अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

कर्मणां विविदिषाविद्याफलकत्वविचारः

परम्परया मुक्तावुक्तं कर्मणामुपयोगं प्रपञ्चयितुं पृच्छति —
क्व तर्हीति ।
तर्हि - ज्ञानवत् साक्षा­न्मु­क्ति­हे­तु­त्वा­भावे सति क्व-विविदिषायां विद्यायां वा साधनत्वं तेषामित्यर्थः । तमेतमिति तच्छब्दः प्रकृ­त­प­र­मा­त्म­परः । एतच्छब्दः नित्या­प­रो­क्ष­जी­व­परः । तथा च जीवाभिन्नं परमात्मानं वेदा­नु­व­च­ना­दि­भि­र्वे­दि­तु­मि­च्छ­न्ती­त्यर्थः । अन­श­ना­दि­ल­क्ष­ण­त­पो­व्या­वृ­त्तये तपसो विशेषणं अनाशकेनेति । तथा च हित­मि­त­मे­ध्या­श­ना­दि­रूपं तपः इह विवक्षितमिति लभ्यते ।

ननु विवि­दि­षा­या­म­पु­म­र्थ­भू­तायां कथं विनियोगः, तत्राह —
विद्या­स­म्पा­द­न­द्वा­रेति ।
ततश्च गौण­पु­रु­षा­र्थत्वं तस्याः­स­म्भ­व­ती­त्यर्थः ।

ननु मुक्तिं प्रति प्रत्या­स­न्न­त्वा­द्वि­द्यायाः तस्यामेव विनियोगः कुतो न कल्प्यते ?श्रुत­त्वा­वि­शे­षात्, कामनाविषयत्वेन श्रुत­स्व­र्गा­दे­रेव कर्म­फ­ल­त­याऽ­न्यत्र स्वीकाराच्च-इति मत्वा शङ्कते —
नन्विति ।

स्वर्ग­का­मा­दि­वा­क्येषु यागा­दे­र्वि­धि­प्र­त्य­ये­ने­ष्ट­सा­ध­नत्वे बोधिते किं तदिष्टमिति विशे­षा­का­ङ्क्षायां सत्यां पुरु­ष­वि­शे­ष­ण­त्वेन श्रुतयोः काम­ना­स्व­र्ग­यो­र­न्य­त­र­स्यापि शब्दतः प्राधान्याभावेन तत्रार्थतः प्राधा­न्य­स्यै­वा­श्र­य­णी­यत्वे स्वतः पुरुषार्थतया स्वर्गस्यैव फलत्वेनान्वयः स्वीकृतः ‘यागः स्वर्गसाधनं’ इति, न तु कामनायाः । इह तु वेदनकामनाया एव फलत्वेनान्वय उचितः, शब्दतः प्रधानत्वात् । अतः फल­प्र­त्या­स­त्त्या­दि­क­म­प्य­कि­ञ्चि­त्करं — इति मत्वा समाधत्ते —
न स्यादिति ।
सन्प्रत्ययः प्रत्य­य­श­ब्दार्थः ।

विविदिषायामेव विनियोग इत्यत्र भाष्यसम्मतिमाह —
विद्या­सं­यो­गा­दिति ।
विद्या­सा­ध­न­त्वा­दि­त्यर्थः ।

प्रत्या­स­न्ना­नीति ।
याद­द्वि­द्यो­द­य­म­नु­ष्ठे­या­नी­त्यर्थः ।

शमादिवैषम्यं कर्मसु दर्शयति —
विवि­दि­षा­सं­यो­गा­त्त्विति ।
तत्सा­ध­न­त्वा­दे­वे­त्यर्थः ।

बाह्यतराणीति ।
विवि­दि­षो­द­य­प­र्य­न्त­मे­वा­नु­ष्ठे­या­नीति यावत् ।

सर्वा­पे­क्षा­धि­क­र­णेति ।
‘विद्योत्पत्तौ सर्वाणि कर्मा­ण्य­पे­क्षि­त­व्यानि’ इति प्रति­पा­द­क­धि­क­र­णे­त्यर्थः ।

विवि­दि­षा­वि­नि­योगं प्रका­रा­न्त­रे­णा­क्षि­पति —
नन्विति ।
वेदनेच्छाया यज्ञादिफलत्वे वेद­ने­च्छा­गो­च­रे­च्छया यज्ञा­द्य­नु­ष्ठानं वाच्यम् । वेदनेच्छायाश्च स्वतः­फ­ल­त्वा­भा­वा­द्वे­द­न­द्वारा मुक्तिफलकत्वं वाच्यम् । तथा चायं क्रमः — प्रथमं मुक्तौ स्वतः पुरु­षा­र्थ­त्व­ज्ञा­ना­दिच्छा, ततो वेदने मुक्ति­सा­ध­न­त्व­ज्ञा­न­दिच्छा, ततो वेदनेच्छायां वेद­न­सा­ध­न­त्व­ज्ञा­ना­दिच्छा, तया च यज्ञा­द्य­नु­ष्ठा­न­मिति ।

तथा च वेद­ने­च्छा­रू­प­वि­वि­दि­षो­द्दे­शेन यज्ञा­द्य­नु­ष्ठाने प्रवर्तमानस्य ब्रह्मवेदने विविदिषाफले किमिच्छाऽस्ति न वा ? आद्ये यज्ञा­द्य­नु­ष्ठा­न­वै­य­र्थ्य­म­भि­प्रे­त्याह —
वेदनगोचरेति ।
वेदनगोचरेच्छाया एव विवि­दि­षा­त्वा­दिति भावः ।

सिद्धत्वेन विविदिषार्थं यज्ञा­द्य­नु­ष्ठा­ना­यो­गा­दिति सम्बन्धः । न द्विती­यः-वि­वि­दि­षा­फले वेदने कामनाया असत्त्वे विविदिषायामपि कामनाया अभावात् विविदिषोद्देशेन यज्ञा­द्य­नु­ष्ठा­ना­योग इत्याह —
तदभाव इति ।
चेदनगोचरेच्छाया अभावे इत्यर्थः । विविदिषार्थं यज्ञा­द्य­नु­ष्ठा­तु­र­स्त्येव वेदनगोचरेच्छा ।

न चैतावता तद­नु­ष्ठा­न­वै­य­र्थ्यम् । विविदिषाया द्वैवि­ध्यो­प­पत्तेः । तथा हि — वेदनेच्छा द्विविधा — विद्या­या­मौ­न्मु­ख्य­ल­क्षणा, रुचिलक्षणा च । तत्राद्या यज्ञा­द्य­नु­ष्ठा­ना­त्प्रा­गपि वेदने वर्तत इति तामादाय वेदनसाधनभूतायां विविदिषायां कामना सम्भवतीति विविदिषार्थं यज्ञा­द्य­नु­ष्ठा­न­मु­प­प­न्नम्, द्वितीया तु यज्ञादिफलभूता तद­नु­ष्ठा­ना­न­न्त­र­भा­वि­नीति युक्त एव विविदिषायां यज्ञादिविनियोगः इति समा­धा­न­म­भि­प्रे­त्याह —
नेति ।

वेदनेच्छायाः द्वैविध्ये यज्ञा­द्य­नु­ष्ठा­नादौ च दृष्टान्तमाह —
अन्नद्वेषेणेति ।

तत्परिहारायेति ।
कार्श्य­प­रि­हा­रा­या­न्न­भ­क्ष­ण­वि­ष­य­को­त्क­टे­च्छायां सत्यामपीत्यर्थः ।

उत्कटेति ।
अधिकेत्यर्थः । धातु­वै­ष­म्य­प्र­यो­ज­का­त्य­न्ता­न­श­ना­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

तत्रेति ।
अन्नभक्षणे इत्यर्थः ।

जायत इति ।
एत­च्चा­नु­भ­व­सि­द्ध­मिति भावः ।

अधी­त­सा­ङ्ग­स्वा­ध्यायः पुरुषो वेद­न्तै­र्ब्र­ह्मणो निर­ति­श­या­न­न्द­रू­पत्वं विद्यायां तत्प्रा­प्ति­सा­ध­नत्वं च ज्ञात्वा तस्मिन्नर्थे सम्पन्नविश्वासो भवतीत्ययुक्तम्, तथाविधानामपि पुरुषाणां बहूनां तस्मिन्नर्थे विश्वा­स­स­म्प­त्ते­र­द­र्श­नात् - इत्याशङ्क्याह —
प्राचीनेति ।
प्राचीनेषु बहुषु जन्मसु अनुष्ठितानि फला­भि­स­न्धि­र­हि­तानि च यानि नित्य­नै­मि­त्ति­क­क­र्माणि, तैरुपसञ्जातो यश्चित्तप्रसादः - शुद्धिविशेषः, तस्य महिम्नेत्यर्थः । तथा च स्मृतिः — ‘मनुष्याणां सहस्त्रेषु कश्चिद्यतति सिद्धये ।’ [भ.गी. ७-३] इति ।

कश्चिदिति ।
उक्त­चिं­त्त­प्र­सा­द­वा­नि­त्यर्थः । सिद्धये — विद्यालाभाय । न सर्व इति भावः ।

ननु ब्रह्म­प्रा­प्ति­त­त्सा­ध­न­वि­द्या­गो­च­रो­त्क­टे­च्छायां सत्यां तत्साधनश्रवणादौ प्रवृ­त्ति­प­र्यन्ता रुचिर्भवेदेवेति कृतं तस्य यज्ञा­द्य­नु­ष्ठा­नेन, तत्राह —
अनादीति ।
दुरितदोषेण प्रतिबन्धात् रुचिर्न जायत इति सम्बन्धः ।

ननु पूर्वो­क्त­चि­त्त­प्र­सा­द­म­हिम्ना ब्रह्मविद्यादौ सम्प­न्न­वि­श्वा­सस्य आस्तिकतमस्य अनर्थबहुले विषयभोगे प्रावण्यं कथं सम्भ­व­ती­त्या­शङ्क्य, अनु­भ­व­सि­द्ध­दृ­ष्टा­न्तेन तत् सम्भावयति —
आस्ति­क­का­मु­क­स्येति ।
‘विहि­ता­नु­ष्ठा­ना­द­वश्यं श्रेयो भवति, निषि­द्ध­क­र­णा­दि­त­श्चा­वश्यं महाननर्थो भवति, शास्त्र­प्रा­मा­ण्यात्’ इति निश्चयवान् आस्तिकः । तस्यापि कस्यचित् कामोद्रेको निन्दि­ता­ग­म्या­ग­म­नादौ प्रावण्यं च यथा पापविशेषात् सम्भवति तथा यथो­क्त­मु­मु­क्षो­र­पी­त्यर्थः ।

प्रतिबन्धेति ।
अना­दि­भ­व­स­ञ्चि­ता­ने­क­दु­रि­त­दो­ष­कृ­त­प्र­ति­ब­न्धे­त्यर्थः ।

तत्सम्पादकेति ।
विविदिषाशब्दिता या श्रवणादौ प्रवृ­त्ति­प­र्यन्ता रुचिः तत्स­म्पा­द­के­त्यर्थः ।

‘क्व तर्हि कर्मणामुपयोगः’ इत्यत्र प्रश्ने विद्यायां विनियोग इति प्रति­व­च­ना­न्त­र­म­व­ता­र­यति —
विवरणेति ।
पूर्वत्र यज्ञादीनां तृतीयाश्रुत्या साध­न­त्वे­ना­व­ग­तानां साध्या­का­ङ्क्षायां विविदिषैव साध्य­त्वे­ना­न्वेति, तस्याः शब्दतः प्रधानत्वात् । शब्दतः प्रधानस्यैव पदार्थस्य ‘राजपुरुषमानय’ इत्यादौ सर्वत्र सम­भि­व्या­हृ­त­प­दा­र्था­न्त­रे­णा­न्व­यस्य व्युत्प­त्ति­सि­द्ध­त्वात् - इत्याशयेन यज्ञादीनां विविदिषायां विनियोग उक्तः ।

तत्रास्वरसं दर्शयन् विद्यायां तेषां विनि­यो­ग­मु­प­पा­द­यति —
प्रकृतीति ।
प्रकृ­ति­प्र­त्य­या­र्थयोः - वेदनतदिच्छ योर्मध्ये प्रत्ययार्थस्य - विवि­दि­षा­ल­क्ष­णस्य प्रत्य­या­र्थ­त्वात् शब्दतः प्राधान्यम् । ततश्च विविदिषाया एव यज्ञा­दि­फ­ल­त्वे­ना­न्वयः - इत्यत्र हेतुभूतो यस्सा­मा­न्य­न्यायः राज­पु­रु­ष­मा­न­ये­त्यादौ प्रसिद्धः ‘शब्दतः प्रधानस्यैव सम­भि­व्या­हृ­त­क्रि­या­का­र­का­न्वयः’ इत्येवंरूपः तस्मादित्यर्थः । विधि­प्र­त्य­ये­ने­ष्ट­सा­ध­न­त्वे­ना­व­ग­त­या­गा­दे­रि­ष्ट­वि­शे­षा­का­ङ्क्षायां सत्यां शब्दतः प्राधा­न्या­भा­वेऽपि स्वर्गस्य फलत्वेनान्वयः कॢप्त इत्यर्थः ।

शाब्द­प्रा­धा­न्या­भा­वा­वि­शेषे कामनाया एव यागा­दि­फ­ल­त्वे­ना­न्वयः कुतो न कल्पितः, तत्राह —
इच्छाविषयतयेति ।
इच्छाविषयत्वस्य फल­त्व­व्य­ञ्ज­क­त्वात् पुरुषार्थत्वेन प्रतीतस्य स्वर्गस्यैव फलत्वं न कामनाया इत्यर्थः ।

ननु कामनाविषयत्वस्य मुक्ति­सा­धा­र­ण­त्वात् सैव यागादिफलं कस्मान्न कल्प्यते, तत्राह —
शब्दबोध्य इति ।
‘शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते’ इति न्याया­न्ना­ति­प्र­सङ्गः । तथा च ‘इच्छे­ष्य­मा­ण­स­म­भि­व्या­हारे इष्यमाणस्यैव प्राधान्यं न त्विच्छायाः’ इति विशेषन्यायेन उक्त­सा­मा­न्य­न्या­य­बा­धस्य कामो­प­ब­न्ध­वा­क्येषु कॢप्तत्वात् ‘विविदिषति’ इत्यत्रापि प्रत्य­या­र्थ­त्व­प्र­युक्तं विवि­दि­षा­या­श्शा­ब्द­प्रा­धान्यं त्यक्त्वा वेद­न­प्रा­धा­न्य­मे­वा­द­र­णी­य­मि­त्यर्थः ।

इच्छा­वा­चि­स­न्प्र­त्य­य­स­म­भि­व्या­हृ­ते­ष्वेव लौकि­क­वै­दि­क­प्र­यो­गेषु प्रत्ययार्थतया प्रधा­न­भू­ता­म­पी­च्छा­मु­ल्लङ्घ्य तद्विषयेष्वेव सम­भि­व्या­हृ­त­प­दा­र्था­न्त­रा­न्व­य­द­र्श­ना­च्च-इ­त्याह —
अश्वेनेति ।

तद­न्वे­ष्ट­व्य­मिति ।
तत् - दहराकाशाख्यं ब्रह्म विचा­र्य­मि­त्यर्थः ।

विजि­ज्ञा­सि­त­व्य­मिति ।
तदेव ब्रह्म ध्यात­व्य­मि­त्यर्थः ।

निदिध्यासितव्य इति ।
आत्मा ध्यातव्य इत्यर्थः । ननु उदाहृतप्रयोगेषु इच्छायाः अश्वा­दि­सा­ध­ना­द्य­न्व­या­यो­ग्य­त्वा­त्तस्याः परित्याग इति चेत्, तर्हि प्रकृ­तेऽ­पि­वे­द­ने­च्छा­या­स्त­द­यो­ग्य­त्वात् ब्रह्मवेदनस्य च ब्रह्मा­न­न्द­सा­क्षा­त्का­र­रू­प­तया फलत्वेनान्वेतुं योग्यत्वात् वेदन एव यज्ञाद्यन्वयः न विविदिषायामिति तुल्यमिति भावः ।

विद्या­वि­नि­यो­ग­पक्षे विध्यन्तरविरोधं शङ्कते —
नन्विति ।
कर्माणि त्यजतैव मुमुक्षुणा त्यक्तुः स्वस्य प्रत्य­गा­त्म­स्व­रूपं पदं ब्रह्म साक्षा­त्क­र्तव्यं, न त्वत्यजता - इति श्रुत्यर्थः । ‘अथ परिव्राट्’ इत्युपक्रम्य ‘ब्रह्मभूयाय कल्पते’ [जा.उ.५] इत्यन्तेन श्रुत्य­न्त­रे­णापि परि­व्रा­ट्छ­ब्दो­पा­त्त­स­न्न्या­सस्य ब्रह्म­भू­य­श­ब्दि­त­ब्र­ह्म­सा­क्षा­त्का­र­हे­तु­त्व­मु­क्तम्, एवं श्रुत्य­न्त­रे­ष्वपि - इत्यभिप्रेत्य आदिपदं द्रष्टव्यम् ।

विवि­दि­षा­वा­क्य­स­न्न्या­स­वि­ध्यो­र­वि­रोधं सदृष्टान्तं सप्रमाणं च दर्शयति —
न - प्रागिति ।
वचने कारणपदद्वयं कर्तव्यार्थकम् । शमः - सन्न्यासः । चेत­श्शु­द्धि­वि­वि­दि­षा­दि­रू­प­प्र­त्य­क्प्रा­व­ण्ये­त्ये­तत् गीता­व­च­न­ग­त­यो­ग­प­द­व्या­ख्या­न­मिति बोध्यम् ।

रागा­दि­रा­हि­त्य­रू­प­चि­त्त­शु­द्धि­वि­वि­दि­षा­वै­रा­ग्य­गु­रु­दे­व­ता­दि­भ­क्ति­ल­क्ष­ण­प्र­त्य­क्प्रा­व­ण्य­ज­न्म­प­र्यन्तं कर्मानुष्ठानं - इत्यत्र सुरे­श्व­रा­चा­र्य­स­म्म­ति­माह —
उक्तं हीति ।

शुद्धित इति ।
शुद्धि­द्वा­रे­त्यर्थः ।

अस्तमायान्तीति ।
त्यागमायान्ति - त्यक्त­त्र­या­न्यैव भवन्ति, कृत­प्र­यो­ज­न­त्वा­दि­त्यर्थः ।

कृतप्रयोजनानां निवृत्तौ दृष्टान्तमाह —
प्रावृडन्त इति ।
वर्षाकालावसाने इत्यर्थः । विविदिषायां विनियोगपक्षे विवि­दि­षो­द­य­प­र्य­न्त­मेव यज्ञा­द्य­नु­ष्ठा­न­मि­त्य­वि­वा­दम् ।

विद्यायां विनि­यो­ग­प­क्षेऽ­प्येवं चेत् कस्तयोर्भेद इति शङ्कते —
कर्मणामिति ।

अनुष्ठाने विशेषाभावेऽपि फलतो विशे­षोऽ­स्ती­त्याह —
अयं भेद इति ।
वक्ष्यमाण इत्यर्थः ।

उपरताविति ।
त्यागेऽ­पी­त्यर्थः । अदृष्टद्वारेति शेषः । विवि­दि­षा­वि­नि­यो­ग­पक्षे हि यज्ञा­दि­क­र्म­ज­नि­ता­दृष्टं श्रवणादिषु प्रवृ­त्ति­प­र्यन्तां विवि­दि­षा­श­ब्दितां रुचिमुत्पाद्य नश्यति, फलै­क­ना­श्य­त्वा­द­दृ­ष्टस्य । विवि­दि­षो­त्प­त्त्य­न­न्तरं च श्रव­णा­दि­प्र­ति­ब­न्ध­क­दु­रि­ता­भावे सति विविदिषाबलादेव श्रवणादिकं सम्पाद्य विद्यां लभते । श्रव­णा­दि­प्र­ति­ब­न्ध­क­दु­रि­त­सत्त्वे तु तत्सत्त्वं यत्ने कृतेऽपि श्रवणाद्यलाभेन निश्चित्य तन्नि­वृ­त्त्यु­पा­य­म­नु­ति­ष्ठति प्रायेण, तन्नि­व­र्त­को­पा­या­न­नु­ष्ठाने वा तदनुष्ठानस्यापि विघ्नबाहुल्ये वा श्रव­णा­द्य­स­म्भ­वात् न ज्ञानोदयः । यथा औष­द­वी­र्ये­णा­न्न­भ­क्षणे रुच्युत्पत्तौ सत्यामपि अप्र­ति­ब­न्धे­ना­न्न­लाभे तद्भक्षणेन कार्श्य­नि­वृत्तिं लभते, तदलाभे तु तल्लाभाय यतते, यत्ने कृतेऽपि यद्यन्नं न लभते तदा न कार्श्य­नि­वृत्तिं लभते, एव­मि­हा­पी­त्य­भि­प्रे­त्याह - नावश्यमिति ।

विवि­दि­षा­वि­नि­यो­ग­प­क्षस्य संस्कारे कर्मणां विनियोगपक्षं दृष्टान्तयति —
यस्यैत इति ।
यस्य पुरुषस्य एते-श्रौ­त­स्मार्ता धर्माः चत्वा­रिं­श­त्स­ङ्ख्या­का­स्सं­स्काराः सन्ति, शमा­दि­स­म्प­त्तिश्च वर्तते, तस्य कर्म­भि­स्सं­स्कृ­तस्य विद्याधिकारिणः श्रव­णा­दि­स­म्पत्तौ सत्यां तत्त्व­ज्ञा­न­द्वारा पर­ब्र­ह्म­प्रा­प्ति­र्भ­वति, तदसम्पत्तौ च पुण्य­लो­का­वाप्तिः इति कर्मणां संस्का­र­क­त्व­पक्षे यथा ज्ञानो­त्पा­द­क­त्व­नि­यमो नास्ति, संस्का­र­ज­न­न­मा­त्रेण चरितार्थानां कर्मणां विद्यो­त्प­त्ति­प­र्य­न्त­व्या­पा­रा­भा­वात्, तथा तेषां विवि­दि­षा­र्थ­त्व­प­क्षेऽ­पी­त्यर्थः । आत्म­ज्ञा­न­यो­ग्यता कार्य­का­र­ण­सं­घा­त­निष्ठा, तदापादकौ यौ मला­प­क­र्ष­ण­गु­णा­धा­न­ल­क्षणौ संस्कारौ, तदर्थत्वपक्षे इत्यर्थः । कर्मणां विवि­दि­षा­र्थ­त्व­पक्षे संस्का­रा­र्थ­त्व­पक्षे च ज्ञानो­त्प­त्त्य­नि­यमे समानेऽपि विवि­दि­षा­र्थ­त्व­पक्षे प्रायिकी ज्ञानोत्पत्तिः । तीव्रबुभुक्षाया इव दृढविविदिषायाः सर्वप्रयत्नेन विद्या­स­म्पा­द­न­स­म­र्थ­त्वात् । संस्का­रा­र्थ­त्व­पक्षे तु ब्रह्म­ज्ञा­न­यो­ग्य­ता­मा­त्र­सि­द्धा­वपि विविदिषाया अप्यनियतत्वेन विद्योत्पत्तिः प्रायिक्यपि न भवतीति विवि­दि­षा­सं­स्का­रा­र्थ­त्व­प­क्ष­यो­रपि भेद ऊहनीय इति भावः ।

केषामिति ।
किमा­श्र­म­क­र्म­णा­मेव, किं वा अन्ये­षा­म­पी­त्यर्थः ।

नन्वा­श्र­म­ध­र्मा­णा­मपि सर्वेषां विविदिषावाक्ये श्रवणाभावात् तेषामपि न सर्वेषां विनियोगो लभ्यते, तत्राह —
वेदानुवचनेनेति ।
वेदस्य गुरुवचनमनु शिष्यस्य वचनं - वेदानुवचनं - वेदाध्ययनम् । तच्च ब्रह्म­चा­रि­ध­र्माणां मध्ये प्रधानम् । तेन तद्धर्मास्सर्वे गृह्यन्त इत्यर्थः । एवमुत्तरत्रापि प्राधान्यं द्रष्टव्यम् । तपः कृच्छ्र­चा­न्द्रा­य­णा­दि­रूपं वान­प्र­स्था­सा­धा­रणं इह तपश्शब्दरूढ्या भातीति भावः । ‘अनाश्रितः कर्मफलं कार्यं कर्म करोति यः’ [भ.गी.६-१] इत्या­दि­स्मृ­ति­षु-नित्यं आश्रमिणां कार्यं कर्तव्यं यद्यत् कर्मास्ति, तत् सर्वं फलाभिसन्धिं त्यक्त्वा यः करोति, सः योगपदोदितं पूर्वो­क्त­चे­त­श्शु­द्धि­वि­वि­दि­षा­दि­रूपं प्रत्य­क्प्रा­वण्यं लभते — इति प्रतिपादनात् तन्मूलभूते विवि­दि­षा­वा­क्येऽपि सर्वे­षा­मा­श्र­म­क­र्म­णा­मु­प­ल­क्षणं युक्तमिति मन्तव्यम् ।

‘आश्र­म­क­र्म­णा­मेव’ विनियोगः इत्यत्र सौत्रं लिङ्गमाह —
अत एवेति ।
आश्रमकर्मणामेव विनि­यो­गा­भ्यु­प­ग­मा­दे­वे­त्यर्थः । आश्रमकर्मणां विविदिषावाक्येन विद्यायां विनियुक्तत्वात् तत्का­म­ना­र­हि­ते­ना­श्र­मिणा स्वाश्रमविहितं कर्माननुष्ठेयं - इति शङ्कायां उत्तरं सूत्रम् । तेनापि तत् कर्तव्यमेव, तं प्रति विहितत्वात्, अन्यथा प्रत्य­वा­य­प्र­स­ङ्गात् - इति सूत्रार्थो बोध्यः ।

‘अन्येषामपि विनियोगः’ इति पक्षं नित्य­क­र्म­मा­त्र­वि­ष­य­तया प्रथमं दर्शयति —
कल्पतरौ त्विति ।
कल्पतरौ तूक्तमिति सम्बन्धः । ‘आश्र­म­ध­र्म­व्य­ति­रि­क्ता­ना­म­प्यस्ति विद्योपयोगः’ इति कल्प­त­रु­का­र­म­त­म­यु­क्तम्, सूत्रे विद्या­र्थ­क­र्म­स्वा­श्र­म­क­र्म­प­द­प्र­यो­ग­वि­रो­धात् । न च सौत्रा­श्र­म­क­र्म­प­दस्य वर्ण­ध­र्मे­ष्व­प्य­ज­ह­ल्ल­क्ष­णो­प­पत्तेः न तद्विरोध इति वाच्यम् ।

लक्षणायामेव प्रमाणाभावात् — इत्याशङ्क्य, तत्र नियामकं दर्शयति —
नाश्र­म­ध­र्मा­णा­मेव विद्योपयोग इति ।

‘आश्र­म­ध­र्म­व्य­ति­रि­क्तानां वर्ण­ध­र्मा­णा­म­प्यस्ति विद्योपयोगः’ इत्येवकारार्थे हेतुमाह —
अन्तरा चापि त्विति ।
विद्यां प्रति बहिरङ्गसाधनेषु कर्मसु अन्तरङ्गसाधनेषु श्रवणादिषु च अना­श्र­मि­णा­म­धि­का­रोऽस्ति न वेति सन्देहे सति, नास्त्यधिकार इति पूर्वपक्षः — आश्रमकर्मणामेव विद्यायां विनि­यु­क्त­त्वात्, तेषा­मा­श्र­म­क­र्मा­भा­वात्, साध­न­च­तु­ष्ट­य­स­म्प­न्न­स्यैव श्रव­णा­दि­ष्व­धि­का­राच्च, अनाश्रमिणां च साध­न­च­तु­ष्ट­या­न्त­र्ग­त­स्यो­प­र­ति­श­ब्दि­त­स­न्न्या­स­स्या­भा­वेन तत्स­म्प­त्त्य­भा­वा­दिति । सिद्धान्तस्तु — सूत्रे तुशब्दः पूर्व­प­क्ष­व्या­वृ­त्त्यर्थः । अन्तराशब्दः आश्र­मा­न्त­रा­ल­म­ना­श्र­मि­त्व­माह । तथा च अनाश्रमित्वे वर्तमानोऽपि पुरुषः श्रवणादिषु विद्यार्थकर्मसु च अधिक्रियते । कुतः । श्रुतिस्मृतिषु रैक्व­वा­च­क्न­वी­प्र­भृ­ती­ना­म­ना­श्र­मि­णा­मपि विद्या­व­त्त्वो­प­लब्धेः, परिव्राजकस्य श्रवणादिषु मुख्याधिकारेऽपि गृहस्थादीनामिव अनाश्रमिणामपि गौणा­धि­का­रो­प­पत्तेः । तथा च तदधिकरणे भाष्यं — ‘दृष्टार्था च विद्या प्रति­षे­धा­भा­व­मा­त्रेण अर्थिनमधिकरोति श्रवणादिषु’ इति । अवि­द्या­नि­वृत्तिः विद्याया दृष्टं फलं, अर्थिनं - अवि­द्या­नि­व­र्त­क­सा­क्षा­त्का­रा­र्थिनं अधिकारित्वेन स्वीकरोति ।शूद्रस्येव वेदा­न्त­श्र­व­णा­दि­ष्व­ना­श्र­मिणां प्रतिषेधाभावात् इति भाष्यार्थः । गौणाधिकारे सन्न्यासापेक्षा नास्तीति मत्वा मात्रपदम् । ‘अन्तराचापि’ इत्यधिकरणं अनाश्रमिणां श्रव­णा­द्य­धि­का­र­मा­त्र­नि­रू­प­ण­परं, न त्वना­श्र­मि­क­र्म­णा­मपि विद्यो­प­यो­ग­नि­रू­प­ण­प­रम् ।

तथा च सौत्रा­श्र­म­क­र्म­प­दस्य वर्ण­ध­र्मो­प­ल­क्ष­कत्वं न सिद्ध्यतीति मत्वा शङ्कते —
न च विधुरादीनामिति ।

ननु तेषां विद्या­र्थ­क­र्मा­भावे विवि­दि­षो­द­या­स­म्भ­वात् अनाश्रमिणां श्रव­णा­धि­का­र­नि­रू­प­ण­म­यु­क्त­मि­त्या­श­ङ्क्याह —
प्राग्जन्मेति ।
अनाश्रमिणोऽपि ये जन्मा­न्त­री­या­श्र­म­क­र्मा­नु­ष्ठा­न­ज­नि­त­वि­वि­दि­षा­वन्तः सन्न्या­स­हे­तु­ती­व्र­वै­रा­ग्या­भा­वात् मुख्याधिकारात् प्रच्युताश्च तेषां श्रव­णा­धि­का­र­नि­रू­प­ण­परं तदधिकरणं, न त्वना­श्र­मि­मा­त्र­वि­ष­यम्, अविविदिषूणां श्रवणादौ प्रवृ­त्त्य­स­म्भ­वा­देव इत्यर्थः । इति न च शङ्क्यमिति सम्बन्धः ।

ननु — ‘अन्तरा चापितु’ इति सूत्रे विद्यार्थकर्मसु विधु­रा­दी­ना­म­धि­कारे श्रुत्यादिषु अनाश्रमिणां रैक्व­वा­च­क्न­वी­प्र­भृ­तीनां विद्या­व­त्त्व­द­र्शनं हेतुत्वेनोक्तं, तदयुक्तम् — रैक्व­वा­च­क्न­वी­वि­दु­र­प्र­भृ­तीनां जन्मा­न्त­री­य­वि­द्या­सा­ध­ना­नु­ष्ठा­न­ब­ला­देव विद्या जातेति शङ्कासम्भवात् । ‘अतोऽ­ना­श्र­मि­क­र्मणां विद्योपयोगः’ इत्यत्र तेषां विद्या­व­त्त्व­द­र्श­न­म­न­न्य­था­सिद्धं लिङ्गं न भवति - इत्यस्वरसात् अनन्यथासिद्धं हेतु­म­न्य­म­भि­प्रे­त्योक्तं —
विशे­षा­नु­ग्र­ह­श्चेति ।
विशेषैः - धर्म­वि­शे­षैः­ज­पा­दि­ल­क्ष­णै­र्ब्रा­ह्म­ण­त्वा­दि­व­र्ण­मा­त्र­स­म्ब­न्धि­भि­रपि चित्त­शु­द्धि­वि­वि­दि­षा­दि­द्वारा आश्रमधर्मैरिव विद्याया अनुग्रहः — उपकारः सम्भवत्येव । कुतः । ‘जप्येनैव तु संसिध्येत् ब्राह्मणो नात्र संशयः ।’ [मनु. २-८७] गङ्गायां स्नानमात्रेण मुच्यते नात्र संशयः । ‘यस्य स्मरणमात्रेण’ [विश्रामोप, म. भा. आनु] इत्या­दि­व­च­नै­र्ज­प­ती­र्थ­स्ना­न­दे­व­ता­ध्या­ना­दि­ध­र्माणां शुद्ध्या­दि­द्वारा विद्या­दि­सा­ध­न­त्वस्य प्रतिपादनात् - इति सूत्रार्थः ।

तद­नु­ष्ठि­ता­ना­मिति ।
अनाश्रमिणः तच्छब्दार्थः ।

एव­म­ना­श्र­मि­ध­र्मा­णा­मपि सूत्रकारेणैव स्पष्टं विद्योपयोगस्य साधितत्वात् तदविरोधाय सौत्र­मा­श्र­म­क­र्म­पदं वर्ण­ध­र्मा­णा­म­प्यु­प­ल­क्षकं वाच्यं इत्याशयेनाह —
सूत्र इति ।

एवं कल्प­त­रु­का­रा­ण­म­भि­प्रा­य­मु­प­वर्ण्य तन्मतमुपपादयति —
आश्र­म­ध­र्मे­त्या­दिना ।

ननु — यज्ञादीनां विनियोगः कल्प्यमानः किं काम्यसाधारणः कल्प्यते, किं वा नित्यानामेव । नाद्यः । काम्यकर्मफलस्य स्वर्गादेः र्विद्यया अनपेक्षितत्वेन तेषां विद्यो­प­का­र­क­त्वा­स­म्भ­वात् । न द्वितीयः । नित्यकर्मफलस्य दुरितक्षयस्यापि प्रमा­ण­सा­ध्य­वि­द्या­पे­क्षि­तत्वे मानाभावेन तेषामपि विद्या­वि­नि­यो­गा­नु­प­पत्तेः — इति शङ्कते —
किं त्विति ।

समाधत्ते —
नित्यानामेवेति ।

‘ज्ञान­मु­त्प­द्यते पुंसां क्षयात् पापस्य कर्मणः’ इत्यादिवचनानि नित्यकर्मफलस्य दुरितक्षयस्य विद्य­याऽ­पे­क्षि­तत्वे प्रमाणत्वेन सूचयति —
हीति ।
प्रमा­ण­ज­न्या­या­मपि विद्यायां दुरितस्य प्रति­ब­न्ध­क­त्व­स­म्भ­वात् दुरि­त­क्ष­या­पेक्षा युक्तेति भावः ।

काम्यकर्मणां विद्या­नु­प­का­र­क­त्व­म­ङ्गी­क­रोति —
नेति ।
न च - काम्यानां नित्यानामिव दुरि­त­क्ष­य­फ­ल­क­त्व­म­प्यस्तु, तथा च तेषामपि विद्या­पे­क्षि­त­दु­रि­त­क्ष­य­ल­क्ष­णो­प­का­र­ज­न­कत्वं सम्भवतीति - वाच्यम् । तेषां दुरि­त­क्ष­य­फ­ल­कत्वे मानाभावेन विद्यो­प­का­र­क­त्व­स्या­कॢ­प्त­त्वा­दिति भावः ।

कर्मणां विद्यायां विनियोगविधेः कॢप्तो­प­का­रै­र्नि­त्य­क­र्म­भि­रेव चारितार्थ्ये दृष्टान्तमाह —
तत्र यथेति ।

यद्वा काम्यानां पाप­क्ष­य­फ­ल­क­त्वस्य अन्यतः प्राप्त्य­भा­वेऽपि यज्ञादीनां विनियोगबलादेव तेषां तत् कल्प्यतामिति, नेत्याह —
तत्रेति ।
काम्यकर्मणां विद्या­पे­क्षि­तो­प­का­र­हे­तु­त्वा­कॢप्तौ सत्यामित्यर्थः ।

न नित्येति ।
गौरवादिति भावः ।

‘आश्र­म­क­र्म­व्य­ति­रि­क्ता­ना­मपि विनियोगः’ इति पक्षं काम्यसाधारणं दर्शयति —
संक्षेपेति ।

अविशेषादिति ।
यज्ञादिशब्दानां नित्य­य­ज्ञा­दि­ष्विव काम्य­य­ज्ञा­दि­ष्वपि रूढत्वाविशेषात् नित्यानामिव काम्यानामपि विनियोगः श्रुत्या भातीति तत्साधारण एव कर्मणामुपकारः कल्प्यत इत्यर्थः । काम्यसाधारण्येन विद्यो­प­यो­ग्यु­प­का­र­क­ल्पनं न सम्भवति, तत्कल्पने पूर्व­त­न्त्र­न्या­य­वि­रो­धात् - इति मत्वा विकृ­ति­ष्व­ति­दि­ष्टा­न्य­ङ्गानि दृष्टान्तत्वेन कल्प­त­रा­वु­दा­हृ­तानि, न तानि यज्ञादीनां दृष्टा­न्त­त्वे­नो­दा­ह­र­ण­यो­ग्या­नी­त्याह —
प्रकृताविति ।
दर्श­पू­र्ण­मा­सा­दिषु प्रकृतियागादिषु यः पदार्थानां कॢप्त उपकारः तस्य प्रथममतिदेशः, तत्पृष्ठभावेन पदार्थानां विकृतिषु सौर्य­प­शु­या­गा­दि­ष्व­ति­देशः, न तु प्राकृ­त­प­दा­र्था­ना­म­ति­दे­शेन विकृतिषु विनियोगानन्तरं पदा­र्था­ना­मु­प­का­र­क­ल्पनं इति न तत्र कॢप्तो­प­का­र­प­रि­त्या­गेन उप­का­रा­न्त­र­प्र­स­क्ति­र­स्ती­त्यर्थः । एतदुक्तं भवति — प्रकृते यज्ञादीनां विनि­यो­गा­न­न्त­र­मु­प­का­र­क­ल्प­नम्, अतिदेशस्थले तु प्रकृ­ता­वु­प­का­र­क­ल्प­ना­न­न्तरं प्राकृ­त­प­दा­र्थानां विकृतिषु विनियोगः, ततो दृष्टान्तो विषमः — इति ।

इह त्विति ।
दार्ष्टान्तिके इत्यर्थः ।

प्रकृतानुगुणं दृष्टान्तमाह —
उपदिष्टानामिति ।
दर्श­पू­र्ण­मा­सा­दि­प्र­क­र­णे­ष्व­न्यत्र वा श्रुतानां पदार्थानां श्रुति­लि­ङ्गा­दि­भि­र्द­र्श­पू­र्ण­मा­सा­दिषु विनियुक्तानां प्रथ­मा­व­ग­त­वि­नि­यो­ग­नि­र्वा­हाय यथायोग्यं दृष्टा­दृ­ष्ट­ल­क्षण उपकारः कल्प्यते यथा, तथा उपकारोऽत्रापि कल्प्य एव, न तु प्रथ­मा­व­ग­त­वि­नि­यो­ग­प­रि­त्याग उचितः, यज्ञा­द्य­वि­शे­ष­श्रु­ति­बा­ध­प्र­स­ङ्गात् इत्यर्थः ।

सामान्यशब्देति ।
नित्य­का­म्य­सा­धा­र­ण­य­ज्ञा­दि­श­ब्दे­त्यर्थः ।

यथा कॢप्तो­प­का­रा­ति­रि­क्तो­प­का­रा­क­ल्पनं कल्पतरुकारोक्तं मीमांसकसम्मतं, तथा प्रथ­मा­व­ग­त­वि­नि­यो­गा­नु­सा­रे­णा­कॢ­प्तो­प­का­र­क­ल्प­न­मपि मीमां­स­क­स­म्म­त­मे­वे­त्याह —
अध्वरेति ।
कर्म­मी­मां­स­कै­र­पी­त्यर्थः । अध्व­र­मी­मां­स­कै­रपि संप्रतिपद्यैव प्राकृतान्वयः समर्थित इति सम्बन्धः ।

पदार्थान्वय एवेति ।
पदार्थान्वयस्थल एवेत्यर्थः । कॢप्तोपकारनियमः — कॢप्तो­प­का­रा­ति­रि­क्तो­प­का­रा­क­ल्प­न­मि­त्यर्थः ।

एव­का­र­व्या­व­र्त्य­माह —
पदा­र्था­न्व­या­न­न्त­र­मिति ।

उप­का­र­क­ल्प­ने­त्विति ।
उपकारकल्पनस्थले त्वित्यर्थः ।

संप्र­ति­प­द्यै­वेति ।
स्वीकृ­त्यै­वे­त्यर्थः ।

बाधलक्षणेति ।
बाधा­ध्या­या­र­म्भ­सि­द्ध्य­र्थ­मि­त्यर्थः ।

प्राकृतान्वय इति ।
प्रकृतियागादौ शेषभूता ये पदार्थाः तेषां विकृ­ति­या­गा­दि­ष्व­ति­दे­शेन प्राप्ति­रि­त्यर्थः । एतदुक्तं भवति — पूर्वतन्त्रे दशमाध्याये विकृ­ता­व­ति­दि­ष्टा­ना­म­ङ्गानां प्रकृ­तौ­कॢ­प्त­स्यो­प­का­र­स्या­स­म्भवे बाधो निरूप्यते । तच्च बाधनिरूपणं विकृ­ति­ष्व­ति­दे­शेन पदा­र्थ­प्रा­प्त्य­न­न्त­र­मु­प­का­र­क­ल्प­न­पक्षे न सिद्धयति । प्रकृतौ श्रुत्या­दि­भि­र्वि­नि­यु­क्त­प­दा­र्थानां दृष्टो­प­का­रा­स­म्भवे अदृ­ष्टो­प­का­र­क­ल्प­न­वत् विकृ­ति­ष्व­प्य­ति­दे­शेन विनियुक्तानां पदार्थानां दृष्ठो­प­का­रा­स­म्भवे अदृ­ष्टो­प­का­र­क­ल्प­नया तत्सिद्ध्यर्थं सर्वे­षा­मे­वा­ङ्गा­ना­म­नु­ष्ठा­ना­व­श्यं­भा­वेन केषा­ञ्चि­द­ङ्गा­ना­म­न­नु­ष्ठा­न­त­दं­शा­ति­दे­श­प्रा­मा­ण्य­रू­प­बा­धा­स­म्भ­वात् । अतो बाध­नि­रू­प­ण­सि­द्ध्यर्थं ‘प्रकृ­ति­कॢ­प्तो­प­का­र­मु­खे­नैव प्राकृ­ता­ना­म­न्वयो विकृतिषु’ इति दश­मा­ध्या­य­प्र­थ­मा­धि­क­रणे साधितम् । तथा च यत्र पदार्थानां विनि­यो­गा­न­न्त­र­मु­प­का­र­क­ल्पनं, तत्र तत्प­दा­र्थ­सा­म­र्थ्या­नु­सा­रेण प्रथ­मा­व­ग­त­वि­नि­यो­ग­नि­र्वा­हाय अकॢ­प्तो­प­का­र­क­ल्पनं मीमां­स­क­स­म्म­त­मिति प्रतीयते । यदि विनियोगानन्तरं उप­का­र­क­ल्प­ना­स्थ­लेऽपि कॢप्तो­प­का­रा­स­म्भवे विनि­यु­क्त­प­दा­र्थ­प­रि­त्याग एव, न त्वकॢ­प्तो­प­का­र­क­ल्पनं तत्सम्मतं भवेत्, तदा ‘उपकारमुखेनैव पदा­र्था­ना­म­ति­देशः’ इति निरूपणपरमधिकरणं व्यर्थं स्यात् । पदार्थानामेव श्रप­णा­व­घा­ता­दीनां अतिदेशेन विनियोगेऽपि विकृ­ति­ग­त­कृ­ष्ण­ला­दिषु श्रपणादेः विक्लि­त्ति­तु­ष­वि­मो­क­रू­प­दृ­ष्टो­प­का­रस्य लोक­सि­द्ध­स्या­भा­वात् अकॢ­प्तो­प­का­र­क­ल्प­ना­न­ङ्गी­का­राच्च श्रप­णा­दे­र­न­नु­ष्ठा­ना­दि­ल­क्ष­ण­बा­धस्य दशमाध्याये निरूपणीयस्य सम्भवेन तदर्थं ‘उपकारमुखेनैव पदा­र्था­ना­म­ति­देशः’ इति निरू­प­ण­स्या­न­पे­क्षि­त­त्वात् । तस्मात् विविदिषावाक्येन अविशेषेण नित्य­का­म्य­सा­धा­रणे विनियोगे प्रथममवगते सति तन्निर्वाहाय अकॢ­प्तो­प­का­र­क­ल्पनं युक्तमेवेति ।

वस्तुतस्तु नित्यकर्मस्वपि विद्या­पे­क्षि­तो­प­का­र­ज­न­क­त्व­कॢ­प्ति­र­सि­द्धे­त्याह —
किञ्चेत्यादिना ।

अलाभादिति ।
काम्येष्विति शेषः ।

नित्यानां विद्या­पे­क्षि­त­दु­रि­त­क्ष­य­ल­क्ष­णो­प­का­र­द्वारा विद्याहेतुत्वं विवि­दि­षा­वा­क्या­द­न्यतः सिद्धम्, असिद्धं वा ? तत्र नाद्यः, विवि­दि­षा­वा­क्य­वै­य­र्थ्य­प्र­स­ङ्गात् - इत्याह —
नित्येभ्य इति ।

विनियोग इति ।
शेष­त्व­रू­प­वि­नि­यो­ग­बो­धकः शब्द इत्यर्थः ।

द्वितीये नित्येष्वपि विद्यो­प­का­र­क­त्व­म­कॢ­प्त­मेव कल्पनीयमिति नित्य­का­म्य­सा­धा­र­णो­प­का­र­क­ल्पनं युक्तमेवेत्याह —
अन्य­त­स्त­द­सि­द्धा­विति ।
नित्यानां विद्यो­प­का­र­क­त्वा­सि­द्धा­वि­त्यर्थः ।

अन्यतः सिद्धि­प­क्ष­म­व­लम्ब्य विनि­यो­गा­र्थ­वत्त्वं शङ्कते —
नन्विति ।
दुरितं तावद्विविधं — ज्ञानो­त्प­त्ति­प्र­ति­ब­न्धकं, ज्ञानोत्पत्तिं प्रत्युदासीनं सत् नरकादिप्रदं च । तथा च नित्यानां ज्ञाने विनियोगाभावे ‘नित्य­क­र्म­मि­र्ज्ञा­न­प्र­ति­ब­न्ध­क­दु­रि­त­स्यैव क्षयः’ इत्यत्र नास्ति मानम् । ‘धर्मेण पापमपनुदति’ [म. ना. १७-६] ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’ [भ.गी. १८-५] इत्या­दि­श्रु­ति­स्मृ­ति­व­च­नानां नित्यानां दुरि­त­सा­मा­न्य­क्ष­य­हे­तु­त्व­बो­ध­न­मा­त्र­प­र­त्वात् । अतो नियमेन ज्ञान­प्र­ति­ब­न्ध­क­दु­रि­त­क्ष­य­हे­तुत्वं नित्यकर्मणां अन्यतो न प्राप्तमिति तात्प्रा­प्त्य­र्थोऽयं विनियोग इत्यर्थः ।

‘नित्यैरेव यज्ञा­दि­भिः­दु­रि­त­क्ष­य­द्वारा ज्ञानं सम्पादयेत्’ इति प्रकारेण विविदिषावाक्यी नित्यानां ज्ञाने विनियोगे सति वा कथं ज्ञान­प्र­ति­ब­न्ध­क­दु­रि­त­स्यैव क्षयो नित्यानुष्ठानतो लभ्यत इति पृच्छति —
किं त्विति ।

तल्लाभप्रकारमाह —
अस्मिन्निति ।

अवश्यमिति ।
नित्या­नु­ष्ठा­नात् ज्ञान­प्र­ति­ब­न्ध­क­दु­रि­त­क्षये सति प्रति­ब­न्ध­क­र­हि­त­म­हा­वा­क्यात् अवश्यं ज्ञानं भवतीत्यर्थः ।

इतरथेति ।
एत­द्वि­नि­यो­गा­भावे इत्यर्थः । दुरि­त­सा­मा­न्य­क्ष­य­रूपा शुद्धिर्भवति, न तु नियमेन ज्ञान­प्र­ति­ब­न्ध­क­दु­रि­त­क्ष­य­रू­प­शु­द्धि­वि­शेषो भवति । ज्ञानोद्देशेन नित्या­ना­म­न­नु­ष्ठा­नात् । तथा च बहुजन्मसु नित्य­क­र्मा­नु­ष्ठा­न­शी­ल­स्यापि नियमेन ज्ञानं न जायते, किं तु दैवयोगात् कदाचित् ज्ञान­प्र­ति­ब­न्ध­क­दु­रि­त­स­ङ्घस्य निश्शेषं क्षयसम्भवात् ज्ञानमपि कदाचित् भवतीति अनियता ज्ञानो­त्प­त्ति­रि­त्यर्थः ।

‘ज्ञाना­पे­क्षि­तो­प­कारो नित्येषु कॢप्तः’ इति मतं निरा­ल­म्ब­न­मि­त्य­भि­प्रेत्य, काम्येष्विव नित्ये­ष्व­प्य­कॢ­प्तो­प­का­र­क­ल्पनं तुल्यमिति दूषयति —
तर्हीति ।
नित्येषु ज्ञानो­प­का­र­क­त्व­नि­य­मा­सि­द्धा­वि­त्यर्थः । नन्वेवमपि नित्यानामेव विनियोगपक्षे विधेर्लाघवमस्ति । तेषां, पक्षे ज्ञान­प्र­ति­ब­न्ध­क­दु­रि­त­नि­ब­र्ह­क­त्वस्य वचनान्तरात् प्राप्तत्वेन, नियममात्रस्य विधिलम्यत्वात् । काम्येषु तु ज्ञान­प्र­ति­ब­न्ध­क­दु­रि­त­नि­ब­र्ह­कत्वं सर्वथा न प्राप्तमिति काम्यानामपि विनियोगपक्षे विधे­स्ता­त्प­र्य­गौ­र­व­म­प­रि­हा­र्य­मिति — चेत्, सत्यम् । तथापि यज्ञा­दि­श्रु­तीनां सङ्को­च­ल­क्ष­ण­बा­ध­प­रि­हा­राय काम्यानामपि विनियोग आवश्यक इत्यत्रैव तात्पर्यं बोध्यम् ।

नित्येभ्यो ज्ञान­प्र­ति­ब­न्ध­क­दु­रि­त­स्यै­व­क्ष­य­रू­प­शु­द्धि­वि­शे­ष­ला­भेऽपि तावन्मात्रात् न ज्ञानो­त्प­त्ति­रस्ति, प्रमा­ण­प्र­मे­या­स­म्भा­व­ना­दि­रू­प­दृ­ष्ट­प्र­ति­ब­न्ध­क­स­त्त्वात्, अतः तन्नि­रा­सो­प­यो­गि­ना­मु­त्कृ­ष्ट­गु­रु­त­द­धी­न­श्र­व­ण­म­न­न­ध्या­ना­दीनां संपा­द­का­दृ­ष्ट­ज­न­कत्वं नित्या­ना­म­कॢ­प्त­मेव विवि­दि­षा­वा­क्यी­य­वि­नि­यो­ग­ब­लात् कल्पनीयमित्याह —
ज्ञानसाधनेति ।