अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

ब्रह्मज्ञाननिवर्तकनिरूपणम्

नन्व­स्त्वे­त­दे­व­मिति ।
एतत् - ब्रह्मज्ञानं एवम् - अन्तःकरणद्वारा स्वोपा­दा­ना­ज्ञा­न­ना­शकं अस्त्वित्यर्थः ।

तथापीति ।
ब्रह्मज्ञानस्य सवि­ला­सा­ज्ञा­न­ना­श­क­त्वेऽ­पी­त्यर्थः । सका­र्या­ज्ञा­न­ना­श­कस्य अज्ञाननाशकाले अवशिष्यमाणस्य ब्रह्मज्ञानस्य नाशो न सिद्ध्येत्, स्वस्य स्वना­श­क­त्वा­यो­गात् नाश­का­न्त­रा­न­व­शे­षाच्च इत्यर्थः । प्रथमं ब्रह्म­ज्ञा­न­व्य­ति­रि­क्तस्य सकलस्य ब्रह्मज्ञानेन नाशः पश्चात् अवशिष्टस्य ब्रह्मज्ञानस्य नाशः-इति क्रमो नोपेयते, किं तु ब्रह्मज्ञानेन सवि­ला­सा­ज्ञा­न­ना­श­काले सविलासाज्ञानेन सहैव ब्रह्म­ज्ञा­न­स्यापि नाशः इत्युपेयते । ब्रह्म­ज्ञा­न­स्यैव स्वनाशं प्रत्यपि हेतु­त्वा­भ्यु­प­ग­मात् ।

न चैकस्यैव स्वपरविलापकत्वं न दृष्टमिति वाच्यम्, कतकरजसि दृष्टत्वात् - इति परिहरति —
न - यथेति ।

पूर्वेति ।
कतकरजस्संयोगात् पूर्वं जलेन संयु­क्त­र­जोऽ­न्तरैः जलस्य विश्ले­ष­मि­त्यर्थः ।

पूर्वाध्यस्तेति ।
ब्रह्म­ज्ञा­ना­ध्या­सात् पूर्वेत्यर्थः ।

अन्ये त्विति ।
यथा वह्नि­त­प्त­लो­ह­पिण्डे प्रक्षिप्तमम्बु लोहगतमग्निं नाशयत् आत्मानमपि नाशयति तथा ब्रह्म­ज्ञा­न­म­पी­त्यर्थः । ब्रह्मज्ञानस्य स्वव्यतिरिक्तं सर्वं निवर्तयतः तदैव स्वस्यापि निवर्तने दग्धलोहेन पीताम्बुरूपं दृष्टान्तं उदा­ह­र­न्ती­त्य­क्ष­रार्थः ।

अपरे त्विति ।
यथा शुष्कतृणसमूहे प्रक्षिप्तो दहनःतृणकूटं नाशयन् आत्मानमपि नाशयति, तथा अज्ञा­न­त­त्का­र्य­स­मु­दाये समुत्पन्नो ब्रह्मप्रत्ययः तन्नाशयन् आत्मानमपि नाशयतीत्यर्थः ।

ननु ‘दग्ध­दा­ह्य­द­ह­ना­दी­न्या­येन ब्रह्मज्ञानादेव ब्रह्म­ज्ञा­न­नाशः’ इत्यु­प­पा­द­न­म­यु­क्तम्, घटादिनाशे प्रति­यो­गि­घ­टा­द्य­ति­रि­क्त­मु­द्ग­र­पा­ता­दि­का­र­णा­न्त­र­द­र्श­नेन ध्वंसस्य प्रति­यो­ग्य­ति­रि­क्त­का­र­ण­ज­न्य­त्व­नि­य­मात् — इति शङ्कते —
न च ध्वंसस्येति ।

निरिन्धनेति ।
इन्धनानां निश्शेषं नाशानन्तरं दहनस्य स्वत एव नाशदर्शनेन निरि­न्ध­न­द­ह­न­ध्वंसे स्वापा­व्य­व­हि­त­पू­र्व­का­ली­न­ज्ञा­ना­दि­ध्वंसे च प्रति­यो­गि­मा­त्र­जन्ये व्यभि­चा­रा­च्चे­त्यर्थः ।

उक्तं व्यभिचारं पूर्ववादी परिहरति —
निरिन्धनेति ।

अति­प्र­स­ङ्ग­स्यै­वा­सिद्ध्या ध्वंसे प्रति­यो­ग्य­ति­रि­क्त­का­र­ण­ज­न्य­त्व­नि­य­मस्य अप्र­यो­ज­क­त्व­मि­त्या­श­येन दूषयति सिद्धान्ती —
अति­प्र­स­ङ्गा­प­रि­ज्ञा­ना­दिति ।

ननु कुतोऽ­प­रि­ज्ञा­न­मिति चेत्, तत्र वक्तव्यं ‘ब्रह्म­ज्ञा­न­ध्वं­सस्य प्रति­यो­ग्य­ति­रि­क्ता­ज­न्यत्वे घटादिध्वंसोऽपि प्रति­यो­ग्य­ति­रि­क्त­का­र­णा­न­पेक्षः स्यात्’ इत्यतिप्रसङ्गो वा ‘घटादिध्वंसवत् ब्रह्म­ज्ञा­न­ध्वं­सोऽपि प्रति­यो­ग्य­ति­रि­क्त­का­र­णा­पे­क्षः­स्यात्’ इत्यतिप्रसङ्गो वा ‘ब्रह्म­ज्ञा­न­ध्वं­स­वत् घट­ज्ञा­ना­दि­ध्वं­सोऽपि कार­णा­न्त­रा­न­पेक्षः स्यात्’ इत्यतिप्रसङ्गो वा ‘ब्रह्मज्ञानस्य स्वोत्प­त्ति­द्वि­ती­य­क्षण एव नाशः स्यात्’ इत्यतिप्रसङ्गो वा विवक्षित इति । तत्राद्यमनूद्य दूषयति —
न चेति ।

ध्वंसमात्र इति ।
ध्वंस­त्वा­व­च्छिन्न इत्यर्थः ।

अनभिधानादिति ।
न च सिद्धान्तिना तथाऽनभिधानेऽपि ध्वंस­त्वा­वि­शे­षात् तत्र तदापाद्यत इति वाच्यम्, अप्र­यो­ज­क­त्वा­दिति भावः ।

द्विती­य­म­ति­प्र­स­ङ्गेन दूषयति —
घट­ध्वं­स­दृ­ष्टा­न्ते­नेति ।
ध्वंस­त्व­हे­तु­नेति शेषः ।

तृतीयमनूद्य अप्रयोजकत्वेन दूषयति —
नापि ज्ञान­ध्वं­स­त्व­सा­म्या­दिति ।
ब्रह्म­ज्ञा­न­ध्वं­स­दृ­ष्टा­न्ते­नेति शेषः ।

सुषुप्तीति ।
सुषु­प्ति­पू­र्व­ज्ञा­ना­दि­गु­णस्य नाश­क­गु­णा­न्त­रा­पे­क्षायां तस्यापि नाश­का­त्म­गु­णा­न्त­र­क­ल्प­ना­पत्त्या सुषु­प्त्यु­च्छे­द­प्र­स­ङ्गः­स्यात्, तत्परिहाराय सुषु­प्ति­पू­र्व­ज्ञा­ना­दि­गु­णस्य नाश­का­न्त­रा­न­पे­क्षत्वं वक्तव्यमिति भावः ।

मूला­ज्ञा­ना­नि­व­र्त­केति ।
घटा­दि­ज्ञा­ने­त्यर्थः ।

चतु­र्थ­म­ति­प्र­स­ङ्ग­म­नूद्य तस्येष्टत्वमाह —
नापि कार­णा­न्त­र­नै­र­पेक्ष्य इति ।
ब्रह्म­ज्ञा­न­ध्वं­स­स्येति शेषः ।

ननू­दा­हृ­त­नि­रि­न्ध­न­द­ह­न­ध्वं­सादौ जल­से­का­दि­वि­शे­ष­का­र­णानां व्यभि­चा­र­द­र्श­नेऽपि साधारणकारणानां व्यभि­चा­रा­द­र्श­नेन ब्रह्म­ज्ञा­न­ध्वं­स­स्यापि साधा­र­ण­का­र­णा­पेक्षा दुर्वारेत्यत आह —
निरि­न्ध­न­द­ह­न­ध्वं­स­न्या­ये­नेति ।

ननु —प्रथमक्षणे ब्रह्मज्ञानस्य जन्म, द्वितीयक्षणे सवि­ला­सा­ज्ञा­न­नि­वृत्तिः, तृतीयक्षणे ब्रह्मज्ञानस्य निवृत्तिः, इति क्रमे सति ब्रह्म­ज्ञा­न­ना­शा­त्पू­र्व­क्षणे काला­दृ­ष्टा­दी­ना­म­स­त्त्वात् कथं तेषां ब्रह्म­ज्ञा­न­ना­श­हे­तु­त्वा­भ्यु­प­गमे विरोधाभावः, इत्यत आह —
सर्वप्रपञ्चेति ।

स्वमतेनाह —
चिदविद्येति ।

परमतेनाह —
द्रव्यान्तरेति ।

यद्वा स्वम­तेऽ­पी­श्व­रस्य काल­त्व­म­भि­प्रे­त्याह —
द्रव्यान्तरेति ।

स्वम­ते­नै­वा­दृ­ष्टस्य द्विप्र­का­र­त्व­माह —
ईश्वरेति ।
प्रसा­द­ग्र­ह­ण­मु­प­ल­क्ष­णम् । पुण्य­मी­श्व­र­प्र­सा­द­रूपं पाप­मी­श्व­र­क्रो­ध­रू­प­मिति द्रष्टव्यम् ।

अन्तःकरणेति ।
आत्मनः स्वमते निर्गुणत्वादिति भावः ।

अन्येषां चेति ।
ईश्व­र­दि­गा­दी­ना­म­पी­त्यर्थः ।

न च तत्रेति ।
ब्रह्म­ज्ञा­न­ध्वंस इत्यर्थः ।

ज्ञानै­क­नि­व­र्त्यत्वं हि ज्ञाना­ति­रि­क्ता­नि­व­र्त्यत्वे सति ज्ञान­नि­व­र्त्य­त्व­रूपं यथाश्रुतं न भवति, ज्ञान­सा­ध्या­या­म­ज्ञा­न­नि­वृत्तौ ज्ञाना­ति­रि­क्तस्य प्रतियोगिनोऽपि हेतुत्वात्, किं त्वन्यदेव तदित्याह —
ज्ञानाघटितेति ।
ज्ञानाघटिता या सामग्री तदनिवर्त्यत्वे सतीत्यर्थः । प्रप­ञ्च­स­त्य­त्व­म­तेऽपि घटा­दे­र्ज्ञा­न­नि­व­र्त्य­त्व­मस्ति । ‘घटं नाशयामि’ इत्या­दि­ज्ञा­न­पू­र्वकं मुद्गरपातादिना तन्ना­श­द­र्श­ना­दिति तद्वारणाय सत्यन्तम् । घटादिनाशस्य ज्ञान­पू­र्व­क­त्व­नि­य­मा­भा­वेन ज्ञाना­घ­टि­ता­सा­म­ग्री­नि­व­र्त्य­जा­तीये घटादौ तद­घ­टि­त­सा­म­ग्र्य­नि­व­र्त्य­त्व­स्या­भा­वात् । न च परमते नाश­मा­त्र­स्ये­श्व­र­ज्ञा­न­घ­टि­त­सा­म­ग्री­सा­ध्य­त्वात् तदीयज्ञानमादाय कार्यमात्रे ज्ञाना­घ­टि­त­सा­म­ग्र्य­नि­व­र्त्यत्वे सति ज्ञान­नि­व­र्त्य­त्व­म­स्तीति नैतत् मिथ्या­त्व­नि­र्व­च­न­मिति वाच्यम् । लक्षणे ज्ञानपदस्य जैव­ज्ञा­न­प­र­त्वात् । आत्म­न्य­ति­व्या­प्ति­वा­र­णाय विशेष्यमिति भावः । ननु कार्यमात्रे कालादृष्टादेः कार­ण­त्व­म­ङ्गी­कृत्य ब्रह्म­ज्ञा­न­ध्वं­सेऽपि कालादृष्टादेः कार­ण­त्वा­भ्यु­प­गमे मूला­ज्ञा­न­ध्वं­स­रूपे मोक्षेऽपि कालादेः कारणत्वं स्यात्, कार्य­त्वा­वि­शे­षात् ।

न चेष्टापत्तिः, ‘नान्यः पन्थाः’ इति श्रुति­वि­रो­धा­दि­त्यत आह —
नान्यः पन्था इतीति ।
अस्याः श्रुतेः ज्ञानमेकमेव मोक्ष­सा­ध­न­मि­त्यत्र न तात्पर्यम्, किं तु मोक्षस्य ज्ञानाघटितं किमपि साधनं नास्तीत्यत्र तात्पर्यम्, अतो न श्रुतिविरोध इत्यर्थः ।

अत इति ।
श्रुति­वि­रो­धा­दि­रू­प­बा­ध­का­भा­वा­दि­त्यर्थः । ‘वृत्तिरूपस्य ब्रह्मज्ञानस्य अवि­द्या­दि­ना­श­क­त्व­व­देव स्वना­श­क­त्व­म­प्यस्ति’ इत्युक्तम् ।

इदानीं, ‘वृत्ति­रू­प­ब्र­ह्म­ज्ञा­न­स्या­वि­द्या­दि­ना­श­कत्वं स्वनाशकत्वं वा नास्ति, किं तु तद्वृ­त्त्या­रू­ढ­चै­त­न्य­मेव तद्वृ­त्ति­स­हि­त­स­र्व­ना­श­कम्’ इति मतमाह —
केचित्त्विति ।

ननु चैत­न्य­स्या­ज्ञा­ना­दि­सा­ध­क­त्वात् कथं तस्य नाशकत्वम्, अत आह —
स्वरूपेणेति ।

तत्र दृष्टान्तं श्लोकेन दर्शयति —
तृणादेरिति ।
एषा - प्रत्यक्षा सूर्यदीप्तिः स्वरूपेण तृणादेः प्रकाशिकाऽपि सूर्य­का­न्त­म­णि­मु­पा­रुह्य तृणादिकं दहतीति प्रत्य­क्ष­सिद्धं, तन्न्यायं तत्र - चैतन्ये योजयेत् । चैतन्यं स्वरू­पे­णा­ज्ञा­ना­दि­प्र­का­श­क­मपि वृत्ति­वि­शे­ष­सं­सृष्टं सत् अज्ञा­ना­दे­र्ना­श­क­मिति निश्चिनुयादेव, न तु ‘साधकस्य कथं घातकत्वं’ इत्यसम्भावनया प्रमा­ण­सि­द्ध­म­र्थ­मु­पे­क्षे­तेति श्लोकतात्पर्यम् ।

ननु — मण्यारूढा सूर्यदीप्तिः मणि­व्य­ति­रि­क्त­मेव तृणादिकं दहति, न तु मणिमपि । तथा वृत्त्यारूढं चैतन्यं वृत्ति­व्य­ति­रि­क्त­मे­वा­ज्ञा­ना­दिकं नाशयेत् । न वृत्तिमपि । तथा च ब्रह्मज्ञानं कथं नश्येत्, नाश­का­न्त­रा­भा­वात् - इति शङ्कायाः समाधानं कथं लब्धं, तत्राह —
एवं चेति ।
चैतन्यस्य वृत्त्यारूढस्य नाशकत्वे ‘प्रका­शा­प्र­का­श­यो­रेवे लोके निव­र्त्य­नि­व­र्त­क­भा­व­द­र्श­नात् प्रकाशस्यापि सहकारिविशेषवशेन नाश­क­त्वा­वि­रो­धाच्च’ इति युक्तिद्वयेन सिद्धे सतीत्यर्थः ।

उन्मूलयन्निति ।
मूलभूताज्ञानेन सह नाशयन्नित्यर्थः ।

प्रगल्भते इति ।
समर्थो भवतीत्यर्थः ।

तन्नाश इति ।
चरमवृत्तिनाश इत्यर्थः ।

अज्ञाननाश एव ब्रह्म­ज्ञा­न­ना­श­हेतुः —इति मतं दर्शयति —
अन्ये त्विति ।

अज्ञानस्यैवेति ।
उक्तं च पञ्चपादिकायां —‘ज्ञान­म­ज्ञा­न­स्यैव निवर्तकम्’ इति ।

साक्षादिति ।
विरोधप्रयोजकस्य समानविषयत्वादेः अज्ञान एव सम्भवादिति भावः ।

तत एवेति ।
उपा­दा­न­ना­शा­दे­वे­त्यर्थः ।

साक्षात् परम्परया वेति ।
मूला­ज्ञा­न­मा­त्रस्य ज्ञानै­क­नि­व­र्त्य­तया मिथ्यात्वसिद्धौ मूला­ज्ञा­ना­ति­रि­क्त­ज­ड­मा­त्रस्य तदधीनतया स्वयं साक्षा­ज्ज्ञा­न­नि­व­र्त्य­त्वा­भा­वेऽपि कृत्स्न­प्र­प­ञ्चस्य मिथ्या­त्व­सि­द्धि­र­प्र­त्यूहा इत्यपि मन्तव्यम् ।

अस्य मतस्य जीव­न्मु­क्ति­शा­स्त्रा­नु­गृ­ही­तत्वं दर्शयति —
एवञ्चेत्यादिना ।
अज्ञा­ना­ति­रि­क्तस्य जडस्य ज्ञानेन सह साक्षा­द्वि­रो­धा­भावे सतीत्यर्थः ।

ननु तत्त्व­सा­क्षा­त्का­रे­णा­ज्ञा­न­नाशे सति उपादानाभावात् देहा­दे­र­व­स्था­ना­स­म्भवे सति कथं विद्योदये देहा­दि­प्र­ति­भासः, इत्यत आह —
प्रारब्धेति ।
तत्त्व­सा­क्षा­त्का­रो­दये सति अज्ञानस्य निश्शेषेण निवृ­त्ति­प्र­सक्तौ, प्रार­ब्ध­क­र्म­कृ­त­प्र­ति­ब­न्ध­व­शात् अज्ञानलेशस्य निवृत्तिर्न सम्भवति, तल्लेशानुवृत्तौ च तत्त्व­ज्ञा­ना­न­न्त­र­मपि प्रारब्धकर्मणः तत्कार्यस्य देहा­दि­प्र­ति­भा­स­स्या­प्य­नु­वृ­त्ति­र्यु­ज्यते देहा­द्यु­पा­दा­न­भू­त­स्या­वि­द्या­ले­श­स्या­नु­वृ­त्ते­रि­त्यर्थः ।

पूर्वमते जीव­न्मु­क्त्य­सि­द्धि­माह —
अज्ञानवदिति ।

नायमिति ।
जीवन्मुक्तस्य देहादिप्रतिभास इत्यर्थः ।

विरोधिनीति ।
ज्ञानस्येव प्रार­ब्ध­क­र्म­णोऽपि साक्षा­द्वि­रो­धि­नी­त्यर्थः ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­त्स्व­यं­प्र­का­शा­नन्द- सर­स्व­ती­दि­व्य­श्री­च­र­णा­र­वि­न्द­सं­ल­ग्न­र­जो­भू­त­स्या­च्युत- कृष्णा­न­न्द­ती­र्थस्य कृतौ शास्त्र­सि­द्धान्त- लेश­सं­ग्र­ह­व्या­ख्यायां कृष्णा­ल­ङ्का­रा­ख्यायां तृतीयपरिच्छेदः समाप्तः ॥
श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं सम्प्रणम्य च ।
व्याख्यातोऽयं परिच्छेदः श्रीकृ­ष्ण­प­रि­तु­ष्टये ॥