कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
उक्तव्यवस्थोपपादकोपाधिभेदविचारः
जीवानां उपाधिभेदाद्वा औपाधिकभेदाद्वा सुखदुःखादिव्यवस्थासिद्धौ तेषां वस्तुतः परस्परं भेदे प्रमाणाभावात् एकब्रह्माभेदः सिद्ध्यति । तत्सिद्धौ च जीवाभिन्ने निष्प्रपञ्चे ब्रह्मणि वेदान्तसमन्वयः सिद्ध इति प्रतिपादितम् । सम्प्रति विचारान्तरमारभते —
एवमिति ।
उक्तप्रकारेणेत्यर्थः ।
क इति ।
अनुसन्धानाननुसन्धानयोः किं भोगायतनाभेदतद्भेदौ प्रयोजकौ, किं वा विश्लिष्टभोगायतनाभेदतद्भेदौ, अथवा शरीराभेदतद्भेदौ, अन्तःकरणाभेदतद्भेदौ वा, अज्ञानाभेदतद्भेदौ वा इति प्रश्ने प्रतिवचनं निरूपणीयमित्यर्थः ।
तत्र आद्यं पक्षमादाय प्रतिवचनं निरूपयति —
अत्र केचिदाहुरिति ।
तत्रान्वयव्यतिरेकौ प्रमाणयति —
शरीरावच्छिन्नेति ।
भोगायतनं ह्यवच्छेदकतासम्बन्धेन भोगाश्रयः ।
स च देहस्तदवयवहस्तादिश्च भवतीत्याशयेनाह —
चरणेति ।
अननुसन्धानमेव दर्शयति —
हस्तावच्छिन्न इति ।
हस्तावच्छिन्नात्मनः पादावच्छिन्नात्मगतदुःखानुसन्धातृत्वाभावे बाधकं शङ्कते —
कथं तर्हीति ।
‘अयं हस्तव्यापारो हस्तावच्छिन्नस्यानुसन्धानात् न भवति किं तु तदनुसन्धानात्’ इति सम्बन्धः । तस्य - शरीरावच्छिन्नस्य यच्चरणावच्छिन्नगतवेदनानुसन्धानम्, तस्मादित्यर्थः । ननु — चरणावच्छिन्नगता वेदना कथं शरीरावच्छिन्नेनानुसन्धीयते, अवयवावयविनोर्भेदात् । भेदेऽप्यनुसन्धानोपगमे चैत्रशरीरावच्छिन्ना वेदना मैत्रशरीरावच्छिन्नेनाप्यनुसन्धीयेत, भेदाविशेषात् । तथा च चैत्रशरीरलग्नकण्टकोद्धाराय मैत्रशरीरस्य स्वारसिको व्यापारः प्रसज्येत —
अत आह —
अवयवावयविनोरिति ।
अवयवानां परस्परं भेदेऽपि शरीरतदवयवयोस्तादात्म्योपगमादित्यर्थः ।
एवं चेति ।
शरीरावच्छिन्नस्य चरणावच्छिन्नवेदनानुसन्धानं प्रति शरीरचरणयोस्तादात्म्यस्य नियामकत्वे सतीत्यर्थः ।
ननु हस्तावच्छिन्नस्य चरणावच्छिन्नगतवेदनानुसन्धातृत्वाभावेऽपि चरणलग्नकण्टकोद्धाराय हस्तव्यापारवत् मैत्रशरीरावच्छिन्नस्य चैत्रशरीरावच्छिन्नगतवेदनानुसन्धातृत्वाभावेऽपि चैत्रशरीरलग्नकण्टकोद्धाराय मैत्रशरीरव्यापारप्रसङ्गः परिहर्तुं न शक्यते, तत्राह —
नापीति ।
चैत्रमैत्रशरीरद्वयानुस्यूतेत्यर्थः । चैत्रशरीरावच्छिन्नवेदना उभयानुस्यूतावयव्यन्तरावच्छिन्नेनापि नानुसन्धीयत इति सम्बन्धः । अतो न दृष्टान्तसाम्यमिति भावः । चरणलग्नकण्टकोद्धाराय हस्तव्यापारानुरोधेन हस्तावच्छिन्नस्यैव चरणावच्छिन्नवेदनानुसन्धातृत्वमुपेयते । न च — तथा सति भोगायतनभेदस्याननुसन्धानप्रयोजकत्वं न स्यात्, चरणहस्तभेदे व्यभिचारादिति — वाच्यम् । तद्वारणाय विशेषणदानोपपत्तेः —
इति मत्वा द्वितीयमुपाधिं निरूपयति —
अन्ये त्विति ।
उपाधिपदं भोगायतनपरम् ।
न दोष इति ।
भोगायतनयोर्हस्तचरणयोर्भेदे सत्यपि तयोर्विश्लिष्टत्वाभावेन विश्लिष्टभोगायतनभेदस्याननुसन्धानप्रयोजकस्याभावात् न तत्र व्यभिचारदोष इत्यर्थः ।
न चैवंसतीति ।
विश्लिष्टत्वविशेषणदाने सतीत्यर्थः । गर्भस्थजीवस्य यत् भोगायतनं तस्य मातृशरीरस्य च विश्लिषाभावादिति भावः ।
विश्लिष्टपदार्थानभिज्ञस्येदंचोद्यमिति परिहरति —
एकस्मिन्निति ।
तथात्वादिति ।
एकस्मिन्नवयविन्यवयवभावेनाननुप्रविष्टत्वादित्यर्थः । तथा च विश्लिष्टोपाधिभेदसत्त्वात् न गर्भस्थजीवस्य मातृसुखानुसन्धानप्रसङ्ग इति भावः ।
निरुक्ताननुसन्धानप्रयोजकस्य व्यभिचारं शङ्कते —
न चेति ।
दोर्दण्डाः-बाहुदण्डाः । कबन्धाः-छिन्नशिरस्कदेहाः । इह-युद्धे भूमौ वा । अत्र वचने चैत्रमैत्रशरीरयोरिव विश्लिष्टयोः कबन्धशिरसोर्भेदे सत्यपि शिरोऽवच्छिन्नस्य कबन्धावच्छिन्नगतयोद्धृत्वानुसन्धातृत्वमवगम्यत इति व्यभिचार इत्यर्थः ।
तत्रानुसन्धानमुपेत्य चैत्रमैत्रशरीरवैलक्षण्येन समाधत्ते —
तत्रापीति ।
चरत्वादिति ।
पूर्वमनुप्रविष्टत्वादित्यर्थः ।
अस्य वचनस्य स्वार्थे मानत्वाभावात् व्यभिचारशङ्कैवायुक्तेत्याशयेन अभ्युपगमं परित्यजति —
शिरश्छेदानन्तरमिति ।
कबन्धा अपि पातयन्ति, किमुतान्ये — इति योधानामुत्साहातिशयं प्रशंसत्येतद्वचनमित्यर्थः ।
ननु - शिरश्छेदानन्तरमपि युद्धानुसन्धानादिकं योगमहिम्ना तपोमहिम्ना वा वरदानमहिम्नावा केषांचित् सम्भवति, ततो विद्यमानार्थकमेवेदं वचनं - इत्याशङ्कायां पुनरनुसन्धानमुपेत्य व्यभिचारं परिहरति —
तादृगिति ।
‘विश्लिष्टभोगायतनभेदोऽननुसन्धानप्रयोजक इत्युत्सर्गः’ इत्युपगमात् उदाहृतानुसन्धानस्थलस्य तदपवादस्थलत्वाभ्युपगमात् तत्र व्यभिचारो न दोषायेति भावः ।
अत एवेति ।
उत्सर्गरूपत्वाभ्युपगमादेवेत्यर्थः ।
न दोषप्रसक्तिरिति ।
भोगायतनभेदादेरननुसन्धानप्रयोजकत्वनियमाभ्युपगमे हि योगिषु जातिस्मरेषु च भोगायतनभेदादिप्रयोजकचतुष्टयस्य सत्त्वेप्यननुसन्धानाभावेन व्यभिचाररूपदोषप्रसक्तिर्भवेदित्यर्थः । अदृष्टविशेषासहकृतस्य भोगायतनभेदादेरननुसन्धानप्रयोजकत्वस्य विवक्षितत्वात् न योग्यादिषु व्यभिचार इति तात्पर्यम् ।
तृतीयपक्षमादाय प्रतिवचनं निरूपयति —
अपरे त्विति ।
तत्र मानमाह —
बाल्येति ।
बाल्येऽनुभूतस्य वार्धकेऽनुसन्धानं दृश्यते । बाल्यवार्धकयोश्शरीराभेदात् । तद्भेदादेव भवान्तरानुभूतस्य अस्मिन् जन्मनि अनुसन्धानं न दृश्यत इत्यर्थः ।
शङ्कनीय इति ।
परिमाणभेदादिति भावः ।
बाल्याद्यवस्थाभेदेऽपि ‘तदेवेदं शरीरं’ इति प्रत्यभिज्ञादर्शनात् न शरीरभेद इति परिहरति —
प्रत्यभिज्ञानादिति ।
शङ्काबीजमनूद्यान्यथासिद्धिमाह —
न चेत्यादिना ।
आरम्भवादमाश्रित्य शङ्कते —
नन्विति ।
न पूर्वसिद्धमिति ।
पूर्वसिद्धे शरीरे उपादानत्वायोगात् पूर्वसिद्धशरीरनाशपूर्वकं तदवयवैरुपचितावयवैश्च मिलित्वा शरीरान्तरं द्व्यणुकत्र्यणुकादिक्रमेणारब्धव्यमिति परिमाणभेदे शरीरभेद आवश्यकः, प्रत्यभिज्ञा च शरीरत्वसामान्यविषया भविष्यतीत्यर्थः । समसमयत्वं विकासविशेषणम् । समयश्च क्षणरूपो बोध्यः । तत्पदं दीपपरम् । उपादानोपादेययोः सामानाधिकरण्यानुभवादिः आदिपदार्थः ।
अननुरोधिन इति ।
द्व्यणुकादिक्रमेण स्थूलावयव्युत्पत्तिपक्षे विलम्बापत्तेः समसमयत्वानुभववि रोधात्, परमाणुसंयोगनाशक्रमेण प्रभादिनाशेऽपि विलम्बापत्तेः, आरम्भवादे उपादानोपादेययोः अत्यन्तभेदाभ्युपगमेन सामानाधिकरण्यानुभवविरोधाच्च, तद्वादस्य हेयत्वमेवेत्यर्थः ।
अवयवोपचयक्रमेण शरीरान्तरारम्भानुपगमे कथमेकस्मिन् शरीरे विरुद्धपरिमाणयोग इत्यत आह —
विवर्तवादे चेति ।
चतुर्थ पक्षमादाय प्रतिवचनं ददाति —
इतरे त्विति ।
प्रागिति ।
सुखदुःखादिव्यवस्थोपपादनग्रन्थ इत्यर्थः ।
पञ्चमं पक्षमाह —
केचित्त्विति ।
प्रतिजीवमज्ञानभेदे प्रमाणं ब्रह्मलक्षणविचारावासरे दर्शितम् ।
एवमैकात्म्यवादे व्यवस्थामुपपाद्य तन्नानात्ववादे व्यवस्थानुपपत्तिमाह —
अत्रेति ।
अंशो ब्रह्मणो जीवः, श्रुतिषु जीवब्रह्मणोर्नानात्वव्यपदेशात् । न च ब्रह्मणो निरंशस्य कथं जीवोंऽश इति वाच्यम् । अवच्छिन्नाकाशो महाकाशस्य यथा अंशः, तथा अवच्छिन्नचैतन्यं अनवच्छिन्नचैतन्यरूपस्य ब्रह्मणोंऽश इत्युपगमादिति — सूत्रभागार्थः । ‘अदृष्टानियमात्’ इत्यादिसूत्रत्रयस्य व्याख्यानं भविष्यति । कणभुगादिभिर्हि प्रतिशरीरमात्मभेदाभावे व्यवस्था न सम्भवतीति आत्मभेद आश्रितः । न च आत्मन एकत्वेऽप्युपाधिकृता व्यवस्था सम्भवतीति तद्भेदाश्रयणं तेषां व्यर्थमिति वाच्यम् । उपाधिकृतव्यवस्थायाः क्लिष्टत्वात् । अतोऽञ्जसा व्यवस्थासिद्धये आत्मभेदस्तैराश्रितः ।
तदेतन्मतं दूषयति —
कणभुगादिरीत्येति ।
व्यवस्थेति ।
व्यवस्थाञ्जस्याभावस्य तुल्यत्वमाहुरित्यर्थः ।
अविशेषादिति ।
यथा चैत्रस्य तथा अन्येषामपीत्यर्थः । कण्टकवेधादीत्यादिपदं खङ्गघातादिसंग्रहार्थम् ।
शरीरस्य आत्मविशेषं प्रत्यसाधारण्यमसिद्धं इति दूषयति —
सर्वात्मसन्निधाविति ।
‘अदृष्टानियमात्’ इति सूत्रमवतारयति —
यददृष्टेति ।
सूत्रं व्याचष्टे —
अदृष्टस्यापीति ।
अनियमं साधयति —
यदा हीति ।
तदा अन्यैरप्यात्मभिस्संयुज्यत इत्यर्थः ।
तत: किं, तत्राह —
कथमिति ।
आत्ममनस्संयोगरूपासमवायिकारणस्य समवायिकारणरूपात्मनश्च साधारणत्वादित्यर्थः ।
संयोगमात्रेति ।
मात्रपदमभिसन्ध्यादिसाधारण्यव्यवच्छेदार्थं, न तु समवायिकारणस्य तद्व्यवच्छेदार्थमिति बोध्यम् । अभिसन्धिः — फलेच्छा । आदिपदेन कृतिजनककार्यताज्ञानचिकीर्षयोः संग्रहः ।
‘अभिसन्ध्यादिष्वपि चैवं’ इति सूत्रं योजयन्नुत्तरमाह —
नेत्यादिना ।
मनसः असाधारण्यमाशङ्क्य निराकरोति —
ननु स्वकीयेति ।
तथा च तत्संयोगासमवायिकारणकं सर्वं असाधारणं भविष्यतीति भावः ।
‘प्रदेशादिति चेन्नान्तर्भावात्’ इति सूत्रं व्याचक्षाण एव प्रदेशकृतां व्यवस्थामाशङ्क्य निराकरोति —
नन्वात्मनामिति ।
बन्धः - सुखदुःखादिः । तत्तदात्मासाधारणात् प्रदेशविशेषात् व्यवस्थेति चेत् - इति सौत्रशङ्काभागाक्षरार्थः ।
एकस्मिन् शरीरे एकस्यैवात्मनः प्रदेशः नात्मान्तराणां - इति नियमोऽसिद्ध इति दूषयति —
न यस्मिन्निति ।
अदृष्टसुखादेरव्याप्यवृत्तित्वात् आत्मनो यः प्रदेशोऽदृष्टाद्याश्रयः स एवात्र प्रदेशशब्दार्थः । तथा च यस्मिन्नासनादिप्रदेशे चैत्रशरीरं स्थितं सत् चैत्रस्य सुखाद्यायतनं भवति, तस्मिन्नेव प्रदेशे चैत्रशरीरापक्रमणानन्तरं मैत्रशरीरमागत्य स्थितं सत् मैत्रस्य सुखाद्यायतनं दृश्यते । ततस्तत्र पश्चादागतमैत्रशरीरे चैत्रमैत्रात्मप्रदेशयोरदृष्टाश्रययोः प्रवेशात् तच्छरीरे चैत्रमैत्रयोरुभयोरपि भोगप्रसङ्गः । न च पूर्वशरीरापक्रमणसमये तच्छरीरगतस्य चैत्रात्मप्रदेशस्याप्यपक्रमणमेवास्त्विति वाच्यम् । प्रदेशवत आत्मनः स्थिरत्वेन प्रदेशस्य चलनानुपपत्तेः । एवमन्येषामप्यात्मनां प्रदेशान्तर्भावप्रयुक्तं भोगसाङ्कर्यमूह्यम् ।
तस्मादिति ।
आत्मनां व्यापकत्वाभ्युपगमात् इत्यर्थः ।
नन्वात्मैक्यमत इव तन्नानात्वमतेऽपि कथञ्चिद्व्यवस्था स्वीक्रियत इत्याशङ्क्याह —
श्रुतीति ।
आत्मैक्यश्रुतीत्यर्थः ।
तत्रैवेति ।
एकस्मिन्नेवात्मनीत्यर्थः ।
जीवाणुत्वगमकश्रुतियुक्त्यवष्टम्भेन पुनर्जीवब्रह्माभेदमाक्षिपति —
सन्त्विति ।
निराकरोति —
मैवमिति ।
अधिष्ठानस्य चेति ।
युगपत् करादिप्रेरणस्येत्यर्थः ।
जीवस्याणुत्वेऽपि सर्वशरीरव्यापिसुखादिकं सम्भवतीति शङ्कते —
यदत्रेति ।
कल्पनाप्रकारस्तेषामणुत्वेऽपीत्यादिना भविष्यति ।
आदौ तस्याणुत्वे मानमाह —
उत्क्रान्तीति ।
तमुत्क्रामन्तमित्यादिश्रुतिषूत्क्रान्त्यादिकं श्रूयत इति भावः ।
नन्वमध्यमपरिमाणस्य जीवस्य उत्क्रान्त्याद्यन्यथानुपपत्त्या चेदणुत्वं कल्प्यते, तर्हि जीवस्य ब्रह्मभावश्रवणानुपपत्त्या तस्य विभुत्वं कल्प्यते, श्रुतार्थापत्तेरविशेषात् - इत्याशङ्क्य श्रुतिमप्याह —
अणुर्हीति ।
यं आत्मानं एते सिनीतः - बध्नीतः, के ते, तत्राह — पुण्यं च पापं च, एष आत्मा अणुर्हीत्यर्थः । वालः - केशः । ‘शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयः’ इति वाक्यमादिपदेन गृह्यते । वालाग्रस्य यश्शततमो भागः, तस्यापि शतधा विभक्तस्य यो भागः, तत्तुल्यपरिमाणो जीव इत्यर्थः ।
जीवस्याणुत्वसाधकप्रमाणानुसारिणमर्वाचीनकल्पनाप्रकारं दर्शयति —
तेषामणुत्वेऽपीति ।
यथा प्रभायाःस्वाश्रयं प्रदीपं विहाय प्रदेशान्तरव्यापित्वं, तथा ज्ञानादीनां स्वाश्रयमणुमात्मानं विहाय कदाचिच्छरीरव्यापित्वं कल्प्यत इत्यर्थः । नन्वात्मनश्शरीरव्यापित्वे सति युगपत् सुखदुःखप्रयत्नादय उत्पद्यमानाः तस्मिन्नवच्छेदकभेदेन सम्भवन्ति ।
तस्याणुत्वे तु कथं तेषां यौगपद्यनिर्वाहः, तत्राह —
द्रोणमिति ।
अनुगतेष्वित्यनन्तरं जीवांशेष्विति शेषः । व्यूहः - समूहः । कायव्यूहगतेष्वित्यनन्तरमपि जीवांशेष्विति शेषः । भूगानां - भुज्यमानसुखादीनां - वैचित्र्यं - युगपन्नानाविधत्वं युगपदनेकशरीराधिष्ठानं च योगिनां स्वांशैस्सम्भवतीत्यर्थः ।
जीवाणुत्वपक्षे न केवलमनुपपत्तिसामान्याभावः, किं तु लाभोऽप्यस्तीत्याह —
एवं चेति ।
जीवस्याणुत्वे सतीत्यर्थः ।
असङ्करादिति ।
एकस्मिन् शरीरे सर्वेषां जीवानां प्रवेशाभावादित्यर्थः ।
विभोरिति ।
जीवस्यापि विभुत्वे लक्षणभेदाभावात् ईशात् भेदो न सिध्येत्, अणुत्वे त्वत्यन्तवैलक्षण्यात् भेदस्सुगम इति भावः ।
अर्वाचीनकल्पनं दूषयति —
अत्रोक्तमिति ।
एवमपीति ।
जीवस्याणुत्वसांशत्वकल्पनेऽपीत्यर्थः । जीवस्य स्वांशगतसुखाद्यनुसन्धानं जीवान्तरगतसुखाद्यननुसन्धानं चाभ्युपगच्छता त्वया भेदोऽननुसन्धानप्रयोजकः अभेदश्च तदनुसन्धानप्रयोजक इति वक्तव्यम् । तत्राननुसन्धानप्रयोजकभेदो भेदमात्रं वा शुद्धभेदो वा । आद्ये चैत्रः स्वांशगतं सुखादिकं नानुसन्दध्यात् । अननुसन्धानप्रयोजकभेदस्य सत्त्वात् ।
यदि सत्यपि भेदे स्वांशगतमनुसन्दध्यात् तदा चैत्रो मैत्रगतसुखादिकमप्यनुसन्दध्यादित्याह —
चैत्रस्येति ।
अंशांशिनोरननुसन्धानप्रयोजकभेदासिद्धिमाशङ्क्य तं साधयति —
कायव्यूहेति ।
वियुज्येति ।
अंशिनस्सकाशाद्विभागं प्राप्येत्यर्थः ।
अन्यत्रेति ।
योगिनो निजशरीरादन्यत्र कायव्यूह इत्यर्थः ।
तयोर्भेदो नास्माभिस्साधनीय इत्याशयेनाह —
अंशांशिनोरिति ।
ननु - भेदमात्रमननुसन्धानप्रयोजकतया नेष्यते, येन ‘जीवः स्वांशगतमपि सुखादिकं नानुसन्दध्यात्, यद्यनुसन्दध्यात् तदा जीवान्तरगतमपि तदनुसन्दध्यात्’ इति दोषः प्रसज्येत, किं तु विशेषतो भेदः- इति द्वितीयं शङ्कते —
न चेति ।
आद्ये कल्पे जीवेश्वरभेदस्य अंशांशिभावसहचरितत्वेन शुद्धभेदत्वाभावात् तयोः परस्परं सुखाद्यनुसन्धानं स्यादित्याह —
नाद्य इति ।
जीवेश्वरयोरंशांशिभावे मानमाह —
अंशोहीति ।
परमस्य-परमात्मनः । जीवलक्षणो लोको जीवलोकः । ननु - भेदस्य अंशांशिभावमात्रासहचरितत्वं शुद्धत्वं न भवति, किं तु मुख्यांशांशिभावासहचरितत्वम् । जीवेश्वरयोरंशांशित्वं तु न मुख्यम् ।
अतस्तयोर्भेदे मुख्यांशांशिभावासहचरितत्वरूपशुद्धत्वस्य सत्त्वान्नोक्तदोषः - इति शङ्कते —
नन्विति ।
जीवं प्रतीति ।
तथा च जीवतदंशयोर्भेदे मुख्यांशांशिभावसहचरितत्वस्यैव सत्त्वेन तदसहचरितत्वरूपशुद्धत्वाभावादनुसन्धानोपपत्तिरिति भावः । नांशत्वमित्यनन्तरं मुख्यमिति शेषः । कान्तिमत्त्वं सादृश्यम् ।
मुख्यांशांशिभावासहचरितभेदोऽननुसन्धानप्रयोजक इत्यत्र मुख्यांशांशिभावो दुर्निरूप इत्याह —
किं तदिति ।
यन्मुख्यमंशत्वमत्र प्रयोजकशरीरे निवेश्यते तत् एतदतिरेकेण किं इति योजना । मुख्यमंशत्वं आरम्भकावयवत्वं वा, प्रदेशत्वं वा, खण्डत्वं वा, भिन्नाभिन्नद्रव्यत्वं वेति किंशब्दार्थः ।
तत्राद्यं निराकरोति —
न तावदिति ।
द्वितीयतृतीयौ क्रमेणानूद्य दूषयति —
नापीत्यादिना ।
जीवस्याणुत्वेन प्रदेशासम्भवात् अणुत्वेनैव द्वैधीभावायोग्यत्वाच्चेत्यर्थः ।
चतुर्थं शङ्कते —
भिन्नाभिन्नेति ।
जीवांशानां जीवेन सह भिन्नत्वे सत्यभिन्नद्रव्यत्वं मुख्यमंशत्वमभिमतम्, तदेव चाननुसन्धानप्रयोजकशरीरे निवेश्यते । तथा च भिन्नाभिन्नद्रव्यत्वासहचरितभेदः शुद्धभेदः, स चाननुसन्धानप्रयोजकः - इति निष्कर्षः ।
तत्र दूषणमाह —
तथासतीति ।
जीवेश्वरयोस्त्वया भिन्नाभिन्नद्रव्यत्वाभ्युपगमात् तयोर्भेदश्शुद्धभेदो न भवति ।
तथा जीवांशानां परस्परं भिन्नाभिन्नद्रव्यत्वस्य त्वया स्वीकारात् तेषां भेदोऽपि शुद्धभेदो न भवति ।
तथा च अननुसन्धानप्रयोजकाभावाज्जीवेश्वरयोर्जीवांशानां च भोगसाङ्कर्यप्रसङ्ग इत्यर्थः ।
चेतनत्वादिनेति ।
सत्त्वद्रव्यत्वसङ्ग्रहार्थमादिपदम् ।
दूषणान्तरमाह —
समूहेति ।
समूहस्य समूहिनां च परस्परं भिन्नत्वेसत्यभिन्नत्वमङ्गीकुर्वतस्तव मते समूहिनामपि परस्परमभिन्नत्वमावश्यकम् । तथा च उत्सवादावेकत्र मिलितानां जीवानां भिन्नानां परस्परमभिन्नद्रव्यत्वस्यापि सत्त्वात् तेषां परस्परभेदःशुद्धभेदो न भवति । भिन्नाभिन्नद्रव्यत्वसहचरितत्वात् । तथा च परस्परं तेषां सुखाद्यनुसन्धानप्रसङ्ग इत्यर्थः ।
ननु - समूहिनां समूहाभिन्नत्वेऽपि न तेषां परस्परमभिन्नत्वमस्मन्मतेऽस्ति, अतो नोक्तदोष इत्याशङ्क्याह —
स्वाभिन्नेति ।
स्वं - एकसमूही देवदत्तः, तदभिन्नस्समूहः, तदभिन्नो यज्ञदत्तः, तेन सह स्वस्यापि-देवदत्तस्यापि अभेदस्य तव मते दुर्वारत्वात् । त्वया तदभिन्नाभिन्नस्य तदभिन्नत्वनियमाभ्युपगमादित्यर्थः ।
परं प्रत्युक्तनियमाभ्युपगमं साधयति —
यदीत्यादिना ।
गुणगुणिनोर्जातिव्यक्त्योश्चाभेदवादिनं प्रति दूषणपरोऽयं जीवाणुत्ववादिग्रन्थो यदीत्यादिः ।
गुणगुणिनोरभेदमङ्गीकृत्य यदि गुणस्य संयोगविभागद्वित्वादेरनेकाश्रितत्वमभ्युपगम्येत, तथा जातिव्यक्त्योरभेदमुपेत्य यदि जातेरनेकाश्रितत्वमभ्युपगम्येत, तदा पटादेरपि घटाभेदप्रसङ्गः- इत्यत्र हेतुगर्भं विशेषणमाह —
घटाभिन्नेति ।
घटाभिन्नः संयोगः तदभिन्नत्वात् पटादेरित्यर्थः । ननु - जीवेश्वरयोःजीवांशानां समूहाभिन्नजीवानां च योऽयं चेतनत्वादिधर्मप्रयुक्ताभेदः एकसमूहाभेदप्रयुक्ताभेदश्च तदपेक्षया अन्य एवाभेदो जीवतदंशयोरस्ति । अतः तयोर्भेदे सत्यपि परस्परमनुसन्धानं, जीवेश्वरयोः र्जीवांशानां समूहिजीवानां च तादृशाभेदाभावाच्चेतनत्वादिप्रयुक्ताभेदे सत्यपि न परस्परमनुसन्धानं इति व्यवस्था ।
तथा च भिन्नाभिन्नद्रव्यत्वासहचरितभेदश्शुद्धभेदः, स च अननुसन्धानप्रयोजकः’ इत्यत्र जीवतदंशयोः परस्परानुसन्धानप्रयोजकत्वाभिमतो विलक्षणाभेद एव प्रविष्ट इति जीवेश्वरादौ तादृशाभेदघटितभिन्नाभिन्नद्रव्यत्वासहचरितभेदसत्त्वान्नोक्तातिप्रसङ्गः - इति शङ्कां निराकरोति —
न चेति ।
जीवतदंशयोरिव जीवान्तराणामपि साधारणो यश्चेतनत्वादिधर्मैकरूप्यप्रयुक्तः एकसमूहान्तर्गत्यादिप्रयुक्तश्च अभेदः तद्विलक्षणमित्यर्थः । जीवेश्वरगतस्यामुख्यांशांशिभावस्य सङ्ग्रहार्थमादिपदम् । अंशांशिनोर्भेदे सत्यपि तयोरनुसन्धानप्रयोजकमभेदान्तरं न चास्ति, यदभेदान्तरं जीवेश्वरादावतिप्रसङ्गपरिहाराय भिन्नाभिन्नद्रव्यत्वशरीरप्रविष्टतया विवक्ष्येत इति योजना ।
नन्वभेदान्तरं कुतो नास्तीत्याशङ्क्याह —
तथासतीति ।
विलक्षणाभेदस्यांशांशिनोस्सत्त्व इत्यर्थः ।
जीवेश्वराद्यभेदापेक्षया जीवतदंशयोरभेदस्य विशेषं विशेषतो निर्वक्ति —
धर्मैकरूप्याद्यप्रयुक्तत्वमिति ।
उक्तविशेषासिद्धिमाह —
न - जीवेति ।
जीवस्य तदंशानां च चेतनत्वसत्त्वद्रव्यत्वादिधर्मैरैकरूप्यमस्ति ।
तथा जीवस्य तदवयवानां च एकशरीरानुप्रवेशकाले तच्छरीरावच्छेदेन समूहोऽप्यस्ति ।
तथा योगिजीवावयवानां कायव्यूहशब्दितानेकशरीरेषु प्रविष्टानां कदाचित्तेषां शरीराणां मेलने सति योगिजीवेनांशिना सह समूहोऽस्ति । तथा च जीवतदंशयोर्भेदे धर्मैकरूप्यादिप्रयुक्तत्वसम्भवात् तदप्रयुक्तत्बमसिद्धमित्यर्थः । ननु - जीवानां चेतनत्वादिधर्मैकरूप्यादिप्रयुक्ताभेदसत्त्वेऽपि तेषामंशांशिभावाभावात् अंशांशिभावप्रयोजकाभेदोऽन्य एव, स च न धर्मैकरूप्यादिप्रयुक्तः —
इति शङ्कते —
धर्मैकरूप्यादीति ।
जीवान्तरसाधारणाभेदस्य धर्मैकरूप्यादिप्रयुक्तस्याप्यपरिहार्यत्वात् तस्याप्यभ्युपगमे सति जीवतदंशयोरभेदद्वयमभ्युपगतं परस्य मते प्रसज्यते ।
ओमिति वदन्तं परं प्रत्याह —
न - तयोरिति ।
अंशांशिनोरित्यर्थः ।
तदाकारेति ।
प्रतियोग्याकारेत्यर्थः । प्रतियोगितावच्छेदकेति यावत् । भेदस्यानेकत्वानभ्युपगमोपन्यासो दृष्टान्तार्थः ।
तस्मादिति ।
जीवेश्वरयोः यः पूर्वमंशांशिभावो निरूपितः, तदतिरेकेण जीवतदंशयोर्मुख्यस्यांशांशिभावस्य दुर्निरूपत्वादित्यर्थः । तथा च जीवेश्वरयोर्भेदस्य निरूपितांशांशिभावसहचरितत्वेन तदसहचरितत्वरूपशुद्धत्वाभावे सति अननुसन्धानप्रयोजकशुद्धभेदाभावात् जीवेश्वरयोः परस्परं भोगसाङ्कर्यप्रसङ्गरूपो दोषः स्थिर इत्यर्थः ।
आद्यपक्ष इति ।
अंशांशिभावासहचरितत्वं शुद्धत्वमिति पक्ष इत्यर्थः ।
अभेदासहचरितत्वं शुद्धत्वं भेदस्येति पक्षं वक्ष्यमाणहेतुना निराकरोति —
एतेनैवेति ।
उक्तरीत्येति ।
चेतनत्वादिधर्मैकरूप्यं उक्ता रीतिः ।
जीवतदंशयोरिव जीवब्रह्मणोर्जीवानां चाभेदमुपेत्यापि पूर्वोक्तातिप्रसङ्गपरिहारं शङ्कते —
नन्विति ।
स्वस्येति ।
अंशिनो जीवस्येत्यर्थः ।
जीवान्तरेणेति ।
स्वस्येत्यनुषङ्गः ।
जातिस्मरस्येति ।
पूर्वजन्मस्मरणवत इत्यर्थः ।
सर्वेति ।
सर्वात्मताऽऽवारकं यदज्ञानं, तत्प्रयुक्तावरणादित्यर्थः ।
तत एवेति ।
चैत्रमैत्रादीनां सर्वेषां परस्परमभेदप्रत्यक्षाभावादेव व्यवस्थिततया सुखाद्यननुसन्धानोपपत्तेरित्यर्थः ।
अभेदप्रत्यक्षस्यानुसन्धानप्रयोजकत्वमुपेत्य परमते आत्मभेदकल्पनागौरवं श्रुतिविरोधं च दर्शयित्वा, परमते तस्य प्रयोजकत्वमपि न सम्भवति अतिप्रसङ्गादित्याह —
न चेत्थमपीति ।
अभेदप्रत्यक्षमनुसन्धानप्रयोजकमिति कल्पनयाऽपीत्यर्थः । वस्तुसन् - परमार्थो यो जीवान्तराभेदः तत्प्रत्यक्षमीश्वरस्यावश्यकम्, अन्यथा सर्वज्ञत्वभङ्गप्रसङ्गादित्यर्थः ।
ननु सिद्धान्तेऽपि ब्रह्मणस्सर्वज्ञत्वजीवाभिन्नत्वयोस्सत्त्वादुक्त्तदोषप्रसङ्ग इति, नेत्याह —
अस्मन्मत इति ।
यत्तु - जीवानां सांशत्वात् करशिरश्चरणानुगतेषु जीवांशेषु सुखदुःखादियौगपद्यं सम्भवति, योगिनां कायव्यूहगतेषु योगिजीवावयवेषु युगपत् सुखदुःखादिभोगवैचित्र्यं च सम्भवतीति न काचिदनुपपत्तिरिति - तन्न - जीवं प्रति जीवांशानां मुख्यांशत्वस्यापि निरस्तत्वात् । जीवं प्रति तदंशानां जीवसदृशत्वे सति जीवापेक्षया न्यूनपरिमाणत्वरूपौपचारिकांशत्वस्यापि जीवाणुत्वपक्षे बाधितत्वाच्च । अणुपरिमाणस्यैव सर्वपरिमाणापेक्षया न्यूनपरिमाणत्वेन ततोऽपि न्यूनपरिमाणाभावात् । सदृशत्वे सति ततो न्यूनत्वरूपांशत्वस्य चन्द्रबिम्बांशगुरुबिम्बवत् जीवांशानां जीवापेक्षया अत्यन्तभेदप्रयोजकत्वेन जीवस्य स्वांशगतसुखाद्यनुसन्धातृत्वासम्भवाच्च । तथा योगिजीवांशानां कायव्यूहाधिष्ठातृत्वेऽपि तेभ्योऽत्यन्तभिन्नस्य योगिजीवस्य कायव्यूहाधिष्ठातृत्वाभावप्रसङ्गात्, तथा शरीराधिष्ठातुर्जीवस्य शरीरावयवकरशिरश्चरणाद्यधिष्ठातॄणां जीवांशानां चात्यन्तभिन्नत्वेन एकस्मिन् शरीरे भोक्तृनानात्वप्रसङ्गात्, जीवस्य सांशत्वे मानाभावाच्च, ‘द्रोणं बृहस्पतेर्भाग’ मित्यादिवचनस्य वर्णितरीत्या उक्तांशपरत्वासम्भवेन बृहस्पत्यादेर्योगप्रभावेन भूभारहरणादिदेवकार्यार्थं शरीरान्तरपरिग्रहमात्रपरत्वात् । एतेन श्रीरामकृष्णादेर्विष्ण्वंशत्वव्यवहारोऽपि व्याख्यातः ।
तस्माज्जीवांशविशेषस्य करशिरश्चरणाद्यधिष्ठातृत्वं कायव्यूहाद्यधिष्ठातृत्वं च न सम्भवतीति पूर्वग्रन्थाशये स्थिते शङ्कते —
स्यादेतदिति ।
अधिष्ठानमिति ।
प्रेरक इत्यर्थः ।
भविष्यतीति ।
जीवः स्वयमणुतया शरीरैकदेशस्थोऽपि स्वसमवेतेन व्यापिज्ञानेन करशिरश्चरणादीन् कायव्यूहं चाधितिष्ठतीति निरंशस्याप्यणोर्जीवस्य कृत्स्नशरीराधिष्ठातृत्वादिकं नानुपपन्नमिति भावः ।
ज्ञानमाश्रित्येति ।
ज्ञानधर्मत्वे हि सुखादेर्ज्ञाने उत्पत्तिःसम्भवेत् । ततश्च ज्ञानस्य व्यापकत्वात् तदाश्रितसुखादिरूपभोगस्यापि करशिरश्चरणादौ कायव्यूहे च युगपदुदयस्सम्भवेत्, न तु त्वया सुखादेर्ज्ञानधर्मत्वमिष्यते । तस्य ज्ञानवदण्वात्मधर्मत्वाभ्युपगमात् । अतो ज्ञानस्य व्यापित्वेऽपि न करशिरश्चरणादौ कायव्यूहे च युगपत् भोगवैचित्र्यं सम्भवतीत्यर्थः ।
कायव्यूहवत इति ।
योगिन इति शेषः । तस्य च भोगवैचित्र्यं स्मर्यते — x‘आत्मनां च सहस्त्राणि बहूनि भरतर्षभ । योगी कुर्याद्बलं प्राप्य तैश्च सर्वां महीं चरेत् ॥ प्राप्नुयाद्विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिव ॥’ इति । आत्मनां - शरीराणां, बलं - योगजनितं सामर्थ्यं ।
तर्हि ज्ञानधर्मत्वमेव सुखादेरस्तु, यदि तद्धर्मत्वे भोगवैचित्र्यं सम्भवेत्, तत्राह —
सुखदुःखभोगादीति ।
असिद्ध्येति ।
आत्मगुणज्ञाननिष्ठस्य भोगवैचित्र्यस्य व्यधिकरणतया आत्मभेदसाधकत्वासम्भवादित्यर्थः ।
सुखादेर्व्यापिज्ञानधर्मत्वं स्वमतविरुद्धं चेत्याह —
भोगाद्याश्रयस्येति ।
नैयायिकादिमत इव अद्वैतिमत इव चेत्यर्थः ।
तस्मादिति ।
आत्मगुणस्य ज्ञानस्य व्यापित्वकल्पनायोगादित्यर्थः ।
जीवाणुत्वाभ्युपगमस्य पराभिमतं प्रयोजनान्तरं दूषयति —
नापि तेन तस्येति ।
जीवस्याणुत्वेनेत्यर्थः ।
श्रुतितदर्थापत्तिभ्यां जीवस्याणुत्वं वदतः तव मते ताभ्यामेवेश्वराणुत्वस्यापि दुर्वारत्वान्नेश्वरस्य विभुत्वसिद्धिः, तदसिद्धौ च न तवेष्टसिद्धिरिति दूषयति —
उत्क्रान्त्यादीति ।
वदतस्तव मते परोऽप्यणुरेव सिध्येदिति सम्बन्धः । तत्सृष्ट्वा इत्यत्र तत्पदद्वयं जगत्परं । प्रकृतः परमात्मा सृष्ट्यादिकर्ता ।
अन्तरिति ।
शरीरेष्विति शेषः । शास्ता - नियन्ता । परस्यार्धं - स्थानमर्हतीति परार्ध्यं परमं-उत्कृष्टं हार्दाकाशं, तस्मिन् या बुद्धिलक्षणा गुहा, तां प्रविष्टौ जीवेश्वरावित्यर्थः ।
प्रवेशादीति ।
शरीरान्तस्स्थत्वादिकमादिपदार्थः । सः - उपक्रमे प्रकृतः, एषः - सन्निहितः, अणिमा - अणुः, भावप्रत्ययो न विवक्षितः, मे हृदयेऽन्तः एषः-प्रकृतो भारूपत्वादिगुणक आत्मा वर्तते, स च व्रीह्याद्यपेक्षया अणुतर इत्यर्थः ।
अनन्यथासिद्धश्रुत्यादिवचनेन विभुत्वमीश्वरस्य शङ्कते —
नन्विति ।
ज्यायान् - महत्तरः ।
परस्य विभुत्वे लिङ्गमाह —
सर्वेति ।
पराणुत्वश्रुतीनामन्यथासिद्धिमाह —
तदणुत्वेति ।
उपासनार्था इति ।
‘अणीयान्व्रीहेर्वा’ इत्यादिश्रुतय इत्यर्थः ।
दुर्ग्रहत्वेति ।
स य एषोऽणिमेत्यादिश्रुतय इत्यर्थः । आसामुपासनाप्रकरणगतत्वाभावादिति भावः । व्यवस्थितविकल्पवाची वाकारः ।
प्रवेशादिश्रवणस्यान्यथासिद्धिमाह —
प्रवेशश्रुतयश्चेति ।
परमेश्वरस्य स्वेच्छापरिगृहीतशरीरेन्द्रियप्रवेशोपाधिकःशरीरेष्वन्तः - प्रवेश इत्यर्थः । ननु - जीवाणुत्वश्रुतिलिङ्गानामपि अन्यथानयनसम्भवाज्जीवस्यापि स्वाभाविकं विभुत्वं किं न स्यात्, तथा च न तस्याणुत्वसिद्धिरिति सिद्धान्तिनश्शङ्कामनूद्य निराकरोति जीवाणुत्ववादी - न चेत्यादिना ।
तमुत्क्रामन्तमिति ।
न च - अत्र श्रुतौ प्राणोत्क्रान्तेः प्रागेव जीवस्योत्क्रान्तिश्रवणेऽपि न केवलस्य तस्योत्क्रान्तिसिद्धिः, बुद्धिविशिष्टस्य तस्योत्क्रान्तिसम्भवादिति - वाच्यम् । बुद्धिप्राणयोर्भेदासिद्धेः, तयोरभेदस्यैव श्रुतिसिद्धत्वाच्च ।
तथा च श्रुतिः - ‘यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः’ [कौ.उ.३-३] इति, प्रज्ञा-बुद्धिः-इत्याशयेनाह —
प्राणाख्यबुद्ध्युत्क्रान्तेरिति ।
नामरूपशब्दितोपाधिनिवृत्त्यनन्तरमपि जीवस्य ब्रह्म प्रति गतिः श्रूयते ।
तथा च यथा उत्क्रान्तेरौपाधिकत्वं न सम्भवति तथा गतेरप्यौपाधिकत्वं न सम्भवतीति अमध्यमपरिमाणस्य जीवस्य स्वाभाविकमणुत्वं स्वीकर्तव्यमित्याशयेनाह —
तथा विद्वानिति ।
परात् - हिरण्यगर्भात् ।
जीवस्य स्वाभाविके गत्याश्रयत्वे सत्येव दृष्टान्तविशेषः सङ्गच्छते, अन्यथा तद्वैरूप्यं स्यादित्याशयेनाह —
तद्यथेति ।
तत् - तत्र - जीवस्य परलोकं प्रति गमने दृष्टान्त उच्यते । अनः - शकटं सुसमाहितं - गृहोपकरणैः पूर्णं उत्सर्जत् - शब्दं कुर्वत् यायात्-गच्छेत् यथा, एवं जीव ईश्वरेणान्वारूढः - प्रेरितो गच्छति परलोकमित्यर्थः । तथा च जीवस्याणुत्वे स्वाभाविके सिद्धे सति अणुत्वविभुत्वाभ्यां जीवेश्वरयोर्भेदसिद्धिरिति भावः ।
सिद्धान्ती दूषयति —
नैतत्सारमिति ।
यथा परमात्मप्रकरणे श्रुतं परस्य विभुत्वमन्यथा नेतुमयुक्तं तथा जीवप्रकरणे श्रुतं जीवस्य विभुत्वमप्यन्यथा नेतुमयुक्तमित्याशयेन ‘कतम आत्मा’ इत्यादिजीवप्रकरणगतं वाक्यजातमुदाहरति —
स वा इत्यादिना ।
विज्ञानमयो जीवः महान्-व्यापक आत्मेति जीवस्य व्यापकत्वश्रवणादित्यर्थः । ‘नभोपमः’ इत्यनेन स्वतो जीवस्य विभुत्वमुच्यत इत्यर्थः । इयं श्रुतिः प्रागेव व्याख्याता ।
विभुत्वेऽनन्यथासिद्धश्रुतिसाम्यमुक्त्वा परस्य परोक्तं विभुत्वलिङ्गं विघटयति —
त्वन्मत इति ।
प्रकृतिः - माया ।
परस्य ब्रह्मणःसर्वप्रपञ्चोपादानत्वमुपेत्यापि न तत् विभुत्वसाधकमित्याह —
जीवस्येति ।
अणोरिति शेषः । ततः-सर्वोपादानत्वात्, तस्य-ईश्वरस्येत्यर्थः ।
जीवाणुत्वश्रुतिलिङ्गानामन्यथानयनमपि तुल्यमेवेत्याह —
तत्प्रवेशश्रुतीनामिति ।
ब्रह्मप्रवेशेत्यर्थः । पञ्च - प्राणापानादिलक्षणा वृत्तयो यस्य मुख्यप्राणस्य स पञ्चवृत्तिः प्राणः श्रुतिषु व्यपदिश्यते । बहुवृत्तिमत्त्वमात्रे च दृष्टान्तो मनोवदिति । प्राणापानादिवृत्तीनां चोच्छ्वासादिकं प्रत्येकं कार्यमिति द्रष्टव्यम् । तथा च दृष्टान्तदार्ष्टान्तिकभावेन सूत्रे मनश्शब्दितबुद्धेः प्राणस्य च भेदो निर्दिष्टः । स च बुद्धीन्द्रियकार्यविषयालोचनापेक्षया विलक्षणस्योच्छ्वासादिक्रियारूपकार्यस्य प्राणे दर्शनात् प्राणो बुद्ध्यादिभ्यो भिन्न इत्यादिप्रकारेण भाष्ये साधित इत्यर्थः । ‘यो वै प्राणस्सा प्रज्ञा’ इति श्रुतौ प्रज्ञाप्राणयोर्भेदे सत्यपि प्रज्ञाप्राणोपहितस्य प्रत्यगात्मन एकत्वात् उपहितात्मप्राधान्येन तयोरेकीकरणमविरुद्धमिति प्रतर्दनाधिकरणभाष्ये प्रतिपादितत्वात् न श्रुतिविरोधोऽपीति भावः । यत्तु नामरूपोपाधिनिवृत्त्यनन्तरं जीवस्य ब्रह्म प्रति गतिश्रवणं जीवस्य विभुत्वविरोधीति, तदयुक्तम् —
तस्य ब्रह्मण्यपि विभुत्वविरोधित्वेन ब्रह्मणोऽपि तदसिद्धिप्रसङ्गात्, लोके परिच्छिन्नस्यैव गन्तव्यत्वनियमदर्शनात् - इत्याह —
नामरूपेति ।
ननु परमते ब्रह्मणो व्यापकस्वरूपेण न मुक्तप्राप्यत्वं, किं तु लोकविशेषाद्युपहितत्वेन ।
उपहितरूपेण प्राप्तव्यत्वं च न ब्रह्मणः स्वरूपेण व्यापकत्वविरोधि - इत्याशङ्क्य, तुल्यमेतत् तव मते जीवस्यापीत्याह —
प्राकृतेति ।
‘विद्वान्नामरूपाद्विमुक्तः’ इति श्रुतौ प्राकृतनामरूपाद्विमुक्त इत्यर्थं कल्पयता त्वया विदुषो जीवस्याप्यप्राकृतनामरूपस्वीकारेण स्वतो विभोरपि जीवस्य अप्राकृतनामरूपोपाधिपरिच्छिन्नस्य ब्रह्म प्रति गन्तृत्वसम्भवात् न विभुत्वश्रुतयो जीवविषया बाधनीया इत्यर्थः ।
ननु प्रविष्टावित्यत्र प्रविष्टपदं जीवे स्वाभाविकप्रवेशार्थकं, ब्रह्मणि तु शरीराद्युपाधिकृतप्रवेशार्थकं - इत्याशङ्क्य, तथासति सकृच्छुतस्य प्रविष्टपदस्य अर्थवैरूप्यं प्रसज्येतेति मत्वा आह —
ब्रह्मजीवोभयेति ।
यदि च ब्रह्मणो विभुत्वश्रुत्याद्यनुरोधेन प्रवेशसामान्यपरत्वमेव प्रविष्टपदस्य कल्प्यते न तु तद्गतविशेषपरत्वमपि, तर्हि जीवस्यापि विभुत्वश्रुत्यनुरोधेन शकटदृष्टान्ते गमनादिसाम्यमात्रं विवक्ष्यते न तु स्वाभाविकगत्याश्रयत्वादिकमपीति न जीवस्य स्वाभाविकाणुत्वसिद्धिः । तस्य तत्सिद्धौ वा ब्रह्मणोऽप्यणुत्वं दुर्वारम्, विनिगमनाविरहादिति भावः ।
तत इति ।
उक्तव्यवस्थितेरित्यर्थः ।
ननु - परमते जीवेश्वरयोरुभयोरपि विभुत्वाणुत्वश्रुतिलिङ्गानामविशेषात् उभयाणुत्वश्रुतिलिङ्गानामन्यथासिद्ध्यविशेषाच्च तयोरणुत्वं विभुत्वं वा समानतयैव सिध्येत् न त्वेकस्य विभुत्वं अपरस्याणुत्वमिति व्यवस्था सिध्येदिति यथा दोषः प्रसज्यते, तथा सिद्धान्तेऽपि जीवस्य परिच्छिन्नत्वविभुत्वश्रुतिलिङ्गानामविशेषात् तस्य स्वाभाविकं विभुत्वं परिच्छिन्नत्वमौपाधिकमिति व्यवस्था न सिध्येदिति दोषः प्रसज्यत एवेति, नेत्याह —
अस्मन्मत इति ।
ब्रह्मात्मैक्यज्ञानस्य मुक्तिसाधनत्वात् तज्ज्ञानजनकानि तत्त्वमस्यादिवाक्यानि महावाक्यानि वाक्यार्थज्ञानकारणीभूततत्त्वंपदार्थज्ञानं प्रति साधनभूतानि जीवस्वरूपप्रतिपादकवाक्यानीश्वरस्वरूपप्रतिपादकवाक्यानि च अवान्तरवाक्यानीति महावाक्यशेषत्वात् पदार्थप्रतिपादकवाक्यानां प्रधानवाक्यानुरोधेन गुणभूतवाक्यानां नेयत्वादित्यर्थः ।
स्वरूपेणेति ।
जीवस्य स्वरूपेण अणुत्वे महावाक्यप्रतिपाद्यब्रह्माभेदानुपपत्तेः ब्रह्मणश्च स्वरूपेण पूर्णत्वाभावे बहुश्रुत्यादिविरोधादिति भावः ।
अद्वितीये ब्रह्मणि वेदान्तसमन्वयाविरोधसमर्थनरूपं परिच्छेदार्थमुपसंहरति —
तस्मादिति ।
पञ्चम्यर्थं पञ्चमीभ्यां विवृणोति —
अचेतनस्येति ।
श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं संप्रणम्य च ।
व्याख्यातोऽयं परिच्छेदः श्रीकृष्णपरितुष्टये ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्स्वयंप्रकाशानन्दसरस्वतीदिव्यश्रीचरणारविन्दसंलग्नरजोभूतस्याच्युतकृष्णानन्दनीर्थस्य कृतौ शास्त्रसिद्धान्तलेशसंग्रहव्याख्यायां कृष्णालंकाराख्यायां द्वितीयः परिच्छेदः समाप्तः ।