अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

उक्तव्यवस्थोपपादकोपाधिभेदविचारः

जीवानां उपाधिभेदाद्वा औपाधिकभेदाद्वा सुख­दुः­खा­दि­व्य­व­स्था­सिद्धौ तेषां वस्तुतः परस्परं भेदे प्रमाणाभावात् एकब्रह्माभेदः सिद्ध्यति । तत्सिद्धौ च जीवाभिन्ने निष्प्रपञ्चे ब्रह्मणि वेदान्तसमन्वयः सिद्ध इति प्रतिपादितम् । सम्प्रति विचा­रा­न्त­र­मा­र­भते —
एवमिति ।
उक्त­प्र­का­रे­णे­त्यर्थः ।

क इति ।
अनु­स­न्धा­ना­न­नु­स­न्धा­नयोः किं भोगा­य­त­ना­भे­द­त­द्भेदौ प्रयोजकौ, किं वा विश्लि­ष्ट­भो­गा­य­त­ना­भे­द­त­द्भेदौ, अथवा शरी­रा­भे­द­त­द्भेदौ, अन्तः­क­र­णा­भे­द­त­द्भेदौ वा, अज्ञा­ना­भे­द­त­द्भेदौ वा इति प्रश्ने प्रतिवचनं निरू­प­णी­य­मि­त्यर्थः ।

तत्र आद्यं पक्षमादाय प्रतिवचनं निरूपयति —
अत्र केचिदाहुरिति ।

तत्रा­न्व­य­व्य­ति­रेकौ प्रमाणयति —
शरी­रा­व­च्छि­न्नेति ।
भोगायतनं ह्यव­च्छे­द­क­ता­स­म्ब­न्धेन भोगाश्रयः ।

स च देह­स्त­द­व­य­व­ह­स्ता­दिश्च भवतीत्याशयेनाह —
चरणेति ।

अननुसन्धानमेव दर्शयति —
हस्तावच्छिन्न इति ।

हस्ता­व­च्छि­न्ना­त्मनः पादा­व­च्छि­न्ना­त्म­ग­त­दुः­खा­नु­स­न्धा­तृ­त्वा­भावे बाधकं शङ्कते —
कथं तर्हीति ।
‘अयं हस्तव्यापारो हस्ता­व­च्छि­न्न­स्या­नु­स­न्धा­नात् न भवति किं तु तदनुसन्धानात्’ इति सम्बन्धः । तस्य - शरी­रा­व­च्छि­न्नस्य यच्च­र­णा­व­च्छि­न्न­ग­त­वे­द­ना­नु­स­न्धा­नम्, तस्मादित्यर्थः । ननु — चरणावच्छिन्नगता वेदना कथं शरी­रा­व­च्छि­न्ने­ना­नु­स­न्धी­यते, अव­य­वा­व­य­वि­नो­र्भे­दात् । भेदेऽ­प्य­नु­स­न्धा­नो­प­गमे चैत्र­श­री­रा­व­च्छिन्ना वेदना मैत्र­श­री­रा­व­च्छि­न्ने­ना­प्य­नु­स­न्धी­येत, भेदाविशेषात् । तथा च चैत्र­श­री­र­ल­ग्न­क­ण्ट­को­द्धा­राय मैत्रशरीरस्य स्वारसिको व्यापारः प्रसज्येत —

अत आह —
अवयवावयविनोरिति ।
अवयवानां परस्परं भेदेऽपि शरी­र­त­द­व­य­व­यो­स्ता­दा­त्म्यो­प­ग­मा­दि­त्यर्थः ।

एवं चेति ।
शरी­रा­व­च्छि­न्नस्य चर­णा­व­च्छि­न्न­वे­द­ना­नु­स­न्धानं प्रति शरी­र­च­र­ण­यो­स्ता­दा­त्म्यस्य नियामकत्वे सतीत्यर्थः ।

ननु हस्ता­व­च्छि­न्नस्य चर­णा­व­च्छि­न्न­ग­त­वे­द­ना­नु­स­न्धा­तृ­त्वा­भा­वेऽपि चर­ण­ल­ग्न­क­ण्ट­को­द्धा­राय हस्तव्यापारवत् मैत्र­श­री­रा­व­च्छि­न्नस्य चैत्र­श­री­रा­व­च्छि­न्न­ग­त­वे­द­ना­नु­स­न्धा­तृ­त्वा­भा­वेऽपि चैत्र­श­री­र­ल­ग्न­क­ण्ट­को­द्धा­राय मैत्र­श­री­र­व्या­पा­र­प्र­सङ्गः परिहर्तुं न शक्यते, तत्राह —
नापीति ।
चैत्र­मै­त्र­श­री­र­द्व­या­नु­स्यू­ते­त्यर्थः । चैत्र­श­री­रा­व­च्छि­न्न­वे­दना उभ­या­नु­स्यू­ता­व­य­व्य­न्त­रा­व­च्छि­न्ने­नापि नानुसन्धीयत इति सम्बन्धः । अतो न दृष्टा­न्त­सा­म्य­मिति भावः । चर­ण­ल­ग्न­क­ण्ट­को­द्धा­राय हस्त­व्या­पा­रा­नु­रो­धेन हस्ता­व­च्छि­न्न­स्यैव चर­णा­व­च्छि­न्न­वे­द­ना­नु­स­न्धा­तृ­त्व­मु­पे­यते । न च — तथा सति भोगा­य­त­न­भे­द­स्या­न­नु­स­न्धा­न­प्र­यो­ज­कत्वं न स्यात्, चरणहस्तभेदे व्यभिचारादिति — वाच्यम् । तद्वारणाय विशे­ष­ण­दा­नो­प­पत्तेः —

इति मत्वा द्वितीयमुपाधिं निरूपयति —
अन्ये त्विति ।
उपाधिपदं भोगायतनपरम् ।

न दोष इति ।
भोगा­य­त­न­यो­र्ह­स्त­च­र­ण­यो­र्भेदे सत्यपि तयो­र्वि­श्लि­ष्ट­त्वा­भा­वेन विश्लि­ष्ट­भो­गा­य­त­न­भे­द­स्या­न­नु­स­न्धा­न­प्र­यो­ज­क­स्या­भा­वात् न तत्र व्यभिचारदोष इत्यर्थः ।

न चैवंसतीति ।
विश्लि­ष्ट­त्व­वि­शे­ष­ण­दाने सतीत्यर्थः । गर्भस्थजीवस्य यत् भोगायतनं तस्य मातृशरीरस्य च विश्लि­षा­भा­वा­दिति भावः ।

विश्लि­ष्ट­प­दा­र्था­न­भि­ज्ञ­स्ये­दं­चो­द्य­मिति परिहरति —
एकस्मिन्निति ।

तथात्वादिति ।
एक­स्मि­न्न­व­य­वि­न्य­व­य­व­भा­वे­ना­न­नु­प्र­वि­ष्ट­त्वा­दि­त्यर्थः । तथा च विश्लि­ष्टो­पा­धि­भे­द­स­त्त्वात् न गर्भस्थजीवस्य मातृ­सु­खा­नु­स­न्धा­न­प्र­सङ्ग इति भावः ।

निरु­क्ता­न­नु­स­न्धा­न­प्र­यो­ज­कस्य व्यभिचारं शङ्कते —
न चेति ।
दोर्द­ण्डाः-बा­हु­दण्डाः । कब­न्धाः-छि­न्न­शि­र­स्क­देहाः । इह-युद्धे भूमौ वा । अत्र वचने चैत्र­मै­त्र­श­री­र­यो­रिव विश्लिष्टयोः कब­न्ध­शि­र­सो­र्भेदे सत्यपि शिरोऽ­व­च्छि­न्नस्य कब­न्धा­व­च्छि­न्न­ग­त­यो­द्धृ­त्वा­नु­स­न्धा­तृ­त्व­म­व­ग­म्यत इति व्यभिचार इत्यर्थः ।

तत्रा­नु­स­न्धा­न­मु­पेत्य चैत्र­मै­त्र­श­री­र­वै­ल­क्ष­ण्येन समाधत्ते —
तत्रापीति ।

चरत्वादिति ।
पूर्व­म­नु­प्र­वि­ष्ट­त्वा­दि­त्यर्थः ।

अस्य वचनस्य स्वार्थे मानत्वाभावात् व्यभि­चा­र­श­ङ्कै­वा­यु­क्ते­त्या­श­येन अभ्युपगमं परित्यजति —
शिर­श्छे­दा­न­न्त­र­मिति ।
कबन्धा अपि पातयन्ति, किमुतान्ये — इति योधा­ना­मु­त्सा­हा­ति­शयं प्रशं­स­त्ये­त­द्व­च­न­मि­त्यर्थः ।

ननु - शिर­श्छे­दा­न­न्त­र­मपि युद्धा­नु­स­न्धा­ना­दिकं योगमहिम्ना तपोमहिम्ना वा वरदानमहिम्नावा केषांचित् सम्भवति, ततो विद्य­मा­ना­र्थ­क­मे­वेदं वचनं - इत्याशङ्कायां पुन­र­नु­स­न्धा­न­मु­पेत्य व्यभिचारं परिहरति —
तादृगिति ।
‘विश्लि­ष्ट­भो­गा­य­त­न­भे­दोऽ­न­नु­स­न्धा­न­प्र­यो­जक इत्युत्सर्गः’ इत्युपगमात् उदा­हृ­ता­नु­स­न्धा­न­स्थ­लस्य तद­प­वा­द­स्थ­ल­त्वा­भ्यु­प­ग­मात् तत्र व्यभिचारो न दोषायेति भावः ।

अत एवेति ।
उत्स­र्ग­रू­प­त्वा­भ्यु­प­ग­मा­दे­वे­त्यर्थः ।

न दोषप्रसक्तिरिति ।
भोगा­य­त­न­भे­दा­दे­र­न­नु­स­न्धा­न­प्र­यो­ज­क­त्व­नि­य­मा­भ्यु­प­गमे हि योगिषु जातिस्मरेषु च भोगा­य­त­न­भे­दा­दि­प्र­यो­ज­क­च­तु­ष्ट­यस्य सत्त्वे­प्य­न­नु­स­न्धा­ना­भा­वेन व्यभि­चा­र­रू­प­दो­ष­प्र­स­क्ति­र्भ­वे­दि­त्यर्थः । अदृ­ष्ट­वि­शे­षा­स­ह­कृ­तस्य भोगा­य­त­न­भे­दा­दे­र­न­नु­स­न्धा­न­प्र­यो­ज­क­त्वस्य विवक्षितत्वात् न योग्यादिषु व्यभिचार इति तात्पर्यम् ।

तृतीयपक्षमादाय प्रतिवचनं निरूपयति —
अपरे त्विति ।

तत्र मानमाह —
बाल्येति ।
बाल्येऽनुभूतस्य वार्ध­केऽ­नु­स­न्धानं दृश्यते । बाल्य­वा­र्ध­क­यो­श्श­री­रा­भे­दात् । तद्भेदादेव भवा­न्त­रा­नु­भू­तस्य अस्मिन् जन्मनि अनुसन्धानं न दृश्यत इत्यर्थः ।

शङ्कनीय इति ।
परिमाणभेदादिति भावः ।

बाल्या­द्य­व­स्था­भे­देऽपि ‘तदेवेदं शरीरं’ इति प्रत्य­भि­ज्ञा­द­र्श­नात् न शरीरभेद इति परिहरति —
प्रत्य­भि­ज्ञा­ना­दिति ।

शङ्का­बी­ज­म­नू­द्या­न्य­था­सि­द्धि­माह —
न चेत्यादिना ।

आर­म्भ­वा­द­मा­श्रित्य शङ्कते —
नन्विति ।

न पूर्वसिद्धमिति ।
पूर्वसिद्धे शरीरे उपा­दा­न­त्वा­यो­गात् पूर्व­सि­द्ध­श­री­र­ना­श­पू­र्वकं तद­व­य­वै­रु­प­चि­ता­व­य­वैश्च मिलित्वा शरीरान्तरं द्व्यणु­क­त्र्य­णु­का­दि­क्र­मे­णा­र­ब्ध­व्य­मिति परिमाणभेदे शरीरभेद आवश्यकः, प्रत्यभिज्ञा च शरी­र­त्व­सा­मा­न्य­वि­षया भविष्यतीत्यर्थः । समसमयत्वं विकासविशेषणम् । समयश्च क्षणरूपो बोध्यः । तत्पदं दीपपरम् । उपादानोपादेययोः सामा­ना­धि­क­र­ण्या­नु­भ­वादिः आदिपदार्थः ।

अननुरोधिन इति ।
द्व्यणु­का­दि­क्र­मेण स्थूला­व­य­व्यु­त्प­त्ति­पक्षे विलम्बापत्तेः समसमयत्वानुभववि रोधात्, पर­मा­णु­सं­यो­ग­ना­श­क्र­मेण प्रभादिनाशेऽपि विलम्बापत्तेः, आरम्भवादे उपादानोपादेययोः अत्य­न्त­भे­दा­भ्यु­प­ग­मेन सामा­ना­धि­क­र­ण्या­नु­भ­व­वि­रो­धाच्च, तद्वादस्य हेय­त्व­मे­वे­त्यर्थः ।

अवयवोपचयक्रमेण शरी­रा­न्त­रा­र­म्भा­नु­प­गमे कथमेकस्मिन् शरीरे विरु­द्ध­प­रि­मा­ण­योग इत्यत आह —
विवर्तवादे चेति ।

चतुर्थ पक्षमादाय प्रतिवचनं ददाति —
इतरे त्विति ।

प्रागिति ।
सुख­दुः­खा­दि­व्य­व­स्थो­प­पा­द­न­ग्रन्थ इत्यर्थः ।

पञ्चमं पक्षमाह —
केचित्त्विति ।
प्रति­जी­व­म­ज्ञा­न­भेदे प्रमाणं ब्रह्म­ल­क्ष­ण­वि­चा­रा­वा­सरे दर्शितम् ।

एवमैकात्म्यवादे व्यव­स्था­मु­प­पाद्य तन्नानात्ववादे व्यव­स्था­नु­प­प­त्ति­माह —
अत्रेति ।
अंशो ब्रह्मणो जीवः, श्रुतिषु जीव­ब्र­ह्म­णो­र्ना­ना­त्व­व्य­प­दे­शात् । न च ब्रह्मणो निरंशस्य कथं जीवोंऽश इति वाच्यम् । अवच्छिन्नाकाशो महाकाशस्य यथा अंशः, तथा अव­च्छि­न्न­चै­तन्यं अन­व­च्छि­न्न­चै­त­न्य­रू­पस्य ब्रह्मणोंऽश इत्युपगमादिति — सूत्रभागार्थः । ‘अदृ­ष्टा­नि­य­मात्’ इत्या­दि­सू­त्र­त्र­यस्य व्याख्यानं भविष्यति । कणभुगादिभिर्हि प्रति­श­री­र­मा­त्म­भे­दा­भावे व्यवस्था न सम्भवतीति आत्मभेद आश्रितः । न च आत्मन एक­त्वेऽ­प्यु­पा­धि­कृता व्यवस्था सम्भवतीति तद्भेदाश्रयणं तेषां व्यर्थमिति वाच्यम् । उपा­धि­कृ­त­व्य­व­स्थायाः क्लिष्टत्वात् । अतोऽञ्जसा व्यवस्थासिद्धये आत्म­भे­द­स्तै­रा­श्रितः ।

तदेतन्मतं दूषयति —
कण­भु­गा­दि­री­त्येति ।

व्यवस्थेति ।
व्यव­स्था­ञ्ज­स्या­भा­वस्य तुल्य­त्व­मा­हु­रि­त्यर्थः ।

अविशेषादिति ।
यथा चैत्रस्य तथा अन्ये­षा­म­पी­त्यर्थः । कण्ट­क­वे­धा­दी­त्या­दि­पदं खङ्ग­घा­ता­दि­सं­ग्र­हा­र्थम् ।

शरीरस्य आत्मविशेषं प्रत्य­सा­धा­र­ण्य­म­सिद्धं इति दूषयति —
सर्वा­त्म­स­न्नि­धा­विति ।

‘अदृ­ष्टा­नि­य­मात्’ इति सूत्रमवतारयति —
यददृष्टेति ।

सूत्रं व्याचष्टे —
अदृष्टस्यापीति ।

अनियमं साधयति —
यदा हीति ।
तदा अन्यै­र­प्या­त्म­भि­स्सं­यु­ज्यत इत्यर्थः ।

तत: किं, तत्राह —
कथमिति ।
आत्म­म­न­स्सं­यो­ग­रू­पा­स­म­वा­यि­का­र­णस्य सम­वा­यि­का­र­ण­रू­पा­त्म­नश्च साधा­र­ण­त्वा­दि­त्यर्थः ।

संयोगमात्रेति ।
मात्र­प­द­म­भि­स­न्ध्या­दि­सा­धा­र­ण्य­व्य­व­च्छे­दार्थं, न तु समवायिकारणस्य तद्व्य­व­च्छे­दा­र्थ­मिति बोध्यम् । अभिसन्धिः — फलेच्छा । आदिपदेन कृति­ज­न­क­का­र्य­ता­ज्ञा­न­चि­की­र्षयोः संग्रहः ।

‘अभि­स­न्ध्या­दि­ष्वपि चैवं’ इति सूत्रं योजयन्नुत्तरमाह —
नेत्यादिना ।

मनसः असा­धा­र­ण्य­मा­शङ्क्य निराकरोति —
ननु स्वकीयेति ।
तथा च तत्सं­यो­गा­स­म­वा­यि­का­र­णकं सर्वं असाधारणं भविष्यतीति भावः ।

‘प्रदेशादिति चेन्ना­न्त­र्भा­वात्’ इति सूत्रं व्याचक्षाण एव प्रदेशकृतां व्यव­स्था­मा­शङ्क्य निराकरोति —
नन्वात्मनामिति ।
बन्धः - सुखदुःखादिः । तत्त­दा­त्मा­सा­धा­र­णात् प्रदेशविशेषात् व्यवस्थेति चेत् - इति सौत्र­श­ङ्का­भा­गा­क्ष­रार्थः ।

एकस्मिन् शरीरे एकस्यैवात्मनः प्रदेशः नात्मान्तराणां - इति नियमोऽसिद्ध इति दूषयति —
न यस्मिन्निति ।
अदृ­ष्ट­सु­खा­दे­र­व्या­प्य­वृ­त्ति­त्वात् आत्मनो यः प्रदे­शोऽ­दृ­ष्टा­द्या­श्रयः स एवात्र प्रदेशशब्दार्थः । तथा च यस्मि­न्ना­स­ना­दि­प्र­देशे चैत्रशरीरं स्थितं सत् चैत्रस्य सुखाद्यायतनं भवति, तस्मिन्नेव प्रदेशे चैत्र­श­री­रा­प­क्र­म­णा­न­न्तरं मैत्रशरीरमागत्य स्थितं सत् मैत्रस्य सुखाद्यायतनं दृश्यते । ततस्तत्र पश्चा­दा­ग­त­मै­त्र­श­रीरे चैत्र­मै­त्रा­त्म­प्र­दे­श­यो­र­दृ­ष्टा­श्र­ययोः प्रवेशात् तच्छरीरे चैत्र­मै­त्र­यो­रु­भ­यो­रपि भोगप्रसङ्गः । न च पूर्व­श­री­रा­प­क्र­म­ण­स­मये तच्छरीरगतस्य चैत्रा­त्म­प्र­दे­श­स्या­प्य­प­क्र­म­ण­मे­वा­स्त्विति वाच्यम् । प्रदेशवत आत्मनः स्थिरत्वेन प्रदेशस्य चलनानुपपत्तेः । एव­म­न्ये­षा­म­प्या­त्मनां प्रदे­शा­न्त­र्भा­व­प्र­युक्तं भोग­सा­ङ्क­र्य­मू­ह्यम् ।

तस्मादिति ।
आत्मनां व्याप­क­त्वा­भ्यु­प­ग­मात् इत्यर्थः ।

नन्वात्मैक्यमत इव तन्ना­ना­त्व­म­तेऽपि कथ­ञ्चि­द्व्य­वस्था स्वीक्रियत इत्याशङ्क्याह —
श्रुतीति ।
आत्मै­क्य­श्रु­ती­त्यर्थः ।

तत्रैवेति ।
एक­स्मि­न्ने­वा­त्म­नी­त्यर्थः ।

जीवा­णु­त्व­ग­म­क­श्रु­ति­यु­क्त्य­व­ष्ट­म्भेन पुन­र्जी­व­ब्र­ह्मा­भे­द­मा­क्षि­पति —
सन्त्विति ।

निराकरोति —
मैवमिति ।

अधिष्ठानस्य चेति ।
युगपत् करा­दि­प्रे­र­ण­स्ये­त्यर्थः ।

जीव­स्या­णु­त्वेऽपि सर्व­श­री­र­व्या­पि­सु­खा­दिकं सम्भवतीति शङ्कते —
यदत्रेति ।

कल्प­ना­प्र­का­र­स्ते­षा­म­णु­त्वेऽ­पी­त्या­दिना भविष्यति ।

आदौ तस्याणुत्वे मानमाह —
उत्क्रान्तीति ।
तमु­त्क्रा­म­न्त­मि­त्या­दि­श्रु­ति­षू­त्क्रा­न्त्या­दिकं श्रूयत इति भावः ।

नन्व­म­ध्य­म­प­रि­मा­णस्य जीवस्य उत्क्रा­न्त्या­द्य­न्य­था­नु­प­पत्त्या चेदणुत्वं कल्प्यते, तर्हि जीवस्य ब्रह्म­भा­व­श्र­व­णा­नु­प­पत्त्या तस्य विभुत्वं कल्प्यते, श्रुता­र्था­प­त्ते­र­वि­शे­षात् - इत्याशङ्क्य श्रुतिमप्याह —
अणुर्हीति ।
यं आत्मानं एते सिनीतः - बध्नीतः, के ते, तत्राह — पुण्यं च पापं च, एष आत्मा अणुर्हीत्यर्थः । वालः - केशः । ‘शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयः’ इति वाक्यमादिपदेन गृह्यते । वालाग्रस्य यश्शततमो भागः, तस्यापि शतधा विभक्तस्य यो भागः, तत्तुल्यपरिमाणो जीव इत्यर्थः ।

जीव­स्या­णु­त्व­सा­ध­क­प्र­मा­णा­नु­सा­रि­ण­म­र्वा­ची­न­क­ल्प­ना­प्र­कारं दर्शयति —
तेषा­म­णु­त्वेऽ­पीति ।
यथा प्रभा­याः­स्वा­श्रयं प्रदीपं विहाय प्रदे­शा­न्त­र­व्या­पित्वं, तथा ज्ञानादीनां स्वाश्र­य­म­णु­मा­त्मानं विहाय कदा­चि­च्छ­री­र­व्या­पित्वं कल्प्यत इत्यर्थः । नन्वा­त्म­न­श्श­री­र­व्या­पित्वे सति युगपत् सुख­दुः­ख­प्र­य­त्ना­दय उत्पद्यमानाः तस्मि­न्न­व­च्छे­द­क­भे­देन सम्भवन्ति ।

तस्याणुत्वे तु कथं तेषां यौग­प­द्य­नि­र्वाहः, तत्राह —
द्रोणमिति ।
अनु­ग­ते­ष्वि­त्य­न­न्तरं जीवांशेष्विति शेषः । व्यूहः - समूहः । काय­व्यू­ह­ग­ते­ष्वि­त्य­न­न्त­र­मपि जीवांशेष्विति शेषः । भूगानां - भुज्य­मा­न­सु­खा­दीनां - वैचित्र्यं - युग­प­न्ना­ना­वि­धत्वं युग­प­द­ने­क­श­री­रा­धि­ष्ठानं च योगिनां स्वांशै­स्स­म्भ­व­ती­त्यर्थः ।

जीवाणुत्वपक्षे न केव­ल­म­नु­प­प­त्ति­सा­मा­न्या­भावः, किं तु लाभोऽ­प्य­स्ती­त्याह —
एवं चेति ।
जीवस्याणुत्वे सतीत्यर्थः ।

असङ्करादिति ।
एकस्मिन् शरीरे सर्वेषां जीवानां प्रवे­शा­भा­वा­दि­त्यर्थः ।

विभोरिति ।
जीवस्यापि विभुत्वे लक्षणभेदाभावात् ईशात् भेदो न सिध्येत्, अणुत्वे त्वत्य­न्त­वै­ल­क्ष­ण्यात् भेदस्सुगम इति भावः ।

अर्वाचीनकल्पनं दूषयति —
अत्रोक्तमिति ।

एवमपीति ।
जीव­स्या­णु­त्व­सां­श­त्व­क­ल्प­नेऽ­पी­त्यर्थः । जीवस्य स्वांश­ग­त­सु­खा­द्य­नु­स­न्धानं जीवा­न्त­र­ग­त­सु­खा­द्य­न­नु­स­न्धानं चाभ्युपगच्छता त्वया भेदोऽ­न­नु­स­न्धा­न­प्र­यो­जकः अभेदश्च तद­नु­स­न्धा­न­प्र­यो­जक इति वक्तव्यम् । तत्रा­न­नु­स­न्धा­न­प्र­यो­ज­क­भेदो भेदमात्रं वा शुद्धभेदो वा । आद्ये चैत्रः स्वांशगतं सुखादिकं नानुसन्दध्यात् । अन­नु­स­न्धा­न­प्र­यो­ज­क­भे­दस्य सत्त्वात् ।

यदि सत्यपि भेदे स्वांश­ग­त­म­नु­स­न्द­ध्यात् तदा चैत्रो मैत्र­ग­त­सु­खा­दि­क­म­प्य­नु­स­न्द­ध्या­दि­त्याह —
चैत्रस्येति ।

अंशां­शि­नो­र­न­नु­स­न्धा­न­प्र­यो­ज­क­भे­दा­सि­द्धि­मा­शङ्क्य तं साधयति —
कायव्यूहेति ।

वियुज्येति ।
अंशि­न­स्स­का­शा­द्वि­भागं प्राप्येत्यर्थः ।

अन्यत्रेति ।
योगिनो निजशरीरादन्यत्र कायव्यूह इत्यर्थः ।

तयोर्भेदो नास्मा­भि­स्सा­ध­नीय इत्याशयेनाह —
अंशांशिनोरिति ।

ननु - भेद­मा­त्र­म­न­नु­स­न्धा­न­प्र­यो­ज­क­तया नेष्यते, येन ‘जीवः स्वांशगतमपि सुखादिकं नानुसन्दध्यात्, यद्य­नु­स­न्द­ध्यात् तदा जीवान्तरगतमपि तदनुसन्दध्यात्’ इति दोषः प्रसज्येत, किं तु विशेषतो भेदः- इति द्वितीयं शङ्कते —
न चेति ।

आद्ये कल्पे जीवेश्वरभेदस्य अंशां­शि­भा­व­स­ह­च­रि­त­त्वेन शुद्ध­भे­द­त्वा­भा­वात् तयोः परस्परं सुखा­द्य­नु­स­न्धानं स्यादित्याह —
नाद्य इति ।

जीवे­श्व­र­यो­रं­शां­शि­भावे मानमाह —
अंशोहीति ।
पर­म­स्य-प­र­मा­त्मनः । जीवलक्षणो लोको जीवलोकः । ननु - भेदस्य अंशां­शि­भा­व­मा­त्रा­स­ह­च­रि­तत्वं शुद्धत्वं न भवति, किं तु मुख्यां­शां­शि­भा­वा­स­ह­च­रि­त­त्वम् । जीवे­श्व­र­यो­रं­शां­शित्वं तु न मुख्यम् ।

अतस्तयोर्भेदे मुख्यां­शां­शि­भा­वा­स­ह­च­रि­त­त्व­रू­प­शु­द्ध­त्वस्य सत्त्वा­न्नो­क्त­दोषः - इति शङ्कते —
नन्विति ।

जीवं प्रतीति ।
तथा च जीवतदंशयोर्भेदे मुख्यां­शां­शि­भा­व­स­ह­च­रि­त­त्व­स्यैव सत्त्वेन तद­स­ह­च­रि­त­त्व­रू­प­शु­द्ध­त्वा­भा­वा­द­नु­स­न्धा­नो­प­प­त्ति­रिति भावः । नांश­त्व­मि­त्य­न­न्तरं मुख्यमिति शेषः । कान्तिमत्त्वं सादृश्यम् ।

मुख्यां­शां­शि­भा­वा­स­ह­च­रि­त­भे­दोऽ­न­नु­स­न्धा­न­प्र­यो­जक इत्यत्र मुख्यां­शां­शि­भावो दुर्निरूप इत्याह —
किं तदिति ।
यन्मु­ख्य­मं­श­त्व­मत्र प्रयोजकशरीरे निवेश्यते तत् एतदतिरेकेण किं इति योजना । मुख्यमंशत्वं आरम्भकावयवत्वं वा, प्रदेशत्वं वा, खण्डत्वं वा, भिन्ना­भि­न्न­द्र­व्यत्वं वेति किंशब्दार्थः ।

तत्राद्यं निराकरोति —
न तावदिति ।

द्वितीयतृतीयौ क्रमेणानूद्य दूषयति —
नापीत्यादिना ।
जीवस्याणुत्वेन प्रदेशासम्भवात् अणुत्वेनैव द्वैधी­भा­वा­यो­ग्य­त्वा­च्चे­त्यर्थः ।

चतुर्थं शङ्कते —
भिन्नाभिन्नेति ।
जीवांशानां जीवेन सह भिन्नत्वे सत्य­भि­न्न­द्र­व्यत्वं मुख्य­मं­श­त्व­म­भि­म­तम्, तदेव चान­नु­स­न्धा­न­प्र­यो­ज­क­श­रीरे निवेश्यते । तथा च भिन्ना­भि­न्न­द्र­व्य­त्वा­स­ह­च­रि­त­भेदः शुद्धभेदः, स चान­नु­स­न्धा­न­प्र­यो­जकः - इति निष्कर्षः ।

तत्र दूषणमाह —
तथासतीति ।
जीवे­श्व­र­यो­स्त्वया भिन्ना­भि­न्न­द्र­व्य­त्वा­भ्यु­प­ग­मात् तयो­र्भे­द­श्शु­द्ध­भेदो न भवति ।

तथा जीवांशानां परस्परं भिन्ना­भि­न्न­द्र­व्य­त्वस्य त्वया स्वीकारात् तेषां भेदोऽपि शुद्धभेदो न भवति ।
तथा च अन­नु­स­न्धा­न­प्र­यो­ज­का­भा­वा­ज्जी­वे­श्व­र­यो­र्जी­वां­शानां च भोग­सा­ङ्क­र्य­प्र­सङ्ग इत्यर्थः ।

चेतनत्वादिनेति ।
सत्त्व­द्र­व्य­त्व­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

दूषणान्तरमाह —
समूहेति ।
समूहस्य समूहिनां च परस्परं भिन्न­त्वे­स­त्य­भि­न्न­त्व­म­ङ्गी­कु­र्व­त­स्तव मते समूहिनामपि पर­स्प­र­म­भि­न्न­त्व­मा­व­श्य­कम् । तथा च उत्सवादावेकत्र मिलितानां जीवानां भिन्नानां पर­स्प­र­म­भि­न्न­द्र­व्य­त्व­स्यापि सत्त्वात् तेषां पर­स्प­र­भे­दः­शु­द्ध­भेदो न भवति । भिन्ना­भि­न्न­द्र­व्य­त्व­स­ह­च­रि­त­त्वात् । तथा च परस्परं तेषां सुखा­द्य­नु­स­न्धा­न­प्र­सङ्ग इत्यर्थः ।

ननु - समूहिनां समू­हा­भि­न्न­त्वेऽपि न तेषां पर­स्प­र­म­भि­न्न­त्व­म­स्म­न्म­तेऽस्ति, अतो नोक्तदोष इत्याशङ्क्याह —
स्वाभिन्नेति ।
स्वं - एकसमूही देवदत्तः, तदभिन्नस्समूहः, तदभिन्नो यज्ञदत्तः, तेन सह स्वस्या­पि-दे­व­द­त्त­स्यापि अभेदस्य तव मते दुर्वारत्वात् । त्वया तद­भि­न्ना­भि­न्नस्य तद­भि­न्न­त्व­नि­य­मा­भ्यु­प­ग­मा­दि­त्यर्थः ।

परं प्रत्यु­क्त­नि­य­मा­भ्यु­प­गमं साधयति —
यदीत्यादिना ।
गुण­गु­णि­नो­र्जा­ति­व्य­क्त्यो­श्चा­भे­द­वा­दिनं प्रति दूषणपरोऽयं जीवा­णु­त्व­वा­दि­ग्रन्थो यदीत्यादिः ।

गुण­गु­णि­नो­र­भे­द­म­ङ्गी­कृत्य यदि गुणस्य संयो­ग­वि­भा­ग­द्वि­त्वा­दे­र­ने­का­श्रि­त­त्व­म­भ्यु­प­ग­म्येत, तथा जाति­व्य­क्त्यो­र­भे­द­मु­पेत्य यदि जाते­र­ने­का­श्रि­त­त्व­म­भ्यु­प­ग­म्येत, तदा पटादेरपि घटाभेदप्रसङ्गः- इत्यत्र हेतुगर्भं विशेषणमाह —
घटाभिन्नेति ।
घटाभिन्नः संयोगः तदभिन्नत्वात् पटादेरित्यर्थः । ननु - जीवे­श्व­र­योः­जी­वां­शानां समू­हा­भि­न्न­जी­वानां च योऽयं चेत­न­त्वा­दि­ध­र्म­प्र­यु­क्ता­भेदः एक­स­मू­हा­भे­द­प्र­यु­क्ता­भे­दश्च तदपेक्षया अन्य एवाभेदो जीवतदंशयोरस्ति । अतः तयोर्भेदे सत्यपि पर­स्प­र­म­नु­स­न्धानं, जीवेश्वरयोः र्जीवांशानां समूहिजीवानां च तादृ­शा­भे­दा­भा­वा­च्चे­त­न­त्वा­दि­प्र­यु­क्ता­भेदे सत्यपि न पर­स्प­र­म­नु­स­न्धानं इति व्यवस्था ।

तथा च भिन्ना­भि­न्न­द्र­व्य­त्वा­स­ह­च­रि­त­भे­द­श्शु­द्ध­भेदः, स च अन­नु­स­न्धा­न­प्र­यो­जकः’ इत्यत्र जीवतदंशयोः पर­स्प­रा­नु­स­न्धा­न­प्र­यो­ज­क­त्वा­भि­मतो विलक्षणाभेद एव प्रविष्ट इति जीवेश्वरादौ तादृ­शा­भे­द­घ­टि­त­भि­न्ना­भि­न्न­द्र­व्य­त्वा­स­ह­च­रि­त­भे­द­स­त्त्वा­न्नो­क्ता­ति­प्र­सङ्गः - इति शङ्कां निराकरोति —
न चेति ।
जीवतदंशयोरिव जीवान्तराणामपि साधारणो यश्चे­त­न­त्वा­दि­ध­र्मै­क­रू­प्य­प्र­युक्तः एक­स­मू­हा­न्त­र्ग­त्या­दि­प्र­यु­क्तश्च अभेदः तद्वि­ल­क्ष­ण­मि­त्यर्थः । जीवे­श्व­र­ग­त­स्या­मु­ख्यां­शां­शि­भा­वस्य सङ्ग्र­हा­र्थ­मा­दि­प­दम् । अंशांशिनोर्भेदे सत्यपि तयो­र­नु­स­न्धा­न­प्र­यो­ज­क­म­भे­दा­न्तरं न चास्ति, यदभेदान्तरं जीवे­श्व­रा­दा­व­ति­प्र­स­ङ्ग­प­रि­हा­राय भिन्ना­भि­न्न­द्र­व्य­त्व­श­री­र­प्र­वि­ष्ट­तया विवक्ष्येत इति योजना ।

नन्वभेदान्तरं कुतो नास्ती­त्या­श­ङ्क्याह —
तथासतीति ।
विल­क्ष­णा­भे­द­स्यां­शां­शि­नो­स्सत्त्व इत्यर्थः ।

जीवे­श्व­रा­द्य­भे­दा­पे­क्षया जीव­त­दं­श­यो­र­भे­दस्य विशेषं विशेषतो निर्वक्ति —
धर्मै­क­रू­प्या­द्य­प्र­यु­क्त­त्व­मिति ।

उक्त­वि­शे­षा­सि­द्धि­माह —
न - जीवेति ।
जीवस्य तदंशानां च चेत­न­त्व­स­त्त्व­द्र­व्य­त्वा­दि­ध­र्मै­रै­क­रू­प्य­मस्ति ।

तथा जीवस्य तदवयवानां च एक­श­री­रा­नु­प्र­वे­श­काले तच्छ­री­रा­व­च्छे­देन समूहोऽप्यस्ति ।
तथा योगिजीवावयवानां काय­व्यू­ह­श­ब्दि­ता­ने­क­श­री­रेषु प्रविष्टानां कदाचित्तेषां शरीराणां मेलने सति योगिजीवेनांशिना सह समूहोऽस्ति । तथा च जीवतदंशयोर्भेदे धर्मै­क­रू­प्या­दि­प्र­यु­क्त­त्व­स­म्भ­वात् तद­प्र­यु­क्त­त्ब­म­सि­द्ध­मि­त्यर्थः । ननु - जीवानां चेत­न­त्वा­दि­ध­र्मै­क­रू­प्या­दि­प्र­यु­क्ता­भे­द­स­त्त्वेऽपि तेषा­मं­शां­शि­भा­वा­भा­वात् अंशां­शि­भा­व­प्र­यो­ज­का­भे­दोऽन्य एव, स च न धर्मै­क­रू­प्या­दि­प्र­युक्तः —

इति शङ्कते —
धर्मै­क­रू­प्या­दीति ।
जीवा­न्त­र­सा­धा­र­णा­भे­दस्य धर्मै­क­रू­प्या­दि­प्र­यु­क्त­स्या­प्य­प­रि­हा­र्य­त्वात् तस्या­प्य­भ्यु­प­गमे सति जीव­त­दं­श­यो­र­भे­द­द्व­य­म­भ्यु­प­गतं परस्य मते प्रसज्यते ।

ओमिति वदन्तं परं प्रत्याह —
न - तयोरिति ।
अंशां­शि­नो­रि­त्यर्थः ।

तदाकारेति ।
प्रति­यो­ग्या­का­रे­त्यर्थः । प्रति­यो­गि­ता­व­च्छे­द­केति यावत् । भेद­स्या­ने­क­त्वा­न­भ्यु­प­ग­मो­प­न्यासो दृष्टान्तार्थः ।

तस्मादिति ।
जीवेश्वरयोः यः पूर्व­मं­शां­शि­भावो निरूपितः, तदतिरेकेण जीव­त­दं­श­यो­र्मु­ख्य­स्यां­शां­शि­भा­वस्य दुर्नि­रू­प­त्वा­दि­त्यर्थः । तथा च जीवे­श्व­र­यो­र्भे­दस्य निरू­पि­तां­शां­शि­भा­व­स­ह­च­रि­त­त्वेन तद­स­ह­च­रि­त­त्व­रू­प­शु­द्ध­त्वा­भावे सति अन­नु­स­न्धा­न­प्र­यो­ज­क­शु­द्ध­भे­दा­भा­वात् जीवेश्वरयोः परस्परं भोग­सा­ङ्क­र्य­प्र­स­ङ्ग­रूपो दोषः स्थिर इत्यर्थः ।

आद्यपक्ष इति ।
अंशां­शि­भा­वा­स­ह­च­रि­तत्वं शुद्धत्वमिति पक्ष इत्यर्थः ।

अभेदासहचरितत्वं शुद्धत्वं भेदस्येति पक्षं वक्ष्यमाणहेतुना निराकरोति —
एतेनैवेति ।

उक्तरीत्येति ।
चेत­न­त्वा­दि­ध­र्मै­क­रूप्यं उक्ता रीतिः ।

जीवतदंशयोरिव जीव­ब्र­ह्म­णो­र्जी­वानां चाभेदमुपेत्यापि पूर्वो­क्ता­ति­प्र­स­ङ्ग­प­रि­हारं शङ्कते —
नन्विति ।

स्वस्येति ।
अंशिनो जीवस्येत्यर्थः ।

जीवान्तरेणेति ।
स्वस्ये­त्य­नु­षङ्गः ।

जातिस्मरस्येति ।
पूर्व­ज­न्म­स्म­र­ण­वत इत्यर्थः ।

सर्वेति ।
सर्वा­त्म­ताऽऽ­वा­रकं यदज्ञानं, तत्प्र­यु­क्ता­व­र­णा­दि­त्यर्थः ।

तत एवेति ।
चैत्र­मै­त्रा­दीनां सर्वेषां पर­स्प­र­म­भे­द­प्र­त्य­क्षा­भा­वा­देव व्यवस्थिततया सुखा­द्य­न­नु­स­न्धा­नो­प­प­त्ते­रि­त्यर्थः ।

अभे­द­प्र­त्य­क्ष­स्या­नु­स­न्धा­न­प्र­यो­ज­क­त्व­मु­पेत्य परमते आत्म­भे­द­क­ल्प­ना­गौ­रवं श्रुतिविरोधं च दर्शयित्वा, परमते तस्य प्रयोजकत्वमपि न सम्भवति अति­प्र­स­ङ्गा­दि­त्याह —
न चेत्थमपीति ।
अभे­द­प्र­त्य­क्ष­म­नु­स­न्धा­न­प्र­यो­ज­क­मिति कल्प­न­याऽ­पी­त्यर्थः । वस्तुसन् - परमार्थो यो जीवान्तराभेदः तत्प्र­त्य­क्ष­मी­श्व­र­स्या­व­श्य­कम्, अन्यथा सर्व­ज्ञ­त्व­भ­ङ्ग­प्र­स­ङ्गा­दि­त्यर्थः ।

ननु सिद्धान्तेऽपि ब्रह्म­ण­स्स­र्व­ज्ञ­त्व­जी­वा­भि­न्न­त्व­यो­स्स­त्त्वा­दु­क्त्त­दो­ष­प्र­सङ्ग इति, नेत्याह —
अस्मन्मत इति ।
यत्तु - जीवानां सांशत्वात् कर­शि­र­श्च­र­णा­नु­ग­तेषु जीवांशेषु सुख­दुः­खा­दि­यौ­ग­पद्यं सम्भवति, योगिनां कायव्यूहगतेषु योगिजीवावयवेषु युगपत् सुख­दुः­खा­दि­भो­ग­वै­चित्र्यं च सम्भवतीति न काचि­द­नु­प­प­त्ति­रिति - तन्न - जीवं प्रति जीवांशानां मुख्यां­श­त्व­स्यापि निरस्तत्वात् । जीवं प्रति तदंशानां जीवसदृशत्वे सति जीवापेक्षया न्यून­प­रि­मा­ण­त्व­रू­पौ­प­चा­रि­कां­श­त्व­स्यापि जीवाणुत्वपक्षे बाधितत्वाच्च । अणुपरिमाणस्यैव सर्व­प­रि­मा­णा­पे­क्षया न्यून­प­रि­मा­ण­त्वेन ततोऽपि न्यून­प­रि­मा­णा­भा­वात् । सदृशत्वे सति ततो न्यून­त्व­रू­पां­श­त्वस्य चन्द्र­बि­म्बां­श­गु­रु­बि­म्ब­वत् जीवांशानां जीवापेक्षया अत्य­न्त­भे­द­प्र­यो­ज­क­त्वेन जीवस्य स्वांश­ग­त­सु­खा­द्य­नु­स­न्धा­तृ­त्वा­स­म्भ­वाच्च । तथा योगिजीवांशानां काय­व्यू­हा­धि­ष्ठा­तृ­त्वेऽपि तेभ्योऽ­त्य­न्त­भि­न्नस्य योगिजीवस्य काय­व्यू­हा­धि­ष्ठा­तृ­त्वा­भा­व­प्र­स­ङ्गात्, तथा शरी­रा­धि­ष्ठा­तु­र्जी­वस्य शरी­रा­व­य­व­क­र­शि­र­श्च­र­णा­द्य­धि­ष्ठा­तॄणां जीवांशानां चात्य­न्त­भि­न्न­त्वेन एकस्मिन् शरीरे भोक्तृ­ना­ना­त्व­प्र­स­ङ्गात्, जीवस्य सांशत्वे मानाभावाच्च, ‘द्रोणं बृहस्पतेर्भाग’ मित्यादिवचनस्य वर्णितरीत्या उक्तां­श­प­र­त्वा­स­म्भ­वेन बृह­स्प­त्या­दे­र्यो­ग­प्र­भा­वेन भूभा­र­ह­र­णा­दि­दे­व­का­र्यार्थं शरी­रा­न्त­र­प­रि­ग्र­ह­मा­त्र­प­र­त्वात् । एतेन श्रीरा­म­कृ­ष्णा­दे­र्वि­ष्ण्वं­श­त्व­व्य­व­हा­रोऽपि व्याख्यातः ।

तस्मा­ज्जी­वां­श­वि­शे­षस्य कर­शि­र­श्च­र­णा­द्य­धि­ष्ठा­तृत्वं काय­व्यू­हा­द्य­धि­ष्ठा­तृत्वं च न सम्भवतीति पूर्वग्रन्थाशये स्थिते शङ्कते —
स्यादेतदिति ।

अधिष्ठानमिति ।
प्रेरक इत्यर्थः ।

भविष्यतीति ।
जीवः स्वयमणुतया शरी­रै­क­दे­श­स्थोऽपि स्वसमवेतेन व्यापिज्ञानेन करशिरश्चरणादीन् कायव्यूहं चाधितिष्ठतीति निरं­श­स्या­प्य­णो­र्जी­वस्य कृत्स्न­श­री­रा­धि­ष्ठा­तृ­त्वा­दिकं नानुपपन्नमिति भावः ।

ज्ञान­मा­श्रि­त्येति ।
ज्ञानधर्मत्वे हि सुखादेर्ज्ञाने उत्प­त्तिः­स­म्भ­वेत् । ततश्च ज्ञानस्य व्यापकत्वात् तदा­श्रि­त­सु­खा­दि­रू­प­भो­ग­स्यापि करशिरश्चरणादौ कायव्यूहे च युग­प­दु­द­य­स्स­म्भ­वेत्, न तु त्वया सुखा­दे­र्ज्ञा­न­ध­र्म­त्व­मि­ष्यते । तस्य ज्ञान­व­द­ण्वा­त्म­ध­र्म­त्वा­भ्यु­प­ग­मात् । अतो ज्ञानस्य व्यापित्वेऽपि न करशिरश्चरणादौ कायव्यूहे च युगपत् भोगवैचित्र्यं सम्भवतीत्यर्थः ।

कायव्यूहवत इति ।
योगिन इति शेषः । तस्य च भोगवैचित्र्यं स्मर्यते — x‘आत्मनां च सहस्त्राणि बहूनि भरतर्षभ । योगी कुर्याद्बलं प्राप्य तैश्च सर्वां महीं चरेत् ॥ प्राप्नु­या­द्वि­ष­यान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिव ॥’ इति । आत्मनां - शरीराणां, बलं - योगजनितं सामर्थ्यं ।

तर्हि ज्ञानधर्मत्वमेव सुखादेरस्तु, यदि तद्धर्मत्वे भोगवैचित्र्यं सम्भवेत्, तत्राह —
सुखदुःखभोगादीति ।

असिद्ध्येति ।
आत्म­गु­ण­ज्ञा­न­नि­ष्ठस्य भोगवैचित्र्यस्य व्यधिकरणतया आत्म­भे­द­सा­ध­क­त्वा­स­म्भ­वा­दि­त्यर्थः ।

सुखा­दे­र्व्या­पि­ज्ञा­न­ध­र्मत्वं स्वमतविरुद्धं चेत्याह —
भोगा­द्या­श्र­य­स्येति ।
नैयायिकादिमत इव अद्वैतिमत इव चेत्यर्थः ।

तस्मादिति ।
आत्मगुणस्य ज्ञानस्य व्यापि­त्व­क­ल्प­ना­यो­गा­दि­त्यर्थः ।

जीवा­णु­त्वा­भ्यु­प­ग­मस्य पराभिमतं प्रयोजनान्तरं दूषयति —
नापि तेन तस्येति ।
जीव­स्या­णु­त्वे­ने­त्यर्थः ।

श्रुति­त­द­र्था­प­त्तिभ्यां जीवस्याणुत्वं वदतः तव मते ताभ्या­मे­वे­श्व­रा­णु­त्व­स्यापि दुर्वा­र­त्वा­न्ने­श्व­रस्य विभुत्वसिद्धिः, तदसिद्धौ च न तवे­ष्ट­सि­द्धि­रिति दूषयति —
उत्क्रा­न्त्या­दीति ।
वदतस्तव मते परोऽप्यणुरेव सिध्येदिति सम्बन्धः । तत्सृष्ट्वा इत्यत्र तत्पदद्वयं जगत्परं । प्रकृतः परमात्मा सृष्ट्यादिकर्ता ।

अन्तरिति ।
शरीरेष्विति शेषः । शास्ता - नियन्ता । परस्यार्धं - स्थानमर्हतीति परार्ध्यं परमं-उत्कृष्टं हार्दाकाशं, तस्मिन् या बुद्धिलक्षणा गुहा, तां प्रविष्टौ जीवे­श्व­रा­वि­त्यर्थः ।

प्रवेशादीति ।
शरी­रा­न्त­स्स्थ­त्वा­दि­क­मा­दि­प­दार्थः । सः - उपक्रमे प्रकृतः, एषः - सन्निहितः, अणिमा - अणुः, भावप्रत्ययो न विवक्षितः, मे हृदयेऽन्तः एषः-प्रकृतो भारूपत्वादिगुणक आत्मा वर्तते, स च व्रीह्या­द्य­पे­क्षया अणुतर इत्यर्थः ।

अन­न्य­था­सि­द्ध­श्रु­त्या­दि­व­च­नेन विभु­त्व­मी­श्व­रस्य शङ्कते —
नन्विति ।
ज्यायान् - महत्तरः ।

परस्य विभुत्वे लिङ्गमाह —
सर्वेति ।

परा­णु­त्व­श्रु­ती­ना­म­न्य­था­सि­द्धि­माह —
तदणुत्वेति ।

उपासनार्था इति ।
‘अणी­या­न्व्री­हेर्वा’ इत्यादिश्रुतय इत्यर्थः ।

दुर्ग्रहत्वेति ।
स य एषोऽ­णि­मे­त्या­दि­श्रु­तय इत्यर्थः । आसा­मु­पा­स­ना­प्र­क­र­ण­ग­त­त्वा­भा­वा­दिति भावः । व्यव­स्थि­त­वि­क­ल्प­वाची वाकारः ।

प्रवे­शा­दि­श्र­व­ण­स्या­न्य­था­सि­द्धि­माह —
प्रवे­श­श्रु­त­य­श्चेति ।
परमेश्वरस्य स्वेच्छा­प­रि­गृ­ही­त­श­री­रे­न्द्रि­य­प्र­वे­शो­पा­धि­कः­श­री­रे­ष्वन्तः - प्रवेश इत्यर्थः । ननु - जीवा­णु­त्व­श्रु­ति­लि­ङ्गा­ना­मपि अन्य­था­न­य­न­स­म्भ­वा­ज्जी­व­स्यापि स्वाभाविकं विभुत्वं किं न स्यात्, तथा च न तस्या­णु­त्व­सि­द्धि­रिति सिद्धा­न्ति­न­श्श­ङ्का­म­नूद्य निराकरोति जीवाणुत्ववादी - न चेत्यादिना ।

तमु­त्क्रा­म­न्त­मिति ।
न च - अत्र श्रुतौ प्राणो­त्क्रान्तेः प्रागेव जीव­स्यो­त्क्रा­न्ति­श्र­व­णेऽपि न केवलस्य तस्यो­त्क्रा­न्ति­सिद्धिः, बुद्धि­वि­शि­ष्टस्य तस्यो­त्क्रा­न्ति­स­म्भ­वा­दिति - वाच्यम् । बुद्धि­प्रा­ण­यो­र्भे­दा­सिद्धेः, तयोरभेदस्यैव श्रुति­सि­द्ध­त्वाच्च ।

तथा च श्रुतिः - ‘यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः’ [कौ.उ.३-३] इति, प्रज्ञा-बु­द्धिः-इ­त्या­श­ये­नाह —
प्राणा­ख्य­बु­द्ध्यु­त्क्रा­न्ते­रिति ।
नाम­रू­प­श­ब्दि­तो­पा­धि­नि­वृ­त्त्य­न­न्त­र­मपि जीवस्य ब्रह्म प्रति गतिः श्रूयते ।

तथा च यथा उत्क्रा­न्ते­रौ­पा­धि­कत्वं न सम्भवति तथा गते­र­प्यौ­पा­धि­कत्वं न सम्भवतीति अमध्यमपरिमाणस्य जीवस्य स्वाभा­वि­क­म­णुत्वं स्वीक­र्त­व्य­मि­त्या­श­ये­नाह —
तथा विद्वानिति ।
परात् - हिरण्यगर्भात् ।

जीवस्य स्वाभाविके गत्याश्रयत्वे सत्येव दृष्टान्तविशेषः सङ्गच्छते, अन्यथा तद्वैरूप्यं स्यादि­त्या­श­ये­नाह —
तद्यथेति ।
तत् - तत्र - जीवस्य परलोकं प्रति गमने दृष्टान्त उच्यते । अनः - शकटं सुसमाहितं - गृहोपकरणैः पूर्णं उत्सर्जत् - शब्दं कुर्वत् यायात्-गच्छेत् यथा, एवं जीव ईश्व­रे­णा­न्वा­रूढः - प्रेरितो गच्छति परलोकमित्यर्थः । तथा च जीवस्याणुत्वे स्वाभाविके सिद्धे सति अणु­त्व­वि­भु­त्वाभ्यां जीवे­श्व­र­यो­र्भे­द­सि­द्धि­रिति भावः ।

सिद्धान्ती दूषयति —
नैतत्सारमिति ।

यथा परमात्मप्रकरणे श्रुतं परस्य विभुत्वमन्यथा नेतुमयुक्तं तथा जीवप्रकरणे श्रुतं जीवस्य विभु­त्व­म­प्य­न्यथा नेतु­म­यु­क्त­मि­त्या­श­येन ‘कतम आत्मा’ इत्या­दि­जी­व­प्र­क­र­ण­गतं वाक्य­जा­त­मु­दा­ह­रति —
स वा इत्यादिना ।
विज्ञानमयो जीवः महान्-व्यापक आत्मेति जीवस्य व्याप­क­त्व­श्र­व­णा­दि­त्यर्थः । ‘नभोपमः’ इत्यनेन स्वतो जीवस्य विभुत्वमुच्यत इत्यर्थः । इयं श्रुतिः प्रागेव व्याख्याता ।

विभु­त्वेऽ­न­न्य­था­सि­द्ध­श्रु­ति­सा­म्य­मुक्त्वा परस्य परोक्तं विभुत्वलिङ्गं विघटयति —
त्वन्मत इति ।
प्रकृतिः - माया ।

परस्य ब्रह्म­णः­स­र्व­प्र­प­ञ्चो­पा­दा­न­त्व­मु­पे­त्यापि न तत् विभु­त्व­सा­ध­क­मि­त्याह —
जीवस्येति ।
अणोरिति शेषः । ततः-स­र्वो­पा­दा­न­त्वात्, तस्य-ई­श्व­र­स्ये­त्यर्थः ।

जीवा­णु­त्व­श्रु­ति­लि­ङ्गा­ना­म­न्य­था­न­य­न­मपि तुल्यमेवेत्याह —
तत्प्र­वे­श­श्रु­ती­ना­मिति ।
ब्रह्म­प्र­वे­शे­त्यर्थः । पञ्च - प्राणा­पा­ना­दि­ल­क्षणा वृत्तयो यस्य मुख्यप्राणस्य स पञ्चवृत्तिः प्राणः श्रुतिषु व्यपदिश्यते । बहु­वृ­त्ति­म­त्त्व­मात्रे च दृष्टान्तो मनोवदिति । प्राणा­पा­ना­दि­वृ­त्तीनां चोच्छ्वासादिकं प्रत्येकं कार्यमिति द्रष्टव्यम् । तथा च दृष्टा­न्त­दा­र्ष्टा­न्ति­क­भा­वेन सूत्रे मन­श्श­ब्दि­त­बुद्धेः प्राणस्य च भेदो निर्दिष्टः । स च बुद्धी­न्द्रि­य­का­र्य­वि­ष­या­लो­च­ना­पे­क्षया विल­क्ष­ण­स्यो­च्छ्वा­सा­दि­क्रि­या­रू­प­का­र्यस्य प्राणे दर्शनात् प्राणो बुद्ध्यादिभ्यो भिन्न इत्यादिप्रकारेण भाष्ये साधित इत्यर्थः । ‘यो वै प्राणस्सा प्रज्ञा’ इति श्रुतौ प्रज्ञा­प्रा­ण­यो­र्भेदे सत्यपि प्रज्ञा­प्रा­णो­प­हि­तस्य प्रत्यगात्मन एकत्वात् उप­हि­ता­त्म­प्रा­धा­न्येन तयो­रे­की­क­र­ण­म­वि­रु­द्ध­मिति प्रत­र्द­ना­धि­क­र­ण­भाष्ये प्रति­पा­दि­त­त्वात् न श्रुति­वि­रो­धोऽ­पीति भावः । यत्तु नाम­रू­पो­पा­धि­नि­वृ­त्त्य­न­न्तरं जीवस्य ब्रह्म प्रति गतिश्रवणं जीवस्य विभु­त्व­वि­रो­धीति, तदयुक्तम् —

तस्य ब्रह्मण्यपि विभु­त्व­वि­रो­धि­त्वेन ब्रह्मणोऽपि तद­सि­द्धि­प्र­स­ङ्गात्, लोके परिच्छिन्नस्यैव गन्त­व्य­त्व­नि­य­म­द­र्श­नात् - इत्याह —
नामरूपेति ।
ननु परमते ब्रह्मणो व्यापकस्वरूपेण न मुक्त­प्रा­प्यत्वं, किं तु लोक­वि­शे­षा­द्यु­प­हि­त­त्वेन ।

उपहितरूपेण प्राप्तव्यत्वं च न ब्रह्मणः स्वरूपेण व्यापकत्वविरोधि - इत्याशङ्क्य, तुल्यमेतत् तव मते जीवस्यापीत्याह —
प्राकृतेति ।
‘विद्वा­न्ना­म­रू­पा­द्वि­मुक्तः’ इति श्रुतौ प्राकृ­त­ना­म­रू­पा­द्वि­मुक्त इत्यर्थं कल्पयता त्वया विदुषो जीव­स्या­प्य­प्रा­कृ­त­ना­म­रू­प­स्वी­का­रेण स्वतो विभोरपि जीवस्य अप्रा­कृ­त­ना­म­रू­पो­पा­धि­प­रि­च्छि­न्नस्य ब्रह्म प्रति गन्तृ­त्व­स­म्भ­वात् न विभुत्वश्रुतयो जीवविषया बाधनीया इत्यर्थः ।

ननु प्रवि­ष्टा­वि­त्यत्र प्रविष्टपदं जीवे स्वाभा­वि­क­प्र­वे­शा­र्थकं, ब्रह्मणि तु शरी­रा­द्यु­पा­धि­कृ­त­प्र­वे­शा­र्थकं - इत्याशङ्क्य, तथासति सकृच्छुतस्य प्रविष्टपदस्य अर्थवैरूप्यं प्रसज्येतेति मत्वा आह —
ब्रह्मजीवोभयेति ।
यदि च ब्रह्मणो विभु­त्व­श्रु­त्या­द्य­नु­रो­धेन प्रवे­श­सा­मा­न्य­प­र­त्व­मेव प्रविष्टपदस्य कल्प्यते न तु तद्ग­त­वि­शे­ष­प­र­त्व­मपि, तर्हि जीवस्यापि विभु­त्व­श्रु­त्य­नु­रो­धेन शकटदृष्टान्ते गम­ना­दि­सा­म्य­मात्रं विवक्ष्यते न तु स्वाभा­वि­क­ग­त्या­श्र­य­त्वा­दि­क­म­पीति न जीवस्य स्वाभा­वि­का­णु­त्व­सिद्धिः । तस्य तत्सिद्धौ वा ब्रह्म­णोऽ­प्य­णुत्वं दुर्वारम्, विनि­ग­म­ना­वि­र­हा­दिति भावः ।

तत इति ।
उक्त­व्य­व­स्थि­ते­रि­त्यर्थः ।

ननु - परमते जीवे­श्व­र­यो­रु­भ­यो­रपि विभु­त्वा­णु­त्व­श्रु­ति­लि­ङ्गा­ना­म­वि­शे­षात् उभ­या­णु­त्व­श्रु­ति­लि­ङ्गा­ना­म­न्य­था­सि­द्ध्य­वि­शे­षाच्च तयोरणुत्वं विभुत्वं वा समानतयैव सिध्येत् न त्वेकस्य विभुत्वं अप­र­स्या­णु­त्व­मिति व्यवस्था सिध्येदिति यथा दोषः प्रसज्यते, तथा सिद्धान्तेऽपि जीवस्य परि­च्छि­न्न­त्व­वि­भु­त्व­श्रु­ति­लि­ङ्गा­ना­म­वि­शे­षात् तस्य स्वाभाविकं विभुत्वं परि­च्छि­न्न­त्व­मौ­पा­धि­क­मिति व्यवस्था न सिध्येदिति दोषः प्रसज्यत एवेति, नेत्याह —
अस्मन्मत इति ।
ब्रह्मा­त्मै­क्य­ज्ञा­नस्य मुक्ति­सा­ध­न­त्वात् तज्ज्ञानजनकानि तत्त्व­म­स्या­दि­वा­क्यानि महावाक्यानि वाक्या­र्थ­ज्ञा­न­का­र­णी­भू­त­त­त्त्वं­प­दा­र्थ­ज्ञानं प्रति साधनभूतानि जीव­स्व­रू­प­प्र­ति­पा­द­क­वा­क्या­नी­श्व­र­स्व­रू­प­प्र­ति­पा­द­क­वा­क्यानि च अवा­न्त­र­वा­क्या­नीति महा­वा­क्य­शे­ष­त्वात् पदा­र्थ­प्र­ति­पा­द­क­वा­क्यानां प्रधा­न­वा­क्या­नु­रो­धेन गुणभूतवाक्यानां नेय­त्वा­दि­त्यर्थः ।

स्वरूपेणेति ।
जीवस्य स्वरूपेण अणुत्वे महा­वा­क्य­प्र­ति­पा­द्य­ब्र­ह्मा­भे­दा­नु­प­पत्तेः ब्रह्मणश्च स्वरूपेण पूर्णत्वाभावे बहु­श्रु­त्या­दि­वि­रो­धा­दिति भावः ।

अद्वितीये ब्रह्मणि वेदा­न्त­स­म­न्व­या­वि­रो­ध­स­म­र्थ­न­रूपं परि­च्छे­दा­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।

पञ्चम्यर्थं पञ्चमीभ्यां विवृणोति —
अचेतनस्येति ।
श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं संप्रणम्य च ।
व्याख्यातोऽयं परिच्छेदः श्रीकृ­ष्ण­प­रि­तु­ष्टये ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­त्स्व­यं­प्र­का­शा­न­न्द­स­र­स्व­ती­दि­व्य­श्री­च­र­णा­र­वि­न्द­सं­ल­ग्न­र­जो­भू­त­स्या­च्यु­त­कृ­ष्णा­न­न्द­नी­र्थस्य कृतौ शास्त्र­सि­द्धा­न्त­ले­श­सं­ग्र­ह­व्या­ख्यायां कृष्णा­लं­का­रा­ख्यायां द्वितीयः परिच्छेदः समाप्तः ।