कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
स्वप्नाध्यासाधिष्ठानविचारः
तर्हि तदेवाधिष्ठानमस्त्विति चेन्न — तत्राप्यनुपपत्तिसत्त्वादित्याह —
नन्वित्यादिना ।
अनवच्छिन्नचैतन्याधिष्ठानत्वपक्षे स्वाप्नगजादेर्देहात् बाह्यदेशस्थत्वं वक्तव्यम् । तथा च तस्य किं साक्षिभास्यत्वम्, ऐन्द्रियकत्वं वा ।
नाद्य इत्याह —
अहङ्कारेति ।
साक्षिण इति पञ्चमी । विच्छेदोक्त्या साक्षिणः स्वाप्नगजादिना सह स्वतस्संसर्गाभावो दर्शितः । अन्तःकरणवृत्तिसंसर्गमनपेक्ष्य स्वाप्नगजादेः तेन प्रकाशस्य, तत्संसर्गमपेक्ष्य तेन प्रकाशस्य च, अयोगादिति सम्बन्धः । तेनेतिपदद्वयं साक्षिपरम् । यथा सुखादेः सुखादिगोचरान्तःकरणवृत्तिसंसर्गमनपेक्ष्य तेन प्रकाशः तथा तेन स्वाप्नगजादेः प्रकाशायोगादित्यर्थः ।
द्वितीयं निरस्यति —
चक्षुरादीनामिति ।
द्वितीय इति ।
अहमनुभवगोचराहङ्कारोपहितचैतन्यस्य स्वप्नाध्यासाधिष्ठानत्वपक्ष इत्यर्थः । किं गजादेः तादात्म्येन तत्राध्यासः किं वा आधाराधेयभावलक्षणसंसर्गेण ।
आद्यं दूषयति —
इदंरजतमितिवदिति ।
द्वितीयं निराकरोति —
अहंसुखीतिवदिति ।
‘द्वितीये अहं गज इति अहं गजवानिति वा अध्यासप्रसङ्गात्’ इति योजना ।
अहङ्कारानवच्छिन्नेति ।
अविद्यायांबिम्बभूतमीश्वरचैतन्यमिहानवच्छिन्नचैतन्यं विवक्षितम्, ईश्वरचैतन्यस्यैव सर्वाधिष्ठानत्वात्, नाविद्याप्रतिबिम्बरूपं जीवचैतन्यम्, तस्यानुपादानत्वादिति बोध्यम् ।
आन्तरचैतन्यस्यैवाधिष्ठानत्वे नियामकमाह —
अत एवेति ।
आन्तरचैतन्यस्यैवाधिष्ठानत्वोपगमादेवेत्यर्थः । स्वप्नकाले दृश्यमानपरिमाणवतां गजादीनां शरीरस्यान्तरुचितदेशसम्पत्त्यभावात् प्रातिभासिकत्वमुच्यते सूत्रकारादिभिः । शरीराद्बाह्यचैतन्यस्याधिष्ठानत्वे तु जाग्रद्गजादीनामिव स्वाप्नगजादीनामपि योग्यदेशलाभाद्व्यावहारिकत्वमेव स्यात् । तथा च सूत्रादिविरोध इत्यर्थः ।
एवं चेति ।
आन्तरस्यैव चैतन्यस्य स्वप्नाध्यासाधिष्ठानत्वे प्रमाणसिद्धे सतीत्यर्थः । ननु — शरीरान्तर्गतस्यापि ब्रह्मचैतन्यस्य आवृतत्वात् तत्राध्यस्तानां स्वाप्नगजादीनामनवभासप्रसङ्गः । न चान्तःकरणवृत्त्या आवरणनाशे सति तेषामवभासः संभवतीति वाच्यम् । स्वप्ने चक्षुरादीनामुपरतत्वेन वृत्त्यसम्भवात् । न च स्वयमेवान्तःकरणवृत्तिस्तदा सम्भवतीति वाच्यम् ।
जागरणेऽपि तथाप्रसङ्गेन तदापि चक्षुराद्यपेक्षाभावप्रसङ्गात् - इत्यत आह —
अन्तःकरणस्येति ।
स्वयमेवेति ।
चक्षुरादिकमनपेक्ष्यैवेत्यर्थः ।
न काचिदिति ।
अभिव्यक्तचैतन्यस्यैवान्तरस्याधिष्ठानत्वोपगमेन स्वाप्नप्रपञ्चस्य अवभासानुपपत्तिर्वा प्रातिभासिकत्वानुपपत्तिर्वा नास्तीत्यर्थः ।
अन्तःकरणवृत्त्यभिव्यक्तचैतन्यस्यैवाधिष्ठानत्वे सम्मतिमाह —
अत एवेति ।
अन्तः - करणवृत्त्यभिव्यक्तचैतन्यस्यैवाधिष्ठानत्वोपगमादित्यर्थः । विवर्तते - परिणमत इत्यर्थः ।
नन्वन्तःकरणे चक्षुरादिनिरपेक्षाया वृत्तेः सदा सम्भवात् तदभिव्यक्ते चैतन्ये सदा सुलभे सदा स्वप्नाध्यासप्रसङ्ग इत्यत आह —
निद्रादीति ।
पित्तोद्रेकादिरादिशब्दार्थः । दोषोपप्लुतायां वृत्तावभिव्यक्तं यच्चैतन्यं तत्र विद्यमाना अविद्येत्यर्थः ।
स्वप्नप्रपञ्चवैचित्र्यप्रयोजकमाह —
नानाविषयेति ।
जागरणे नानाविधविषयानुभवजनिताः संस्कारा अन्तःकरणे तिष्ठन्ति, तैरदृष्टोद्बोधितैः सहिता अविद्या विचित्रप्रपञ्चाकारेण परिणमत इत्यर्थः ।
इदानीमविद्यायां प्रतिबिम्बभूतमनवच्छिन्नजीवचैतन्यमेवाधिष्ठानमिति मतान्तरमाह —
अन्येत्विति ।
पूर्वमते अनुपपत्तिमाह —
अनवच्छिन्नचैतन्यमिति ।
बिम्बभूतमिति शेषः ।
अशब्दमूलकेति ।
शुद्धब्रह्मण इव ईश्वरचैतन्यस्यापि शास्त्रैकगम्यत्वादिति भावः ।
नन्वनवच्छिन्नेऽप्यविद्याप्रतिबिम्बरूपजीवचैतन्ये शब्दनिरपेक्षाहमाकारवृत्त्युदयदर्शनात् ब्रह्मचैतन्येऽपि तथा किं न स्यादिति, नेत्याह —
अहङ्काराद्यवच्छिन्नचैतन्य इति ।
इयं विषयसप्तमी । आदिपदं शरीरादिसङ्ग्रहार्थम् । न त्वहङ्काराद्यनवच्छिन्नजीवचैतन्ये इत्येवकारार्थः । जीवचैतन्यस्यापि व्यापकत्वं त्वम्पदार्थशोधकश्रतितदनुकूलन्यायगम्यमेवेति दृष्टान्तासिद्धिरिति भावः ।
तस्मादिति ।
बिम्बभूतानवच्छिन्नब्रह्मचैतन्यस्याधिष्ठानत्वासम्भवादित्यर्थः ।
स्वत इति ।
वृत्तिमन्तरेणैवाभिव्यक्तमित्यर्थः ।
चैतन्यमिति ।
पूर्वमत इव आन्तरमेवेति शेषः ।
अत एवेति ।
स्वतोऽपरोक्षचैतन्यस्यैव स्वाप्नाध्यासाधिष्ठानत्वेन स्वीकारादेवेत्यर्थः । अपरोक्षरूपा विषयस्य - शुक्तिरजतादेर्या भ्रमरूपा धीः सा अपरोक्षमधिष्ठानमपेक्ष्य भवति । यद्वा अपरोक्षरूपस्य विषयस्य - शुक्तिरजतादेर्या भ्रमरूपधीः सेत्यर्थः ।
तच्चाधिष्ठानापरोक्ष्यं केन भवतीत्यत आह —
मनसेत्यादिना ।
मनसा वा स्वतो वा यदि वा नयनत इति योजना ।
तत्र प्रमाणमाह —
स्वपनभ्रमादिषु तथाप्रथितेरिति ।
अन्वयादिना तथा प्रतीतेरित्यर्थः । तथाहि - शुक्तीदमंशस्य नयनसन्निकर्षे सति तस्य रजताध्यासापेक्षितमारोक्ष्यं भवति नान्यथा इत्यन्वयव्यतिरेकाभ्यां क्वचिदधिष्ठानापरोक्ष्यं नयनत इति प्रथते । तथा गगननैल्याद्यध्यासापेक्षितं गगनावच्छिन्नचैतन्यरूपस्याधिष्ठानस्यापरोक्ष्यं मनसा भवतीति गम्यते । मनसेत्यनेन गगनावच्छिन्नचैतन्यव्यञ्जिका आलोकादिगोचरचाक्षुषवृत्तिर्विवक्षिता । नीरूपगगनगोचरचाक्षुषवृत्तेरसम्भवात्, चक्षुरुन्मीलनानन्तरमेव नीलं नभ इत्यादिप्रत्यक्षं नान्यथा इत्यन्वयव्यतिरेकाभ्यां गगनावच्छिन्नचैतन्याभिव्यक्तौ चाक्षुषवृत्तेरुपयोगावगमाच्च । तथा च फलबलात् अन्याकारवृत्त्याऽपि अन्यावच्छिन्नचैतन्याभिव्यक्तिरिष्यते । इदं च अद्वैतदीपिकादौ प्रपञ्चितमिति बोध्यम् ।
उदाहृतश्लोकस्य तात्पर्यमाह —
इति श्लोकेनेति ।
अत्रेति ।
प्रकृतेऽपि भ्रमे स्वप्नाध्यासरूपे स्वतोऽपरोक्षं चैतन्यं अधिष्ठानमित्यर्थः । ‘अत एव संक्षेपशारीरके स्वप्नाध्यासे स्वतोऽधिष्ठानापरोक्ष्यमुदाहृतं’ इति सम्बन्धः ।
स्वप्नाध्यासाधिष्ठानचैतन्यापरोक्ष्यस्य स्वतस्सिद्धत्वं आक्षेपसमाधानाभ्यां दर्शयति —
न चाहङ्कारानवच्छिन्नेति ।
मात्रपदं कार्त्स्न्यार्थकम् । तथा च शरीरान्तर्गतमपि चैतन्यं आवृतमेवेति भावः ।
वृत्तिमिति ।
वृत्तिरप्यनवच्छिन्नगोचरा शब्दमन्तरेण न सम्भवतीति प्रागुक्तमिति ध्येयम् ।
अनावृतमिति ।
तदेव स्वप्नाध्यासाधिष्ठानमिति भावः । ननु सर्वगतस्य जीवचैतन्यस्यानावृतत्वे तस्य घटादिविषयदेशे सदा सत्त्वेन चाक्षुषादिवृत्तिमनपेक्ष्य सदा सर्वविषयावभासप्रसङ्ग इति चेत्, न - सर्वत्र विद्यामानस्यापि तस्यानुपादानतया घटादिविषयैस्सह सम्बन्धाभावेन सम्बन्धार्थतया वृत्त्यपेक्षायाः प्रतिकर्मव्यवस्थायामुक्तत्वात् । ननु — अविद्याप्रतिबिम्बरूपजीवचैतन्ये शरीरान्तर्गते विशेषणत्वेनोपाधित्वेन वा अहङ्कारनिरपेक्षे अनवच्छिन्नचैतन्यशब्दिते स्वप्नाध्यासोपगमे सति तस्यैव स्वप्नकाले द्रष्टृत्वं स्यात्, न तु प्रमातुः । तस्याहङ्कारतादात्म्यापत्त्या तदवच्छिन्नस्य ततो भिन्नत्वात् । न चेष्टापत्तिः । स्वप्नकाले ‘अहं श्रीकृष्णं पश्यामि’ इति प्रमातुः स्वप्नपदार्थद्रष्टृत्वानुभवविरोधापत्तेः —
इत्यत आह —
एवं चेति ।
स्वतोऽपरोक्षजीवचैतन्यस्याधिष्ठानत्वे सतीत्यर्थः ।
तत्समनियतेति ।
यदा गजादिरध्यस्यते तदैव तदधिष्ठानगोचरान्तःकरणवृत्तिः (अविद्यावृत्तिर्वा ?) जायते । तथा च स्वाप्नगजाद्यधिष्ठानचैतन्यस्य वृत्तिद्वारा वृत्तिमदन्तः- करणसम्बन्धेन प्रमातृत्वप्राप्तौ सत्यां प्रमातुस्तद्द्रष्टृत्वं सम्भवतीत्यर्थः ।
अभेदाभिव्यक्त्येति ।
उक्तप्रकारेण प्रमातृविषयचैतन्ययोरभेदाभिव्यक्त्येत्यर्थः ।
द्वितीयमिति ।
अवच्छिन्नचैतन्यं स्वप्नाध्यासाधिष्ठानमिति पक्षमित्यर्थः ।
‘अयं जगः’ इति प्रत्यस्थाने ‘अहं गजः’ इत्यादिप्रत्ययप्रसङ्गवारणाय अहङ्कारांशस्याधिष्ठानत्वं नाङ्गीक्रियते चेत्, तर्ह्यनवच्छिन्नस्याधिष्ठानत्वमागतमिति पूर्वमताभेदप्रसक्तिरिति शङ्कते —
किं त्विति ।
अन्तःकरणे चैतन्यप्रतिबिम्बभूतं यज्जीवचैतन्यं, तन्मात्रमधिष्ठानमुपेयते, तच्च परिच्छिन्नमेव, उपाधेः परिच्छिन्नत्वात् —
इति परिहरति —
अहङ्कारोपहितमिति ।
अत इति ।
अहमुल्लेखप्रयोजकस्याहङ्कारात्मकान्तःकरणस्याधिष्ठानकोटावननुप्रवेशादित्यर्थः । अविद्यायां बिम्बभूतब्रह्मचैतन्यस्य तस्यां प्रतिबिम्बभूतजीवचैतन्यस्य वा स्वप्नप्रपञ्चाध्यासाधिष्ठानत्वमते तयोस्सर्वप्रमातृसाधारणत्वात् स्वप्नप्रपञ्चस्यापि साधारण्यं स्यात् । अन्तःकरणप्रतिबिम्बचैतन्यस्य तदधिष्ठानत्वे तु साधारण्यप्रसङ्गदोषो नास्तीत्याशयेनास्य द्वितीयपक्षस्य प्रवृत्तिरिति बोध्यम् ।
नन्वेवं शुक्तिरजतादेरसाधारण्यं न स्यात्, तदधिष्ठानचैतन्यस्य साधारणत्वात् - इत्याशङ्क्य हेत्वसिद्धिमाह —
एवमिति ।
वृत्तिमदन्तःकरणेति ।
शुक्तीदमंशसंसृष्टायां वृत्तौ शुक्तीदमंशावच्छिन्नब्रह्मचैतन्यस्य यः प्रतिबिम्बः तस्मिन्नध्यस्यते, स च प्रतिबिम्बो वृत्तिगत एव, तस्य वृत्तिवृत्तिमतोरभेदोपचारात् वृत्तिमदन्तः - करणगतत्वोक्तिः अनन्यवेद्यत्वस्फुटीकरणायेति बोध्यम् ।
वृत्तिगतस्य ब्रह्मप्रतिबिम्बस्य शुक्तिरजताधिष्ठानत्वानुपगमे साधारण्यप्रसङ्गतादवस्थ्यमभिप्रेत्याह —
शुक्तीदमंशावच्छिन्नेति ।
सुखादेरिव शुक्तिरजतादेर्यदनन्यवेद्यत्वं तस्याभावप्रसङ्गादित्यर्थः । देवदत्तसुखदुःखरागद्वेषादिकं देवदत्तादन्यस्य वेद्यं - प्रत्यक्षं न भवतीत्यनन्यवेद्यंतदित्यर्थः ।
अधिष्ठानचैतन्यस्य साधारणत्वेऽपि शुक्तिरजताद्युपादानाज्ञानस्यासाधारण्यात् शुक्तिरजतादेरसाधारण्यमित्याह —
केचित्त्विति ।
बिम्बचैतन्य एवेति ।
वृत्तिगतप्रतिबिम्बं प्रति बिम्बचैतन्ये इत्यर्थः । यद्वा अविद्याप्रतिबिम्बं प्रति बिम्बभूते ब्रह्मचैतन्ये शुक्तीदमंशावच्छिन्ने इत्यर्थः । न त्वसाधारणे वृत्तिप्रतिबिम्बे - इत्येवकारार्थः ।