वा­ला­भेन सिद्धा­न्त्य­भि­म­तस्य ज्ञान­ग­ता­प­रो­क्ष­त्वस्य विष­य­चै­त­न्य­ग­ता­ज्ञा­न­नि­वृ­त्ति­प्र­यो­ज्यस्य अज्ञाननिवृत्तिं प्रति प्रयो­ज­क­त्वा­स­म्भ­वा­दि­त्यर्थः । तन्निवृत्तिं प्रति प्रयोजकतया निव­र्त­क­ज्ञा­न­वि­शे­ष­ण­त्वा­यो­गा­दि­त्य­क्ष­रार्थः ।

तस्मादिति ।
‘यत् अज्ञानं यं पुरुषं प्रति’ इत्यादिरूपे निरुक्ते विरोधप्रयोजके अपरोक्षत्वस्य निव­र्त­क­ज्ञा­न­वि­शे­ष­ण­त्वा­स­म्भ­वा­दि­त्यर्थः । तस्मात् अज्ञा­ना­श्र­य­चै­त­न्य­सं­स­र्ग­नि­य­तत्वं निव­र्त­क­ज्ञा­न­वि­शे­षणं वाच्यमिति सम्बन्धः । परोक्षज्ञानस्य अज्ञा­न­नि­व­र्त­क­त्व­प्र­स­ङ्ग­वा­र­णा­येति शेषः ।

ननु विषयसंसृष्टस्य वृत्तिज्ञानस्य विष­य­ग­ता­ज्ञा­न­नि­व­र्त­कत्वं क्वचि­द­प्य­कॢ­प्त­मि­त्या­शङ्क्य ब्रह्म­गो­च­र­वृ­त्ति­ज्ञाने कॢप्त­मि­त्या­श­ये­नाह —
ब्रह्म­ज्ञा­न­स्येति ।
मूला­ज्ञा­ना­श्र­य­भूते सर्वोपादाने ब्रह्मणि संस­र्ग­नि­य­त­स्ये­त्यर्थः । यदा ब्रह्मा­गो­च­र­वृ­त्ति­ज्ञा­न­मु­देति तदा नियमेन ब्रह्म­सं­सृ­ष्ट­मे­वो­दे­ती­त्यत्र हेतुत्वेन सर्वो­पा­दा­न­त्व­मु­पा­त्तम् । कार्यमात्रस्य जन्मप्रभृति उपा­दा­न­भू­त­ब्र­ह्मणा सह संसर्गनियमे सति ब्रह्म­गो­च­र­वृ­त्ति­ज्ञा­न­स्यापि स्वनि­व­र्त्य­मू­ला­ज्ञा­ना­श्र­य­भूते ब्रह्मणि संस­र्ग­नि­य­मोऽ­प्य­र्थ­सिद्ध इति भावः ।

ब्रह्म­ज्ञा­न­स्या­ज्ञा­न­नि­व­र्त­कत्वे मानमाह —
तरति शोकमिति ।
शोकपदमज्ञानपरम् । आत्मपदं प्रत्य­ग­भि­न्न­ब्र­ह्म­प­रम् । श्रुतस्येति पदात् पूर्वं अज्ञा­न­नि­व­र्त­क­त्वे­नेति शेषः ।

परोक्षवृत्तीनां विष­य­चै­त­न्य­सं­स­र्गा­भा­वा­दै­न्द्रि­य­क­वृ­त्तीनां तत्संसर्गे को हेतुः, तत्राह —
तत्त­दि­न्द्रि­य­स­न्नि­क­र्ष­सा­म­र्थ्या­दिति ।
अनेन परो­क्ष­वृ­त्ती­ना­म­ज्ञा­ना­श्र­य­वि­ष­य­चै­त­न्य­सं­स­र्ग­नि­य­त­त्व­रू­प­वि­शे­ष­णा­भा­वात् यदज्ञानं यं प्रती­त्या­द्यं­श­स­त्त्वेऽपि न तत्रातिप्रसङ्ग इति सूचितम् ।

पर्यवसितं प्रयोजकं दर्शयति —
तथा चेति ।
उक्तविशेषणे सतीत्यर्थः । घटा­व­च्छि­न्न­चै­तन्ये तदा­वा­र­का­ज्ञा­नानि बहूनि सन्ति । तेषां मध्ये कानि­चि­द्दे­व­दत्तं प्रति तदावारकाणि, कानिचिच्च यज्ञदत्तादिकं प्रति तदावारकाणि । एवं प्रतिविषयं पुरुषभेदेन अनेकाज्ञानानि सन्ति । तथा च विष­या­वा­र­का­ज्ञा­नानां मध्ये यत् अज्ञानं यं पुरुषंदेवदत्तं प्रति यद्विषयावारकं - यस्य विषयस्य घटस्यावारकं, तत् अज्ञानं तदी­ये­न-दे­व­द­त्ती­येन तद्वि­ष­ये­ण-घ­ट-वि­ष­य­केण तद­ज्ञा­ना­श्र­य­चै­त­न्य­सं­स­र्ग­नि­य­ता­त्म­ला­भ­ज्ञा­नेन निव­र्त्य­मि­त्यर्थः । तदज्ञानेतिपदेन देवदत्तं प्रति घटा­वा­र­का­ज्ञा­न­म­भि­धी­यते । तद­ज्ञा­ना­श्र­य­चै­तन्यं घटा­व­च्छि­न्न­चै­तन्यं, तत्र यस्संसर्गः, तन्नि­य­तः-त­द्व्याप्यः आत्मलाभो यस्य घट­गो­च­र­वृ­त्ति­ज्ञा­नस्य, तत् ज्ञानं तद­ज्ञा­ना­श्र­य­चै­त­न्य­सं­स­र्ग­नि­य­ता­त्म­ला­भम् । तच्च तत् अज्ञानं चेति विग्रहः । आत्म­ला­भः-उ­त्पत्तिः । नियमश्च — यदा यदा घट­गो­च­र­वृ­त्ति­ज्ञा­नस्य घटे­न्द्रि­य­स­न्नि­क­र्ष­ज­न्यस्य आत्मलाभः, तदा तदा घटा­व­च्छि­न्न­चै­तन्ये तस्य (घट­गो­च­र­वृ­त्ति­ज्ञा­नस्य) संस­र्गः-इ­त्ये­व­मा­त्मकः । तदुक्तं प्राक् ‘ऐन्द्रि­य­क­वृ­त्त­य­स्त­त्त­द्वि­ष­या­व­च्छि­न्न­चै­त­न्य­सं­सृष्टा एवोत्पद्यन्ते इति नियममुपेत्य’ इति । अत्र ‘यदा यदा ऐन्द्रि­य­क­वृ­त्ती­ना­मु­त्पत्तिः तदातदा विषयचैतन्ये तासां संसर्गः इति हि नियमः स्पष्टं भासते । एवं विषयान्तरेषु पुरुषान्तरेषु अज्ञानान्तरेषु ज्ञानान्तरेषु च इदं प्रयोजकं विशिष्यविशिष्य योजनीयम् । ननु ‘परोक्षवृतीनां विष­य­चै­त­न्य­सं­स­र्गा­भा­वे­नो­क्त­प्र­यो­ज­का­ना­क्रा­न्त­त्वा­द­ज्ञा­न­नि­व­र्त­क­त्व­प्र­सङ्गो नास्ति’ इत्यु­क्त­म­यु­क्तम्, क्वचित् परोक्षवृत्तेरपि विष­य­सं­स­र्ग­स­त्त्वात् । तथा हि — ‘हृदयपुण्डरीके नाड्यस्सन्ति’ इतिवाक्यात् जायमानाया वृत्तेः कदाचित् अन्तःकरणे हृद­य­पु­ण्ड­री­कस्थे नाडी­हृ­द­या­न्य­त­र­व­स्त्व­व­च्छे­देन जनने सति तस्या वृत्तेः तद­न्य­त­र­व­स्त्व­व­च्छि­न्न­चै­त­न्य­सं­स­र्ग­स­त्त्वात् तदा­व­र­ण­नि­व­र्त­क­त्व­प्र­सङ्गः । न चेष्टापत्तिः ।

तदा तदन्यतरवस्तुनि जिज्ञा­सा­नु­द­य­प्र­स­ङ्गात् - इति शङ्का नियतपदेन निरस्तेत्याह —
न चैवंसतीति ।
विरोधप्रयोजकस्य नियमगर्भत्वे सति शाब्द­ज्ञा­न­स्या­प्य­ज्ञा­न­नि­व­र्त­क­त्व­प्र­सङ्गो न चेति सम्बन्धः । ‘यदायदा हृद­या­दि­गो­च­र­शा­ब्द­वृ­त्ते­रु­दयः तदातदा तस्या वृत्ते­र्हृ­द­या­द्य­न्य­त­र­व­स्त्व­व­च्छि­चै­तन्ये संसर्गः’ इति नियमो नास्तीति हेतुमाह —

तस्येति ।
तादृ­श­शा­ब्द­ज्ञा­न­स्ये­त्यर्थः । ऐन्द्रि­य­क­वृ­त्तीनां हि तत्त­दि­न्द्रि­य­गो­ल­का­व­च्छि­न्ना­न्तः­क­र­ण­प्र­दे­शे­षू­त्प­त्ति­नि­य­मः­स­म्भा­व्यते । इन्द्रि­य­नि­र­पे­क्ष­वृ­त्तीनां तु अन्तःकरणे जायमानानां प्रदेशनियमे कारणाभावात् हृद­या­दि­गो­च­र­शा­ब्द­वृत्तिः कदा­चि­द्दै­व­यो­गा­द्धृ­द­या­द्य­व­च्छे­दे­ना­न्तः­क­रणे जायते कदाचितु हृदयादिप्रदेशं विहाय प्रदे­शा­न्त­रा­व­च्छे­देन सा तत्र जायत इति, निरुक्तनियमो नास्तीत्यर्थः । अत्र तस्येति षष्ठ्याः­स­प्तम्या पञ्चम्या च सम्बन्धः ।

तस्मादिति ।
वृत्तिज्ञानस्य अज्ञा­ना­श्र­य­वि­ष­य­चै­त­न्य­सं­सर्गं विना तन्नि­व­र्त­क­त्वा­स­म्भ­वा­दि­त्यर्थः ।

एवं ज्ञाना­ज्ञा­न­यो­र्वि­रो­ध­प्र­यो­ज­क­नि­र्वा­ह­क­त्वेन वृत्तिनिर्गमनं प्रसाध्य तत्रैव हेत्वन्तराणि मतभेदेनाह —
अन्ये त्वित्यादिना ।

लाघवादिति ।
विषयगताज्ञानस्य अन्व­य­व्य­ति­रे­काभ्यां ज्ञान­नि­व­र्त्य­त्व­ग्र­ह­द­शायां लाघवात् समा­ना­धि­क­र­ण­ज्ञा­न­नि­व­र्त्यत्वं गृह्यते, न तु व्यधि­क­र­ण­ज्ञा­न­नि­व­र्त्यत्वं इत्यर्थः । एतदुक्तं भवति — अज्ञानस्य विष­य­चै­त­न्य­ग­त­त्वा­त्त­न्नि­वृ­त्ति­ल­क्षणं ज्ञानकार्यमपि तद्गतमेव । तथा च अज्ञा­न­नि­वृ­त्ति­रू­प­का­र्यस्य स्वका­र­ण­भू­त­ज्ञा­नेन सह इन्द्रि­य­स­न्नि­क­र्ष­सा­म­र्थ्यात् सामा­ना­धि­क­र­ण्य­ल­क्ष­ण­स­म्ब­न्ध­स­म्भवे तत्त्या­गा­यो­गात्, कार्य­का­र­ण­यो­स्सा­मा­ना­धि­क­र­ण्य­स्यौ­त्स­र्गि­क­त्वात् — इति ।

बाह्यतम इति ।
अन्धकारेत्यर्थः ।

सत्येवेति ।
अन्यत्र विद्य­मा­ना­दा­लो­कात् अन्यत्र तमोनाशो न दृष्ट इत्येवकारार्थः । अज्ञानस्यापि विषयावारकत्वेन बाह्य­त­म­स्स­दृ­श­त्वात् वृत्तिरूपस्य वृत्त्या­रू­ढ­चै­त­न्य­रू­पस्य वा प्रकाशस्य आव­र­ण­नि­व­र्त­क­त्वे­ना­लो­क­स­दृ­श­त्वात् ज्ञाना­ज्ञा­न­यो­र­प्य­न्ध­का­रा­लो­क­यो­रिव समानाधिकरणयोरेव निव­र्त्य­नि­व­र्त­क­भावः कल्प्यते । तच्च सामानाधिकारण्यं अज्ञानाश्रये विषयचैतन्ये वृत्तिज्ञानस्य संसर्गरूपम्, स च संसर्गो वृत्ति­नि­र्ग­मा­धीन इति भावः । एवं विष­य­चै­त­न्य­ग­ता­ज्ञा­न­नि­वृ­त्ति­र­नि­र्ग­त­वृ­त्त्यापि सम्भवति, अतो वृत्ति­नि­र्ग­म­ना­भ्यु­प­गमो व्यर्थः इत्याक्षेपे तन्निर्गमं विना तन्निवृत्तिर्न सम्भवतीति तदभ्युपगमस्सफल इति समाधानं दर्शितम् ।

इदानीं ‘विष­य­चै­त­न्य­ग­ता­ज्ञा­न­नि­वृ­त्त्यर्थं वृत्तिनिर्गमनं नापेक्षितम्’ इति पूर्व­प­क्ष्यु­क्त­म­ङ्गी­कृ­त्यापि वृत्तिनिर्गमनं साधयति —
केचित्त्विति ।
इदं च प्रकारद्वयं प्रागेव प्रपञ्चितमिति नेह प्रपञ्च्यत इति बोध्यम् ।

प्रमा­तृ­चै­त­न्य­श­ब्दि­त­जी­वस्य ब्रह्माभेदे नास्ति प्रमाणमिति शङ्कते —
अथेति ।
अयमभेदः किं वेदान्तप्रमाणकः किं वा तदन्यप्रमाणकः । तत्र न नावदाद्यः कल्पःसम्भवति — वेदा­न्ता­ना­मु­पा­स­ना­दि­प­र­त्व­प्र­तीतेः, न द्वितीयः — जीव­ब्र­ह्मा­भे­द­स्यौ­प­नि­ष­द­त्व­श्रु­ति­वि­रो­धात् इति भावः ।

तत्राद्यं कल्पं परिगृह्य समाधत्ते —
वेदान्तेति ।

तेषा­मु­पा­स­ना­दि­प­रत्वं दूषयति —
सर्वेऽपीति ।
वेदान्तानां क्व तात्पर्यमिति विमृ­श्य­मा­ना­स्स­र्वेऽपि वेदान्ता अद्वये जीवाभिन्ने ब्रह्मणि समनुयन्ति - समन्वयं - तात्पर्यं लभन्ते ।

तात्प­र्य­ज्ञा­प­कानि लिङ्गानि कथयति —
उपक्रमेति ।
आदि­प­द­म­भ्या­सा­दि­स­ङ्ग्र­हा­र्थम् ।

के ते वेदान्ताः ? कथं वा तेषु उक्तलिङ्गानां सत्त्वं ? को वा तैर्लि­ङ्गै­स्ता­त्प­र्या­व­ग­म­प्र­कारः ? इत्या­का­ङ्क्षा­या­माह —
यथा चेति ।
सर्वेषां वेदान्तानां अयमेव पर­म­ता­त्प­र्य­वि­ष­यी­भू­तोऽर्थः न तूपासनादिरिति प्रप­ञ्चि­त­मि­त्यर्थः ।

अत्रापि कुतो न प्रपञ्च्यते, तत्राह —
विस्तरेति ।
ग्रन्थ­वि­स्त­र­भ­या­दि­त्यर्थः ।

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­त्स्व­यं­प्र­का­शा­न­न्द­स­र­स्व­ती­च­र­णा­र­वि­न्द­सं­ल­ग्र­र­जो­भू­तस्य अच्यु­त­कृ­ष्णा­न­न्द­ती­र्थस्य कृतौ शास्त्र­सि­द्धा­न्त­ले­श­सं­ग्र­ह­व्या­ख्यायां कृष्णा­ल­ङ्का­रा­ख्यायां प्रथमः परिच्छेदः समाप्तः ।
श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं सम्प्रणम्य च ।
व्याख्यातोऽयं परिच्छेदः श्रीकृ­ष्ण­प­रि­तु­ष्टये ॥