कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
सम्बन्धवादः
आक्षिपति —
अत्रेति ।
उक्तपक्षेषु मध्ये इत्यर्थः ।
क इति ।
स्वरूपलक्षणो वा तादात्म्यलक्षणो वा संयोगलक्षणो वेति किंशब्दार्थः । तत्र न तावदाद्यः वृत्त्यधीनः, जीवचैतन्यस्य सर्वगतत्वेन विषयदेशसन्निहितजीवचैतन्यविषययोः स्वरूपात्मकसम्बन्धस्य वृत्तिं विनापि सिद्धत्वात् - इत्याशयेन सर्वगतस्येत्युक्तम् ।
द्वितीयतृतीयौ क्रमेण दूषयति —
वृत्त्यापीति ।
लोके ययोः पदार्थयोस्तादात्म्यमनुभूयते तत् तयोरादित आरभ्यैवानुभूयते, न तु मध्ये आगन्तुकं - इत्याशयेनाह —
पूर्वसिद्धयोरिति ।
संयोगस्यान्यतरकर्मजत्वं उभयकर्मजत्वं वा वक्तव्यम्, तदुभयं प्रकृते न सम्भवतीत्याह —
निष्क्रिययोरिति ।
न च सुवर्णादौ द्विविधकर्माभावेऽपि तेजःपार्थिवभागयोः संयोगो दृष्ट इति वाच्यम् । तथा विषयजीवचैतन्ययोरादित आरभ्य संयोगाभ्युपगमे तस्य वृत्त्यधीनत्वप्रतिपादनविरोधादिति भावः । वृत्त्याप्याधानं न सम्भवतीति सम्बन्धः । जीवचैतन्यस्य अनुपादानतया निरवयतया च विषयजीवचैतन्ययोस्तादात्म्यसंयोगौ स्वतो न स्त एव, वृत्त्यापि तयोराधानं न सम्भवतीत्यपिशब्दार्थः । आधानं उत्पादनमिति बोध्यम् ।
विषयदेशे सन्निहितस्य जीवचैतन्यस्य वृत्त्युत्पत्तेः पूर्वं विषयविषयिभावलक्षणः सम्बन्धो नाभूत्, तदुत्पत्त्यनन्तरं स जायते, तस्यातिरिक्तस्यानिर्वचनीयस्य सम्भवात् - इत्याशयेनाह —
अत्र केचिदाहुरिति ।
न तु स्वरूपसम्बन्धस्य वा तादात्म्यस्य वा संयोगस्य वा वृत्त्यधीनत्वमुपेयते, येनोक्तदोषः स्यात्, इत्येवकारार्थः ।
परोक्षस्थले अनुमित्यादिवृत्त्युपहितजीवचैतन्यस्य अनुमेयादिविषयैः सह विषयविषयिभावलक्षणसम्बन्धस्य वृत्तिनिर्गमनं विनाऽपि सिद्धान्ते स्वीकारात् वृत्तिनिर्गमनमुपगच्छतां विवरणकाराणामयं सम्बन्धो नाभिप्रेत इत्याह —
विषयविषयिभावमात्र इति ।
परोक्षस्थलसाधारणविषयविषयिभावे एवेत्यर्थः ।
तन्नियामकत्वमिति ।
विषयविषयिभावसम्बन्धः तच्छब्दार्थः । वृत्तिनिर्गमनाभावेऽपि यद्विषया वृत्तिर्जीवस्य स एव तस्य प्रकाश्यो नान्यः इति नियमसिद्धेः विषयान्तरप्रकाशकत्वापत्तिरूपातिप्रसङ्गो नास्तीत्यर्थः ।
संयोगादेरपि निरस्तत्वात् कस्सम्बन्धस्तदभिमत इति पृच्छति —
किं त्विति ।
अभिमतसम्बन्धमाह —
विषयसन्निहितेति ।
विषयव्यापितया उत्पन्नां वृत्तिं प्रति विषयसन्निहितजीवचैतन्यस्याधिष्ठानतया वृत्तेस्तत्तादात्म्यं बोध्यम् ।
तस्यापीति ।
विषयसन्निहितजीवचैतन्यस्यापि विषयावभासकत्वेनाभिमतस्य विषयेण सह वृत्तिविषयसंयोगद्वारकः परम्परासम्बन्धः विषयसंयुक्तवृत्तितादात्म्यलक्षणो लभ्यत इत्यर्थः । उक्तसम्बन्धस्य वृत्तिनिर्गमनं विना असम्भवात् तन्निर्गमनं विवरणाचार्यैरक्तमिति भावः । सुखादेरान्तरपदार्थस्यापरोक्षत्वे तत्प्रकाशकजीवचैतन्येन सह तस्य साक्षात्सम्बन्धः प्रयोजकत्वेन कॢप्तः । एवं बाह्यघटादीनामापरोक्ष्येऽपि साक्षात्सम्बन्ध एषितव्यः । अन्यथा विषयापरोक्ष्ये क्वचित् साक्षात्सम्बन्धः क्वचित् परम्परासम्बन्धः प्रयोजक इति वैरूप्यापत्तेः, सम्भवति सक्षात्सम्बन्धे परम्परासम्बन्धकल्पनायोगाच्च ।
तस्मान्नायमप्याचार्याभिमतस्सम्बन्ध इत्याह —
अपरे त्विति ।
तस्मादिति ।
परम्परासम्बन्धस्यानभिमतत्वादित्यर्थः ।
वृत्तेरिति ।
वृत्तेर्विषयेण संयोगे सति वृत्त्युपादानजीवचैतन्यस्यापि विषयेण सह संयोगजसंयोगस्सम्भवति । एतदुक्तं भवति - जीवचैतन्यस्य वृत्तिः कार्यम्, अकार्यं विषयः । वृत्तेर्जीवचैतन्यमुपादानकारणम् । तस्या वृत्तेर्विषयो नोपादानकारणम् । तथा च वृत्तिविषययोर्जीवचैतन्यं प्रति कार्याकार्ययोस्संयोगात् जीवचैतन्यविषययोः वृत्तिं प्रति कारणाकारणयोस्संयोगोऽत्र संयोगजसंयोगो विवक्षित इति ।
ननु कायं प्रति कारणभूतहस्तस्य तं प्रत्येवाकारणभूततरुणा संयोगात् हस्तकार्यकायस्य हस्ताकार्यतरुणा सह संयोगः उपेयते, इस्ततरुसंयोगदशायां तरौ ‘हस्तावच्छेदेन तरुः कायसंयुत्तः’ इत्यनुभवात् इत्याशङ्क्य, प्रकृते घटादौ विषये वृत्तिसंयोगदशायां घटे ‘वृत्त्यवच्छे देन घटः स्फुरति’ इति जीवचैतन्यसंसृष्टत्वानुभवात्, इत्याशयेनाह —
कारणाकारणेति ।
युक्तितौल्येनेति ।
उभयत्र कल्पकानुभवरूपाया युक्तेःतुल्यत्वेनेत्यर्थः । ननु - विषयदेशे सन्निहितस्यापि जीवचैतन्यस्य वृत्त्युपादानत्वं विवरणाचार्याणामभिमतं न भवति, जीवस्यान्तःकरणाद्युपादानत्वाभावेऽपि सास्त्रादिमद्व्यक्तौ गोत्वसामान्यस्येव स्वभावादेव जीवस्यान्तःकरणादौ सम्बन्धः इत्यस्यार्थस्य ‘एवं विषयासङ्ग्यपि जीवः स्वभावादन्तःकरणेन संसृज्यते’ इत्यत्र प्राक् विवरणमतत्वेन प्रतिपादितत्वात् ।
ततश्च जीवचैतन्यस्य वृत्तिं प्रत्युपादानकारणत्वाभावे सति उक्तसम्बन्धो न सिद्ध्यतीति संयोगजसंयोगोऽपि नाचार्यसम्मतः - इत्यस्वरसादाह —
एकदेशिनस्त्विति ।
घटादिविषयावभासकजीवचैतन्यस्य घटादिना विषयेण सह तादात्म्यसम्बन्धसम्पादनमेव चिदुपरागत्वेनाभिमतमित्यर्थः ।
ननु ‘वृत्त्यापि पूर्वसिद्धयोर्विषयचैतन्ययोस्तादात्म्यस्य न सम्भवत्याधानम्’ इति प्रागुक्तत्वात् कथं तत्सम्पादनम्, अत आह —
विषयतादात्म्यापन्नेति ।
बिम्बभूतब्रह्मचैतन्यस्य घटादिविषयोपादानतया ब्रह्मविषययोस्तादात्म्यं प्रागेव सिद्धम् । तथा च विषयतादात्म्यापन्नब्रह्मचैतन्येन सह विषयावभासकजीवचैतन्यस्य वृत्तिकृताभेदाभिव्यक्तौ सत्यां जीवचैतन्यस्य विषयतादात्म्यं वृत्त्यधीनतया लभ्यते । अभेदाभिव्यक्तिप्रकारश्च वक्ष्यते । अतो न तादात्म्यसम्पादनानुपपत्तिरिति भावः ।
विषयावमासकजीवचैतन्यस्य अन्तःकरणोपहितस्येतियद्विशेषणं तस्य प्रयोजनमाह —
सर्वगततयेति ।
तेनेति ।
सर्वगतत्वेनेत्यर्थः ।
तस्येति ।
जीवस्येत्यर्थः ।
साधारणतयेति ।
सर्वपुरुषसाधारणतयेत्यर्थः । पुरुषपदं प्रमातृपरम् । अविद्याप्रतिबिम्बो जीव इति पक्षे जीवभेदाभावात् । [अयोगेन] तस्येति । जीवस्येत्यर्थः । सर्वगतमपि जीवचैतन्यं यस्य पुरुषस्यान्तःकरणोपहितं सत् यमर्थमवभासयति सोऽर्थस्तस्यैवापरोक्षः नान्यस्य इति व्यवस्थितिसिद्धये अन्तःकरणोपहितत्वविशेषणं वाच्यमित्यर्थः ।
एकदेशिमते लाभमाह —
एवं चेति ।
विषयावभासकजीवचैतन्यस्य वृत्त्या विषयतादात्म्यसम्पादनोपगमे सतीत्यर्थः ।
आध्यसिकेति ।
अध्याससिद्धतादात्म्यसम्बन्ध इत्यर्थः ।
न चैवमिति ।
सम्बन्धार्था वृत्तिरिति प्रथमपक्षेऽपि वृत्त्या अभेदाभिव्यक्त्युपगमे इत्यर्थः ।
साङ्कर्यं परिहरति —
जीवस्येति ।
जीवस्य सर्वगतत्वमते सम्बन्धार्था वृत्तिरिति प्रथमः पक्षः, जीवस्यान्तःकरणोपाधिकतया परिच्छिन्नत्वमते अभेदाभिव्यक्त्यर्था वृत्तिरिति द्वितीयः पक्षः, इत्यर्थः । अयं भावः — प्रथमद्वितीयपक्षयोरुभयोर्वृत्तिकृताभेदाभिव्यक्तिसाम्येऽपि प्रथमपक्षे वृत्तिः अभेदाभिव्यक्तिद्वारा विषयावभासकजीवचैतन्यस्य विषयेण सह तादात्म्यसम्बन्धसम्पादनार्था, द्वितीयपक्षे तु वृत्तिः विषयावभासकजीवचैतन्यस्य विषयावच्छिन्नचैतन्येनाभेदाभिव्यक्त्यर्थैव इति न तयोः पक्षयोस्साङ्कर्यमिति । यद्वा प्रथमपक्षे जीवस्य व्यापकतया विषयदेशे सदा सन्निहितस्यैव विषयावभासकजीवचैतन्यस्य विषयतादात्म्यापन्नब्रह्मचैतन्याभेदाभिव्यक्त्यर्था वृत्तिः । द्वितीयपक्षे तु जीवस्य परिच्छिन्नतया वृत्तिः तस्य विषयसन्निधिं सम्पाद्य विषयाधिष्ठानब्रह्मचैतन्याभेदाभिव्यक्तिमपि सम्पादयतीति तयोः पक्षयोः असाङ्कर्यम् । अयं परिहारो मूले सर्वगतत्वपरिच्छिन्नत्वपादाभ्यां सूचितः । पूर्वपरिहारस्तु प्रथमपक्षद्वितीयपक्षपादाभ्यां सूचितः । सम्बन्धार्था वृत्तिरिति प्रथमपक्षे सम्बन्धस्योद्देश्यत्वावगमात्, अभेदाभिव्यक्त्यर्था वृत्तिरिति द्वितीयपक्षे अभेदाभिव्यक्तेरेवोद्देश्यत्वावगमात् इति । अत्र मते विवक्षितविवेकेन वृत्तेः अभेदाभिव्यक्तिरेव प्रयोजनं प्रथमद्वितीयपक्षयोः पर्यवस्यतीति तयोः साङ्कर्यं दुर्वारं इत्यभिप्रेत्य आदावेव एकदेशिन इत्युक्तमिति मन्तव्यम् । वस्तुतस्तु सम्बन्धार्था वृत्तिरिति वदतामाचार्याणामयमभिप्रायः - विषयावभासकत्वेनाभिमतस्य जीवचैतन्यस्य विषयेण घटादिना सह व्यङ्ग्यव्यञ्जकतालक्षणः सम्बन्धः तत्तद्विषयसंसृष्टवृत्त्यधीनोऽत्र विवक्षितः । तथा हि - अन्तःकरणं स्वच्छद्रव्यत्वात् स्वत एव चैतन्याभिव्यञ्जनसमर्थम् । घटादिकं तु तथा न भवति । अस्वच्छद्रव्यत्वात् । घटादिविषयव्याप्तया तु वृत्त्या तत्र विद्यमानमस्वाच्छ्यमभिभूय चैतःयाभिव्यञ्जनयोग्यता आधीयते । तदुक्तं विवरणाचार्यैरेव — ‘अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैतन्याभिव्यक्तियोग्यतामापादयति’ इति । दृष्टं च अस्वच्छस्यापि स्वच्छद्रव्यसंसर्गात् प्रतिबिम्बग्राहित्वयोग्यत्वम् । यथा कुड्यादेः जलसंयोगकाले प्रतिबिम्बग्राहित्वम् । घटादेः स्वसन्निहितजीवचैतन्यव्यञ्जकत्वं च तत्प्रतिबिम्बग्राहित्वम् । चैतन्यस्यापि व्यङ्ग्यत्वं तत्र प्रतिबिम्बतत्वमेव । एवंविधव्यङ्ग्यव्यञ्जकतालक्षणसम्बन्धार्थमेव वृत्तेर्निर्गमनमुक्तं विवरणे । तथा च वृत्त्या बहिर्निर्गतया विषयचैतन्ययोर्यथोक्तसम्बन्धे सम्पादिते सति घटादौ प्रतिबिम्बितं तत्रत्यजीवचैतन्यं तमवभासयतीति ।