कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
ब्रह्मणः कर्तृत्ववादः
पूर्वमुक्ते अभिन्ननिमित्तोपादानत्वरूपे ब्रह्मलक्षणे उपादानत्वं विवर्ताधिष्ठानत्वरूपमिति साधितम्, तत्प्रसङ्गाज्जीवेश्वरनिरूपणं प्राप्तम् । तदनु जीवैकत्वानानात्वबन्धमोक्षप्रपञ्चैकत्वनानात्वनिरूपणं प्रसक्तम्, तदेतत् सर्वं निरूपितमिति निरूपयिष्यमाणार्थप्रतिपत्त्युपयोगितया उपसंहरति —
अवसितमिति ।
समाप्तमित्यर्थः ।
उपादानत्वमिति ।
तन्निरूपणमित्यर्थः ।
लक्षणान्तर्गतं कर्तृत्वं निरूपयितुमाक्षिपति —
अथेति ।
उदासीनस्य ब्रह्मणः कर्तृत्वधर्मासम्भवादित्यर्थः ।
स्वतस्तदसम्भवेऽप्यौपाधिकं तत् सम्भवतीति परिहरति —
केचिदाहुरित्यादिना ।
यद्वा जगदुपादानस्य ब्रह्मणो न तत्कर्तृत्वं सम्भवति, घटाद्युपादानस्य मृदादेः तत्कर्तृत्वादर्शनात्, इत्याक्षिपति —
अथेति ।
घटेश्वरसंयोगादौ उपादानस्यैवेश्वरस्य कर्तृत्वदर्शनात् ब्रह्मण एव कर्तृत्वप्रतिपादकश्रुतिबलाच्च तस्य तत् सम्भवतीति परिहरति —
केचिदाहुरित्यादिना ॥
अथवा ब्रह्मणः कर्तृत्वं कीदृशमिह लक्षणे विवक्षितम् । किं कार्यानुकूलज्ञानचिकीर्षाकृतिमत्त्वरूपम्, किं वा कार्यानुकूलज्ञानवत्त्वरूपम्, कार्यानुकूलस्रष्टव्यालोचनात्मकज्ञानवत्त्वरूपं वा । नाद्यः । ब्रह्मणः तादृशकर्तृत्वे मानाभावात् । न द्वितीयतृतीयौ । कार्यानुकूलज्ञानस्य कार्यत्वे तत्कर्तृत्वनिर्वाहाय ज्ञानान्तरापेक्षायामनवस्थाप्रसङ्गात्, तस्याकार्यत्वे च नित्यज्ञानस्वरूपस्य ब्रह्मणः तादृशज्ञानवत्त्वरूपकर्तृत्वायोगात् इति भावः ।
तत्र प्रथमपक्षं सप्रमाणं दर्शयति —
केचिदाहुरिति ।
श्रुतिषु तच्छब्दाः ब्रह्मपराः । स्वयमित्यस्य अन्यानधिष्ठितमित्यर्थः । आत्मानं जगदात्मना अकुरुत कृतवदित्यर्थः । एताभिः श्रुतिभिःसृष्ट्यनुकूलाः ज्ञानेच्छाकृतयः प्रतिपाद्यन्ते इति भावः । न च ज्ञानादीनामपि कार्यत्वात् तत्कर्तृत्वाय ज्ञानाद्यन्तरापेक्षायामनवस्था स्यादिति वाच्यम् । ज्ञानादित्रितयातिरिक्तकार्ये उक्तरूपकर्तृत्वस्य विवक्षितत्वान्नानवस्थाप्रसङ्गः, ज्ञानादित्रयं प्रति तु अन्यदेव कर्तृत्वं भविष्यतीत्यभिप्रायः ।
प्रथमपक्षं दूषयन् द्वितीयपक्षं साधयति —
अन्ये त्विति ।
अनवस्थाप्रसङ्गादिति ।
कर्तुत्वलक्षणाननुगमपरिहाराय कार्यमात्रं प्रति ज्ञानादित्रितयवत्त्वरूपे कर्तृत्वे वक्तव्ये सति अनवस्थाप्रसङ्गो भवत्येवेति भावः ।
ज्ञानवत्त्वमेवेति ।
इच्छाकृत्योः एवकारेण व्यवच्छेदः क्रियते । तयोः कर्तृत्वलक्षणप्रवेशे गौरवाच्च इति भावः । न चैवमुदाहृतश्रुत्योरिच्छाकृतिप्रतिपादनं व्यर्थं स्यादिति वाच्यम् । ताभ्यां श्रुतिभ्यां तयोः सृष्टिहेतुत्वलाभेऽपि कर्तृत्वनिर्वाहकतया तयोः प्रतिपादनं इत्यत्र मानाभावादिति भावः ।
अकार्यत्वादिति ।
नित्यज्ञानस्वरूपस्य ब्रह्मणःतादृशज्ञानवत्त्वं औपाधिकभेदमादाय द्रष्टव्यम् । न चैवमपि सृष्टिकारणज्ञानस्य ‘तदैक्षत’ इति श्रुत्या कादाचित्कत्वप्रतिपादनविरोध इति वाच्यम् । ब्रह्मस्वरूपतया नित्यस्यापि ज्ञानस्य प्राण्यदृष्टपरिपाकलक्षणो यः कादाचित्कः सहायः तद्विशिष्टतया कादाचित्कत्वमभिप्रेत्य तच्छ्रुत्युपपत्तेरिति भावः ।
कार्यानुकूलज्ञानवत्त्वमात्रं कर्तृत्वमित्यत्र गमकमाह —
एवं चेति ।
इच्छाकृत्योः कर्तृत्वलक्षणाननुप्रवेशे विवक्षिते सतीत्यर्थः ।
जीवस्येति ।
तस्य सुखदुःखाद्युत्पत्त्यनुकूलज्ञानं साक्षिरूपं यथा विद्यते तथा तदनुकूलेच्छादिकं नास्ति, अननुभवादनभ्युपगमाच्च । न च - इदमनुपपन्नम्, सुखेच्छया तत्साधनानुष्ठानद्वारा सुखोत्पत्तेरनुभवसिद्धत्वादिति-वाच्यम् । सुखाद्युपादानान्तः करणगोचरचिकीर्षाकृत्योरभावस्यात्र विवक्षितत्वात् । तथा च कार्यानुकूलज्ञानवत्त्वमात्रं कर्तृत्वं इत्यङ्गीकारे सत्येव विवरणोक्तिस्सङ्गच्छते नान्यथा इत्यर्थः । ‘निश्वसितमस्य वेदाः वीक्षितमेतस्य पञ्चभूतानि । स्मितमेतस्य चराचरं अस्य सुषुप्तिर्महाप्रलयः । ’ इति वाचस्पतिश्लोके महाभूतानां ब्रह्मवीक्षितत्वमुक्तम् । तथा भौतिकस्य चराचरप्रपञ्चस्य ब्रह्मस्मितत्वमुक्तम् । तदुभयतात्पर्यकथनपरे कल्पतरुग्रन्थे ब्रह्मवीक्षणमात्रसाध्यत्वं महाभूतेषु तद्वीक्षितत्वनिर्देशस्यालम्बनं दर्शितम् । तञ्च ब्रह्मणो महाभूतसृष्ट्यनुकूलज्ञानवत्तदनुकूलचिकीर्षाकृत्योरप्युपगमे न सङ्गच्छते । वीक्षणातिरिक्तचिकीर्षादिव्यावर्तकमात्रपदविरोधात् । लोके हि मन्दहासरूपं स्मितं ज्ञानाधिकप्रयत्नसाध्यं प्रसिद्धम् । तथा च परब्रह्मणः भौतिकसृष्टिं प्रति यथा वीक्षणमपेक्षितं तथा हिरण्यगर्भोत्पत्तिलक्षणव्यापारोऽप्यधिकोऽपेक्षितः । चराचरसृष्टौ परब्रह्मण इव हिरण्यगर्भस्यापि कर्तृतायाः श्रुतिस्मृतिसिद्धत्वात् । तथा च परब्रह्मणो भौतिकसृष्ट्यनुकूलं यद्वीक्षणं तदधिकव्यापारापेक्षित्वं चराचरस्य ब्रह्मस्मितत्वनिर्देशालम्बनं दर्शितम् । तदपि महाभूतसृष्टावेव वीक्षणाधिकप्रयत्नापेक्षायां न सम्भवति । हिरण्यगर्भद्वारा इत्यस्य वाक्यस्य हिरण्यगर्भोत्पत्तिमपेक्ष्येत्यर्थः । न तु हिरण्यगर्भस्साक्षात् कर्ता ब्रह्म च प्रयोजककर्तृ इति यथाश्रुतार्थो ग्राह्यः । द्वितीयाध्यायान्तिमाधिकरणे परमेश्वरस्य भौतिकसृष्टावपि साक्षात्कर्तृतायाः साधितत्वात् इति भावः । वाचस्पतिश्लोकश्च ब्रह्मस्तुतिपरः । ब्रह्म हि अतिप्रशस्तम् । तथाहि - यस्य ब्रह्मणः पुरुषनिश्वासवत् प्रयत्नं विनैव वेदाः सर्वे कार्यभूताः, यस्य च वीक्षणादेव महाभूतानि भवन्ति, यस्य च हिरण्यगर्भेण सह चराचरात्मकं विश्वं मन्दहासमात्रं, यस्य च महाप्रलयोऽपि सुषुप्तिप्रायः, तत्प्राशस्त्ये को विस्मयः इति भावः ।
द्वितीयपक्षेऽपि दोषं वदन् तृतीयपक्षं समर्थयते —
अपरे त्विति ।
स्रष्टव्यालोचनेति ।
मयेदं स्रष्टव्यं इत्याकारकमित्यर्थः ।
अध्यासेति ।
अध्यासस्य-अध्यस्यमानरजतादेः अनुकूलं यदधिष्ठानज्ञानं तद्वत्त्वेनेत्यर्थः ।
न चेष्टापत्तिरिति ।
न च इत्यस्य वाच्यमित्यनेन सम्बन्धः । अथेत्यस्य स्वप्नकाले इत्यर्थः ।
जीवस्य रथादिस्रष्टृत्वे हेतुमाह —
स हि कर्तेति ।
हि - यस्मात् कारणात् स्वाप्नरथादिहेतुकर्मकर्ता जीवः, तस्मादित्यर्थः ।
भाष्यकारैरिति । ‘लाङ्गलं गवादीनुद्वहति’ इति प्रयोगे लाङ्गलस्य गवादिस्थितिकर्तृत्वरूपं गवाद्युद्वोढृत्वं मुख्यं नास्ति, किं तु लाङ्गले सति कृषिद्वारा गवादिस्थितिहेतुपलालादितृणलाभोऽस्तीति कृत्वा उपचारादुच्यते गवादीनुद्वहतीति, तद्वत् स्वाप्नरथादिपदार्थोपलब्धिहेतुधर्मादिकर्तृत्वेन रथादिप्रतिभाननिमित्तत्वरूपेण हेतुना तस्य कर्तृत्वमुपचर्यते स हि कर्तेति श्रुतौ - इति भाष्यकारैः कर्तृत्वस्य औपचारिककर्तृत्वरूपताया उक्तत्वादित्यर्थः । एतेन विवरणे सुखादिकर्तृत्वोक्तिरप्युपचारमात्रपरा व्याख्याता । ‘मयेदं सुखदुःखादि स्रष्टव्यं’ इत्यालोचनरूपज्ञानाभावेऽपि सुखादिदर्शनेन मुख्यकर्तृत्वासम्भवात् । वीक्षणमात्रसाध्यत्वादितिकल्पतरौ स्रष्टव्यालोचनरूपं वीक्षणं विवक्षितमिति न तद्विरोध इति द्रष्टव्यम् ।
जन्मादिसूत्रेण निखिलजगत्कर्तृत्वे सति तदुपादानत्वे ब्रह्मणो लक्षणत्वेन प्रतिपादिते सति तस्य सर्वज्ञत्वमर्थात् सिध्यति, निखिलजगत्सृष्टिस्थितिसंहारकर्तृत्वस्य सर्वज्ञत्वं विना असम्भवादित्याह —
अनेनैवेति ।
सर्वज्ञत्वसिद्धौ हेत्वन्तरमाह —
शास्त्रयोनित्वादिति ।
अस्य सूत्रस्यार्थमाह —
वेदकर्तृत्वेनापीति ।
ननु यथा वेदकर्तृत्वं भाष्यादिषूक्तप्रकारेण सर्वज्ञत्वं साधयति तथा जन्मादिसूत्रोपात्तं सर्वकर्तुत्वमपि तत् साधयति । तथा च पूर्वसूत्रे अर्थसिद्धम् इह तु साध्यते इत्युक्तौ को हेतुः इति - उच्यते — पूर्वसूत्रं लक्षणपरं न तु सर्वज्ञत्वसाधनपरम्, इदं तु तत्साधनपरमिति तात्पर्यसत्त्वासत्त्वाभ्यां तथाव्यवहारः । ततश्च ब्रह्म सर्वज्ञं शास्त्रकर्तृत्वादिति सूत्रयोजना । ननु ब्रह्मणः सर्वज्ञत्वं ‘यः सर्वज्ञः सर्ववित्’ [मु.उ.१-१-९] ‘गुणी सर्ववित् यः’ [श्वे.उ.६-२] इत्यादिश्रुत्या कण्ठत एव प्रतिपाद्यते, काऽत्र साधनापेक्षा - इति चेत्, सत्यम् । श्रुत्युक्ते सर्वज्ञत्वे प्रतिपतिदार्ढ्याय उपपत्तिसमर्पणात् ।