कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
मोक्षस्य स्थिरपुरुषार्थत्वोपपादनम्
नन्वेवमिति ।
उक्तरीत्येत्येवंशब्दार्थः । अविद्यानिवृत्तेर्मोक्षसाधनज्ञानसाध्यत्वोपपादने सिद्धान्तिना क्रियमाणे सति सिद्धान्तिनः अविद्यानिवृत्तिरेव मोक्षत्वेनाभिमतेति पूर्वपक्षिणो भ्रान्तिरभूत्, तां भ्रान्तिमवलम्ब्य शङ्का ।
तस्य भ्रममपनयति —
भ्रान्तोऽसीति ।
अविद्यानिवृत्तेरपुरुषार्थत्वे हेतुमाह —
तस्या इति ।
तर्हि तस्याः ज्ञानसाध्यत्वोपगमो व्यर्थ इति शङ्कते —
किं त्विति ।
अविद्यानिवृत्तेः सुखेतरत्वाद्दुःखाभावेतरत्वाच्च स्वयं अपुरुषार्थत्वेऽपि पुरुषार्थसाधनतया तस्याः ज्ञानसाध्यत्वमुपेयत इत्याह —
अखण्डेति ।
तदुपयोगितयेति ।
अनर्थात्मकदुःखनिवृत्तिरानन्दावाप्तिश्चेति द्वयमपि स्वतः पुरुषार्थभूतं तच्छब्दार्थः ।
अविद्यानिवृत्तिवत् दुःखनिवृत्तिरपि स्वतःपुरुषार्थो न भवति, अतो ब्रह्मानन्दस्फुरणसाधनतयैव अविद्यानिवृत्तेर्ज्ञानासाध्यत्वमुपेयते - इति मतमाह —
चित्सुखेति ।
मुक्ताविति विशेषणात् संसारदशायां सुखवत् दुःखाभावोऽपि स्वतःपुरुषार्थ इति भ्रान्तिर्भवेत्, तां वारयति —
सर्वत्रेति ।
दुःखदशायां आत्मस्वरूपभूतस्यापि सुखस्य अभिव्यक्तिशब्दितस्फुरणविशेषाभावेन दुःखस्य तदभिव्यक्तिप्रतिबन्धकत्वं कल्प्यते, तथा च तदभावस्य सुखाभिव्यक्तिशेषतयैव काम्यमानत्वं न सुखवत् स्वतःपुरुषार्थत्वेनेति भावः ।
सुखस्यैव स्वतःपुरुषार्थत्वकल्पने विनिगमकमाह —
सुखस्यैवेति ।
दुःखाभावस्य सुखशेषत्वे दुःखाभावसाधनान्यपि सुखसाधनानि भवन्ति ।
तथा च सुखसाधनेषु दुःखाभावसाधनेषु च सर्वत्र सुखसाधनताज्ञानस्यैव प्रवर्तकत्वं सम्भवति ।
दुःखाभावस्य स्वतःपुरुषार्थत्वकल्पने तु तत्साधनेषु सुखसाधनत्वस्य बाधितत्वात् सुखसाधनताज्ञानात् तेषु प्रवृत्तिर्न सम्भवति । न च तेषु दुःखाभावसाधनताज्ञानमेव प्रवर्तकमस्त्विति वाच्यम् । तथासति प्रवृत्तिमात्रे अनुगतकारणाभावप्रसङ्गात् । न च - तर्हि इष्टसाधनताज्ञानात् सर्वत्र प्रवृत्तिरस्तु, दुःखाभावस्यापि सुखवदिच्छाविषयतया इष्टपदेन सङ्ग्रहोपपत्तेरिति — वाच्यम् । प्रवृत्तित्वावच्छिन्नं प्रति कारणे इष्टसाधनताज्ञाने इष्टांशे सुखत्वजातेः प्रवेशकल्पने कारणतावच्छेदकलाघवं लभ्यते, इष्टत्वरूपोपाधेः प्रवेशकल्पने तु कारणतावच्छेदकगौरवं भवेदिति सुखस्यैव स्वतःपुरुषार्थत्वपक्षो युक्तिमानिति भावः ।
तच्छेषत्वमितीति ।
स्वीकृत्येति शेषः ।
प्रवर्तकत्व इति ।
प्रवर्तकत्वकल्पने इत्यर्थः ।
तत्साधनेति ।
दुःखाभावसाधनेषु प्रवर्तकस्य दुःखाभावसाधनताज्ञानस्य सङ्ग्रहायेत्यर्थः ।
न च दुःखाभाव एवेति ।
न च - इयं शङ्कैव नावतरति, वैपरीत्यपक्षे दुःखाभावत्वरूपोपाधेरेव प्रवर्तकज्ञानकारणतावच्छेदकशरीरे प्रवेशापत्त्या इच्छाविषयत्वरूपोपाधिप्रवेशपक्ष इव गौरवदोषस्य तुल्यत्वादिति — वाच्यम् । सिद्धान्ते सुखस्यात्मरूपतया एकव्यक्तित्वेन सुखत्वस्य जातित्वासम्भवं तस्योपाधिरूपत्वं च मन्वानस्य शङ्कासम्भवात् । इच्छाविषयत्वस्येव सुखत्वस्याप्युपाधिरूपत्वे सति सुखत्वप्रवेशेऽपि कारणतावच्छेदकगौरवाविशेषे सति विनिगमकाभावेन वैपरीत्याशङ्का युक्तैवेति भावः ।
सिद्धान्ते वस्तुतस्सुखव्यक्तेरेकत्वेऽपि औपाधिकभेदाङ्गीकारेण सुखत्वस्य जातित्वाक्षतेः वैपरीत्यं वक्तुं न शक्यत इति मनसि निधाय दोषान्तरमाह —
बहुकालेति ।
लोके हि क्षणिकसुखोद्देशेन बहुकालदुःखानुभवमङ्गीकृत्याप्यगम्यागमनादौ प्रवृत्तिर्दृश्यते, सा च दुःखाभावस्यैव स्वतःपुरुषार्थत्वपक्षे न सम्भवतीत्यर्थः ।
कुत इत्यत आह —
तत्रेति ।
निन्दितप्रवृत्तिस्थल इत्यर्थः । सुखस्य दुःखाभावशेषत्वपक्षे, सुखकालीनो यो दुःखाभावः तं प्रत्येव सुखस्य शेषत्वं वाच्यम् । कालान्तरीयं दुःखाभावं प्रति तस्य शेषत्वासम्भवात् । तथा च क्षणिकसुखकालीनं दुःखाभावं क्षणिकमुद्दिश्य बहुकालदुःखानुभवाङ्गीकारस्यायुक्तत्वादित्यर्थः ।
न च तत्रेति ।
निन्दितप्रवृत्तिस्थल इत्यर्थः ।
दोषतौल्यमिति ।
बहुकालदुःखानुभवाङ्गीकारायोगरूपदोषस्य तुल्यत्वमिति न चेत्यर्थः ।
दुःखाभावस्यैव स्वतःपुरुषार्थत्वपक्षेऽपि क्षणिकसुखकालीने दुःखाभावे उत्कर्षः कल्प्यतामिति, तत्राह —
दुःखाभावे चेति ।
अभावस्योत्कर्षादिजात्याश्रयत्वानभ्युपगमात् इति भावः ।
तस्मादिति ।
दुःखाभावस्य स्वतः पुरुषार्थत्वासम्भवादित्यर्थः ।