अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

चतुर्थपरिच्छेदः

स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥
यत्र - यस्मिन् हरौ स्मृते सतीत्यर्थः ।
नन्द­ह­स्त­म­व­लम्ब्य पाणिना मन्द­म­न्द­र­वि­न्द­लो­चनः ।
सञ्चरन् कनककिङ्किणीरवः सन्ततं मम तनोतु मङ्गलम् ॥
यस्या: स्मरणमात्रेण वाग्वि­भू­ति­र्वि­जृ­म्भते ।
सा भारती चिरं नित्यं रमतां मन्मुखाम्बुजे ॥
यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला ।
तयोःसंस्मरणात् पुंसां सर्वतो जयमङ्गलम् ॥
विघ्नेश विधि­मा­र्ता­ण्ड­च­न्द्रे­न्द्रो­पे­न्द्र­व­न्दित ।
नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते ॥
अथ कोऽयमिति ।
तृतीयपरिच्छेदे ब्रह्मज्ञानरूपं मुक्तिसाधनं सपरिकरं निरूपितम् । इदानीं तत्फलभूता मुक्ति­र्नि­रू­प्यते । तथा च फलनिरूपणपरस्य चतु­र्थ­प­रि­च्छे­दस्य साध­न­नि­रू­प­ण­प­र­तृ­ती­य­प­रि­च्छे­दा­न­न्तर्यं अथशब्दार्थः । लेशो नाम अवयवः । न च अनाद्यविद्याया अवयवोऽस्ति, सावयवस्य कार्यत्वनियमात् । अतोऽविद्यालेशो न संभवतीति किंशब्दार्थः ।