कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
चतुर्थपरिच्छेदः
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥
यत्र - यस्मिन् हरौ स्मृते सतीत्यर्थः ।
नन्दहस्तमवलम्ब्य पाणिना मन्दमन्दरविन्दलोचनः ।
सञ्चरन् कनककिङ्किणीरवः सन्ततं मम तनोतु मङ्गलम् ॥
यस्या: स्मरणमात्रेण वाग्विभूतिर्विजृम्भते ।
सा भारती चिरं नित्यं रमतां मन्मुखाम्बुजे ॥
यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला ।
तयोःसंस्मरणात् पुंसां सर्वतो जयमङ्गलम् ॥
विघ्नेश विधिमार्ताण्डचन्द्रेन्द्रोपेन्द्रवन्दित ।
नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते ॥
अथ कोऽयमिति ।
तृतीयपरिच्छेदे ब्रह्मज्ञानरूपं मुक्तिसाधनं सपरिकरं निरूपितम् । इदानीं तत्फलभूता मुक्तिर्निरूप्यते । तथा च फलनिरूपणपरस्य चतुर्थपरिच्छेदस्य साधननिरूपणपरतृतीयपरिच्छेदानन्तर्यं अथशब्दार्थः । लेशो नाम अवयवः । न च अनाद्यविद्याया अवयवोऽस्ति, सावयवस्य कार्यत्वनियमात् । अतोऽविद्यालेशो न संभवतीति किंशब्दार्थः ।