अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

मोक्षस्य स्थिरपुरुषार्थत्वोपपादनम्

नन्वेवमिति ।
उक्त­री­त्ये­त्ये­वं­श­ब्दार्थः । अवि­द्या­नि­वृ­त्ते­र्मो­क्ष­सा­ध­न­ज्ञा­न­सा­ध्य­त्वो­प­पा­दने सिद्धान्तिना क्रियमाणे सति सिद्धान्तिनः अवि­द्या­नि­वृ­त्ति­रेव मोक्ष­त्वे­ना­भि­म­तेति पूर्वपक्षिणो भ्रान्तिरभूत्, तां भ्रान्ति­म­व­लम्ब्य शङ्का ।

तस्य भ्रममपनयति —
भ्रान्तोऽसीति ।

अवि­द्या­नि­वृ­त्ते­र­पु­रु­षा­र्थत्वे हेतुमाह —
तस्या इति ।

तर्हि तस्याः ज्ञान­सा­ध्य­त्वो­प­गमो व्यर्थ इति शङ्कते —
किं त्विति ।

अवि­द्या­नि­वृत्तेः सुखे­त­र­त्वा­द्दुः­खा­भा­वे­त­र­त्वाच्च स्वयं अपु­रु­षा­र्थ­त्वेऽपि पुरु­षा­र्थ­सा­ध­न­तया तस्याः ज्ञान­सा­ध्य­त्व­मु­पे­यत इत्याह —
अखण्डेति ।

तदुपयोगितयेति ।
अन­र्था­त्म­क­दुः­ख­नि­वृ­त्ति­रा­न­न्दा­वा­प्ति­श्चेति द्वयमपि स्वतः पुरुषार्थभूतं तच्छब्दार्थः ।

अवि­द्या­नि­वृ­त्ति­वत् दुःखनिवृत्तिरपि स्वतःपुरुषार्थो न भवति, अतो ब्रह्मा­न­न्द­स्फु­र­ण­सा­ध­न­त­यैव अवि­द्या­नि­वृ­त्ते­र्ज्ञा­ना­सा­ध्य­त्व­मु­पे­यते - इति मतमाह —
चित्सुखेति ।

मुक्ताविति विशेषणात् संसारदशायां सुखवत् दुःखाभावोऽपि स्वतःपुरुषार्थ इति भ्रान्ति­र्भ­वेत्, तां वारयति —
सर्वत्रेति ।
दुःखदशायां आत्म­स्व­रू­प­भू­त­स्यापि सुखस्य अभि­व्य­क्ति­श­ब्दि­त­स्फु­र­ण­वि­शे­षा­भा­वेन दुःखस्य तद­भि­व्य­क्ति­प्र­ति­ब­न्ध­कत्वं कल्प्यते, तथा च तदभावस्य सुखा­भि­व्य­क्ति­शे­ष­त­यैव काम्यमानत्वं न सुखवत् स्वतः­पु­रु­षा­र्थ­त्वे­नेति भावः ।

सुखस्यैव स्वतः­पु­रु­षा­र्थ­त्व­क­ल्पने विनिगमकमाह —
सुखस्यैवेति ।
दुःखाभावस्य सुखशेषत्वे दुःखा­भा­व­सा­ध­ना­न्यपि सुखसाधनानि भवन्ति ।

तथा च सुखसाधनेषु दुःखाभावसाधनेषु च सर्वत्र सुख­सा­ध­न­ता­ज्ञा­न­स्यैव प्रवर्तकत्वं सम्भवति ।
दुःखाभावस्य स्वतः­पु­रु­षा­र्थ­त्व­क­ल्पने तु तत्साधनेषु सुखसाधनत्वस्य बाधितत्वात् सुख­सा­ध­न­ता­ज्ञा­नात् तेषु प्रवृत्तिर्न सम्भवति । न च तेषु दुःखा­भा­व­सा­ध­न­ता­ज्ञा­न­मेव प्रव­र्त­क­म­स्त्विति वाच्यम् । तथासति प्रवृत्तिमात्रे अनु­ग­त­का­र­णा­भा­व­प्र­स­ङ्गात् । न च - तर्हि इष्ट­सा­ध­न­ता­ज्ञा­नात् सर्वत्र प्रवृत्तिरस्तु, दुःखाभावस्यापि सुख­व­दि­च्छा­वि­ष­य­तया इष्टपदेन सङ्ग्र­हो­प­प­त्ते­रिति — वाच्यम् । प्रवृ­त्ति­त्वा­व­च्छिन्नं प्रति कारणे इष्ट­सा­ध­न­ता­ज्ञाने इष्टांशे सुखत्वजातेः प्रवेशकल्पने कार­ण­ता­व­च्छे­द­क­ला­घवं लभ्यते, इष्ट­त्व­रू­पो­पाधेः प्रवेशकल्पने तु कार­ण­ता­व­च्छे­द­क­गौ­रवं भवेदिति सुखस्यैव स्वतः­पु­रु­षा­र्थ­त्व­पक्षो युक्तिमानिति भावः ।

तच्छेषत्वमितीति ।
स्वीकृत्येति शेषः ।

प्रवर्तकत्व इति ।
प्रव­र्त­क­त्व­क­ल्पने इत्यर्थः ।

तत्साधनेति ।
दुःखाभावसाधनेषु प्रवर्तकस्य दुःखा­भा­व­सा­ध­न­ता­ज्ञा­नस्य सङ्ग्र­हा­ये­त्यर्थः ।

न च दुःखाभाव एवेति ।
न च - इयं शङ्कैव नावतरति, वैपरीत्यपक्षे दुःखा­भा­व­त्व­रू­पो­पा­धे­रेव प्रव­र्त­क­ज्ञा­न­का­र­ण­ता­व­च्छे­द­क­श­रीरे प्रवेशापत्त्या इच्छा­वि­ष­य­त्व­रू­पो­पा­धि­प्र­वे­श­पक्ष इव गौरवदोषस्य तुल्यत्वादिति — वाच्यम् । सिद्धान्ते सुख­स्या­त्म­रू­प­तया एकव्यक्तित्वेन सुखत्वस्य जातित्वासम्भवं तस्यो­पा­धि­रू­पत्वं च मन्वानस्य शङ्कासम्भवात् । इच्छा­वि­ष­य­त्व­स्येव सुख­त्व­स्या­प्यु­पा­धि­रू­पत्वे सति सुख­त्व­प्र­वे­शेऽपि कार­ण­ता­व­च्छे­द­क­गौ­र­वा­वि­शेषे सति विनिगमकाभावेन वैपरीत्याशङ्का युक्तैवेति भावः ।

सिद्धान्ते वस्तु­त­स्सु­ख­व्य­क्ते­रे­क­त्वेऽपि औपा­धि­क­भे­दा­ङ्गी­का­रेण सुखत्वस्य जातित्वाक्षतेः वैपरीत्यं वक्तुं न शक्यत इति मनसि निधाय दोषान्तरमाह —
बहुकालेति ।
लोके हि क्षणि­क­सु­खो­द्दे­शेन बहु­का­ल­दुः­खा­नु­भ­व­म­ङ्गी­कृ­त्या­प्य­ग­म्या­ग­म­नादौ प्रवृ­त्ति­र्दृ­श्यते, सा च दुःखाभावस्यैव स्वतः­पु­रु­षा­र्थ­त्व­पक्षे न सम्भवतीत्यर्थः ।

कुत इत्यत आह —
तत्रेति ।
निन्दि­त­प्र­वृ­त्ति­स्थल इत्यर्थः । सुखस्य दुःखा­भा­व­शे­ष­त्व­पक्षे, सुखकालीनो यो दुःखाभावः तं प्रत्येव सुखस्य शेषत्वं वाच्यम् । कालान्तरीयं दुःखाभावं प्रति तस्य शेषत्वासम्भवात् । तथा च क्षणिकसुखकालीनं दुःखाभावं क्षणिकमुद्दिश्य बहु­का­ल­दुः­खा­नु­भ­वा­ङ्गी­का­र­स्या­यु­क्त­त्वा­दि­त्यर्थः ।

न च तत्रेति ।
निन्दि­त­प्र­वृ­त्ति­स्थल इत्यर्थः ।

दोषतौल्यमिति ।
बहु­का­ल­दुः­खा­नु­भ­वा­ङ्गी­का­रा­यो­ग­रू­प­दो­षस्य तुल्यत्वमिति न चेत्यर्थः ।

दुःखाभावस्यैव स्वतः­पु­रु­षा­र्थ­त्व­प­क्षेऽपि क्षणिकसुखकालीने दुःखाभावे उत्कर्षः कल्प्यतामिति, तत्राह —
दुःखाभावे चेति ।
अभा­व­स्यो­त्क­र्षा­दि­जा­त्या­श्र­य­त्वा­न­भ्यु­प­ग­मात् इति भावः ।

तस्मादिति ।
दुःखाभावस्य स्वतः पुरु­षा­र्थ­त्वा­स­म्भ­वा­दि­त्यर्थः ।