अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

ब्रह्मणः कर्तृत्ववादः

पूर्वमुक्ते अभि­न्न­नि­मि­त्तो­पा­दा­न­त्व­रूपे ब्रह्मलक्षणे उपादानत्वं विव­र्ता­धि­ष्ठा­न­त्व­रू­प­मिति साधितम्, तत्प्र­स­ङ्गा­ज्जी­वे­श्व­र­नि­रू­पणं प्राप्तम् । तदनु जीवै­क­त्वा­ना­ना­त्व­ब­न्ध­मो­क्ष­प्र­प­ञ्चै­क­त्व­ना­ना­त्व­नि­रू­पणं प्रसक्तम्, तदेतत् सर्वं निरूपितमिति निरू­प­यि­ष्य­मा­णा­र्थ­प्र­ति­प­त्त्यु­प­यो­गि­तया उपसंहरति —
अवसितमिति ।
समाप्तमित्यर्थः ।

उपादानत्वमिति ।
तन्नि­रू­प­ण­मि­त्यर्थः ।

लक्षणान्तर्गतं कर्तृत्वं निरू­प­यि­तु­मा­क्षि­पति —
अथेति ।
उदासीनस्य ब्रह्मणः कर्तृ­त्व­ध­र्मा­स­म्भ­वा­दि­त्यर्थः ।

स्वत­स्त­द­स­म्भ­वेऽ­प्यौ­पा­धिकं तत् सम्भवतीति परिहरति —
केचि­दा­हु­रि­त्या­दिना ।

यद्वा जगदुपादानस्य ब्रह्मणो न तत्कर्तृत्वं सम्भवति, घटाद्युपादानस्य मृदादेः तत्क­र्तृ­त्वा­द­र्श­नात्, इत्याक्षिपति —
अथेति ।

घटेश्वरसंयोगादौ उपा­दा­न­स्यै­वे­श्व­रस्य कर्तृ­त्व­द­र्श­नात् ब्रह्मण एव कर्तृ­त्व­प्र­ति­पा­द­क­श्रु­ति­ब­लाच्च तस्य तत् सम्भवतीति परिहरति —
केचि­दा­हु­रि­त्या­दिना ॥
अथवा ब्रह्मणः कर्तृत्वं कीदृशमिह लक्षणे विवक्षितम् । किं कार्या­नु­कू­ल­ज्ञा­न­चि­की­र्षा­कृ­ति­म­त्त्व­रू­पम्, किं वा कार्या­नु­कू­ल­ज्ञा­न­व­त्त्व­रू­पम्, कार्या­नु­कू­ल­स्र­ष्ट­व्या­लो­च­ना­त्म­क­ज्ञा­न­व­त्त्व­रूपं वा । नाद्यः । ब्रह्मणः तादृशकर्तृत्वे मानाभावात् । न द्वितीयतृतीयौ । कार्या­नु­कू­ल­ज्ञा­नस्य कार्यत्वे तत्क­र्तृ­त्व­नि­र्वा­हाय ज्ञाना­न्त­रा­पे­क्षा­या­म­न­व­स्था­प्र­स­ङ्गात्, तस्याकार्यत्वे च नित्य­ज्ञा­न­स्व­रू­पस्य ब्रह्मणः तादृ­श­ज्ञा­न­व­त्त्व­रू­प­क­र्तृ­त्वा­यो­गात् इति भावः ।

तत्र प्रथमपक्षं सप्रमाणं दर्शयति —
केचिदाहुरिति ।
श्रुतिषु तच्छब्दाः ब्रह्मपराः । स्वयमित्यस्य अन्या­न­धि­ष्ठि­त­मि­त्यर्थः । आत्मानं जगदात्मना अकुरुत कृतवदित्यर्थः । एताभिः श्रुति­भिः­सृ­ष्ट्य­नु­कूलाः ज्ञानेच्छाकृतयः प्रतिपाद्यन्ते इति भावः । न च ज्ञानादीनामपि कार्यत्वात् तत्कर्तृत्वाय ज्ञाना­द्य­न्त­रा­पे­क्षा­या­म­न­वस्था स्यादिति वाच्यम् । ज्ञाना­दि­त्रि­त­या­ति­रि­क्त­कार्ये उक्त­रू­प­क­र्तृ­त्वस्य विव­क्षि­त­त्वा­न्ना­न­व­स्था­प्र­सङ्गः, ज्ञानादित्रयं प्रति तु अन्यदेव कर्तृत्वं भवि­ष्य­ती­त्य­भि­प्रायः ।

प्रथमपक्षं दूषयन् द्वितीयपक्षं साधयति —
अन्ये त्विति ।

अन­व­स्था­प्र­स­ङ्गा­दिति ।
कर्तु­त्व­ल­क्ष­णा­न­नु­ग­म­प­रि­हा­राय कार्यमात्रं प्रति ज्ञाना­दि­त्रि­त­य­व­त्त्व­रूपे कर्तृत्वे वक्तव्ये सति अनवस्थाप्रसङ्गो भवत्येवेति भावः ।

ज्ञान­व­त्त्व­मे­वेति ।
इच्छाकृत्योः एवकारेण व्यवच्छेदः क्रियते । तयोः कर्तृ­त्व­ल­क्ष­ण­प्र­वेशे गौरवाच्च इति भावः । न चैव­मु­दा­हृ­त­श्रु­त्यो­रि­च्छा­कृ­ति­प्र­ति­पा­दनं व्यर्थं स्यादिति वाच्यम् । ताभ्यां श्रुतिभ्यां तयोः सृष्टि­हे­तु­त्व­ला­भेऽपि कर्तृ­त्व­नि­र्वा­ह­क­तया तयोः प्रतिपादनं इत्यत्र मानाभावादिति भावः ।

अकार्यत्वादिति ।
नित्य­ज्ञा­न­स्व­रू­पस्य ब्रह्म­णः­ता­दृ­श­ज्ञा­न­वत्त्वं औपाधिकभेदमादाय द्रष्टव्यम् । न चैवमपि सृष्टि­का­र­ण­ज्ञा­नस्य ‘तदैक्षत’ इति श्रुत्या कादा­चि­त्क­त्व­प्र­ति­पा­द­न­वि­रोध इति वाच्यम् । ब्रह्मस्वरूपतया नित्यस्यापि ज्ञानस्य प्राण्य­दृ­ष्ट­प­रि­पा­क­ल­क्षणो यः कादाचित्कः सहायः तद्विशिष्टतया कादा­चि­त्क­त्व­म­भि­प्रेत्य तच्छ्रु­त्यु­प­प­त्ते­रिति भावः ।

कार्या­नु­कू­ल­ज्ञा­न­व­त्त्व­मात्रं कर्तृ­त्व­मि­त्यत्र गमकमाह —
एवं चेति ।
इच्छाकृत्योः कर्तृ­त्व­ल­क्ष­णा­न­नु­प्र­वेशे विवक्षिते सतीत्यर्थः ।

जीवस्येति ।
तस्य सुख­दुः­खा­द्यु­त्प­त्त्य­नु­कू­ल­ज्ञानं साक्षिरूपं यथा विद्यते तथा तद­नु­कू­ले­च्छा­दिकं नास्ति, अन­नु­भ­वा­द­न­भ्यु­प­ग­माच्च । न च - इदमनुपपन्नम्, सुखेच्छया तत्सा­ध­ना­नु­ष्ठा­न­द्वारा सुखो­त्प­त्ते­र­नु­भ­व­सि­द्ध­त्वा­दि­ति-वा­च्यम् । सुखा­द्यु­पा­दा­नान्तः कर­ण­गो­च­र­चि­की­र्षा­कृ­त्यो­र­भा­व­स्यात्र विवक्षितत्वात् । तथा च कार्या­नु­कू­ल­ज्ञा­न­व­त्त्व­मात्रं कर्तृत्वं इत्यङ्गीकारे सत्येव विव­र­णो­क्ति­स्स­ङ्ग­च्छते नान्यथा इत्यर्थः । ‘निश्वसितमस्य वेदाः वीक्षितमेतस्य पञ्चभूतानि । स्मितमेतस्य चराचरं अस्य सुषु­प्ति­र्म­हा­प्र­लयः । ’ इति वाचस्पतिश्लोके महाभूतानां ब्रह्म­वी­क्षि­त­त्व­मु­क्तम् । तथा भौतिकस्य चराचरप्रपञ्चस्य ब्रह्म­स्मि­त­त्व­मु­क्तम् । तदु­भ­य­ता­त्प­र्य­क­थ­न­परे कल्पतरुग्रन्थे ब्रह्म­वी­क्ष­ण­मा­त्र­सा­ध्यत्वं महाभूतेषु तद्वी­क्षि­त­त्व­नि­र्दे­श­स्या­ल­म्बनं दर्शितम् । तञ्च ब्रह्मणो महा­भू­त­सृ­ष्ट्य­नु­कू­ल­ज्ञा­न­व­त्त­द­नु­कू­ल­चि­की­र्षा­कृ­त्यो­र­प्यु­प­गमे न सङ्गच्छते । वीक्ष­णा­ति­रि­क्त­चि­की­र्षा­दि­व्या­व­र्त­क­मा­त्र­प­द­वि­रो­धात् । लोके हि मन्दहासरूपं स्मितं ज्ञाना­धि­क­प्र­य­त्न­साध्यं प्रसिद्धम् । तथा च परब्रह्मणः भौतिकसृष्टिं प्रति यथा वीक्षणमपेक्षितं तथा हिर­ण्य­ग­र्भो­त्प­त्ति­ल­क्ष­ण­व्या­पा­रोऽ­प्य­धि­कोऽ­पे­क्षितः । चराचरसृष्टौ परब्रह्मण इव हिर­ण्य­ग­र्भ­स्यापि कर्तृतायाः श्रुति­स्मृ­ति­सि­द्ध­त्वात् । तथा च परब्रह्मणो भौति­क­सृ­ष्ट्य­नु­कूलं यद्वीक्षणं तद­धि­क­व्या­पा­रा­पे­क्षित्वं चराचरस्य ब्रह्म­स्मि­त­त्व­नि­र्दे­शा­ल­म्बनं दर्शितम् । तदपि महाभूतसृष्टावेव वीक्ष­णा­धि­क­प्र­य­त्ना­पे­क्षायां न सम्भवति । हिर­ण्य­ग­र्भ­द्वारा इत्यस्य वाक्यस्य हिर­ण्य­ग­र्भो­त्प­त्ति­म­पे­क्ष्ये­त्यर्थः । न तु हिर­ण्य­ग­र्भ­स्सा­क्षात् कर्ता ब्रह्म च प्रयोजककर्तृ इति यथाश्रुतार्थो ग्राह्यः । द्विती­या­ध्या­या­न्ति­मा­धि­क­रणे परमेश्वरस्य भौतिकसृष्टावपि साक्षा­त्क­र्तृ­तायाः साधितत्वात् इति भावः । वाच­स्प­ति­श्लो­कश्च ब्रह्मस्तुतिपरः । ब्रह्म हि अतिप्रशस्तम् । तथाहि - यस्य ब्रह्मणः पुरुषनिश्वासवत् प्रयत्नं विनैव वेदाः सर्वे कार्यभूताः, यस्य च वीक्षणादेव महाभूतानि भवन्ति, यस्य च हिरण्यगर्भेण सह चराचरात्मकं विश्वं मन्दहासमात्रं, यस्य च महाप्रलयोऽपि सुषुप्तिप्रायः, तत्प्राशस्त्ये को विस्मयः इति भावः ।

द्वितीयपक्षेऽपि दोषं वदन् तृतीयपक्षं समर्थयते —
अपरे त्विति ।

स्रष्ट­व्या­लो­च­नेति ।
मयेदं स्रष्टव्यं इत्या­का­र­क­मि­त्यर्थः ।

अध्यासेति ।
अध्या­स­स्य-अ­ध्य­स्य­मा­न­र­ज­तादेः अनुकूलं यदधिष्ठानज्ञानं तद्व­त्त्वे­ने­त्यर्थः ।

न चेष्टापत्तिरिति ।
न च इत्यस्य वाच्यमित्यनेन सम्बन्धः । अथेत्यस्य स्वप्नकाले इत्यर्थः ।

जीवस्य रथा­दि­स्र­ष्टृत्वे हेतुमाह —
स हि कर्तेति ।
हि - यस्मात् कारणात् स्वाप्न­र­था­दि­हे­तु­क­र्म­कर्ता जीवः, तस्मादित्यर्थः ।

भाष्यकारैरिति । ‘लाङ्गलं गवादीनुद्वहति’ इति प्रयोगे लाङ्गलस्य गवा­दि­स्थि­ति­क­र्तृ­त्व­रूपं गवा­द्यु­द्वो­ढृत्वं मुख्यं नास्ति, किं तु लाङ्गले सति कृषिद्वारा गवा­दि­स्थि­ति­हे­तु­प­ला­ला­दि­तृ­ण­ला­भोऽ­स्तीति कृत्वा उपचारादुच्यते गवा­दी­नु­द्व­ह­तीति, तद्वत् स्वाप्न­र­था­दि­प­दा­र्थो­प­ल­ब्धि­हे­तु­ध­र्मा­दि­क­र्तृ­त्वेन रथा­दि­प्र­ति­भा­न­नि­मि­त्त­त्व­रू­पेण हेतुना तस्य कर्तृ­त्व­मु­प­च­र्यते स हि कर्तेति श्रुतौ - इति भाष्यकारैः कर्तृत्वस्य औप­चा­रि­क­क­र्तृ­त्व­रू­प­ताया उक्त­त्वा­दि­त्यर्थः । एतेन विवरणे सुखा­दि­क­र्तृ­त्वो­क्ति­र­प्यु­प­चा­र­मा­त्र­परा व्याख्याता । ‘मयेदं सुखदुःखादि स्रष्टव्यं’ इत्या­लो­च­न­रू­प­ज्ञा­ना­भा­वेऽपि सुखादिदर्शनेन मुख्य­क­र्तृ­त्वा­स­म्भ­वात् । वीक्ष­ण­मा­त्र­सा­ध्य­त्वा­दि­ति­क­ल्प­तरौ स्रष्ट­व्या­लो­च­न­रूपं वीक्षणं विवक्षितमिति न तद्विरोध इति द्रष्टव्यम् ।

जन्मादिसूत्रेण निखि­ल­ज­ग­त्क­र्तृत्वे सति तदुपादानत्वे ब्रह्मणो लक्षणत्वेन प्रतिपादिते सति तस्य सर्व­ज्ञ­त्व­म­र्थात् सिध्यति, निखि­ल­ज­ग­त्सृ­ष्टि­स्थि­ति­सं­हा­र­क­र्तृ­त्वस्य सर्वज्ञत्वं विना असम्भवादित्याह —
अनेनैवेति ।

सर्व­ज्ञ­त्व­सिद्धौ हेत्वन्तरमाह —
शास्त्र­यो­नि­त्वा­दिति ।

अस्य सूत्रस्यार्थमाह —
वेद­क­र्तृ­त्वे­ना­पीति ।
ननु यथा वेदकर्तृत्वं भाष्या­दि­षू­क्त­प्र­का­रेण सर्वज्ञत्वं साधयति तथा जन्मा­दि­सू­त्रो­पात्तं सर्वकर्तुत्वमपि तत् साधयति । तथा च पूर्वसूत्रे अर्थसिद्धम् इह तु साध्यते इत्युक्तौ को हेतुः इति - उच्यते — पूर्वसूत्रं लक्षणपरं न तु सर्व­ज्ञ­त्व­सा­ध­न­प­रम्, इदं तु तत्साधनपरमिति तात्प­र्य­स­त्त्वा­स­त्त्वाभ्यां तथाव्यवहारः । ततश्च ब्रह्म सर्वज्ञं शास्त्र­क­र्तृ­त्वा­दिति सूत्रयोजना । ननु ब्रह्मणः सर्वज्ञत्वं ‘यः सर्वज्ञः सर्ववित्’ [मु.उ.१-१-९] ‘गुणी सर्ववित् यः’ [श्वे.उ.६-२] इत्यादिश्रुत्या कण्ठत एव प्रतिपाद्यते, काऽत्र साधनापेक्षा - इति चेत्, सत्यम् । श्रुत्युक्ते सर्वज्ञत्वे प्रति­प­ति­दा­र्ढ्याय उप­प­त्ति­स­म­र्प­णात् ।