अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

जीवाल्पत्वनिरूपणम् (प्रतिकर्म व्यवस्थावर्णनम्)

ननु - नित्य­चै­त­न्य­मा­त्रस्य सर्वत्र लक्ष्यतया ज्ञाधा­तु­वा­च्य­त्वा­यो­गात् विशि­ष्ट­चै­त­न्यस्य प्रकृत्यर्थत्वं वाच्यम् । तथा च विशिष्टस्य कार्य­त्व­स­म्भ­वात् प्रत्य­य­श्रु­त्य­र्थ­क­र्तृ­त्वस्य न विरोधः । ब्रह्मणः सर्व­ज्ञा­न­क­र्तृं­त्व­प्र­ति­पा­द­क­श्रु­ति­वि­रो­धेन ज्ञातृत्वस्य जीव­लि­ङ्ग­त्वोक्तेः अभ्यु­च्च­य­मा­त्र­त्वो­प­पत्तेः, तद­धि­क­र­ण­सि­द्धा­न्ता­भि­म­त­नि­र्वि­शे­ष­ब्र­ह्म­व्या­वृ­त्त­त्व­मा­त्रेण विज्ञातृत्वस्य पूर्व­प­क्ष­लि­ङ्ग­त्वो­प­न्या­सो­प­प­त्तेश्च, भाष्यकारैरेव मुख्यस्य सर्व­वि­ष­य­क­ज्ञा­न­क­र्तृ­त्वस्य ईक्षत्यधिकरणे प्रति­पा­दि­त­त्वाच्च, प्रत्ययश्रुतेः स्वार्थ­प­र­त्व­स­म्भवे तत्त्या­गा­यो­गाच्च — इत्यस्वरसादाह —
यद्यपीत्यादिना ।

चैतन्येनैवेति ।
न माया­वृ­त्ति­भि­रि­त्ये­व­का­रार्थः ।

तर्हि प्रत्य­या­र्थ­बाधः, नेत्याह —
तथापीति ।
तस्य - स्वरू­प­चै­त­न्य­स्ये­त्यर्थः ।

दृश्या­व­च्छि­न्नेति ।
न चाना­दि­मा­या­दि­रू­प­दृ­श्या­व­च्छि­न्न­चै­त­न्यस्य कथ­मु­क्त­प्र­का­रे­णापि कार्यत्वं सिद्ध्येदिति वाच्यम् । मायादेरपि तत्त­त्का­र्य­ता­दा­त्म्या­पत्त्या माया­द्य­व­च्छि­न्न­स्यापि कार्यत्वस्य सुसंपादत्वादिति भावः ।

आक्षिपति —
नान्विति ।

नावभासयतीति ।
न चात्र इष्टा­प­त्ति­र्वक्तुं शक्यते । तथा­स­त्य­वि­द्या­प्र­ति­बि­म्ब­चै­त­न्य­रू­प­जी­वस्य व्यापकतया स्वसं­सृ­ष्ट­स­क­ल­ज­ग­द­व­भा­स­क­त्वा­पत्त्या सर्व­ज्ञ­त्व­प्र­स­ङ्गात्, स्वरूपचैतन्यस्य कारकानपेक्षतया चक्षु­रा­दि­वै­य­र्थ्य­प्र­स­ङ्गाच्च इति भावः ।

अत्रोक्तमिति ।
अस्मिन्नाक्षेपे समा­धा­न­मु­क्त­मि­त्यर्थः ।

न जीवचैतन्यमिति ।
यथा जगत् ब्रह्मसंसृष्टं तथा जीवसंसृष्टं न भवति, अतो न तस्य सर्व­ज्ञ­त्व­प्र­स­क्ति­रि­त्यर्थः । ननु - यथा जीवस्य घटा­दि­वि­ष­यै­स्सं­ब­न्धा­भावः, तथा अन्तः­क­र­णः­दि­नाऽपि (अन्तः­क­र­णा­दि­नापि?) सम्ब­न्धा­भा­व­स्तुल्यः, उपा­दा­न­त्वा­भा­वा­देव ।

तथा च अन्तःकरणादेः वृत्तिं विनैव जीव­चै­त­न्य­रू­प­सा­क्षि­भा­स्यत्वं न स्यात् - इत्याशङ्क्य उपा­दा­न­त्वा­भा­वेऽपि जीव­चै­त­न्य­स्या­न्तः­क­र­णा­दिना तादा­त्म्य­स­म्बन्धे दृष्टान्तमाह —
यथा सर्वगतमिति ।

संसृज्यत इति ।
अतो नान्तःकरणादेः साक्षि­भा­स्य­त्व­वि­रोध इति भावः ।

चक्षु­रा­दि­वै­य­र्थ्य­प्र­सङ्गं परिहरति —
तथा चेत्यादिना ।
तथाचेत्यस्य ‘जीवस्य स्वतो विष­य­स­म्ब­न्धा­भावे सति’ इत्यर्थः ।

अन्तः­क­र­ण­प­रि­णा­मस्य सहसा विषयव्याप्तौ दृष्टान्तः —
चक्षू­र­श्मि­रि­वेति ।

तमिति ।
परिणाममित्यर्थः ।

गोचरयतीति ।
जीवचैतन्यमिति शेषः ।

विषयदेशे सतोऽपि जीवचैतन्यस्य स्वतो विषयावभासकत्वं नास्ति तस्यैव तु वृत्त्यारूढस्य तदस्ति इत्यत्र दृष्टान्तमाह —
केवलाग्नीति ।
तत्प्र­का­श्य­त्व­मि­त्यत्र तत्पदं जीवचैतन्यपरम् । ननु ‘जीवचैतन्यस्य विषयदेशे सतोऽपि विषयैः ससर्गाभावात् न तत्प्रकाशकत्वं वृत्त्या तयोस्संसर्गलाभे च तत्प्र­का­श­क­त्वम्’ इति किमिति परिह्रियते, ‘जीवचैतन्यस्य सर्वगतत्वेन सत्यपि विषयसंसर्गे बिम्ब­भू­त­ब्र­ह्म­चै­त­न्य­वत् तस्यावृतत्वादेव न विष­य­प्र­का­श­क­त्वम् इति प्रतिपादनेनापि जीवस्य सर्व­ज्ञ­त्व­प्र­स­ङ्गादेः परि­हा­र­स­म्भ­वा­दिति - चेत् न । ‘ब्रह्म न जानामि’ इत्यनुभवबलात् तस्यावृतत्वेऽपि ‘मां न जानामि’ इत्यनुभवाभावेन जीव­चै­त­न्य­स्या­वृ­त­त्वा­स­म्भ­वा­दिति भावः ।

जीव­चै­त­न्य­स्या­न्तः­क­र­णो­पा­धि­क­तया परि­च्छि­न्न­त्व­पक्षे सर्व­ज्ञ­त्वा­प­त्ति­श­ङ्कैव नास्ति, तस्य विषयैस्सह स्वत­स्स­म्ब­न्धा­भा­वेन वृत्तिं विना तत्प्र­का­श­क­त्वा­स­म्भ­वात् - इति परिहारान्तरमाह —
यद्वेति ।

अत इति ।
परि­च्छि­न्न­त्वा­दि­त्यर्थः ।

तत्संसृष्टेति ।
वृत्तिद्वारा वृत्ति­म­द­न्तः­क­र­ण­सं­सृष्टं यत् विष­या­व­च्छि­न्न­ब्र­ह्म­चै­तन्यं तस्य अन्तः­क­र­णो­पा­धि­क­जी­व­चै­त­न्येन सह अभेदाभिव्यक्तौ सत्यां स जीवः तं विषयं प्रका­श­य­ती­त्यर्थः । ‘अवि­द्या­प्र­ति­बिम्बो जीवः’ इति प्रथ­म­प­क्ष­मे­वा­श्रित्य जीव­स्यो­पा­दा­न­त्वा­भा­वेऽपि घटादिविषयैस्सह संस­र्ग­म­भ्यु­पेत्य परिहारमाह —
अथ वेति ।

सर्वगतोऽपीति ।
उपलक्षणं चैतत् । विष­य­सं­सृ­ष्टोऽ­पी­त्यपि द्रष्टव्यम् । इतरथा विष­य­सं­स­र्गा­भा­वा­देव जीवस्य विष­य­प्र­का­श­क­त्वा­भा­वो­प­पत्तौ तस्या­वृ­त­त्व­क­ल्प­न­वै­य­र्थ्य­प्र­स­ङ्गा­दिति बोध्यम् । न च - ‘मां न जानामि’ इत्यनुभवाभावात् कथं तस्यावृतत्वं सिद्ध्येदिति - वाच्यम् । अन्तः­क­र­णो­प­हि­त­जी­व­चै­त­न्य­स्यैव मामि­त्य­नु­भ­व­वि­ष­य­तया व्याप­क­जी­व­चै­तन्ये अन्तः­क­र­णा­व­च्छे­देन तदभावेऽपि विषयदेशे तस्या­वृ­त­त्व­क­ल्पने बाधकाभावात्, सर्वगतत्वेन रूपेण ‘मां न जानामि’ इत्य­नु­भ­व­स­त्त्वाच्च, इति भावः ।

स्वयमपीति ।
विषयास्तावत् जडत्वात् स्वतो न प्रकाशन्ते, जीवस्तु स्वप्रकाशतया प्रकाशमानोऽपि आवृ­त­त्वा­द­प्र­का­श­मान इति वक्तुं अपिशब्दः । यद्वा अपिशब्दः अवधारणार्थः । तथा च आवृतत्वात् स्वयं अप्रकाशमानतयैव इत्यर्थः ।

वृत्त्यु­प­रा­गा­दा­विति ।
विषयविशेषे वृत्त्युपरागे सति विष­य­दे­श­स्थ­जी­व­चै­त­न्य­स्यापि वृत्त्युपरागो भवति । तेन च जीव­चै­त­न्य­ग­त­स्या­व­र­णस्य तिरोधानं भवति । तथा च जीवचैतन्ये यो वृत्त्युपरागः स आदिपदार्थः ।

तत्रैवेति ।
विषयविशेषे एवेत्यर्थः ।

तमेवेति ।
नान्यं विषयम्, अतो न सर्व­ज्ञ­त्व­प्र­सङ्ग इति भावः ।

इममेव भावं प्रकटयति —
एवं चेति ।
जीवचैतन्यस्य वृत्तिं विना विषयानवभासकत्वे सिद्धे सतीत्यर्थः ।

तत्संसृष्टेति ।
वृत्ति­सं­सृ­ष्टे­त्यर्थः ।

किञ्चि­ज्ज्ञ­त्व­म­पीति ।
अनुभवसिद्धं किञ्चि­ज्ज्ञ­त्वम् । अनु­भ­व­सि­द्ध­स्स­र्व­ज्ञ­त्वा­भावः तत्सिद्धं चक्षु­रा­द्य­नु­वि­धानं च अपिशब्दार्थः ।