कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
प्रपञ्चमिथ्यात्वश्रुतेः उपजीव्यप्रत्यक्षविरोध परिहारः
नन्विति ।
यद्यपीयं शङ्का ‘न चैवमुपजीव्यप्रत्यक्षविरोधः’ इत्यादिना पूर्वं निराकृता, तथापि तत्रोक्तं परिहारमाक्षेप्तुं तच्छङ्कापरिहारौ पुनर्लिखति —
तथापीति ।
आगमवत् प्रत्यक्षस्य स्वतःप्राबल्याभावेऽपीत्यर्थः । ननु —
अपच्छेदन्यायेन श्रुतेरपि प्राबल्यं दुर्वारम्, तथा च बाध्यबाधकभावे विनिगमनाविरह एवेति शङ्कस्य नेष्टसिद्धिः, प्रत्यक्षेण श्रुतिबाधस्य तदिष्टत्वात् — इत्याशङ्क्य अपच्छेदन्यायानवतारं शङ्कः प्रकृते दर्शयति —
अपच्छेदशास्त्रयोर्हीति ।
उपजीव्यविरोधशङ्कायां पूर्वोक्तं परिहारं स्मारयति —
न च मिथ्यात्वश्रुत्येति ।
श्रुत्या प्रपञ्चसत्यत्वमात्रनिपेधे सति तथापरिहारो युज्यते । सा तु प्रपञ्चस्वरूपमेव निषेधति ।
तथा च वर्णपदादिस्वरूपस्यैवाभावादुपजीव्यविरोधो दुर्वार इत्याह —
नेहेति ।
इह — ब्रह्मणि नाना — भिन्नं वस्तु किञ्चिदपि नास्तीत्यर्थः ।
स्वरूपोपमर्दमुपेत्यैव उपजीव्यविरोधं परिहरति —
अत्र केचिदाहुरिति ।
प्रपञ्चसत्यत्वपक्षेऽपि वृषमानयेत्युदाहरणानुरोधेन भ्रमप्रमासाधारणमेव शब्दप्रत्यक्षं शाब्दबोधोपजीव्यमिति वक्तव्यम्, अस्माकं तु निषेधश्रुतिप्रामाण्यात् सर्वत्र भ्रमरूपमेव प्रत्यक्षं शाब्दबोधे व्यवहारान्तरेषु च कारणमिति विशेषः, इति नोपजीव्यविरोधः, शब्दस्वरूपस्यानुपजीव्यत्वादित्यर्थः ॥
उपजीव्यविरोधं प्रकारान्तरेण परिहरति —
अन्ये त्वाहुरिति ।
प्रथमं पूर्वमते अस्वरसं दर्शयति —
शाब्दप्रमिताविति ।
अनपेक्षायामपीति ।
अत्र अपिशब्देन वस्तुतोऽपेक्षास्तीति सूचितम् । तथा हि — पूर्वमते प्रत्यक्षज्ञानमात्रमुपजीव्यं विषयो वर्णपदादिलक्षणो नोपजीव्य इत्युक्तं, तदयुक्तम् निर्विषयप्रत्यक्षज्ञानायोगात् । अतो वर्णपदादिस्वरूपमपि स्वीकर्तव्यमेव । तथा च उपजीव्यविरोधे पूर्वसमाधानं न साध्विति भावः ।
अस्तीति ।
तथा च योग्यताया उपजीव्यत्वमवर्जनीयमिति तद्विरोधः पूर्वमते आवश्यक इति भावः । न चैतावता पूर्ववाद्यभिमतस्य कृत्स्नप्रपञ्चस्य स्वरूपं न सिध्यतीति वाच्यम् । शाब्दप्रमितिलक्षणकार्यानुरोधेन ब्रह्मातिरिक्तयोग्यतास्वरूपसिद्धौ तद्वदेव जलाहरणादिकार्यानुरोधेन घटादिस्वरूपमपि सिध्यत्येवेत्याशयात् ।
ननु यदि चैतन्यव्यतिरिक्तं कृत्स्नं जगदुपेयते तर्हि तद्ग्राहिप्रत्यक्षादेस्सविषयस्योपजीव्यत्वात् तद्विरोध इत्यत आह —
तदपेक्षायामपीति ।
निषेधश्रुत्यर्थाविरुद्धस्य प्रपञ्चस्वरूपस्यास्माभिरप्यङ्गीकारान्नास्माकं मते उपजीव्यविरोध इति भावः ।
असद्विलक्षणस्वरूपानङ्गीकारे बाधकं पूर्वमतानुवर्तिनं प्रत्याह —
अन्यथेति ।
प्रपञ्चसत्यत्ववादी शङ्कते —
न चेति ।
ननु ब्रह्मणि प्रपञ्चस्तन्निषेधश्च युगपदास्तां, को दोष इत्याशङ्क्याह —
निषेधस्येति ।
भूतलादौ घटाद्यभावस्य प्रतियोगिस्थितिविरोधित्वदर्शनादिति भावः ।
व्याघातादिति ।
निषेधत्वव्याघातादित्यर्थः । कल्पितपदार्थप्रतियोगिकाभावस्य अधिष्ठानादन्यत्र सदा प्रतियोगिविरोधित्वेऽप्यधिष्ठाने कञ्चित्कालं प्रतियोगिस्थितिसहिष्णुत्वस्वभावः कल्प्यते । न च तथाकल्पकाभावः । द्वैतग्राहिप्रत्यक्षादेर्निषेधश्रुतेश्च मानत्वात् ।
यथा परमते घटाद्यत्यन्ताभावस्य स्वाधिकरणमात्रे प्रतियोगिप्रतिक्षेपकत्वेऽपि संयोगाद्यत्यन्ताभावस्य क्वचित् स्वाधिकरणे प्रतियोग्य प्रतिक्षेपकता प्रतीतिबलात् स्वीक्रियते तद्वत्-इति समाधानाभिप्रायं मनसि निधाय स्वमतसिद्धं दृष्टान्तं सोपपत्तिकमाह —
शुक्ताविति ।
एतच्छब्दार्थमाह —
ब्राहज्ञानेति ।
वैषम्यादिति ।
शशशृङ्गादिवैषम्यादित्यर्थः ।
अन्यत्रेति ।
अधिष्ठनादन्यत्र देशे काले वेत्यर्थः ।
ननु प्रकारान्तरेणासत्त्वनिर्वचनमस्तु, तथा च प्रपञ्चे तदभावात् न तस्यासत्त्वप्रसक्तिरिति, नेत्याह —
विधान्तरेणेति ।
प्रसिद्धासतः शशशृङ्गादेः उक्तलक्षणे सिद्धे सति प्रपञ्चेऽपि तल्लक्षणसत्त्वात् तस्याप्यसत्त्वापत्त्या तद्विलक्षणत्वाभ्युपगमपूर्वकवैषम्योक्तिरयुक्तेति शङ्कितुं शक्यम् । तदेवासिद्धम् - मानाभावात् ।
कथं मानाभाव इति चेत्, तत्र वक्तव्यं — किमसत उक्तलक्षणयोगे प्रत्यक्षं प्रमाणं किं वा आगमः अथवा अनुमानमिति विकल्पं मनसि निधाय आद्यद्वितीययोर्निराकरणपूर्वकं तृतीयं परिशेषयति —
असत इत्यादिना ।
प्रत्यक्षस्य आगमस्य च प्रमाणयितुमशक्यतया इति सम्बन्धः ।
तादृशेति ।
‘शाशशृङ्गादिकं सर्वदेशकालसम्बन्धिनिषेधप्रतियोगि’ इत्येवमाकारकागमानुपलम्भेन चेत्यर्थः ।
अस्तु तर्हि परिशिष्टं अनुमानमेव तत्र मानमिति, नेत्याह —
तदनुमान इति ।
यदिति ।
निस्स्वरूपत्वमित्यर्थः ।
वाच्यमिति ।
त्वयेति शेषः ।
विनिगमनाविरहं परिहरति —
प्रथमप्रतीतस्येति ।
उपपत्तेरिति ।
तथा च प्रपञ्चस्य ज्ञाननिवर्त्यस्वरूपाङ्गीकारात् निस्स्वरूपत्वलक्षणासत्त्वं नास्तीति तस्य शशशृङ्गादिवैषम्योक्तिर्युक्तेति भावः ।
उपजीव्यविरोधं प्रकारान्तरेण परिहरति —
अपरे त्विति ।
अयोगादिति ।
तथा चाभावाधिकरणमात्रे प्रतियोगिस्थित्ययोगात् प्रपञ्चाधिकरणे ब्रह्मणि तदभावो न निषेधश्रुतिगम्य इति भावः । ननु — सत्यत्वेन ब्रह्मणि प्रपञ्चनिषेध इति मतेऽपि किं सत्यत्वविशिष्टप्रपञ्चाभावो ब्रह्मणि विवक्षितः, किं वा सत्यत्वधर्मावच्छिन्नप्रतियोगिताकः प्रपञ्चमात्रप्रतियोगिको निषेधो ब्रह्मणि विवक्षितः । नोभयथापि सम्भवति । प्रतियोग्यधिकरणे तदाभावानङ्गीकारात्, प्रपञ्चे सत्यत्वस्य अनङ्गीकारेण तस्य प्रतियोगिकोटिप्रवेशप्रतियोगितावच्छेदकत्वयोरसम्भवाच्च इति चेत्, उच्यते — प्रपञ्चे धर्मिणि सत्यत्वनिषेधे श्रुतेस्तात्पर्यमिति एतन्मताभिप्रायः, न तु यथाश्रुतार्थे तात्पर्यमस्य मतस्य ।
अत एव वक्ष्यति —
सत्यत्वाभासप्रतीतिरेव सत्यत्वप्रसक्तिरिति तन्निषेधोपपत्तेः - इति ।
अत्र हि वाक्ये प्रपञ्च एव सत्यत्वनिषेधः स्पष्टं प्रतीयते । अतो नास्मिन्मते प्रतियोगितदभावयोरेकाधिकरणत्वशङ्कावकाशः ।
ननु ब्रह्मणि प्रपञ्चस्वरूपं यथा प्रत्यक्षादिसिद्धमस्ति, तथा प्रपञ्चे सत्यत्वमपि प्रत्यक्षादिसिद्धमस्त्येवेति तन्निषेधेऽपि श्रुतेस्तात्पर्यं कल्पयितुं न शक्यमिति शङ्कते —
न चेति ।
प्रत्यक्षादिग्राह्यं प्रपञ्चसत्यत्वं ब्रह्मसत्यत्ववत् परमार्थं न भवति । तथासति उपक्रमाद्यवगतस्वार्थतात्पर्यवतीनां भूयसीनां निषेधश्रुतीनां निर्विषयत्वप्रसङ्गात् । किं तु व्यावहारिकसत्यत्वादिरूपं तत् कल्प्यते ।
ततो न सत्यत्वनिषेधानुपपत्तिः - इति परिहरति —
प्रत्यक्षस्येति ।
न चैवंसतीति ।
प्रपञ्चसत्यत्वस्य व्यावहारिकत्वाङ्गीकार इत्यर्थः ।
दृष्टान्तपूर्वकं प्रसक्तिमाह —
यथा शुक्ताविति ।
नेदं रजतमिति निषेधप्रत्यक्षस्य सत्यरजतनिषेधविषयकत्वं वक्तव्यम् । प्रातिभासिकरजताधिकरणे शुक्तिशकले कल्पितरजताभावस्य अस्मिन्मतेऽनङ्गीकारेण बाधप्रत्यक्षस्य तद्विषयत्वायोगादिति भावः ।
शुक्त्यादौ निषिध्यमानस्य देशान्तरस्थत्वे नियामकमाह —
अत एवेति ।
प्रपञ्चे पारमार्थिकसत्यत्वस्य प्रसक्त्यभावान्निषेधानुपपत्तिरिति शङ्कायां सत्त्वत्रैविध्यमतमालम्ब्य परिहारो दर्शितः ।
इदानीं सर्वत्र सत्तैक्यपक्षे प्रसक्त्यभावशङ्कां परिहरति —
अन्ये त्विति ।
प्रथमं सत्तात्रैविध्यपक्षं दूषयति —
ब्रह्मणीत्यादिना ।
ब्रह्मगतेति ।
पारमार्थिकसत्तायाः ब्रह्मस्वरूपत्वेऽपि भेदकल्पनया तद्गतत्वोक्तिः ।
अनुवेधादेवेति ।
प्रतीतेरेवेत्यर्थः ।
एवं चेति ।
‘सन् घटः’ इत्यादिप्रतीतेः घटादितादात्म्यापन्ने सन्निति प्रतीयमाने सद्वस्त्वंशरूपे ब्रह्मण्येव सत्ताविषयकत्वं, ‘मृद्धटः’ इति प्रतीतेरिव मृदंशे मृत्त्वविषयकत्वं, ब्रह्मणि सत्ताप्रतीतिवशादेव घटादौ सत्त्वव्यहारः, इति स्थिते सतीत्यर्थः । यत्तु भेदवादिभिरुच्यते —
प्रपञ्चे श्रुत्या सत्यत्वनिषेधो न सम्भवति, प्रपञ्चे सत्यत्वगोचरप्रत्यक्षप्रतीतिविरोधादिति तन्न-हेत्वसिद्धेरित्याह —
प्रपञ्च इति ।
यच्चोक्तं तर्ह्यप्रसक्तप्रतिषेध इति, तत्राह —
तत्तादात्म्येति ।
तत्पदं घटादिपरम् । प्रपञ्चब्रह्मणोर्भेदाग्रहेण ब्रह्मणि या सत्ताप्रतीतिः, सैव प्रपञ्चे सत्त्वप्रसक्तिर्भवति, तन्मूलश्च तत्र सत्त्वव्यवहार इत्यर्थः ।
नोपजीव्यविरोध इति ।
श्रौतमिथ्यात्वबोधं प्रत्युपजीव्यस्य वर्णपदादिप्रत्यक्षस्य सालम्बनत्वाभ्युपगमात् तदबाधाच्च इति भावः ।
ननु यदि घटादिप्रपञ्चे ब्रह्मसत्तयैव सत्त्वव्यवहारसिद्धौ पृथक्सत्त्वं न कल्प्यते, तत्कल्पने मानाभावाल्लाघवाच्च, तर्ह्यतिप्रसङ्ग इति शङ्कते —
न चेति ।
किमर्थमिति ।
तत्कल्पने गौरवात् । तथाच अनिर्वचनीयरजताद्यसिद्धिरिति शङ्काभिप्रायः ।
गौरवं प्रामाणिकत्वात् न दोषाय इत्याशयेन परिहरति —
व्यवहितस्येति ।
असन्निकृष्टस्येति ।
अभिव्यक्तचैतन्यतादात्म्यशून्यस्येति यावत् ।