कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
वृत्तिनिर्गमनप्रयोजनविचारः
एवं बाह्यगोचरापरोक्षवृत्तीनामेवावरणाभिभावकत्वमिति नियमस्य भ्रमस्थलीयेदमाकारवृत्तौ व्यभिचारशङ्कायां सत्यां तद्वृत्त्यभ्युपगमानभ्युपगमाभ्यां तां परिहृत्य, प्रसङ्गात् ज्ञानद्वयपक्षे किञ्चिद्विचार्य पूर्वोक्तं वृत्तिनिर्गममाक्षिपति —
नन्विति ।
किं वृत्येति ।
वृत्तिरेव मास्तु, तन्निर्गमो दूरापास्त एवेत्याशयः । ननु - केवलसाक्षिण एव विषयानुभवरूपत्वे कालान्तरे विषयानुसन्धानं न स्यात्, अनुभवनाशलक्षणसंस्काराभावात् । तथा आगन्तुकवृत्त्यनङ्गीकारे चक्षुराद्यनुविधानं न स्यात्, नित्यसाक्षिणि चक्षुरादेरनुपयोगात् ।
अतो वृत्तिरादर्त्तव्या - इत्याशङ्क्य तामङ्गीकरोति —
घटादीति ।
ननु विषयप्रकाश एव तन्निर्गमफलमिति, नेत्याह —
परोक्षस्थल इवेति ।
ननु प्रत्यक्षपरोक्षज्ञानयोर्वैलक्षण्यमनुभवसिद्धम्, तच्च प्रत्यक्षस्थले वृत्तिनिर्गमाभ्युपगमे निर्वहति — बहिर्निर्गतवृत्त्यवच्छिन्नचैतन्यमपरोक्षज्ञानं, अनिर्गतवृत्त्यवच्छिन्नचैतन्यं परोक्षज्ञानमिति, नेत्याह —
न च तथासतीत्यादिना ।
वृत्त्यनिर्गमने सतीत्यर्थः । इन्द्रियजन्यं ज्ञानं प्रत्यक्षं तदजन्यं ज्ञानं परोक्षमिति वैलक्षण्योपपत्तेरित्यर्थः । यथा शाब्दज्ञाने शब्दरूपकरणविशेषप्रयुक्तं शाब्दत्वरूपं वैजात्यं, यथावा अनुमितावनुमितित्वं, तथेत्यर्थः । करणविशेषः इन्द्रियं अनुमानादि च, तत्प्रयुक्तं वृत्तिषु वैजात्यं प्रत्यक्षत्वादिजातिरूपमुपाधिरूपं वा, तस्मादेवेत्यर्थः ।
वृत्तिनिर्गमं साधयति —
अत्र केचिदाहुरिति ।
विषयाधिष्ठानतया विषयावच्छिन्नं यच्चैतन्यं तदेव विषयप्रकाशः, न जीवचैतन्यम्, तस्य विषयं प्रत्युपादानत्वाभावेन साक्षात्तादात्म्यसम्बन्धाभावादित्यर्थः ।
अन्यस्य वेति ।
परम्परासम्बन्धस्य वेत्यर्थः । तादात्म्यरूपसंबन्धसम्भवे स्वरूपसम्बन्धकल्पनायोगात्, साक्षात्सम्बन्धसम्भवे अन्यस्य संबन्धस्य कल्पनायोगात्, इति विभागः ।
ततः किं, तत्राह —
इति तदभिव्यक्त्यर्थमिति ।
विषयावच्छिन्नब्रह्मचैतन्यस्यैव विषयप्रकाशकत्वात् तस्य च आवृतत्वात् आवरणाभिभवरूपाभिव्यक्तिसिद्ध्यर्थमित्यर्थः ।
ननु - उक्तयुक्त्या परोक्षस्थलेऽपि विषयावच्छिन्नब्रह्मचैतन्यमेव विषयावभासकं स्यात्, ततश्च तत्रापि तन्निर्गमः प्रसज्येतेति, नेत्याह —
परोक्षस्थल इति ।
वृत्तिनिर्गमनहेतुसन्निकर्षाभावादित्याशयेनाह —
व्यवहित इति ।
वृत्तिनिर्गमने उपपत्त्यन्तरमाह —
अन्ये त्विति ।
संसर्गिषु कॢप्तमिति ।
संसर्गः - तादात्म्यम् । विषयापरोक्ष्ये क्वचित्कॢप्तप्रयोजकस्य संसर्गस्यैवान्यत्रापि सम्भवे तत्त्यागायोगादिति भावः ।
विषयसंसृष्टमेवेति ।
न तु तदसंसृष्टं जीवचैतन्यं इत्येवकारार्थः ।
तदभिव्यक्तय इति ।
विषयावच्छिन्नब्रह्मचैतन्याभिव्यक्तये इत्यर्थः ।
प्रत्यक्षे वस्तुनि आवरणाभिभवस्यावश्यकताप्रतिपादनपूर्वकं तदभिभवार्थं वृत्तिनिर्गमनं इति प्रतिपादयति —
इतरे त्विति ।
ननु शब्दाद्यवगतेऽप्यर्थे स्पष्टता किं न स्यादिति, नेत्याह —
न हीति ।
परिमलं-सुगन्धः । आदिपदं रसालगतरससङ्ग्रहार्थम् । ‘आम्रफले मधुररसादिरस्ति’ इत्येवंरूपादाप्तवाक्याच्छतवारमुक्तादपि मधुरत्वादिसामान्यविशिष्टतयैव रसादिज्ञानं भवति, न तु मधुरत्वव्याप्यजातिविशेषविशिष्टरसादिज्ञानम् ।
तथा च रसादिगतजातिविशेषज्ञानाभावादेव जातिविशेषे जिज्ञासा उपपद्यते, न तु शब्दादवगतेऽपि स्पष्टत्वाभावात् इत्याशयेन शङ्कते —
न च शब्दादिति ।
माधुर्युं-मधुररसः । माधुर्यादिमात्रावगमेऽपि शब्दादसाधारणजातिविशेषावच्छिन्नमाधुर्यावगमो नास्तीति सम्बन्धः । असाधारणो यो जातिविशेषः तदवच्छिन्नतया माधुर्यावगमो नास्तीत्यर्थः ।
जातिविशेषावगमाभावे उपायाभावं हेतुमाह —
रसालेत्यादिना ।
रसालस्य यन्माधुर्यादि तद्वृत्तिर्यः अवान्तरजातिविशेषः तद्वाचकशब्दाभावादित्यर्थः ।
तद्बोधकशब्दमङ्गीकृत्यापि शक्तिग्रहाभावात्तदवगमो न सम्भवतीत्याह —
तत्सत्त्वेऽपीति ।
तस्येति ।
अवान्तरजातिविशेषवाचकशब्दस्येत्यर्थः । न च शङ्क्यमिति सम्बन्धः । तद्वाचकपदाभावेऽपि तद्बोधको वाक्यरूपश्शब्दोऽस्ति । तेन च जातिविशेषावगमोऽप्यस्ति ।
तथा चावगते जातिविशेषे स्पष्टत्वाभावादेव जिज्ञासा - इत्याशयेनाह —
रसाल इत्यादिना ।
अयं शब्दः किं तद्गतं जातिविशेषं बोधयति, किं वा अन्यगतम् ? आद्यमङ्गीकरोति —
तद्गतावान्तरेति ।
द्वितीयं दूषयति —
न ह्ययमिति ।
तत्रेति ।
रसालमाधुर्यादावित्यर्थः । तात्पर्यविषय एव शब्दस्य प्रामाण्याभ्युपगमादिति भावः । न चाप्रामाण्ये इष्टापत्ति रिति वाच्यम्, आप्तवाक्यस्य तदङ्गीकारायोगादिति भावः ।
माधुर्यगतजातिविशेषावगममङ्गीकृत्य शङ्कते —
न च तद्गतमेवेति ।
सामान्येनेति ।
विशेषत्वं रसालमाधुर्यगते जातिविशेष इव फलान्तरमाधुर्यगतेषु जातिविशेषेष्वपि सत्त्वात् सामान्यरूपमिति भावः ।
न विशिष्येति ।
जातिविशेषगतविशेषविशिष्टतया जातिविशेषं न बोधयति । तथा च रसालमाधुर्यगतजातिविशेषस्य स्वरूपेण शब्दादवगतत्वेऽपि स्क्गतासाधारणविशेषविशिष्टतया अनवगतत्वादेव जिज्ञास्यत्वमिति भावः । जातिविशेषगतोऽसाधारणविशेषः किं जातिरूपः, किं वा जातिविशेषाश्रयेतरावृत्तित्वे सति जातिविशेषाश्रयवृत्तित्वरूप उपाधिर्वा । नाद्यः । जातौ तदनङ्गीकारात् । न द्वितीयः । रसालमाधुर्यगतजातिविशेषे प्रत्यक्षेणापि तदग्रहणेन प्रत्यक्षावगतेऽपि जातिविशेषे जिज्ञासानुवृत्तिप्रसङ्गात् ।
तस्मात् प्रत्यक्षेणापि स जातिविशेषः स्वरूपेणैव गृह्यत इति वक्तव्यम्, स्वरूपेण तदवगमश्च उक्तशब्दादप्यस्त्येवेति शब्दावगतस्यापि स्पष्टत्वे तत्र जिज्ञासानुवृत्तिर्न स्यात् इत्याशयेनाह —
प्रत्यक्षेणापीति ।
तस्मादिति ।
प्रत्यक्षावगत इव शब्दादिगम्येऽर्थे स्पष्टत्वाभावादित्यर्थः ।
अनुभवसिद्धायाः स्पष्टतायाः प्रयोजकमाह —
अभिव्यक्तेति ।
अपरोक्षत्वं - स्वप्रकाशत्वम् । एकरसत्वम् - एकरूपत्वम् । अभिव्यक्त यदपरोक्षैकरसं चैतन्यं - तत्तादात्म्यात् प्रत्यक्षग्राह्ये स्पष्टता विषयताविशेषरूपेत्यर्थः । अनेन विषयगतस्पष्टताप्रयोजकीभूता या विषयचैतन्याभिव्यक्तिः आवरणनिवृत्तिरूपा तस्यास्सिद्धये वृत्तिनिर्गमनमपेक्षितमिति सूचितम् ।
आवरणनिवृत्तेः स्पष्टताप्रयोजकत्वे अन्वयव्यतिरेकौ दर्शयति —
अत एवेत्यादिना ।
अभिव्यक्तचैतन्यसंसर्गादेवेत्यर्थः ।
शब्दवृत्तीति ।
शब्दजन्या वृत्तिः मननाद्यनुष्ठानात्प्रागसम्भावनाविपरीतभावनाभ्यां प्रतिबद्धत्वात् अज्ञानानिवर्तिका, तदनुष्ठानानन्तरमप्रतिबद्धत्वादज्ञाननिवर्तिकेति भावः ।
नन्वेतावतापीति ।
अत्रकेचिदाहुरित्यादिना मतत्रयोपन्यासात्मकग्रन्थेनापीत्यर्थः ।
विषयावारकाज्ञानस्य पुरुषगतत्वमते अनिर्गतवृत्त्या निवृत्तिसम्भवेऽपि तस्य विषयावच्छिन्नचैतन्यगतत्वपक्षे तन्निर्गमापेक्षा स्यात् इत्याशङ्क्य, अनिर्गतवृत्त्यैव विषयगताज्ञानस्यापि निवृत्तौ नास्ति बाधकं इत्याशयेन अज्ञानं विशिनष्टि —
विषयावच्छिन्नचैतन्यगतस्येति ।
ननु - ज्ञानाज्ञानयोः निवर्त्यनिवर्तकभावलक्षणे विरोधे समानाश्रयत्वे सति समानविषयकत्वं तन्त्रम् । समानाश्रयत्वं च वृत्तिनिर्गमने सति सम्भवति, अज्ञानाश्रये विषयचैतन्ये वृत्तिरूपज्ञानस्यापि स्थितिलाभात् ।
तन्निर्गमाभावे तु तयोः समानाश्रयत्वासम्भवात् समानविषयकत्वमात्रं विरोधप्रयोजकं पर्यवस्यति, तथा चातिप्रसङ्गः - इति शङ्कते —
न च तथासतीति ।
वृत्तिनिर्गमानुपगमे सतीत्यर्थः ।
सत्त्वादिति ।
देवदत्तीयघटज्ञानयज्ञदत्तीयघटाज्ञानयोरिति शेषः ।
अहमर्थेति ।
वृत्तिनिर्गमनाभावे सति ज्ञानमहमर्थनिष्ठमेव, न विषयचैतन्यनिष्ठम् । विषयावारकाज्ञानं च विषयचैतन्यनिष्ठमेव, न त्वहमर्थनिष्ठम् । तथा च समानाश्रयत्वं बाधितत्वात् न प्रयोजककोटिप्रविष्टमित्यर्थः ।
समानाश्रयविषयत्वमिति ।
ज्ञानाज्ञानयोर्विरोधे समानाश्रयत्वे सति समानविषयकत्वं प्रयोजकं परिकल्प्य तन्निर्वाहाय वृत्तिनिर्गमे स्वीकृतेऽपि उक्तदोषतादवस्थ्येन तयोर्विरोधे उक्तप्रयोजकादन्यदेव प्रयोजकं कल्पनीयम् ।
तच्च वृत्तिनिर्गमं विनैव सिद्ध्यति ।
अतो विरोधप्रयोजकोपपादकतयाऽपि वृत्तिनिर्गमो न सिद्ध्यतीति समुदायार्थः ।
देवदत्तीयेति ।
यज्ञदत्तीयघटाज्ञानाश्रये घटावच्छिन्नचैतन्ये देवदत्तीयघटज्ञानरूपवृत्तेर्निर्गमनद्वारा सम्बन्धे सति देवदत्तीयघटज्ञानयज्ञदत्तीयघटाज्ञानयोस्समानाश्रयत्वे सति समानविषयकत्वं लभ्यते, न च देवदत्तीयघटवृत्त्या यज्ञदत्तीयघटाज्ञाननिवृत्तिरस्तीति उक्तदोषतादवस्थ्यमित्यर्थः ।
यदि इदं प्रयोजकं न भवति किं तर्हि तत्प्रयोजकं वृत्तिनिर्गमननिरपेक्षं पूर्ववादिनस्तवाभिप्रेतम्, तत्राह —
यदज्ञानमिति ।
तदिति ।
तदज्ञानं तत्पुरुषीयतद्विषयकज्ञाननिवर्त्यमित्यर्थः । तथा च प्रयोजकशरीरे यं पुरुषं प्रतीत्यनेन तदीयेत्यनेन च यज्ञदत्तं प्रति विषयावारकाज्ञानस्य यज्ञदत्तीयज्ञानेनैव निवृत्तिः न देवदत्तज्ञानेनेति नियमलाभात् नोक्तातिप्रसङ्ग इति सूचितम् ।
वृत्तिनिर्गमं साधयितुमुपक्रमते —
अत्राहुरित्यादिना ।
किं तदिति ।
अपरोक्षत्वं जातिरुपाधिर्वेति किंशब्दार्थः ।
आद्यं दूषयति —
न तावदिति ।
पूर्वं दण्डविशिष्टतया गृहीते विष्णुमित्रे वर्तमानकाले दण्डवियुक्ते प्रत्यक्षप्रत्यभिज्ञानं संस्काररूपोपनायकसहितादिन्द्रियात् जायते ‘अयं विष्णुमित्रो दण्ड्यासीत्’ इति । तत्र दण्डांशे प्रत्यक्षत्वमस्ति न वा ।
आद्ये दोषमाह —
दण्डांशेऽपीति ।
निवृत्त्यापातादिति ।
न चात्रेष्टापत्तिर्वक्तुं शक्या, ‘स दण्ड इदानीं कीदृशः’ इति जिज्ञासानुदयप्रसङ्गादिति भावः । ननु-अज्ञाननिवृत्त्युनुभवयोरभावेऽपि दण्डांशे प्रत्यक्षत्वं कल्प्यते । कल्पकं च इन्द्रियसन्निकर्षजन्यत्वम् ।
सन्निकर्षश्च विषयप्रत्यासत्तिः इति मतमनुसृत्य संस्कारः कल्प्यते — इत्याशङ्क्य, अतिप्रसङ्गमाह —
अननुभवेऽपीत्यादिना ।
अनुमितौ लिङ्गज्ञानं सन्निकर्षः, उपमितौ सादृश्यज्ञानं सन्निकर्षः, शाब्दे पदार्थोपस्थितिस्सन्निकर्षः, अर्थापत्तावनुपपद्यमानपदार्थज्ञानं सन्निकर्षः, अभावज्ञाने प्रतियोगिज्ञानं सन्निकर्षः, इति कल्पनया प्रत्यक्षप्रमाणपरिशेषापत्तेरिति भावः ।
तदङ्गीकारेति ।
अपरोक्षत्वाङ्गीकारापत्तेरित्यर्थः ।
दण्डांशेऽपि न प्रत्यक्षत्वमस्तीति द्वितीयकल्पं दूषयति —
दण्डांश इति ।
व्याप्यवृत्तित्वनियमादिति ।
अन्यथा एकस्यामेव प्रत्यभिज्ञायां तत्तांशे संस्कारजन्यतया स्मृतित्वापत्तौ जातिसंकरापत्तेरिति भावः ।
तदनियमेऽपीति ।
जातेर्व्याप्यवृत्तित्वनियमाभावेऽपि प्रकृते प्रत्यभिज्ञायां विष्णुमित्रांशे प्रत्यक्षत्वं दण्डांशे तदभावश्चास्तीति वक्तव्यम् । ततश्च अवच्छेदकभेदं विना प्रतियोगितदभावयोरेकत्र वृत्त्ययोगादुपाधिभेदो वाच्यः । स च दुर्निरूपः । तस्मात् अपरोक्षत्वजातेः स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपाव्याप्यवृत्तित्वायोगाद्व्याप्यवृत्तिजातित्वमेव वाच्यम् । तत्र च दूषणमुक्तमिति भावः । ननु-प्रकृते उपाधिभेदानिरूपणमसिद्धम्, लौकिकसन्निकर्षजन्यत्वतदभावयोर्वा संस्काराजन्यज्ञानत्वतदभावयोर्वा विष्णुमित्रविषयकत्वतदभावयोर्वा अपरोक्षत्वतदभावौ प्रति उपाधित्वसम्भवात् इति चत्, न - उक्तोपाधीनामपि भावाभावरूपतया तदर्थमुपाध्यन्तरापेक्षायामनवस्थाप्रसङ्गादिति भावः ।
अपरोक्षत्वमुपाधिरिति पक्षं दूषयति —
नापीति ।
अनिर्वचनमसिद्धमिति चेत्, तत्र वक्तव्यम् — किमिन्द्रियजन्यत्वमपरोक्षत्वं, किं वा तत्सन्निकर्षजन्यत्वं, सिद्धान्त्यभिमतं वा ।
तत्राद्यमनूद्य दूषयति —
इन्द्रियेति ।
सुखादिप्रत्यक्षरूपे नित्यसाक्षिण्यव्याप्तिमुक्त्वा अतिव्याप्तिमप्याह —
अनुमितीति ।
यस्मिन् घटे अनुमानेन वा शब्देन वा गुरुत्वमनुभूतं तस्मिन् इन्द्रियसन्निकर्षे सति ‘घटोऽयं गुरुः’ इति प्रत्यक्षं भवति । तत्र विशेषणीभूतगुरुत्वांशेऽतिव्याप्तेरित्यर्थः ।
ननु गुरुत्वस्य इन्द्रियायोग्यतया परोक्षे तदंशज्ञाने तज्जन्यत्वमसिद्धमिति, अत आह —
करणान्तरेति ।
परोक्षेऽपीति ।
यथा रुचिदत्तमते अनुमितौ मनसः करणत्वं तथेति भावः । न च - इन्द्रियत्वेनेन्द्रियजन्यत्वमपरोक्षत्वम्, गुरुत्वांशज्ञाने च न तथा तज्जन्यत्वमिति नातिव्याप्तिरिति — वाच्यम्, तथापि साक्षिप्रत्यक्षाव्याप्त्यनिरासादिति भावः । अनेकेषु रूपादिसाक्षात्कारेषु तज्जन्यत्वं दुर्ग्रहम् ।
अनुगतजन्यतावच्छेदकाभावेन तज्ज्ञानं विना जन्यत्वज्ञानासम्भवादित्याह —
अनुगतेति ।
ननु ‘साक्षात्करोमि’ इत्यनुभवसिद्धः कश्चिदखण्डोपाधिरेव जन्यतावच्छेदकोऽस्तु इत्याशङ्क्य तर्हि स एवापरोक्षत्वं भवेत् नान्यदित्याह —
तद्ग्रहे एति ।
अवच्छेद्यजन्यत्वग्रहात् पूर्वमेव अवच्छेदकग्रहस्यावश्यकत्वात्, ‘साक्षात्करोमि’ इत्यनुभवयोग्यस्यापरोक्षत्वस्य तदयोग्यधर्मरूपत्वायोगाच्चेत्यर्थः । अस्तु तर्हि उक्तावच्छेदकोपाधेरेवापरोक्षत्वरूपत्वम् । स किं व्याप्यवृत्तिः अव्याप्यवृत्तिर्वा । नाद्यः - ‘दण्ड्ययमासीत्’ इति प्रत्यक्षे दण्डांशेऽतिव्याप्तेः । न द्वितीयः-अवच्छेदकभेदानिरूपणात् । न च - विष्णुमित्रविषयकत्वावच्छेदेन तत्रापरोक्षत्वरूपोपाधिरस्ति, दण्डविषयकत्वावच्छेदेन तत्रैव तदभावोऽप्यस्तीति - वाच्यम् । तथासति दण्डांशे विष्णुमित्रविषकत्वाभावस्य वक्तव्यतया तत्र प्रत्यक्षे विष्णुमित्रविषयकत्वतदभावयोरविरोधायावच्छेदकान्तरापेक्षायां पूर्वोक्तानवस्थाप्रसङ्गात्, अखण्डोपाधिस्वीकारे जातिमात्रविलयप्रसङ्गाच्च नोक्तोपाधिपक्षस्सम्भवतीति भावः ।
उपाधिपक्षे द्वितीयविकल्पं निराचष्टे —
एतेनेति ।
अव्याप्त्यादिदोषप्रसङ्गेनेत्यर्थः ।
इन्द्रियजन्यत्वमपरोक्षत्वमिति पक्षे या अतिव्याप्तिरुक्ता सा तत्सन्निकर्षजन्यत्वं तदिति पक्षे नास्तीत्याह शङ्ककः —
उपनयेति ।
करणान्तराभावेन इन्द्रियजन्यत्वसत्त्वेऽपि तत्सन्निकर्षजन्यत्वं नास्ति, उपनयस्य सन्निकर्षत्वासम्भवात् सन्निकर्षान्तराभावाच्चेति भावः ।
दूषणान्तरमाह —
संयोगादीति ।
संयोगसंयुक्तसमवायादिसन्निकर्षाणामननुगमने - संयोगादिष्वनुगतसन्निकर्षत्वाभावेनेति यावत् ।
अननुगमाच्चेति ।
इन्द्रियसन्निकर्षजन्यत्वस्येति शेषः । तथा च घटतद्रूपरूपत्वशब्दशब्दत्वसुखादिगोचरसाक्षात्कारेषु ‘साक्षात्करोमि’ इत्यनुगतप्रत्यक्षं न स्यादिति भावः ।
उपाधिपक्षे तृतीयमुपाधिमाशङ्कते —
यत्तवाभिमतमिति ।
तव सिद्धान्तियो यत् ज्ञानगतमपरोक्षत्वं सम्मतं तदेव मम मतेऽप्यस्तु, तथा च अप्ररोक्षत्वस्याज्ञाननिवर्तकज्ञानविशेषणत्वसम्भवात् न परोक्षज्ञानेन तन्निवृत्तिप्रसङ्ग इति भावः ।
मदभिमतापरोक्षत्वस्य ज्ञाने तन्निवृत्तिप्रयोजकत्वं न सम्भवतीति सिद्धान्ती दूषयति —
न तस्येति ।
मदभिमतापरोक्षत्वस्येत्यर्थः । प्रस्तावः — प्रकरणम् । तच्च तृतीयपरिच्छेदावसाने द्रष्टव्यम् ।
तत्रैव दर्शनीययेति ।
ज्ञानस्यापरोक्षत्वं हि न करणविशेषप्रयुक्तं, किं त्वपरोक्षार्थाभिन्नत्वम् । इदं चापरोक्षत्वं विषयावभासकचैतन्यरूपज्ञाननिष्ठं, न वृत्तिनिष्ठम् । अतो न साक्षिप्रत्यक्षाव्याप्तिः । अर्थापरोक्ष्यं च स्वव्यवहारानुकूलचैतन्याभिन्नत्वम् । स्वपदमर्थपरम् । तद्व्यवहारानुकूलं च चैतन्यं निवृत्तावरणं तत्तधिष्ठानचैतन्यमेव । तथा च घटाद्यर्थस्य स्वव्यवहारानुकूलेन स्वाधिष्ठानचैतन्येन स्वगोचरवृत्त्यभिव्यक्तेन तादात्म्यलक्षणाभेदसत्त्वात् स्वव्यवहारानुकूलचैतन्याभिन्नत्वरूपमपरोक्षत्वमुपपन्नम् । तथा अहङ्कारादिषु तदधिष्ठानभूतस्य केवलसाक्षिरूपतत्प्रत्यक्षज्ञानस्य बाह्यघटादिषु तत्तदाकारवृत्त्युपहितस्य घटादिप्रत्यक्षज्ञानरूपस्य घटाद्यधिष्ठानचैतन्यस्य च तेनतेन विषयेण तादात्म्यसत्त्वात् अपरोक्षार्थाभिन्नत्वरूपमपरोक्षत्वमुपपन्नमिति हि तत्र दर्शनीया रीतिः ।
प्रयोज्यत्वेनेति ।
विषयचैतन्यगताज्ञाननिवृत्तौ सत्यां विषयस्य घटादे:स्वव्यवहारानुकूलचैतन्याभिन्नत्वरूपमपरोक्षत्वं लभ्यते । विषयस्य तल्लाभे सति तज्ज्ञानस्यापरोक्षार्थाभिन्नत्वरूपमपरोक्षत्वं लभ्यते । तथा च विषयचैतन्यगताज्ञाननिवृत्तेः पूर्वं ज्ञानस्यापरोक्षत्वालाभेन सिद्धान्त्यभिमतस्य ज्ञानगतापरोक्षत्वस्य विषयचैतन्यगताज्ञाननिवृत्तिप्रयोज्यस्य अज्ञाननिवृत्तिं प्रति प्रयोजकत्वासम्भवादित्यर्थः । तन्निवृत्तिं प्रति प्रयोजकतया निवर्तकज्ञानविशेषणत्वायोगादित्यक्षरार्थः ।
तस्मादिति ।
‘यत् अज्ञानं यं पुरुषं प्रति’ इत्यादिरूपे निरुक्ते विरोधप्रयोजके अपरोक्षत्वस्य निवर्तकज्ञानविशेषणत्वासम्भवादित्यर्थः । तस्मात् अज्ञानाश्रयचैतन्यसंसर्गनियतत्वं निवर्तकज्ञानविशेषणं वाच्यमिति सम्बन्धः । परोक्षज्ञानस्य अज्ञाननिवर्तकत्वप्रसङ्गवारणायेति शेषः ।
ननु विषयसंसृष्टस्य वृत्तिज्ञानस्य विषयगताज्ञाननिवर्तकत्वं क्वचिदप्यकॢप्तमित्याशङ्क्य ब्रह्मगोचरवृत्तिज्ञाने कॢप्तमित्याशयेनाह —
ब्रह्मज्ञानस्येति ।
मूलाज्ञानाश्रयभूते सर्वोपादाने ब्रह्मणि संसर्गनियतस्येत्यर्थः । यदा ब्रह्मागोचरवृत्तिज्ञानमुदेति तदा नियमेन ब्रह्मसंसृष्टमेवोदेतीत्यत्र हेतुत्वेन सर्वोपादानत्वमुपात्तम् । कार्यमात्रस्य जन्मप्रभृति उपादानभूतब्रह्मणा सह संसर्गनियमे सति ब्रह्मगोचरवृत्तिज्ञानस्यापि स्वनिवर्त्यमूलाज्ञानाश्रयभूते ब्रह्मणि संसर्गनियमोऽप्यर्थसिद्ध इति भावः ।
ब्रह्मज्ञानस्याज्ञाननिवर्तकत्वे मानमाह —
तरति शोकमिति ।
शोकपदमज्ञानपरम् । आत्मपदं प्रत्यगभिन्नब्रह्मपरम् । श्रुतस्येति पदात् पूर्वं अज्ञाननिवर्तकत्वेनेति शेषः ।
परोक्षवृत्तीनां विषयचैतन्यसंसर्गाभावादैन्द्रियकवृत्तीनां तत्संसर्गे को हेतुः, तत्राह —
तत्तदिन्द्रियसन्निकर्षसामर्थ्यादिति ।
अनेन परोक्षवृत्तीनामज्ञानाश्रयविषयचैतन्यसंसर्गनियतत्वरूपविशेषणाभावात् यदज्ञानं यं प्रतीत्याद्यंशसत्त्वेऽपि न तत्रातिप्रसङ्ग इति सूचितम् ।
पर्यवसितं प्रयोजकं दर्शयति —
तथा चेति ।
उक्तविशेषणे सतीत्यर्थः । घटावच्छिन्नचैतन्ये तदावारकाज्ञानानि बहूनि सन्ति । तेषां मध्ये कानिचिद्देवदत्तं प्रति तदावारकाणि, कानिचिच्च यज्ञदत्तादिकं प्रति तदावारकाणि । एवं प्रतिविषयं पुरुषभेदेन अनेकाज्ञानानि सन्ति । तथा च विषयावारकाज्ञानानां मध्ये यत् अज्ञानं यं पुरुषंदेवदत्तं प्रति यद्विषयावारकं - यस्य विषयस्य घटस्यावारकं, तत् अज्ञानं तदीयेन-देवदत्तीयेन तद्विषयेण-घट-विषयकेण तदज्ञानाश्रयचैतन्यसंसर्गनियतात्मलाभज्ञानेन निवर्त्यमित्यर्थः । तदज्ञानेतिपदेन देवदत्तं प्रति घटावारकाज्ञानमभिधीयते । तदज्ञानाश्रयचैतन्यं घटावच्छिन्नचैतन्यं, तत्र यस्संसर्गः, तन्नियतः-तद्व्याप्यः आत्मलाभो यस्य घटगोचरवृत्तिज्ञानस्य, तत् ज्ञानं तदज्ञानाश्रयचैतन्यसंसर्गनियतात्मलाभम् । तच्च तत् अज्ञानं चेति विग्रहः । आत्मलाभः-उत्पत्तिः । नियमश्च — यदा यदा घटगोचरवृत्तिज्ञानस्य घटेन्द्रियसन्निकर्षजन्यस्य आत्मलाभः, तदा तदा घटावच्छिन्नचैतन्ये तस्य (घटगोचरवृत्तिज्ञानस्य) संसर्गः-इत्येवमात्मकः । तदुक्तं प्राक् ‘ऐन्द्रियकवृत्तयस्तत्तद्विषयावच्छिन्नचैतन्यसंसृष्टा एवोत्पद्यन्ते इति नियममुपेत्य’ इति । अत्र ‘यदा यदा ऐन्द्रियकवृत्तीनामुत्पत्तिः तदातदा विषयचैतन्ये तासां संसर्गः इति हि नियमः स्पष्टं भासते । एवं विषयान्तरेषु पुरुषान्तरेषु अज्ञानान्तरेषु ज्ञानान्तरेषु च इदं प्रयोजकं विशिष्यविशिष्य योजनीयम् । ननु ‘परोक्षवृतीनां विषयचैतन्यसंसर्गाभावेनोक्तप्रयोजकानाक्रान्तत्वादज्ञाननिवर्तकत्वप्रसङ्गो नास्ति’ इत्युक्तमयुक्तम्, क्वचित् परोक्षवृत्तेरपि विषयसंसर्गसत्त्वात् । तथा हि — ‘हृदयपुण्डरीके नाड्यस्सन्ति’ इतिवाक्यात् जायमानाया वृत्तेः कदाचित् अन्तःकरणे हृदयपुण्डरीकस्थे नाडीहृदयान्यतरवस्त्ववच्छेदेन जनने सति तस्या वृत्तेः तदन्यतरवस्त्ववच्छिन्नचैतन्यसंसर्गसत्त्वात् तदावरणनिवर्तकत्वप्रसङ्गः । न चेष्टापत्तिः ।
तदा तदन्यतरवस्तुनि जिज्ञासानुदयप्रसङ्गात् - इति शङ्का नियतपदेन निरस्तेत्याह —
न चैवंसतीति ।
विरोधप्रयोजकस्य नियमगर्भत्वे सति शाब्दज्ञानस्याप्यज्ञाननिवर्तकत्वप्रसङ्गो न चेति सम्बन्धः । ‘यदायदा हृदयादिगोचरशाब्दवृत्तेरुदयः तदातदा तस्या वृत्तेर्हृदयाद्यन्यतरवस्त्ववच्छिचैतन्ये संसर्गः’ इति नियमो नास्तीति हेतुमाह —
तस्येति ।
तादृशशाब्दज्ञानस्येत्यर्थः । ऐन्द्रियकवृत्तीनां हि तत्तदिन्द्रियगोलकावच्छिन्नान्तःकरणप्रदेशेषूत्पत्तिनियमःसम्भाव्यते । इन्द्रियनिरपेक्षवृत्तीनां तु अन्तःकरणे जायमानानां प्रदेशनियमे कारणाभावात् हृदयादिगोचरशाब्दवृत्तिः कदाचिद्दैवयोगाद्धृदयाद्यवच्छेदेनान्तःकरणे जायते कदाचितु हृदयादिप्रदेशं विहाय प्रदेशान्तरावच्छेदेन सा तत्र जायत इति, निरुक्तनियमो नास्तीत्यर्थः । अत्र तस्येति षष्ठ्याःसप्तम्या पञ्चम्या च सम्बन्धः ।
तस्मादिति ।
वृत्तिज्ञानस्य अज्ञानाश्रयविषयचैतन्यसंसर्गं विना तन्निवर्तकत्वासम्भवादित्यर्थः ।
एवं ज्ञानाज्ञानयोर्विरोधप्रयोजकनिर्वाहकत्वेन वृत्तिनिर्गमनं प्रसाध्य तत्रैव हेत्वन्तराणि मतभेदेनाह —
अन्ये त्वित्यादिना ।
लाघवादिति ।
विषयगताज्ञानस्य अन्वयव्यतिरेकाभ्यां ज्ञाननिवर्त्यत्वग्रहदशायां लाघवात् समानाधिकरणज्ञाननिवर्त्यत्वं गृह्यते, न तु व्यधिकरणज्ञाननिवर्त्यत्वं इत्यर्थः । एतदुक्तं भवति — अज्ञानस्य विषयचैतन्यगतत्वात्तन्निवृत्तिलक्षणं ज्ञानकार्यमपि तद्गतमेव । तथा च अज्ञाननिवृत्तिरूपकार्यस्य स्वकारणभूतज्ञानेन सह इन्द्रियसन्निकर्षसामर्थ्यात् सामानाधिकरण्यलक्षणसम्बन्धसम्भवे तत्त्यागायोगात्, कार्यकारणयोस्सामानाधिकरण्यस्यौत्सर्गिकत्वात् — इति ।
बाह्यतम इति ।
अन्धकारेत्यर्थः ।
सत्येवेति ।
अन्यत्र विद्यमानादालोकात् अन्यत्र तमोनाशो न दृष्ट इत्येवकारार्थः । अज्ञानस्यापि विषयावारकत्वेन बाह्यतमस्सदृशत्वात् वृत्तिरूपस्य वृत्त्यारूढचैतन्यरूपस्य वा प्रकाशस्य आवरणनिवर्तकत्वेनालोकसदृशत्वात् ज्ञानाज्ञानयोरप्यन्धकारालोकयोरिव समानाधिकरणयोरेव निवर्त्यनिवर्तकभावः कल्प्यते । तच्च सामानाधिकारण्यं अज्ञानाश्रये विषयचैतन्ये वृत्तिज्ञानस्य संसर्गरूपम्, स च संसर्गो वृत्तिनिर्गमाधीन इति भावः । एवं विषयचैतन्यगताज्ञाननिवृत्तिरनिर्गतवृत्त्यापि सम्भवति, अतो वृत्तिनिर्गमनाभ्युपगमो व्यर्थः इत्याक्षेपे तन्निर्गमं विना तन्निवृत्तिर्न सम्भवतीति तदभ्युपगमस्सफल इति समाधानं दर्शितम् ।
इदानीं ‘विषयचैतन्यगताज्ञाननिवृत्त्यर्थं वृत्तिनिर्गमनं नापेक्षितम्’ इति पूर्वपक्ष्युक्तमङ्गीकृत्यापि वृत्तिनिर्गमनं साधयति —
केचित्त्विति ।
इदं च प्रकारद्वयं प्रागेव प्रपञ्चितमिति नेह प्रपञ्च्यत इति बोध्यम् ।
प्रमातृचैतन्यशब्दितजीवस्य ब्रह्माभेदे नास्ति प्रमाणमिति शङ्कते —
अथेति ।
अयमभेदः किं वेदान्तप्रमाणकः किं वा तदन्यप्रमाणकः । तत्र न नावदाद्यः कल्पःसम्भवति — वेदान्तानामुपासनादिपरत्वप्रतीतेः, न द्वितीयः — जीवब्रह्माभेदस्यौपनिषदत्वश्रुतिविरोधात् इति भावः ।
तत्राद्यं कल्पं परिगृह्य समाधत्ते —
वेदान्तेति ।
तेषामुपासनादिपरत्वं दूषयति —
सर्वेऽपीति ।
वेदान्तानां क्व तात्पर्यमिति विमृश्यमानास्सर्वेऽपि वेदान्ता अद्वये जीवाभिन्ने ब्रह्मणि समनुयन्ति - समन्वयं - तात्पर्यं लभन्ते ।
तात्पर्यज्ञापकानि लिङ्गानि कथयति —
उपक्रमेति ।
आदिपदमभ्यासादिसङ्ग्रहार्थम् ।
के ते वेदान्ताः ? कथं वा तेषु उक्तलिङ्गानां सत्त्वं ? को वा तैर्लिङ्गैस्तात्पर्यावगमप्रकारः ? इत्याकाङ्क्षायामाह —
यथा चेति ।
सर्वेषां वेदान्तानां अयमेव परमतात्पर्यविषयीभूतोऽर्थः न तूपासनादिरिति प्रपञ्चितमित्यर्थः ।
अत्रापि कुतो न प्रपञ्च्यते, तत्राह —
विस्तरेति ।
ग्रन्थविस्तरभयादित्यर्थः ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्स्वयंप्रकाशानन्दसरस्वतीचरणारविन्दसंलग्ररजोभूतस्य अच्युतकृष्णानन्दतीर्थस्य कृतौ शास्त्रसिद्धान्तलेशसंग्रहव्याख्यायां कृष्णालङ्काराख्यायां प्रथमः परिच्छेदः समाप्तः ।
श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं सम्प्रणम्य च ।
व्याख्यातोऽयं परिच्छेदः श्रीकृष्णपरितुष्टये ॥