कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
जीवाल्पत्वनिरूपणम् (प्रतिकर्म व्यवस्थावर्णनम्)
ननु - नित्यचैतन्यमात्रस्य सर्वत्र लक्ष्यतया ज्ञाधातुवाच्यत्वायोगात् विशिष्टचैतन्यस्य प्रकृत्यर्थत्वं वाच्यम् । तथा च विशिष्टस्य कार्यत्वसम्भवात् प्रत्ययश्रुत्यर्थकर्तृत्वस्य न विरोधः । ब्रह्मणः सर्वज्ञानकर्तृंत्वप्रतिपादकश्रुतिविरोधेन ज्ञातृत्वस्य जीवलिङ्गत्वोक्तेः अभ्युच्चयमात्रत्वोपपत्तेः, तदधिकरणसिद्धान्ताभिमतनिर्विशेषब्रह्मव्यावृत्तत्वमात्रेण विज्ञातृत्वस्य पूर्वपक्षलिङ्गत्वोपन्यासोपपत्तेश्च, भाष्यकारैरेव मुख्यस्य सर्वविषयकज्ञानकर्तृत्वस्य ईक्षत्यधिकरणे प्रतिपादितत्वाच्च, प्रत्ययश्रुतेः स्वार्थपरत्वसम्भवे तत्त्यागायोगाच्च — इत्यस्वरसादाह —
यद्यपीत्यादिना ।
चैतन्येनैवेति ।
न मायावृत्तिभिरित्येवकारार्थः ।
तर्हि प्रत्ययार्थबाधः, नेत्याह —
तथापीति ।
तस्य - स्वरूपचैतन्यस्येत्यर्थः ।
दृश्यावच्छिन्नेति ।
न चानादिमायादिरूपदृश्यावच्छिन्नचैतन्यस्य कथमुक्तप्रकारेणापि कार्यत्वं सिद्ध्येदिति वाच्यम् । मायादेरपि तत्तत्कार्यतादात्म्यापत्त्या मायाद्यवच्छिन्नस्यापि कार्यत्वस्य सुसंपादत्वादिति भावः ।
आक्षिपति —
नान्विति ।
नावभासयतीति ।
न चात्र इष्टापत्तिर्वक्तुं शक्यते । तथासत्यविद्याप्रतिबिम्बचैतन्यरूपजीवस्य व्यापकतया स्वसंसृष्टसकलजगदवभासकत्वापत्त्या सर्वज्ञत्वप्रसङ्गात्, स्वरूपचैतन्यस्य कारकानपेक्षतया चक्षुरादिवैयर्थ्यप्रसङ्गाच्च इति भावः ।
अत्रोक्तमिति ।
अस्मिन्नाक्षेपे समाधानमुक्तमित्यर्थः ।
न जीवचैतन्यमिति ।
यथा जगत् ब्रह्मसंसृष्टं तथा जीवसंसृष्टं न भवति, अतो न तस्य सर्वज्ञत्वप्रसक्तिरित्यर्थः । ननु - यथा जीवस्य घटादिविषयैस्संबन्धाभावः, तथा अन्तःकरणःदिनाऽपि (अन्तःकरणादिनापि?) सम्बन्धाभावस्तुल्यः, उपादानत्वाभावादेव ।
तथा च अन्तःकरणादेः वृत्तिं विनैव जीवचैतन्यरूपसाक्षिभास्यत्वं न स्यात् - इत्याशङ्क्य उपादानत्वाभावेऽपि जीवचैतन्यस्यान्तःकरणादिना तादात्म्यसम्बन्धे दृष्टान्तमाह —
यथा सर्वगतमिति ।
संसृज्यत इति ।
अतो नान्तःकरणादेः साक्षिभास्यत्वविरोध इति भावः ।
चक्षुरादिवैयर्थ्यप्रसङ्गं परिहरति —
तथा चेत्यादिना ।
तथाचेत्यस्य ‘जीवस्य स्वतो विषयसम्बन्धाभावे सति’ इत्यर्थः ।
अन्तःकरणपरिणामस्य सहसा विषयव्याप्तौ दृष्टान्तः —
चक्षूरश्मिरिवेति ।
तमिति ।
परिणाममित्यर्थः ।
गोचरयतीति ।
जीवचैतन्यमिति शेषः ।
विषयदेशे सतोऽपि जीवचैतन्यस्य स्वतो विषयावभासकत्वं नास्ति तस्यैव तु वृत्त्यारूढस्य तदस्ति इत्यत्र दृष्टान्तमाह —
केवलाग्नीति ।
तत्प्रकाश्यत्वमित्यत्र तत्पदं जीवचैतन्यपरम् । ननु ‘जीवचैतन्यस्य विषयदेशे सतोऽपि विषयैः ससर्गाभावात् न तत्प्रकाशकत्वं वृत्त्या तयोस्संसर्गलाभे च तत्प्रकाशकत्वम्’ इति किमिति परिह्रियते, ‘जीवचैतन्यस्य सर्वगतत्वेन सत्यपि विषयसंसर्गे बिम्बभूतब्रह्मचैतन्यवत् तस्यावृतत्वादेव न विषयप्रकाशकत्वम् इति प्रतिपादनेनापि जीवस्य सर्वज्ञत्वप्रसङ्गादेः परिहारसम्भवादिति - चेत् न । ‘ब्रह्म न जानामि’ इत्यनुभवबलात् तस्यावृतत्वेऽपि ‘मां न जानामि’ इत्यनुभवाभावेन जीवचैतन्यस्यावृतत्वासम्भवादिति भावः ।
जीवचैतन्यस्यान्तःकरणोपाधिकतया परिच्छिन्नत्वपक्षे सर्वज्ञत्वापत्तिशङ्कैव नास्ति, तस्य विषयैस्सह स्वतस्सम्बन्धाभावेन वृत्तिं विना तत्प्रकाशकत्वासम्भवात् - इति परिहारान्तरमाह —
यद्वेति ।
अत इति ।
परिच्छिन्नत्वादित्यर्थः ।
तत्संसृष्टेति ।
वृत्तिद्वारा वृत्तिमदन्तःकरणसंसृष्टं यत् विषयावच्छिन्नब्रह्मचैतन्यं तस्य अन्तःकरणोपाधिकजीवचैतन्येन सह अभेदाभिव्यक्तौ सत्यां स जीवः तं विषयं प्रकाशयतीत्यर्थः । ‘अविद्याप्रतिबिम्बो जीवः’ इति प्रथमपक्षमेवाश्रित्य जीवस्योपादानत्वाभावेऽपि घटादिविषयैस्सह संसर्गमभ्युपेत्य परिहारमाह —
अथ वेति ।
सर्वगतोऽपीति ।
उपलक्षणं चैतत् । विषयसंसृष्टोऽपीत्यपि द्रष्टव्यम् । इतरथा विषयसंसर्गाभावादेव जीवस्य विषयप्रकाशकत्वाभावोपपत्तौ तस्यावृतत्वकल्पनवैयर्थ्यप्रसङ्गादिति बोध्यम् । न च - ‘मां न जानामि’ इत्यनुभवाभावात् कथं तस्यावृतत्वं सिद्ध्येदिति - वाच्यम् । अन्तःकरणोपहितजीवचैतन्यस्यैव मामित्यनुभवविषयतया व्यापकजीवचैतन्ये अन्तःकरणावच्छेदेन तदभावेऽपि विषयदेशे तस्यावृतत्वकल्पने बाधकाभावात्, सर्वगतत्वेन रूपेण ‘मां न जानामि’ इत्यनुभवसत्त्वाच्च, इति भावः ।
स्वयमपीति ।
विषयास्तावत् जडत्वात् स्वतो न प्रकाशन्ते, जीवस्तु स्वप्रकाशतया प्रकाशमानोऽपि आवृतत्वादप्रकाशमान इति वक्तुं अपिशब्दः । यद्वा अपिशब्दः अवधारणार्थः । तथा च आवृतत्वात् स्वयं अप्रकाशमानतयैव इत्यर्थः ।
वृत्त्युपरागादाविति ।
विषयविशेषे वृत्त्युपरागे सति विषयदेशस्थजीवचैतन्यस्यापि वृत्त्युपरागो भवति । तेन च जीवचैतन्यगतस्यावरणस्य तिरोधानं भवति । तथा च जीवचैतन्ये यो वृत्त्युपरागः स आदिपदार्थः ।
तत्रैवेति ।
विषयविशेषे एवेत्यर्थः ।
तमेवेति ।
नान्यं विषयम्, अतो न सर्वज्ञत्वप्रसङ्ग इति भावः ।
इममेव भावं प्रकटयति —
एवं चेति ।
जीवचैतन्यस्य वृत्तिं विना विषयानवभासकत्वे सिद्धे सतीत्यर्थः ।
तत्संसृष्टेति ।
वृत्तिसंसृष्टेत्यर्थः ।
किञ्चिज्ज्ञत्वमपीति ।
अनुभवसिद्धं किञ्चिज्ज्ञत्वम् । अनुभवसिद्धस्सर्वज्ञत्वाभावः तत्सिद्धं चक्षुराद्यनुविधानं च अपिशब्दार्थः ।