अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

प्रपञ्चमिथ्यात्वश्रुतेः उपजीव्यप्रत्यक्षविरोध परिहारः

नन्विति ।

यद्यपीयं शङ्का ‘न चैव­मु­प­जी­व्य­प्र­त्य­क्ष­वि­रोधः’ इत्यादिना पूर्वं निराकृता, तथापि तत्रोक्तं परि­हा­र­मा­क्षेप्तुं तच्छङ्कापरिहारौ पुनर्लिखति —
तथापीति ।
आगमवत् प्रत्यक्षस्य स्वतः­प्रा­ब­ल्या­भा­वेऽ­पी­त्यर्थः । ननु —

अपच्छेदन्यायेन श्रुतेरपि प्राबल्यं दुर्वारम्, तथा च बाध्यबाधकभावे विनिगमनाविरह एवेति शङ्कस्य नेष्टसिद्धिः, प्रत्यक्षेण श्रुतिबाधस्य तदिष्टत्वात् — इत्याशङ्क्य अप­च्छे­द­न्या­या­न­व­तारं शङ्कः प्रकृते दर्शयति —
अप­च्छे­द­शा­स्त्र­यो­र्हीति ।

उप­जी­व्य­वि­रो­ध­श­ङ्कायां पूर्वोक्तं परिहारं स्मारयति —
न च मिथ्या­त्व­श्रु­त्येति ।
श्रुत्या प्रप­ञ्च­स­त्य­त्व­मा­त्र­नि­पेधे सति तथापरिहारो युज्यते । सा तु प्रप­ञ्च­स्व­रू­प­मेव निषेधति ।

तथा च वर्ण­प­दा­दि­स्व­रू­प­स्यै­वा­भा­वा­दु­प­जी­व्य­वि­रोधो दुर्वार इत्याह —
नेहेति ।
इह — ब्रह्मणि नाना — भिन्नं वस्तु किञ्चिदपि नास्तीत्यर्थः ।

स्वरू­पो­प­म­र्द­मु­पे­त्यैव उपजीव्यविरोधं परिहरति —
अत्र केचिदाहुरिति ।
प्रप­ञ्च­स­त्य­त्व­प­क्षेऽपि वृष­मा­न­ये­त्यु­दा­ह­र­णा­नु­रो­धेन भ्रम­प्र­मा­सा­धा­र­ण­मेव शब्दप्रत्यक्षं शाब्द­बो­धो­प­जी­व्य­मिति वक्तव्यम्, अस्माकं तु निषे­ध­श्रु­ति­प्रा­मा­ण्यात् सर्वत्र भ्रमरूपमेव प्रत्यक्षं शाब्दबोधे व्यवहारान्तरेषु च कारणमिति विशेषः, इति नोपजीव्यविरोधः, शब्द­स्व­रू­प­स्या­नु­प­जी­व्य­त्वा­दि­त्यर्थः ॥

उपजीव्यविरोधं प्रकारान्तरेण परिहरति —
अन्ये त्वाहुरिति ।

प्रथमं पूर्वमते अस्वरसं दर्शयति —
शाब्द­प्र­मि­ता­विति ।

अनपेक्षायामपीति ।
अत्र अपिशब्देन वस्तु­तोऽ­पे­क्षा­स्तीति सूचितम् । तथा हि — पूर्वमते प्रत्य­क्ष­ज्ञा­न­मा­त्र­मु­प­जीव्यं विषयो वर्णपदादिलक्षणो नोपजीव्य इत्युक्तं, तदयुक्तम् निर्वि­ष­य­प्र­त्य­क्ष­ज्ञा­ना­यो­गात् । अतो वर्ण­प­दा­दि­स्व­रू­प­मपि स्वीकर्तव्यमेव । तथा च उपजीव्यविरोधे पूर्वसमाधानं न साध्विति भावः ।

अस्तीति ।
तथा च योग्यताया उप­जी­व्य­त्व­म­व­र्ज­नी­य­मिति तद्विरोधः पूर्वमते आवश्यक इति भावः । न चैतावता पूर्व­वा­द्य­भि­म­तस्य कृत्स्न­प्र­प­ञ्चस्य स्वरूपं न सिध्यतीति वाच्यम् । शाब्द­प्र­मि­ति­ल­क्ष­ण­का­र्या­नु­रो­धेन ब्रह्मा­ति­रि­क्त­यो­ग्य­ता­स्व­रू­प­सिद्धौ तद्वदेव जला­ह­र­णा­दि­का­र्या­नु­रो­धेन घटादिस्वरूपमपि सिध्य­त्ये­वे­त्या­श­यात् ।

ननु यदि चैत­न्य­व्य­ति­रिक्तं कृत्स्नं जगदुपेयते तर्हि तद्ग्रा­हि­प्र­त्य­क्षा­दे­स्स­वि­ष­य­स्यो­प­जी­व्य­त्वात् तद्विरोध इत्यत आह —
तदपेक्षायामपीति ।
निषे­ध­श्रु­त्य­र्था­वि­रु­द्धस्य प्रप­ञ्च­स्व­रू­प­स्या­स्मा­भि­र­प्य­ङ्गी­का­रा­न्ना­स्माकं मते उपजीव्यविरोध इति भावः ।

अस­द्वि­ल­क्ष­ण­स्व­रू­पा­न­ङ्गी­कारे बाधकं पूर्व­म­ता­नु­व­र्तिनं प्रत्याह —
अन्यथेति ।

प्रप­ञ्च­स­त्य­त्व­वादी शङ्कते —
न चेति ।

ननु ब्रह्मणि प्रप­ञ्च­स्त­न्नि­षे­धश्च युगपदास्तां, को दोष इत्याशङ्क्याह —
निषेधस्येति ।
भूतलादौ घटाद्यभावस्य प्रति­यो­गि­स्थि­ति­वि­रो­धि­त्व­द­र्श­ना­दिति भावः ।

व्याघातादिति ।
निषे­ध­त्व­व्या­घा­ता­दि­त्यर्थः । कल्पि­त­प­दा­र्थ­प्र­ति­यो­गि­का­भा­वस्य अधि­ष्ठा­ना­द­न्यत्र सदा प्रति­यो­गि­वि­रो­धि­त्वेऽ­प्य­धि­ष्ठाने कञ्चित्कालं प्रति­यो­गि­स्थि­ति­स­हि­ष्णु­त्व­स्व­भावः कल्प्यते । न च तथाकल्पकाभावः । द्वैत­ग्रा­हि­प्र­त्य­क्षा­दे­र्नि­षे­ध­श्रु­तेश्च मानत्वात् ।

यथा परमते घटा­द्य­त्य­न्ता­भा­वस्य स्वाधिकरणमात्रे प्रति­यो­गि­प्र­ति­क्षे­प­क­त्वेऽपि संयो­गा­द्य­त्य­न्ता­भा­वस्य क्वचित् स्वाधिकरणे प्रतियोग्य प्रतिक्षेपकता प्रतीतिबलात् स्वीक्रियते तद्वत्-इति समाधानाभिप्रायं मनसि निधाय स्वमतसिद्धं दृष्टान्तं सोपपत्तिकमाह —
शुक्ताविति ।

एतच्छब्दार्थमाह —
ब्राहज्ञानेति ।

वैषम्यादिति ।
शश­शृ­ङ्गा­दि­वै­ष­म्या­दि­त्यर्थः ।

अन्यत्रेति ।
अधिष्ठनादन्यत्र देशे काले वेत्यर्थः ।

ननु प्रका­रा­न्त­रे­णा­स­त्त्व­नि­र्व­च­न­मस्तु, तथा च प्रपञ्चे तदभावात् न तस्या­स­त्त्व­प्र­स­क्ति­रिति, नेत्याह —
विधान्तरेणेति ।
प्रसिद्धासतः शशशृङ्गादेः उक्तलक्षणे सिद्धे सति प्रपञ्चेऽपि तल्ल­क्ष­ण­स­त्त्वात् तस्या­प्य­स­त्त्वा­पत्त्या तद्वि­ल­क्ष­ण­त्वा­भ्यु­प­ग­म­पू­र्व­क­वै­ष­म्यो­क्ति­र­यु­क्तेति शङ्कितुं शक्यम् । तदेवासिद्धम् - मानाभावात् ।

कथं मानाभाव इति चेत्, तत्र वक्तव्यं — किमसत उक्तलक्षणयोगे प्रत्यक्षं प्रमाणं किं वा आगमः अथवा अनुमानमिति विकल्पं मनसि निधाय आद्य­द्वि­ती­य­यो­र्नि­रा­क­र­ण­पू­र्वकं तृतीयं परिशेषयति —
असत इत्यादिना ।
प्रत्यक्षस्य आगमस्य च प्रमा­ण­यि­तु­म­श­क्य­तया इति सम्बन्धः ।

तादृशेति ।
‘शाशशृङ्गादिकं सर्व­दे­श­का­ल­स­म्ब­न्धि­नि­षे­ध­प्र­ति­योगि’ इत्ये­व­मा­का­र­का­ग­मा­नु­प­ल­म्भेन चेत्यर्थः ।

अस्तु तर्हि परिशिष्टं अनुमानमेव तत्र मानमिति, नेत्याह —
तदनुमान इति ।

यदिति ।
निस्स्व­रू­प­त्व­मि­त्यर्थः ।

वाच्यमिति ।
त्वयेति शेषः ।

विनिगमनाविरहं परिहरति —
प्रथ­म­प्र­ती­त­स्येति ।

उपपत्तेरिति ।
तथा च प्रपञ्चस्य ज्ञान­नि­व­र्त्य­स्व­रू­पा­ङ्गी­का­रात् निस्स्व­रू­प­त्व­ल­क्ष­णा­सत्त्वं नास्तीति तस्य शश­शृ­ङ्गा­दि­वै­ष­म्यो­क्ति­र्यु­क्तेति भावः ।

उपजीव्यविरोधं प्रकारान्तरेण परिहरति —
अपरे त्विति ।

अयोगादिति ।
तथा चाभा­वा­धि­क­र­ण­मात्रे प्रति­यो­गि­स्थि­त्य­यो­गात् प्रपञ्चाधिकरणे ब्रह्मणि तदभावो न निषेधश्रुतिगम्य इति भावः । ननु — सत्यत्वेन ब्रह्मणि प्रपञ्चनिषेध इति मतेऽपि किं सत्य­त्व­वि­शि­ष्ट­प्र­प­ञ्चा­भावो ब्रह्मणि विवक्षितः, किं वा सत्य­त्व­ध­र्मा­व­च्छि­न्न­प्र­ति­यो­गि­ताकः प्रप­ञ्च­मा­त्र­प्र­ति­यो­गिको निषेधो ब्रह्मणि विवक्षितः । नोभयथापि सम्भवति । प्रति­यो­ग्य­धि­क­रणे तदा­भा­वा­न­ङ्गी­का­रात्, प्रपञ्चे सत्यत्वस्य अनङ्गीकारेण तस्य प्रति­यो­गि­को­टि­प्र­वे­श­प्र­ति­यो­गि­ता­व­च्छे­द­क­त्व­यो­र­स­म्भ­वाच्च इति चेत्, उच्यते — प्रपञ्चे धर्मिणि सत्यत्वनिषेधे श्रुते­स्ता­त्प­र्य­मिति एत­न्म­ता­भि­प्रायः, न तु यथाश्रुतार्थे तात्पर्यमस्य मतस्य ।

अत एव वक्ष्यति —
सत्य­त्वा­भा­स­प्र­ती­ति­रेव सत्य­त्व­प्र­स­क्ति­रिति तन्नि­षे­धो­प­पत्तेः - इति ।
अत्र हि वाक्ये प्रपञ्च एव सत्यत्वनिषेधः स्पष्टं प्रतीयते । अतो नास्मिन्मते प्रति­यो­गि­त­द­भा­व­यो­रे­का­धि­क­र­ण­त्व­श­ङ्का­व­काशः ।

ननु ब्रह्मणि प्रपञ्चस्वरूपं यथा प्रत्य­क्षा­दि­सि­द्ध­मस्ति, तथा प्रपञ्चे सत्यत्वमपि प्रत्य­क्षा­दि­सि­द्ध­म­स्त्ये­वेति तन्निषेधेऽपि श्रुते­स्ता­त्पर्यं कल्पयितुं न शक्यमिति शङ्कते —
न चेति ।
प्रत्य­क्षा­दि­ग्राह्यं प्रपञ्चसत्यत्वं ब्रह्म­स­त्य­त्व­वत् परमार्थं न भवति । तथासति उप­क्र­मा­द्य­व­ग­त­स्वा­र्थ­ता­त्प­र्य­व­तीनां भूयसीनां निषेधश्रुतीनां निर्वि­ष­य­त्व­प्र­स­ङ्गात् । किं तु व्याव­हा­रि­क­स­त्य­त्वा­दि­रूपं तत् कल्प्यते ।

ततो न सत्य­त्व­नि­षे­धा­नु­प­पत्तिः - इति परिहरति —
प्रत्यक्षस्येति ।

न चैवंसतीति ।
प्रप­ञ्च­स­त्य­त्वस्य व्याव­हा­रि­क­त्वा­ङ्गी­कार इत्यर्थः ।

दृष्टा­न्त­पू­र्वकं प्रसक्तिमाह —
यथा शुक्ताविति ।
नेदं रजतमिति निषे­ध­प्र­त्य­क्षस्य सत्य­र­ज­त­नि­षे­ध­वि­ष­य­कत्वं वक्तव्यम् । प्राति­भा­सि­क­र­ज­ता­धि­क­रणे शुक्तिशकले कल्पि­त­र­ज­ता­भा­वस्य अस्मि­न्म­तेऽ­न­ङ्गी­का­रेण बाधप्रत्यक्षस्य तद्वि­ष­य­त्वा­यो­गा­दिति भावः ।

शुक्त्यादौ निषिध्यमानस्य देशान्तरस्थत्वे नियामकमाह —
अत एवेति ।
प्रपञ्चे पार­मा­र्थि­क­स­त्य­त्वस्य प्रस­क्त्य­भा­वा­न्नि­षे­धा­नु­प­प­त्ति­रिति शङ्कायां सत्त्व­त्रै­वि­ध्य­म­त­मा­लम्ब्य परिहारो दर्शितः ।

इदानीं सर्वत्र सत्तैक्यपक्षे प्रस­क्त्य­भा­व­शङ्कां परिहरति —
अन्ये त्विति ।

प्रथमं सत्ता­त्रै­वि­ध्य­पक्षं दूषयति —
ब्रह्म­णी­त्या­दिना ।

ब्रह्मगतेति ।
पार­मा­र्थि­क­स­त्तायाः ब्रह्म­स्व­रू­प­त्वेऽपि भेदकल्पनया तद्गतत्वोक्तिः ।

अनुवेधादेवेति ।
प्रती­ते­रे­वे­त्यर्थः ।

एवं चेति ।
‘सन् घटः’ इत्यादिप्रतीतेः घटा­दि­ता­दा­त्म्या­पन्ने सन्निति प्रतीयमाने सद्वस्त्वंशरूपे ब्रह्मण्येव सत्ताविषयकत्वं, ‘मृद्धटः’ इति प्रतीतेरिव मृदंशे मृत्त्व­वि­ष­य­कत्वं, ब्रह्मणि सत्ता­प्र­ती­ति­व­शा­देव घटादौ सत्त्वव्यहारः, इति स्थिते सतीत्यर्थः । यत्तु भेद­वा­दि­भि­रु­च्यते —

प्रपञ्चे श्रुत्या सत्यत्वनिषेधो न सम्भवति, प्रपञ्चे सत्य­त्व­गो­च­र­प्र­त्य­क्ष­प्र­ती­ति­वि­रो­धा­दिति तन्न-हे­त्व­सि­द्धे­रि­त्याह —
प्रपञ्च इति ।

यच्चोक्तं तर्ह्य­प्र­स­क्त­प्र­ति­षेध इति, तत्राह —
तत्तादात्म्येति ।
तत्पदं घटादिपरम् । प्रप­ञ्च­ब्र­ह्म­णो­र्भे­दा­ग्र­हेण ब्रह्मणि या सत्ताप्रतीतिः, सैव प्रपञ्चे सत्त्व­प्र­स­क्ति­र्भ­वति, तन्मूलश्च तत्र सत्त्वव्यवहार इत्यर्थः ।

नोपजीव्यविरोध इति ।
श्रौत­मि­थ्या­त्व­बोधं प्रत्यु­प­जी­व्यस्य वर्ण­प­दा­दि­प्र­त्य­क्षस्य साल­म्ब­न­त्वा­भ्यु­प­ग­मात् तदबाधाच्च इति भावः ।

ननु यदि घटादिप्रपञ्चे ब्रह्मसत्तयैव सत्त्व­व्य­व­हा­र­सिद्धौ पृथक्सत्त्वं न कल्प्यते, तत्कल्पने माना­भा­वा­ल्ला­घ­वाच्च, तर्ह्यतिप्रसङ्ग इति शङ्कते —
न चेति ।

किमर्थमिति ।
तत्कल्पने गौरवात् । तथाच अनि­र्व­च­नी­य­र­ज­ता­द्य­सि­द्धि­रिति शङ्काभिप्रायः ।

गौरवं प्रामाणिकत्वात् न दोषाय इत्याशयेन परिहरति —
व्यवहितस्येति ।

अस­न्नि­कृ­ष्ट­स्येति ।
अभि­व्य­क्त­चै­त­न्य­ता­दा­त्म्य­शू­न्य­स्येति यावत् ।