अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

सम्बन्धवादः

आक्षिपति —
अत्रेति ।
उक्तपक्षेषु मध्ये इत्यर्थः ।

क इति ।
स्वरूपलक्षणो वा तादात्म्यलक्षणो वा संयोगलक्षणो वेति किंशब्दार्थः । तत्र न तावदाद्यः वृत्त्यधीनः, जीवचैतन्यस्य सर्वगतत्वेन विष­य­दे­श­स­न्नि­हि­त­जी­व­चै­त­न्य­वि­ष­ययोः स्वरू­पा­त्म­क­स­म्ब­न्धस्य वृत्तिं विनापि सिद्धत्वात् - इत्याशयेन सर्व­ग­त­स्ये­त्यु­क्तम् ।

द्वितीयतृतीयौ क्रमेण दूषयति —
वृत्त्यापीति ।

लोके ययोः पदा­र्थ­यो­स्ता­दा­त्म्य­म­नु­भू­यते तत् तयोरादित आर­भ्यै­वा­नु­भू­यते, न तु मध्ये आगन्तुकं - इत्याशयेनाह —
पूर्व­सि­द्ध­यो­रिति ।

संयो­ग­स्या­न्य­त­र­क­र्म­जत्वं उभयकर्मजत्वं वा वक्तव्यम्, तदुभयं प्रकृते न सम्भवतीत्याह —
निष्क्रिययोरिति ।
न च सुवर्णादौ द्विवि­ध­क­र्मा­भा­वेऽपि तेजः­पा­र्थि­व­भा­गयोः संयोगो दृष्ट इति वाच्यम् । तथा विष­य­जी­व­चै­त­न्य­यो­रा­दित आरभ्य संयोगाभ्युपगमे तस्य वृत्त्य­धी­न­त्व­प्र­ति­पा­द­न­वि­रो­धा­दिति भावः । वृत्त्या­प्या­धानं न सम्भवतीति सम्बन्धः । जीवचैतन्यस्य अनुपादानतया निरवयतया च विष­य­जी­व­चै­त­न्य­यो­स्ता­दा­त्म्य­सं­योगौ स्वतो न स्त एव, वृत्त्यापि तयोराधानं न सम्भ­व­ती­त्य­पि­श­ब्दार्थः । आधानं उत्पादनमिति बोध्यम् ।

विषयदेशे सन्निहितस्य जीवचैतन्यस्य वृत्त्यु­त्पत्तेः पूर्वं विष­य­वि­ष­यि­भा­व­ल­क्षणः सम्बन्धो नाभूत्, तदु­त्प­त्त्य­न­न्तरं स जायते, तस्या­ति­रि­क्त­स्या­नि­र्व­च­नी­यस्य सम्भवात् - इत्याशयेनाह —
अत्र केचिदाहुरिति ।
न तु स्वरू­प­स­म्ब­न्धस्य वा तादात्म्यस्य वा संयोगस्य वा वृत्त्य­धी­न­त्व­मु­पे­यते, येनोक्तदोषः स्यात्, इत्येवकारार्थः ।

परोक्षस्थले अनु­मि­त्या­दि­वृ­त्त्यु­प­हि­त­जी­व­चै­त­न्यस्य अनुमेयादिविषयैः सह विष­य­वि­ष­यि­भा­व­ल­क्ष­ण­स­म्ब­न्धस्य वृत्तिनिर्गमनं विनाऽपि सिद्धान्ते स्वीकारात् वृत्ति­नि­र्ग­म­न­मु­प­ग­च्छतां विवरणकाराणामयं सम्बन्धो नाभिप्रेत इत्याह —
विष­य­वि­ष­यि­भा­व­मात्र इति ।
परो­क्ष­स्थ­ल­सा­धा­र­ण­वि­ष­य­वि­ष­यि­भावे एवेत्यर्थः ।

तन्नि­या­म­क­त्व­मिति ।
विष­य­वि­ष­यि­भा­व­स­म्बन्धः तच्छब्दार्थः । वृत्ति­नि­र्ग­म­ना­भा­वेऽपि यद्विषया वृत्तिर्जीवस्य स एव तस्य प्रकाश्यो नान्यः इति नियमसिद्धेः विष­या­न्त­र­प्र­का­श­क­त्वा­प­त्ति­रू­पा­ति­प्र­सङ्गो नास्तीत्यर्थः ।

संयोगादेरपि निरस्तत्वात् कस्स­म्ब­न्ध­स्त­द­भि­मत इति पृच्छति —
किं त्विति ।

अभिमतसम्बन्धमाह —
विषयसन्निहितेति ।
विषयव्यापितया उत्पन्नां वृत्तिं प्रति विष­य­स­न्नि­हि­त­जी­व­चै­त­न्य­स्या­धि­ष्ठा­न­तया वृत्ते­स्त­त्ता­दात्म्यं बोध्यम् ।

तस्यापीति ।
विष­य­स­न्नि­हि­त­जी­व­चै­त­न्य­स्यापि विष­या­व­भा­स­क­त्वे­ना­भि­म­तस्य विषयेण सह वृत्ति­वि­ष­य­सं­यो­ग­द्वा­रकः परम्परासम्बन्धः विष­य­सं­यु­क्त­वृ­त्ति­ता­दा­त्म्य­ल­क्षणो लभ्यत इत्यर्थः । उक्तसम्बन्धस्य वृत्तिनिर्गमनं विना असम्भवात् तन्निर्गमनं विव­र­णा­चा­र्यै­र­क्त­मिति भावः । सुखा­दे­रा­न्त­र­प­दा­र्थ­स्या­प­रो­क्षत्वे तत्प्र­का­श­क­जी­व­चै­त­न्येन सह तस्य साक्षा­त्स­म्बन्धः प्रयोजकत्वेन कॢप्तः । एवं बाह्य­घ­टा­दी­ना­मा­प­रो­क्ष्येऽपि साक्षात्सम्बन्ध एषितव्यः । अन्यथा विषयापरोक्ष्ये क्वचित् साक्षा­त्स­म्बन्धः क्वचित् परम्परासम्बन्धः प्रयोजक इति वैरूप्यापत्तेः, सम्भवति सक्षात्सम्बन्धे पर­म्प­रा­स­म्ब­न्ध­क­ल्प­ना­यो­गाच्च ।

तस्मा­न्ना­य­म­प्या­चा­र्या­भि­म­त­स्स­म्बन्ध इत्याह —
अपरे त्विति ।

तस्मादिति ।
पर­म्प­रा­स­म्ब­न्ध­स्या­न­भि­म­त­त्वा­दि­त्यर्थः ।

वृत्तेरिति ।
वृत्तेर्विषयेण संयोगे सति वृत्त्यु­पा­दा­न­जी­व­चै­त­न्य­स्यापि विषयेण सह संयो­ग­ज­सं­यो­ग­स्स­म्भ­वति । एतदुक्तं भवति - जीवचैतन्यस्य वृत्तिः कार्यम्, अकार्यं विषयः । वृत्ते­र्जी­व­चै­त­न्य­मु­पा­दा­न­का­र­णम् । तस्या वृत्तेर्विषयो नोपादानकारणम् । तथा च वृत्ति­वि­ष­य­यो­र्जी­व­चै­तन्यं प्रति कार्या­का­र्य­यो­स्सं­यो­गात् जीव­चै­त­न्य­वि­ष­ययोः वृत्तिं प्रति कार­णा­का­र­ण­यो­स्सं­यो­गोऽत्र संयोगजसंयोगो विवक्षित इति ।

ननु कायं प्रति कारणभूतहस्तस्य तं प्रत्ये­वा­का­र­ण­भू­त­त­रुणा संयोगात् हस्तकार्यकायस्य हस्ताकार्यतरुणा सह संयोगः उपेयते, इस्त­त­रु­सं­यो­ग­द­शायां तरौ ‘हस्तावच्छेदेन तरुः कायसंयुत्तः’ इत्यनुभवात् इत्याशङ्क्य, प्रकृते घटादौ विषये वृत्ति­सं­यो­ग­द­शायां घटे ‘वृत्त्यवच्छे देन घटः स्फुरति’ इति जीव­चै­त­न्य­सं­सृ­ष्ट­त्वा­नु­भ­वात्, इत्याशयेनाह —
कारणाकारणेति ।

युक्ति­तौ­ल्ये­नेति ।
उभयत्र कल्प­का­नु­भ­व­रू­पाया युक्तेः­तु­ल्य­त्वे­ने­त्यर्थः । ननु - विषयदेशे सन्निहितस्यापि जीवचैतन्यस्य वृत्त्यु­पा­दा­नत्वं विव­र­णा­चा­र्या­णा­म­भि­मतं न भवति, जीव­स्या­न्तः­क­र­णा­द्यु­पा­दा­न­त्वा­भा­वेऽपि सास्त्रा­दि­म­द्व्यक्तौ गोत्व­सा­मा­न्य­स्येव स्वभावादेव जीव­स्या­न्तः­क­र­णादौ सम्बन्धः इत्यस्यार्थस्य ‘एवं विषयासङ्ग्यपि जीवः स्वभा­वा­द­न्तः­क­र­णेन संसृज्यते’ इत्यत्र प्राक् विवरणमतत्वेन प्रति­पा­दि­त­त्वात् ।

ततश्च जीवचैतन्यस्य वृत्तिं प्रत्यु­पा­दा­न­का­र­ण­त्वा­भावे सति उक्तसम्बन्धो न सिद्ध्यतीति संयोगजसंयोगोऽपि नाचार्यसम्मतः - इत्यस्वरसादाह —
एकदेशिनस्त्विति ।
घटा­दि­वि­ष­या­व­भा­स­क­जी­व­चै­त­न्यस्य घटादिना विषयेण सह तादा­त्म्य­स­म्ब­न्ध­स­म्पा­द­न­मेव चिदु­प­रा­ग­त्वे­ना­भि­म­त­मि­त्यर्थः ।

ननु ‘वृत्त्यापि पूर्व­सि­द्ध­यो­र्वि­ष­य­चै­त­न्य­यो­स्ता­दा­त्म्यस्य न सम्भवत्याधानम्’ इति प्रागुक्तत्वात् कथं तत्सम्पादनम्, अत आह —
विष­य­ता­दा­त्म्या­प­न्नेति ।
बिम्ब­भू­त­ब्र­ह्म­चै­त­न्यस्य घटा­दि­वि­ष­यो­पा­दा­न­तया ब्रह्म­वि­ष­य­यो­स्ता­दात्म्यं प्रागेव सिद्धम् । तथा च विष­य­ता­दा­त्म्या­प­न्न­ब्र­ह्म­चै­त­न्येन सह विष­या­व­भा­स­क­जी­व­चै­त­न्यस्य वृत्ति­कृ­ता­भे­दा­भि­व्यक्तौ सत्यां जीवचैतन्यस्य विषयतादात्म्यं वृत्त्यधीनतया लभ्यते । अभे­दा­भि­व्य­क्ति­प्र­का­रश्च वक्ष्यते । अतो न तादा­त्म्य­स­म्पा­द­ना­नु­प­प­त्ति­रिति भावः ।

विष­या­व­मा­स­क­जी­व­चै­त­न्यस्य अन्तः­क­र­णो­प­हि­त­स्ये­ति­य­द्वि­शे­षणं तस्य प्रयोजनमाह —
सर्वगततयेति ।

तेनेति ।
सर्व­ग­त­त्वे­ने­त्यर्थः ।

तस्येति ।
जीवस्येत्यर्थः ।

साधारणतयेति ।
सर्व­पु­रु­ष­सा­धा­र­ण­त­ये­त्यर्थः । पुरुषपदं प्रमातृपरम् । अवि­द्या­प्र­ति­बिम्बो जीव इति पक्षे जीवभेदाभावात् । [अयोगेन] तस्येति । जीवस्येत्यर्थः । सर्वगतमपि जीवचैतन्यं यस्य पुरु­ष­स्या­न्तः­क­र­णो­प­हितं सत् यमर्थमवभासयति सोऽर्थ­स्त­स्यै­वा­प­रोक्षः नान्यस्य इति व्यव­स्थि­ति­सि­द्धये अन्तः­क­र­णो­प­हि­त­त्व­वि­शे­षणं वाच्यमित्यर्थः ।

एकदेशिमते लाभमाह —
एवं चेति ।
विष­या­व­भा­स­क­जी­व­चै­त­न्यस्य वृत्त्या विष­य­ता­दा­त्म्य­स­म्पा­द­नो­प­गमे सतीत्यर्थः ।

आध्यसिकेति ।
अध्या­स­सि­द्ध­ता­दा­त्म्य­स­म्बन्ध इत्यर्थः ।

न चैवमिति ।
सम्बन्धार्था वृत्तिरिति प्रथमपक्षेऽपि वृत्त्या अभे­दा­भि­व्य­क्त्यु­प­गमे इत्यर्थः ।

साङ्कर्यं परिहरति —
जीवस्येति ।
जीवस्य सर्वगतत्वमते सम्बन्धार्था वृत्तिरिति प्रथमः पक्षः, जीव­स्या­न्तः­क­र­णो­पा­धि­क­तया परि­च्छि­न्न­त्व­मते अभे­दा­भि­व्य­क्त्यर्था वृत्तिरिति द्वितीयः पक्षः, इत्यर्थः । अयं भावः — प्रथ­म­द्वि­ती­य­प­क्ष­यो­रु­भ­यो­र्वृ­त्ति­कृ­ता­भे­दा­भि­व्य­क्ति­सा­म्येऽपि प्रथमपक्षे वृत्तिः अभे­दा­भि­व्य­क्ति­द्वारा विष­या­व­भा­स­क­जी­व­चै­त­न्यस्य विषयेण सह तादा­त्म्य­स­म्ब­न्ध­स­म्पा­द­नार्था, द्वितीयपक्षे तु वृत्तिः विष­या­व­भा­स­क­जी­व­चै­त­न्यस्य विष­या­व­च्छि­न्न­चै­त­न्ये­ना­भे­दा­भि­व्य­क्त्य­र्थैव इति न तयोः पक्ष­यो­स्सा­ङ्क­र्य­मिति । यद्वा प्रथमपक्षे जीवस्य व्यापकतया विषयदेशे सदा सन्निहितस्यैव विष­या­व­भा­स­क­जी­व­चै­त­न्यस्य विष­य­ता­दा­त्म्या­प­न्न­ब्र­ह्म­चै­त­न्या­भे­दा­भि­व्य­क्त्यर्था वृत्तिः । द्वितीयपक्षे तु जीवस्य परिच्छिन्नतया वृत्तिः तस्य विषयसन्निधिं सम्पाद्य विष­या­धि­ष्ठा­न­ब्र­ह्म­चै­त­न्या­भे­दा­भि­व्य­क्ति­मपि सम्पादयतीति तयोः पक्षयोः असाङ्कर्यम् । अयं परिहारो मूले सर्व­ग­त­त्व­प­रि­च्छि­न्न­त्व­पा­दाभ्यां सूचितः । पूर्वपरिहारस्तु प्रथ­म­प­क्ष­द्वि­ती­य­प­क्ष­पा­दाभ्यां सूचितः । सम्बन्धार्था वृत्तिरिति प्रथमपक्षे सम्ब­न्ध­स्यो­द्दे­श्य­त्वा­व­ग­मात्, अभे­दा­भि­व्य­क्त्यर्था वृत्तिरिति द्वितीयपक्षे अभे­दा­भि­व्य­क्ते­रे­वो­द्दे­श्य­त्वा­व­ग­मात् इति । अत्र मते विवक्षितविवेकेन वृत्तेः अभे­दा­भि­व्य­क्ति­रेव प्रयोजनं प्रथ­म­द्वि­ती­य­प­क्षयोः पर्यवस्यतीति तयोः साङ्कर्यं दुर्वारं इत्यभिप्रेत्य आदावेव एकदेशिन इत्युक्तमिति मन्तव्यम् । वस्तुतस्तु सम्बन्धार्था वृत्तिरिति वद­ता­मा­चा­र्या­णा­म­य­म­भि­प्रायः - विष­या­व­भा­स­क­त्वे­ना­भि­म­तस्य जीवचैतन्यस्य विषयेण घटादिना सह व्यङ्ग्य­व्य­ञ्ज­क­ता­ल­क्षणः सम्बन्धः तत्त­द्वि­ष­य­सं­सृ­ष्ट­वृ­त्त्य­धी­नोऽत्र विवक्षितः । तथा हि - अन्तःकरणं स्वच्छ­द्र­व्य­त्वात् स्वत एव चैत­न्या­भि­व्य­ञ्ज­न­स­म­र्थम् । घटादिकं तु तथा न भवति । अस्व­च्छ­द्र­व्य­त्वात् । घटा­दि­वि­ष­य­व्या­प्तया तु वृत्त्या तत्र विद्य­मा­न­म­स्वा­च्छ्य­म­भि­भूय चैतः­या­भि­व्य­ञ्ज­न­यो­ग्यता आधीयते । तदुक्तं विवरणाचार्यैरेव — ‘अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैत­न्या­भि­व्य­क्ति­यो­ग्य­ता­मा­पा­द­यति’ इति । दृष्टं च अस्वच्छस्यापि स्वच्छ­द्र­व्य­सं­स­र्गात् प्रति­बि­म्ब­ग्रा­हि­त्व­यो­ग्य­त्वम् । यथा कुड्यादेः जलसंयोगकाले प्रति­बि­म्ब­ग्रा­हि­त्वम् । घटादेः स्वस­न्नि­हि­त­जी­व­चै­त­न्य­व्य­ञ्ज­कत्वं च तत्प्र­ति­बि­म्ब­ग्रा­हि­त्वम् । चैतन्यस्यापि व्यङ्ग्यत्वं तत्र प्रति­बि­म्ब­त­त्व­मेव । एवं­वि­ध­व्य­ङ्ग्य­व्य­ञ्ज­क­ता­ल­क्ष­ण­स­म्ब­न्धा­र्थ­मेव वृत्ते­र्नि­र्ग­म­न­मुक्तं विवरणे । तथा च वृत्त्या बहिर्निर्गतया विष­य­चै­त­न्य­यो­र्य­थो­क्त­स­म्बन्धे सम्पादिते सति घटादौ प्रतिबिम्बितं तत्र­त्य­जी­व­चै­तन्यं तमवभासयतीति ।