कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
कर्मणां विविदिषाविद्याफलकत्वविचारः
परम्परया मुक्तावुक्तं कर्मणामुपयोगं प्रपञ्चयितुं पृच्छति —
क्व तर्हीति ।
तर्हि - ज्ञानवत् साक्षान्मुक्तिहेतुत्वाभावे सति क्व-विविदिषायां विद्यायां वा साधनत्वं तेषामित्यर्थः । तमेतमिति तच्छब्दः प्रकृतपरमात्मपरः । एतच्छब्दः नित्यापरोक्षजीवपरः । तथा च जीवाभिन्नं परमात्मानं वेदानुवचनादिभिर्वेदितुमिच्छन्तीत्यर्थः । अनशनादिलक्षणतपोव्यावृत्तये तपसो विशेषणं अनाशकेनेति । तथा च हितमितमेध्याशनादिरूपं तपः इह विवक्षितमिति लभ्यते ।
ननु विविदिषायामपुमर्थभूतायां कथं विनियोगः, तत्राह —
विद्यासम्पादनद्वारेति ।
ततश्च गौणपुरुषार्थत्वं तस्याःसम्भवतीत्यर्थः ।
ननु मुक्तिं प्रति प्रत्यासन्नत्वाद्विद्यायाः तस्यामेव विनियोगः कुतो न कल्प्यते ?श्रुतत्वाविशेषात्, कामनाविषयत्वेन श्रुतस्वर्गादेरेव कर्मफलतयाऽन्यत्र स्वीकाराच्च-इति मत्वा शङ्कते —
नन्विति ।
स्वर्गकामादिवाक्येषु यागादेर्विधिप्रत्ययेनेष्टसाधनत्वे बोधिते किं तदिष्टमिति विशेषाकाङ्क्षायां सत्यां पुरुषविशेषणत्वेन श्रुतयोः कामनास्वर्गयोरन्यतरस्यापि शब्दतः प्राधान्याभावेन तत्रार्थतः प्राधान्यस्यैवाश्रयणीयत्वे स्वतः पुरुषार्थतया स्वर्गस्यैव फलत्वेनान्वयः स्वीकृतः ‘यागः स्वर्गसाधनं’ इति, न तु कामनायाः । इह तु वेदनकामनाया एव फलत्वेनान्वय उचितः, शब्दतः प्रधानत्वात् । अतः फलप्रत्यासत्त्यादिकमप्यकिञ्चित्करं — इति मत्वा समाधत्ते —
न स्यादिति ।
सन्प्रत्ययः प्रत्ययशब्दार्थः ।
विविदिषायामेव विनियोग इत्यत्र भाष्यसम्मतिमाह —
विद्यासंयोगादिति ।
विद्यासाधनत्वादित्यर्थः ।
प्रत्यासन्नानीति ।
यादद्विद्योदयमनुष्ठेयानीत्यर्थः ।
शमादिवैषम्यं कर्मसु दर्शयति —
विविदिषासंयोगात्त्विति ।
तत्साधनत्वादेवेत्यर्थः ।
बाह्यतराणीति ।
विविदिषोदयपर्यन्तमेवानुष्ठेयानीति यावत् ।
सर्वापेक्षाधिकरणेति ।
‘विद्योत्पत्तौ सर्वाणि कर्माण्यपेक्षितव्यानि’ इति प्रतिपादकधिकरणेत्यर्थः ।
विविदिषाविनियोगं प्रकारान्तरेणाक्षिपति —
नन्विति ।
वेदनेच्छाया यज्ञादिफलत्वे वेदनेच्छागोचरेच्छया यज्ञाद्यनुष्ठानं वाच्यम् । वेदनेच्छायाश्च स्वतःफलत्वाभावाद्वेदनद्वारा मुक्तिफलकत्वं वाच्यम् । तथा चायं क्रमः — प्रथमं मुक्तौ स्वतः पुरुषार्थत्वज्ञानादिच्छा, ततो वेदने मुक्तिसाधनत्वज्ञानदिच्छा, ततो वेदनेच्छायां वेदनसाधनत्वज्ञानादिच्छा, तया च यज्ञाद्यनुष्ठानमिति ।
तथा च वेदनेच्छारूपविविदिषोद्देशेन यज्ञाद्यनुष्ठाने प्रवर्तमानस्य ब्रह्मवेदने विविदिषाफले किमिच्छाऽस्ति न वा ? आद्ये यज्ञाद्यनुष्ठानवैयर्थ्यमभिप्रेत्याह —
वेदनगोचरेति ।
वेदनगोचरेच्छाया एव विविदिषात्वादिति भावः ।
सिद्धत्वेन विविदिषार्थं यज्ञाद्यनुष्ठानायोगादिति सम्बन्धः । न द्वितीयः-विविदिषाफले वेदने कामनाया असत्त्वे विविदिषायामपि कामनाया अभावात् विविदिषोद्देशेन यज्ञाद्यनुष्ठानायोग इत्याह —
तदभाव इति ।
चेदनगोचरेच्छाया अभावे इत्यर्थः । विविदिषार्थं यज्ञाद्यनुष्ठातुरस्त्येव वेदनगोचरेच्छा ।
न चैतावता तदनुष्ठानवैयर्थ्यम् । विविदिषाया द्वैविध्योपपत्तेः । तथा हि — वेदनेच्छा द्विविधा — विद्यायामौन्मुख्यलक्षणा, रुचिलक्षणा च । तत्राद्या यज्ञाद्यनुष्ठानात्प्रागपि वेदने वर्तत इति तामादाय वेदनसाधनभूतायां विविदिषायां कामना सम्भवतीति विविदिषार्थं यज्ञाद्यनुष्ठानमुपपन्नम्, द्वितीया तु यज्ञादिफलभूता तदनुष्ठानानन्तरभाविनीति युक्त एव विविदिषायां यज्ञादिविनियोगः इति समाधानमभिप्रेत्याह —
नेति ।
वेदनेच्छायाः द्वैविध्ये यज्ञाद्यनुष्ठानादौ च दृष्टान्तमाह —
अन्नद्वेषेणेति ।
तत्परिहारायेति ।
कार्श्यपरिहारायान्नभक्षणविषयकोत्कटेच्छायां सत्यामपीत्यर्थः ।
उत्कटेति ।
अधिकेत्यर्थः । धातुवैषम्यप्रयोजकात्यन्तानशनादिसङ्ग्रहार्थमादिपदम् ।
तत्रेति ।
अन्नभक्षणे इत्यर्थः ।
जायत इति ।
एतच्चानुभवसिद्धमिति भावः ।
अधीतसाङ्गस्वाध्यायः पुरुषो वेदन्तैर्ब्रह्मणो निरतिशयानन्दरूपत्वं विद्यायां तत्प्राप्तिसाधनत्वं च ज्ञात्वा तस्मिन्नर्थे सम्पन्नविश्वासो भवतीत्ययुक्तम्, तथाविधानामपि पुरुषाणां बहूनां तस्मिन्नर्थे विश्वाससम्पत्तेरदर्शनात् - इत्याशङ्क्याह —
प्राचीनेति ।
प्राचीनेषु बहुषु जन्मसु अनुष्ठितानि फलाभिसन्धिरहितानि च यानि नित्यनैमित्तिककर्माणि, तैरुपसञ्जातो यश्चित्तप्रसादः - शुद्धिविशेषः, तस्य महिम्नेत्यर्थः । तथा च स्मृतिः — ‘मनुष्याणां सहस्त्रेषु कश्चिद्यतति सिद्धये ।’ [भ.गी. ७-३] इति ।
कश्चिदिति ।
उक्तचिंत्तप्रसादवानित्यर्थः । सिद्धये — विद्यालाभाय । न सर्व इति भावः ।
ननु ब्रह्मप्राप्तितत्साधनविद्यागोचरोत्कटेच्छायां सत्यां तत्साधनश्रवणादौ प्रवृत्तिपर्यन्ता रुचिर्भवेदेवेति कृतं तस्य यज्ञाद्यनुष्ठानेन, तत्राह —
अनादीति ।
दुरितदोषेण प्रतिबन्धात् रुचिर्न जायत इति सम्बन्धः ।
ननु पूर्वोक्तचित्तप्रसादमहिम्ना ब्रह्मविद्यादौ सम्पन्नविश्वासस्य आस्तिकतमस्य अनर्थबहुले विषयभोगे प्रावण्यं कथं सम्भवतीत्याशङ्क्य, अनुभवसिद्धदृष्टान्तेन तत् सम्भावयति —
आस्तिककामुकस्येति ।
‘विहितानुष्ठानादवश्यं श्रेयो भवति, निषिद्धकरणादितश्चावश्यं महाननर्थो भवति, शास्त्रप्रामाण्यात्’ इति निश्चयवान् आस्तिकः । तस्यापि कस्यचित् कामोद्रेको निन्दितागम्यागमनादौ प्रावण्यं च यथा पापविशेषात् सम्भवति तथा यथोक्तमुमुक्षोरपीत्यर्थः ।
प्रतिबन्धेति ।
अनादिभवसञ्चितानेकदुरितदोषकृतप्रतिबन्धेत्यर्थः ।
तत्सम्पादकेति ।
विविदिषाशब्दिता या श्रवणादौ प्रवृत्तिपर्यन्ता रुचिः तत्सम्पादकेत्यर्थः ।
‘क्व तर्हि कर्मणामुपयोगः’ इत्यत्र प्रश्ने विद्यायां विनियोग इति प्रतिवचनान्तरमवतारयति —
विवरणेति ।
पूर्वत्र यज्ञादीनां तृतीयाश्रुत्या साधनत्वेनावगतानां साध्याकाङ्क्षायां विविदिषैव साध्यत्वेनान्वेति, तस्याः शब्दतः प्रधानत्वात् । शब्दतः प्रधानस्यैव पदार्थस्य ‘राजपुरुषमानय’ इत्यादौ सर्वत्र समभिव्याहृतपदार्थान्तरेणान्वयस्य व्युत्पत्तिसिद्धत्वात् - इत्याशयेन यज्ञादीनां विविदिषायां विनियोग उक्तः ।
तत्रास्वरसं दर्शयन् विद्यायां तेषां विनियोगमुपपादयति —
प्रकृतीति ।
प्रकृतिप्रत्ययार्थयोः - वेदनतदिच्छ योर्मध्ये प्रत्ययार्थस्य - विविदिषालक्षणस्य प्रत्ययार्थत्वात् शब्दतः प्राधान्यम् । ततश्च विविदिषाया एव यज्ञादिफलत्वेनान्वयः - इत्यत्र हेतुभूतो यस्सामान्यन्यायः राजपुरुषमानयेत्यादौ प्रसिद्धः ‘शब्दतः प्रधानस्यैव समभिव्याहृतक्रियाकारकान्वयः’ इत्येवंरूपः तस्मादित्यर्थः । विधिप्रत्ययेनेष्टसाधनत्वेनावगतयागादेरिष्टविशेषाकाङ्क्षायां सत्यां शब्दतः प्राधान्याभावेऽपि स्वर्गस्य फलत्वेनान्वयः कॢप्त इत्यर्थः ।
शाब्दप्राधान्याभावाविशेषे कामनाया एव यागादिफलत्वेनान्वयः कुतो न कल्पितः, तत्राह —
इच्छाविषयतयेति ।
इच्छाविषयत्वस्य फलत्वव्यञ्जकत्वात् पुरुषार्थत्वेन प्रतीतस्य स्वर्गस्यैव फलत्वं न कामनाया इत्यर्थः ।
ननु कामनाविषयत्वस्य मुक्तिसाधारणत्वात् सैव यागादिफलं कस्मान्न कल्प्यते, तत्राह —
शब्दबोध्य इति ।
‘शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते’ इति न्यायान्नातिप्रसङ्गः । तथा च ‘इच्छेष्यमाणसमभिव्याहारे इष्यमाणस्यैव प्राधान्यं न त्विच्छायाः’ इति विशेषन्यायेन उक्तसामान्यन्यायबाधस्य कामोपबन्धवाक्येषु कॢप्तत्वात् ‘विविदिषति’ इत्यत्रापि प्रत्ययार्थत्वप्रयुक्तं विविदिषायाश्शाब्दप्राधान्यं त्यक्त्वा वेदनप्राधान्यमेवादरणीयमित्यर्थः ।
इच्छावाचिसन्प्रत्ययसमभिव्याहृतेष्वेव लौकिकवैदिकप्रयोगेषु प्रत्ययार्थतया प्रधानभूतामपीच्छामुल्लङ्घ्य तद्विषयेष्वेव समभिव्याहृतपदार्थान्तरान्वयदर्शनाच्च-इत्याह —
अश्वेनेति ।
तदन्वेष्टव्यमिति ।
तत् - दहराकाशाख्यं ब्रह्म विचार्यमित्यर्थः ।
विजिज्ञासितव्यमिति ।
तदेव ब्रह्म ध्यातव्यमित्यर्थः ।
निदिध्यासितव्य इति ।
आत्मा ध्यातव्य इत्यर्थः । ननु उदाहृतप्रयोगेषु इच्छायाः अश्वादिसाधनाद्यन्वयायोग्यत्वात्तस्याः परित्याग इति चेत्, तर्हि प्रकृतेऽपिवेदनेच्छायास्तदयोग्यत्वात् ब्रह्मवेदनस्य च ब्रह्मानन्दसाक्षात्काररूपतया फलत्वेनान्वेतुं योग्यत्वात् वेदन एव यज्ञाद्यन्वयः न विविदिषायामिति तुल्यमिति भावः ।
विद्याविनियोगपक्षे विध्यन्तरविरोधं शङ्कते —
नन्विति ।
कर्माणि त्यजतैव मुमुक्षुणा त्यक्तुः स्वस्य प्रत्यगात्मस्वरूपं पदं ब्रह्म साक्षात्कर्तव्यं, न त्वत्यजता - इति श्रुत्यर्थः । ‘अथ परिव्राट्’ इत्युपक्रम्य ‘ब्रह्मभूयाय कल्पते’ [जा.उ.५] इत्यन्तेन श्रुत्यन्तरेणापि परिव्राट्छब्दोपात्तसन्न्यासस्य ब्रह्मभूयशब्दितब्रह्मसाक्षात्कारहेतुत्वमुक्तम्, एवं श्रुत्यन्तरेष्वपि - इत्यभिप्रेत्य आदिपदं द्रष्टव्यम् ।
विविदिषावाक्यसन्न्यासविध्योरविरोधं सदृष्टान्तं सप्रमाणं च दर्शयति —
न - प्रागिति ।
वचने कारणपदद्वयं कर्तव्यार्थकम् । शमः - सन्न्यासः । चेतश्शुद्धिविविदिषादिरूपप्रत्यक्प्रावण्येत्येतत् गीतावचनगतयोगपदव्याख्यानमिति बोध्यम् ।
रागादिराहित्यरूपचित्तशुद्धिविविदिषावैराग्यगुरुदेवतादिभक्तिलक्षणप्रत्यक्प्रावण्यजन्मपर्यन्तं कर्मानुष्ठानं - इत्यत्र सुरेश्वराचार्यसम्मतिमाह —
उक्तं हीति ।
शुद्धित इति ।
शुद्धिद्वारेत्यर्थः ।
अस्तमायान्तीति ।
त्यागमायान्ति - त्यक्तत्रयान्यैव भवन्ति, कृतप्रयोजनत्वादित्यर्थः ।
कृतप्रयोजनानां निवृत्तौ दृष्टान्तमाह —
प्रावृडन्त इति ।
वर्षाकालावसाने इत्यर्थः । विविदिषायां विनियोगपक्षे विविदिषोदयपर्यन्तमेव यज्ञाद्यनुष्ठानमित्यविवादम् ।
विद्यायां विनियोगपक्षेऽप्येवं चेत् कस्तयोर्भेद इति शङ्कते —
कर्मणामिति ।
अनुष्ठाने विशेषाभावेऽपि फलतो विशेषोऽस्तीत्याह —
अयं भेद इति ।
वक्ष्यमाण इत्यर्थः ।
उपरताविति ।
त्यागेऽपीत्यर्थः । अदृष्टद्वारेति शेषः । विविदिषाविनियोगपक्षे हि यज्ञादिकर्मजनितादृष्टं श्रवणादिषु प्रवृत्तिपर्यन्तां विविदिषाशब्दितां रुचिमुत्पाद्य नश्यति, फलैकनाश्यत्वाददृष्टस्य । विविदिषोत्पत्त्यनन्तरं च श्रवणादिप्रतिबन्धकदुरिताभावे सति विविदिषाबलादेव श्रवणादिकं सम्पाद्य विद्यां लभते । श्रवणादिप्रतिबन्धकदुरितसत्त्वे तु तत्सत्त्वं यत्ने कृतेऽपि श्रवणाद्यलाभेन निश्चित्य तन्निवृत्त्युपायमनुतिष्ठति प्रायेण, तन्निवर्तकोपायाननुष्ठाने वा तदनुष्ठानस्यापि विघ्नबाहुल्ये वा श्रवणाद्यसम्भवात् न ज्ञानोदयः । यथा औषदवीर्येणान्नभक्षणे रुच्युत्पत्तौ सत्यामपि अप्रतिबन्धेनान्नलाभे तद्भक्षणेन कार्श्यनिवृत्तिं लभते, तदलाभे तु तल्लाभाय यतते, यत्ने कृतेऽपि यद्यन्नं न लभते तदा न कार्श्यनिवृत्तिं लभते, एवमिहापीत्यभिप्रेत्याह - नावश्यमिति ।
विविदिषाविनियोगपक्षस्य संस्कारे कर्मणां विनियोगपक्षं दृष्टान्तयति —
यस्यैत इति ।
यस्य पुरुषस्य एते-श्रौतस्मार्ता धर्माः चत्वारिंशत्सङ्ख्याकास्संस्काराः सन्ति, शमादिसम्पत्तिश्च वर्तते, तस्य कर्मभिस्संस्कृतस्य विद्याधिकारिणः श्रवणादिसम्पत्तौ सत्यां तत्त्वज्ञानद्वारा परब्रह्मप्राप्तिर्भवति, तदसम्पत्तौ च पुण्यलोकावाप्तिः इति कर्मणां संस्कारकत्वपक्षे यथा ज्ञानोत्पादकत्वनियमो नास्ति, संस्कारजननमात्रेण चरितार्थानां कर्मणां विद्योत्पत्तिपर्यन्तव्यापाराभावात्, तथा तेषां विविदिषार्थत्वपक्षेऽपीत्यर्थः । आत्मज्ञानयोग्यता कार्यकारणसंघातनिष्ठा, तदापादकौ यौ मलापकर्षणगुणाधानलक्षणौ संस्कारौ, तदर्थत्वपक्षे इत्यर्थः । कर्मणां विविदिषार्थत्वपक्षे संस्कारार्थत्वपक्षे च ज्ञानोत्पत्त्यनियमे समानेऽपि विविदिषार्थत्वपक्षे प्रायिकी ज्ञानोत्पत्तिः । तीव्रबुभुक्षाया इव दृढविविदिषायाः सर्वप्रयत्नेन विद्यासम्पादनसमर्थत्वात् । संस्कारार्थत्वपक्षे तु ब्रह्मज्ञानयोग्यतामात्रसिद्धावपि विविदिषाया अप्यनियतत्वेन विद्योत्पत्तिः प्रायिक्यपि न भवतीति विविदिषासंस्कारार्थत्वपक्षयोरपि भेद ऊहनीय इति भावः ।
केषामिति ।
किमाश्रमकर्मणामेव, किं वा अन्येषामपीत्यर्थः ।
नन्वाश्रमधर्माणामपि सर्वेषां विविदिषावाक्ये श्रवणाभावात् तेषामपि न सर्वेषां विनियोगो लभ्यते, तत्राह —
वेदानुवचनेनेति ।
वेदस्य गुरुवचनमनु शिष्यस्य वचनं - वेदानुवचनं - वेदाध्ययनम् । तच्च ब्रह्मचारिधर्माणां मध्ये प्रधानम् । तेन तद्धर्मास्सर्वे गृह्यन्त इत्यर्थः । एवमुत्तरत्रापि प्राधान्यं द्रष्टव्यम् । तपः कृच्छ्रचान्द्रायणादिरूपं वानप्रस्थासाधारणं इह तपश्शब्दरूढ्या भातीति भावः । ‘अनाश्रितः कर्मफलं कार्यं कर्म करोति यः’ [भ.गी.६-१] इत्यादिस्मृतिषु-नित्यं आश्रमिणां कार्यं कर्तव्यं यद्यत् कर्मास्ति, तत् सर्वं फलाभिसन्धिं त्यक्त्वा यः करोति, सः योगपदोदितं पूर्वोक्तचेतश्शुद्धिविविदिषादिरूपं प्रत्यक्प्रावण्यं लभते — इति प्रतिपादनात् तन्मूलभूते विविदिषावाक्येऽपि सर्वेषामाश्रमकर्मणामुपलक्षणं युक्तमिति मन्तव्यम् ।
‘आश्रमकर्मणामेव’ विनियोगः इत्यत्र सौत्रं लिङ्गमाह —
अत एवेति ।
आश्रमकर्मणामेव विनियोगाभ्युपगमादेवेत्यर्थः । आश्रमकर्मणां विविदिषावाक्येन विद्यायां विनियुक्तत्वात् तत्कामनारहितेनाश्रमिणा स्वाश्रमविहितं कर्माननुष्ठेयं - इति शङ्कायां उत्तरं सूत्रम् । तेनापि तत् कर्तव्यमेव, तं प्रति विहितत्वात्, अन्यथा प्रत्यवायप्रसङ्गात् - इति सूत्रार्थो बोध्यः ।
‘अन्येषामपि विनियोगः’ इति पक्षं नित्यकर्ममात्रविषयतया प्रथमं दर्शयति —
कल्पतरौ त्विति ।
कल्पतरौ तूक्तमिति सम्बन्धः । ‘आश्रमधर्मव्यतिरिक्तानामप्यस्ति विद्योपयोगः’ इति कल्पतरुकारमतमयुक्तम्, सूत्रे विद्यार्थकर्मस्वाश्रमकर्मपदप्रयोगविरोधात् । न च सौत्राश्रमकर्मपदस्य वर्णधर्मेष्वप्यजहल्लक्षणोपपत्तेः न तद्विरोध इति वाच्यम् ।
लक्षणायामेव प्रमाणाभावात् — इत्याशङ्क्य, तत्र नियामकं दर्शयति —
नाश्रमधर्माणामेव विद्योपयोग इति ।
‘आश्रमधर्मव्यतिरिक्तानां वर्णधर्माणामप्यस्ति विद्योपयोगः’ इत्येवकारार्थे हेतुमाह —
अन्तरा चापि त्विति ।
विद्यां प्रति बहिरङ्गसाधनेषु कर्मसु अन्तरङ्गसाधनेषु श्रवणादिषु च अनाश्रमिणामधिकारोऽस्ति न वेति सन्देहे सति, नास्त्यधिकार इति पूर्वपक्षः — आश्रमकर्मणामेव विद्यायां विनियुक्तत्वात्, तेषामाश्रमकर्माभावात्, साधनचतुष्टयसम्पन्नस्यैव श्रवणादिष्वधिकाराच्च, अनाश्रमिणां च साधनचतुष्टयान्तर्गतस्योपरतिशब्दितसन्न्यासस्याभावेन तत्सम्पत्त्यभावादिति । सिद्धान्तस्तु — सूत्रे तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । अन्तराशब्दः आश्रमान्तरालमनाश्रमित्वमाह । तथा च अनाश्रमित्वे वर्तमानोऽपि पुरुषः श्रवणादिषु विद्यार्थकर्मसु च अधिक्रियते । कुतः । श्रुतिस्मृतिषु रैक्ववाचक्नवीप्रभृतीनामनाश्रमिणामपि विद्यावत्त्वोपलब्धेः, परिव्राजकस्य श्रवणादिषु मुख्याधिकारेऽपि गृहस्थादीनामिव अनाश्रमिणामपि गौणाधिकारोपपत्तेः । तथा च तदधिकरणे भाष्यं — ‘दृष्टार्था च विद्या प्रतिषेधाभावमात्रेण अर्थिनमधिकरोति श्रवणादिषु’ इति । अविद्यानिवृत्तिः विद्याया दृष्टं फलं, अर्थिनं - अविद्यानिवर्तकसाक्षात्कारार्थिनं अधिकारित्वेन स्वीकरोति ।शूद्रस्येव वेदान्तश्रवणादिष्वनाश्रमिणां प्रतिषेधाभावात् इति भाष्यार्थः । गौणाधिकारे सन्न्यासापेक्षा नास्तीति मत्वा मात्रपदम् । ‘अन्तराचापि’ इत्यधिकरणं अनाश्रमिणां श्रवणाद्यधिकारमात्रनिरूपणपरं, न त्वनाश्रमिकर्मणामपि विद्योपयोगनिरूपणपरम् ।
तथा च सौत्राश्रमकर्मपदस्य वर्णधर्मोपलक्षकत्वं न सिद्ध्यतीति मत्वा शङ्कते —
न च विधुरादीनामिति ।
ननु तेषां विद्यार्थकर्माभावे विविदिषोदयासम्भवात् अनाश्रमिणां श्रवणाधिकारनिरूपणमयुक्तमित्याशङ्क्याह —
प्राग्जन्मेति ।
अनाश्रमिणोऽपि ये जन्मान्तरीयाश्रमकर्मानुष्ठानजनितविविदिषावन्तः सन्न्यासहेतुतीव्रवैराग्याभावात् मुख्याधिकारात् प्रच्युताश्च तेषां श्रवणाधिकारनिरूपणपरं तदधिकरणं, न त्वनाश्रमिमात्रविषयम्, अविविदिषूणां श्रवणादौ प्रवृत्त्यसम्भवादेव इत्यर्थः । इति न च शङ्क्यमिति सम्बन्धः ।
ननु — ‘अन्तरा चापितु’ इति सूत्रे विद्यार्थकर्मसु विधुरादीनामधिकारे श्रुत्यादिषु अनाश्रमिणां रैक्ववाचक्नवीप्रभृतीनां विद्यावत्त्वदर्शनं हेतुत्वेनोक्तं, तदयुक्तम् — रैक्ववाचक्नवीविदुरप्रभृतीनां जन्मान्तरीयविद्यासाधनानुष्ठानबलादेव विद्या जातेति शङ्कासम्भवात् । ‘अतोऽनाश्रमिकर्मणां विद्योपयोगः’ इत्यत्र तेषां विद्यावत्त्वदर्शनमनन्यथासिद्धं लिङ्गं न भवति - इत्यस्वरसात् अनन्यथासिद्धं हेतुमन्यमभिप्रेत्योक्तं —
विशेषानुग्रहश्चेति ।
विशेषैः - धर्मविशेषैःजपादिलक्षणैर्ब्राह्मणत्वादिवर्णमात्रसम्बन्धिभिरपि चित्तशुद्धिविविदिषादिद्वारा आश्रमधर्मैरिव विद्याया अनुग्रहः — उपकारः सम्भवत्येव । कुतः । ‘जप्येनैव तु संसिध्येत् ब्राह्मणो नात्र संशयः ।’ [मनु. २-८७] गङ्गायां स्नानमात्रेण मुच्यते नात्र संशयः । ‘यस्य स्मरणमात्रेण’ [विश्रामोप, म. भा. आनु] इत्यादिवचनैर्जपतीर्थस्नानदेवताध्यानादिधर्माणां शुद्ध्यादिद्वारा विद्यादिसाधनत्वस्य प्रतिपादनात् - इति सूत्रार्थः ।
तदनुष्ठितानामिति ।
अनाश्रमिणः तच्छब्दार्थः ।
एवमनाश्रमिधर्माणामपि सूत्रकारेणैव स्पष्टं विद्योपयोगस्य साधितत्वात् तदविरोधाय सौत्रमाश्रमकर्मपदं वर्णधर्माणामप्युपलक्षकं वाच्यं इत्याशयेनाह —
सूत्र इति ।
एवं कल्पतरुकाराणमभिप्रायमुपवर्ण्य तन्मतमुपपादयति —
आश्रमधर्मेत्यादिना ।
ननु — यज्ञादीनां विनियोगः कल्प्यमानः किं काम्यसाधारणः कल्प्यते, किं वा नित्यानामेव । नाद्यः । काम्यकर्मफलस्य स्वर्गादेः र्विद्यया अनपेक्षितत्वेन तेषां विद्योपकारकत्वासम्भवात् । न द्वितीयः । नित्यकर्मफलस्य दुरितक्षयस्यापि प्रमाणसाध्यविद्यापेक्षितत्वे मानाभावेन तेषामपि विद्याविनियोगानुपपत्तेः — इति शङ्कते —
किं त्विति ।
समाधत्ते —
नित्यानामेवेति ।
‘ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः’ इत्यादिवचनानि नित्यकर्मफलस्य दुरितक्षयस्य विद्ययाऽपेक्षितत्वे प्रमाणत्वेन सूचयति —
हीति ।
प्रमाणजन्यायामपि विद्यायां दुरितस्य प्रतिबन्धकत्वसम्भवात् दुरितक्षयापेक्षा युक्तेति भावः ।
काम्यकर्मणां विद्यानुपकारकत्वमङ्गीकरोति —
नेति ।
न च - काम्यानां नित्यानामिव दुरितक्षयफलकत्वमप्यस्तु, तथा च तेषामपि विद्यापेक्षितदुरितक्षयलक्षणोपकारजनकत्वं सम्भवतीति - वाच्यम् । तेषां दुरितक्षयफलकत्वे मानाभावेन विद्योपकारकत्वस्याकॢप्तत्वादिति भावः ।
कर्मणां विद्यायां विनियोगविधेः कॢप्तोपकारैर्नित्यकर्मभिरेव चारितार्थ्ये दृष्टान्तमाह —
तत्र यथेति ।
यद्वा काम्यानां पापक्षयफलकत्वस्य अन्यतः प्राप्त्यभावेऽपि यज्ञादीनां विनियोगबलादेव तेषां तत् कल्प्यतामिति, नेत्याह —
तत्रेति ।
काम्यकर्मणां विद्यापेक्षितोपकारहेतुत्वाकॢप्तौ सत्यामित्यर्थः ।
न नित्येति ।
गौरवादिति भावः ।
‘आश्रमकर्मव्यतिरिक्तानामपि विनियोगः’ इति पक्षं काम्यसाधारणं दर्शयति —
संक्षेपेति ।
अविशेषादिति ।
यज्ञादिशब्दानां नित्ययज्ञादिष्विव काम्ययज्ञादिष्वपि रूढत्वाविशेषात् नित्यानामिव काम्यानामपि विनियोगः श्रुत्या भातीति तत्साधारण एव कर्मणामुपकारः कल्प्यत इत्यर्थः । काम्यसाधारण्येन विद्योपयोग्युपकारकल्पनं न सम्भवति, तत्कल्पने पूर्वतन्त्रन्यायविरोधात् - इति मत्वा विकृतिष्वतिदिष्टान्यङ्गानि दृष्टान्तत्वेन कल्पतरावुदाहृतानि, न तानि यज्ञादीनां दृष्टान्तत्वेनोदाहरणयोग्यानीत्याह —
प्रकृताविति ।
दर्शपूर्णमासादिषु प्रकृतियागादिषु यः पदार्थानां कॢप्त उपकारः तस्य प्रथममतिदेशः, तत्पृष्ठभावेन पदार्थानां विकृतिषु सौर्यपशुयागादिष्वतिदेशः, न तु प्राकृतपदार्थानामतिदेशेन विकृतिषु विनियोगानन्तरं पदार्थानामुपकारकल्पनं इति न तत्र कॢप्तोपकारपरित्यागेन उपकारान्तरप्रसक्तिरस्तीत्यर्थः । एतदुक्तं भवति — प्रकृते यज्ञादीनां विनियोगानन्तरमुपकारकल्पनम्, अतिदेशस्थले तु प्रकृतावुपकारकल्पनानन्तरं प्राकृतपदार्थानां विकृतिषु विनियोगः, ततो दृष्टान्तो विषमः — इति ।
इह त्विति ।
दार्ष्टान्तिके इत्यर्थः ।
प्रकृतानुगुणं दृष्टान्तमाह —
उपदिष्टानामिति ।
दर्शपूर्णमासादिप्रकरणेष्वन्यत्र वा श्रुतानां पदार्थानां श्रुतिलिङ्गादिभिर्दर्शपूर्णमासादिषु विनियुक्तानां प्रथमावगतविनियोगनिर्वाहाय यथायोग्यं दृष्टादृष्टलक्षण उपकारः कल्प्यते यथा, तथा उपकारोऽत्रापि कल्प्य एव, न तु प्रथमावगतविनियोगपरित्याग उचितः, यज्ञाद्यविशेषश्रुतिबाधप्रसङ्गात् इत्यर्थः ।
सामान्यशब्देति ।
नित्यकाम्यसाधारणयज्ञादिशब्देत्यर्थः ।
यथा कॢप्तोपकारातिरिक्तोपकाराकल्पनं कल्पतरुकारोक्तं मीमांसकसम्मतं, तथा प्रथमावगतविनियोगानुसारेणाकॢप्तोपकारकल्पनमपि मीमांसकसम्मतमेवेत्याह —
अध्वरेति ।
कर्ममीमांसकैरपीत्यर्थः । अध्वरमीमांसकैरपि संप्रतिपद्यैव प्राकृतान्वयः समर्थित इति सम्बन्धः ।
पदार्थान्वय एवेति ।
पदार्थान्वयस्थल एवेत्यर्थः । कॢप्तोपकारनियमः — कॢप्तोपकारातिरिक्तोपकाराकल्पनमित्यर्थः ।
एवकारव्यावर्त्यमाह —
पदार्थान्वयानन्तरमिति ।
उपकारकल्पनेत्विति ।
उपकारकल्पनस्थले त्वित्यर्थः ।
संप्रतिपद्यैवेति ।
स्वीकृत्यैवेत्यर्थः ।
बाधलक्षणेति ।
बाधाध्यायारम्भसिद्ध्यर्थमित्यर्थः ।
प्राकृतान्वय इति ।
प्रकृतियागादौ शेषभूता ये पदार्थाः तेषां विकृतियागादिष्वतिदेशेन प्राप्तिरित्यर्थः । एतदुक्तं भवति — पूर्वतन्त्रे दशमाध्याये विकृतावतिदिष्टानामङ्गानां प्रकृतौकॢप्तस्योपकारस्यासम्भवे बाधो निरूप्यते । तच्च बाधनिरूपणं विकृतिष्वतिदेशेन पदार्थप्राप्त्यनन्तरमुपकारकल्पनपक्षे न सिद्धयति । प्रकृतौ श्रुत्यादिभिर्विनियुक्तपदार्थानां दृष्टोपकारासम्भवे अदृष्टोपकारकल्पनवत् विकृतिष्वप्यतिदेशेन विनियुक्तानां पदार्थानां दृष्ठोपकारासम्भवे अदृष्टोपकारकल्पनया तत्सिद्ध्यर्थं सर्वेषामेवाङ्गानामनुष्ठानावश्यंभावेन केषाञ्चिदङ्गानामननुष्ठानतदंशातिदेशप्रामाण्यरूपबाधासम्भवात् । अतो बाधनिरूपणसिद्ध्यर्थं ‘प्रकृतिकॢप्तोपकारमुखेनैव प्राकृतानामन्वयो विकृतिषु’ इति दशमाध्यायप्रथमाधिकरणे साधितम् । तथा च यत्र पदार्थानां विनियोगानन्तरमुपकारकल्पनं, तत्र तत्पदार्थसामर्थ्यानुसारेण प्रथमावगतविनियोगनिर्वाहाय अकॢप्तोपकारकल्पनं मीमांसकसम्मतमिति प्रतीयते । यदि विनियोगानन्तरं उपकारकल्पनास्थलेऽपि कॢप्तोपकारासम्भवे विनियुक्तपदार्थपरित्याग एव, न त्वकॢप्तोपकारकल्पनं तत्सम्मतं भवेत्, तदा ‘उपकारमुखेनैव पदार्थानामतिदेशः’ इति निरूपणपरमधिकरणं व्यर्थं स्यात् । पदार्थानामेव श्रपणावघातादीनां अतिदेशेन विनियोगेऽपि विकृतिगतकृष्णलादिषु श्रपणादेः विक्लित्तितुषविमोकरूपदृष्टोपकारस्य लोकसिद्धस्याभावात् अकॢप्तोपकारकल्पनानङ्गीकाराच्च श्रपणादेरननुष्ठानादिलक्षणबाधस्य दशमाध्याये निरूपणीयस्य सम्भवेन तदर्थं ‘उपकारमुखेनैव पदार्थानामतिदेशः’ इति निरूपणस्यानपेक्षितत्वात् । तस्मात् विविदिषावाक्येन अविशेषेण नित्यकाम्यसाधारणे विनियोगे प्रथममवगते सति तन्निर्वाहाय अकॢप्तोपकारकल्पनं युक्तमेवेति ।
वस्तुतस्तु नित्यकर्मस्वपि विद्यापेक्षितोपकारजनकत्वकॢप्तिरसिद्धेत्याह —
किञ्चेत्यादिना ।
अलाभादिति ।
काम्येष्विति शेषः ।
नित्यानां विद्यापेक्षितदुरितक्षयलक्षणोपकारद्वारा विद्याहेतुत्वं विविदिषावाक्यादन्यतः सिद्धम्, असिद्धं वा ? तत्र नाद्यः, विविदिषावाक्यवैयर्थ्यप्रसङ्गात् - इत्याह —
नित्येभ्य इति ।
विनियोग इति ।
शेषत्वरूपविनियोगबोधकः शब्द इत्यर्थः ।
द्वितीये नित्येष्वपि विद्योपकारकत्वमकॢप्तमेव कल्पनीयमिति नित्यकाम्यसाधारणोपकारकल्पनं युक्तमेवेत्याह —
अन्यतस्तदसिद्धाविति ।
नित्यानां विद्योपकारकत्वासिद्धावित्यर्थः ।
अन्यतः सिद्धिपक्षमवलम्ब्य विनियोगार्थवत्त्वं शङ्कते —
नन्विति ।
दुरितं तावद्विविधं — ज्ञानोत्पत्तिप्रतिबन्धकं, ज्ञानोत्पत्तिं प्रत्युदासीनं सत् नरकादिप्रदं च । तथा च नित्यानां ज्ञाने विनियोगाभावे ‘नित्यकर्ममिर्ज्ञानप्रतिबन्धकदुरितस्यैव क्षयः’ इत्यत्र नास्ति मानम् । ‘धर्मेण पापमपनुदति’ [म. ना. १७-६] ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’ [भ.गी. १८-५] इत्यादिश्रुतिस्मृतिवचनानां नित्यानां दुरितसामान्यक्षयहेतुत्वबोधनमात्रपरत्वात् । अतो नियमेन ज्ञानप्रतिबन्धकदुरितक्षयहेतुत्वं नित्यकर्मणां अन्यतो न प्राप्तमिति तात्प्राप्त्यर्थोऽयं विनियोग इत्यर्थः ।
‘नित्यैरेव यज्ञादिभिःदुरितक्षयद्वारा ज्ञानं सम्पादयेत्’ इति प्रकारेण विविदिषावाक्यी नित्यानां ज्ञाने विनियोगे सति वा कथं ज्ञानप्रतिबन्धकदुरितस्यैव क्षयो नित्यानुष्ठानतो लभ्यत इति पृच्छति —
किं त्विति ।
तल्लाभप्रकारमाह —
अस्मिन्निति ।
अवश्यमिति ।
नित्यानुष्ठानात् ज्ञानप्रतिबन्धकदुरितक्षये सति प्रतिबन्धकरहितमहावाक्यात् अवश्यं ज्ञानं भवतीत्यर्थः ।
इतरथेति ।
एतद्विनियोगाभावे इत्यर्थः । दुरितसामान्यक्षयरूपा शुद्धिर्भवति, न तु नियमेन ज्ञानप्रतिबन्धकदुरितक्षयरूपशुद्धिविशेषो भवति । ज्ञानोद्देशेन नित्यानामननुष्ठानात् । तथा च बहुजन्मसु नित्यकर्मानुष्ठानशीलस्यापि नियमेन ज्ञानं न जायते, किं तु दैवयोगात् कदाचित् ज्ञानप्रतिबन्धकदुरितसङ्घस्य निश्शेषं क्षयसम्भवात् ज्ञानमपि कदाचित् भवतीति अनियता ज्ञानोत्पत्तिरित्यर्थः ।
‘ज्ञानापेक्षितोपकारो नित्येषु कॢप्तः’ इति मतं निरालम्बनमित्यभिप्रेत्य, काम्येष्विव नित्येष्वप्यकॢप्तोपकारकल्पनं तुल्यमिति दूषयति —
तर्हीति ।
नित्येषु ज्ञानोपकारकत्वनियमासिद्धावित्यर्थः । नन्वेवमपि नित्यानामेव विनियोगपक्षे विधेर्लाघवमस्ति । तेषां, पक्षे ज्ञानप्रतिबन्धकदुरितनिबर्हकत्वस्य वचनान्तरात् प्राप्तत्वेन, नियममात्रस्य विधिलम्यत्वात् । काम्येषु तु ज्ञानप्रतिबन्धकदुरितनिबर्हकत्वं सर्वथा न प्राप्तमिति काम्यानामपि विनियोगपक्षे विधेस्तात्पर्यगौरवमपरिहार्यमिति — चेत्, सत्यम् । तथापि यज्ञादिश्रुतीनां सङ्कोचलक्षणबाधपरिहाराय काम्यानामपि विनियोग आवश्यक इत्यत्रैव तात्पर्यं बोध्यम् ।
नित्येभ्यो ज्ञानप्रतिबन्धकदुरितस्यैवक्षयरूपशुद्धिविशेषलाभेऽपि तावन्मात्रात् न ज्ञानोत्पत्तिरस्ति, प्रमाणप्रमेयासम्भावनादिरूपदृष्टप्रतिबन्धकसत्त्वात्, अतः तन्निरासोपयोगिनामुत्कृष्टगुरुतदधीनश्रवणमननध्यानादीनां संपादकादृष्टजनकत्वं नित्यानामकॢप्तमेव विविदिषावाक्यीयविनियोगबलात् कल्पनीयमित्याह —
ज्ञानसाधनेति ।