कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
ब्रह्मज्ञाननिवर्तकनिरूपणम्
नन्वस्त्वेतदेवमिति ।
एतत् - ब्रह्मज्ञानं एवम् - अन्तःकरणद्वारा स्वोपादानाज्ञाननाशकं अस्त्वित्यर्थः ।
तथापीति ।
ब्रह्मज्ञानस्य सविलासाज्ञाननाशकत्वेऽपीत्यर्थः । सकार्याज्ञाननाशकस्य अज्ञाननाशकाले अवशिष्यमाणस्य ब्रह्मज्ञानस्य नाशो न सिद्ध्येत्, स्वस्य स्वनाशकत्वायोगात् नाशकान्तरानवशेषाच्च इत्यर्थः । प्रथमं ब्रह्मज्ञानव्यतिरिक्तस्य सकलस्य ब्रह्मज्ञानेन नाशः पश्चात् अवशिष्टस्य ब्रह्मज्ञानस्य नाशः-इति क्रमो नोपेयते, किं तु ब्रह्मज्ञानेन सविलासाज्ञाननाशकाले सविलासाज्ञानेन सहैव ब्रह्मज्ञानस्यापि नाशः इत्युपेयते । ब्रह्मज्ञानस्यैव स्वनाशं प्रत्यपि हेतुत्वाभ्युपगमात् ।
न चैकस्यैव स्वपरविलापकत्वं न दृष्टमिति वाच्यम्, कतकरजसि दृष्टत्वात् - इति परिहरति —
न - यथेति ।
पूर्वेति ।
कतकरजस्संयोगात् पूर्वं जलेन संयुक्तरजोऽन्तरैः जलस्य विश्लेषमित्यर्थः ।
पूर्वाध्यस्तेति ।
ब्रह्मज्ञानाध्यासात् पूर्वेत्यर्थः ।
अन्ये त्विति ।
यथा वह्नितप्तलोहपिण्डे प्रक्षिप्तमम्बु लोहगतमग्निं नाशयत् आत्मानमपि नाशयति तथा ब्रह्मज्ञानमपीत्यर्थः । ब्रह्मज्ञानस्य स्वव्यतिरिक्तं सर्वं निवर्तयतः तदैव स्वस्यापि निवर्तने दग्धलोहेन पीताम्बुरूपं दृष्टान्तं उदाहरन्तीत्यक्षरार्थः ।
अपरे त्विति ।
यथा शुष्कतृणसमूहे प्रक्षिप्तो दहनःतृणकूटं नाशयन् आत्मानमपि नाशयति, तथा अज्ञानतत्कार्यसमुदाये समुत्पन्नो ब्रह्मप्रत्ययः तन्नाशयन् आत्मानमपि नाशयतीत्यर्थः ।
ननु ‘दग्धदाह्यदहनादीन्यायेन ब्रह्मज्ञानादेव ब्रह्मज्ञाननाशः’ इत्युपपादनमयुक्तम्, घटादिनाशे प्रतियोगिघटाद्यतिरिक्तमुद्गरपातादिकारणान्तरदर्शनेन ध्वंसस्य प्रतियोग्यतिरिक्तकारणजन्यत्वनियमात् — इति शङ्कते —
न च ध्वंसस्येति ।
निरिन्धनेति ।
इन्धनानां निश्शेषं नाशानन्तरं दहनस्य स्वत एव नाशदर्शनेन निरिन्धनदहनध्वंसे स्वापाव्यवहितपूर्वकालीनज्ञानादिध्वंसे च प्रतियोगिमात्रजन्ये व्यभिचाराच्चेत्यर्थः ।
उक्तं व्यभिचारं पूर्ववादी परिहरति —
निरिन्धनेति ।
अतिप्रसङ्गस्यैवासिद्ध्या ध्वंसे प्रतियोग्यतिरिक्तकारणजन्यत्वनियमस्य अप्रयोजकत्वमित्याशयेन दूषयति सिद्धान्ती —
अतिप्रसङ्गापरिज्ञानादिति ।
ननु कुतोऽपरिज्ञानमिति चेत्, तत्र वक्तव्यं ‘ब्रह्मज्ञानध्वंसस्य प्रतियोग्यतिरिक्ताजन्यत्वे घटादिध्वंसोऽपि प्रतियोग्यतिरिक्तकारणानपेक्षः स्यात्’ इत्यतिप्रसङ्गो वा ‘घटादिध्वंसवत् ब्रह्मज्ञानध्वंसोऽपि प्रतियोग्यतिरिक्तकारणापेक्षःस्यात्’ इत्यतिप्रसङ्गो वा ‘ब्रह्मज्ञानध्वंसवत् घटज्ञानादिध्वंसोऽपि कारणान्तरानपेक्षः स्यात्’ इत्यतिप्रसङ्गो वा ‘ब्रह्मज्ञानस्य स्वोत्पत्तिद्वितीयक्षण एव नाशः स्यात्’ इत्यतिप्रसङ्गो वा विवक्षित इति । तत्राद्यमनूद्य दूषयति —
न चेति ।
ध्वंसमात्र इति ।
ध्वंसत्वावच्छिन्न इत्यर्थः ।
अनभिधानादिति ।
न च सिद्धान्तिना तथाऽनभिधानेऽपि ध्वंसत्वाविशेषात् तत्र तदापाद्यत इति वाच्यम्, अप्रयोजकत्वादिति भावः ।
द्वितीयमतिप्रसङ्गेन दूषयति —
घटध्वंसदृष्टान्तेनेति ।
ध्वंसत्वहेतुनेति शेषः ।
तृतीयमनूद्य अप्रयोजकत्वेन दूषयति —
नापि ज्ञानध्वंसत्वसाम्यादिति ।
ब्रह्मज्ञानध्वंसदृष्टान्तेनेति शेषः ।
सुषुप्तीति ।
सुषुप्तिपूर्वज्ञानादिगुणस्य नाशकगुणान्तरापेक्षायां तस्यापि नाशकात्मगुणान्तरकल्पनापत्त्या सुषुप्त्युच्छेदप्रसङ्गःस्यात्, तत्परिहाराय सुषुप्तिपूर्वज्ञानादिगुणस्य नाशकान्तरानपेक्षत्वं वक्तव्यमिति भावः ।
मूलाज्ञानानिवर्तकेति ।
घटादिज्ञानेत्यर्थः ।
चतुर्थमतिप्रसङ्गमनूद्य तस्येष्टत्वमाह —
नापि कारणान्तरनैरपेक्ष्य इति ।
ब्रह्मज्ञानध्वंसस्येति शेषः ।
ननूदाहृतनिरिन्धनदहनध्वंसादौ जलसेकादिविशेषकारणानां व्यभिचारदर्शनेऽपि साधारणकारणानां व्यभिचारादर्शनेन ब्रह्मज्ञानध्वंसस्यापि साधारणकारणापेक्षा दुर्वारेत्यत आह —
निरिन्धनदहनध्वंसन्यायेनेति ।
ननु —प्रथमक्षणे ब्रह्मज्ञानस्य जन्म, द्वितीयक्षणे सविलासाज्ञाननिवृत्तिः, तृतीयक्षणे ब्रह्मज्ञानस्य निवृत्तिः, इति क्रमे सति ब्रह्मज्ञाननाशात्पूर्वक्षणे कालादृष्टादीनामसत्त्वात् कथं तेषां ब्रह्मज्ञाननाशहेतुत्वाभ्युपगमे विरोधाभावः, इत्यत आह —
सर्वप्रपञ्चेति ।
स्वमतेनाह —
चिदविद्येति ।
परमतेनाह —
द्रव्यान्तरेति ।
यद्वा स्वमतेऽपीश्वरस्य कालत्वमभिप्रेत्याह —
द्रव्यान्तरेति ।
स्वमतेनैवादृष्टस्य द्विप्रकारत्वमाह —
ईश्वरेति ।
प्रसादग्रहणमुपलक्षणम् । पुण्यमीश्वरप्रसादरूपं पापमीश्वरक्रोधरूपमिति द्रष्टव्यम् ।
अन्तःकरणेति ।
आत्मनः स्वमते निर्गुणत्वादिति भावः ।
अन्येषां चेति ।
ईश्वरदिगादीनामपीत्यर्थः ।
न च तत्रेति ।
ब्रह्मज्ञानध्वंस इत्यर्थः ।
ज्ञानैकनिवर्त्यत्वं हि ज्ञानातिरिक्तानिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वरूपं यथाश्रुतं न भवति, ज्ञानसाध्यायामज्ञाननिवृत्तौ ज्ञानातिरिक्तस्य प्रतियोगिनोऽपि हेतुत्वात्, किं त्वन्यदेव तदित्याह —
ज्ञानाघटितेति ।
ज्ञानाघटिता या सामग्री तदनिवर्त्यत्वे सतीत्यर्थः । प्रपञ्चसत्यत्वमतेऽपि घटादेर्ज्ञाननिवर्त्यत्वमस्ति । ‘घटं नाशयामि’ इत्यादिज्ञानपूर्वकं मुद्गरपातादिना तन्नाशदर्शनादिति तद्वारणाय सत्यन्तम् । घटादिनाशस्य ज्ञानपूर्वकत्वनियमाभावेन ज्ञानाघटितासामग्रीनिवर्त्यजातीये घटादौ तदघटितसामग्र्यनिवर्त्यत्वस्याभावात् । न च परमते नाशमात्रस्येश्वरज्ञानघटितसामग्रीसाध्यत्वात् तदीयज्ञानमादाय कार्यमात्रे ज्ञानाघटितसामग्र्यनिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वमस्तीति नैतत् मिथ्यात्वनिर्वचनमिति वाच्यम् । लक्षणे ज्ञानपदस्य जैवज्ञानपरत्वात् । आत्मन्यतिव्याप्तिवारणाय विशेष्यमिति भावः । ननु कार्यमात्रे कालादृष्टादेः कारणत्वमङ्गीकृत्य ब्रह्मज्ञानध्वंसेऽपि कालादृष्टादेः कारणत्वाभ्युपगमे मूलाज्ञानध्वंसरूपे मोक्षेऽपि कालादेः कारणत्वं स्यात्, कार्यत्वाविशेषात् ।
न चेष्टापत्तिः, ‘नान्यः पन्थाः’ इति श्रुतिविरोधादित्यत आह —
नान्यः पन्था इतीति ।
अस्याः श्रुतेः ज्ञानमेकमेव मोक्षसाधनमित्यत्र न तात्पर्यम्, किं तु मोक्षस्य ज्ञानाघटितं किमपि साधनं नास्तीत्यत्र तात्पर्यम्, अतो न श्रुतिविरोध इत्यर्थः ।
अत इति ।
श्रुतिविरोधादिरूपबाधकाभावादित्यर्थः । ‘वृत्तिरूपस्य ब्रह्मज्ञानस्य अविद्यादिनाशकत्ववदेव स्वनाशकत्वमप्यस्ति’ इत्युक्तम् ।
इदानीं, ‘वृत्तिरूपब्रह्मज्ञानस्याविद्यादिनाशकत्वं स्वनाशकत्वं वा नास्ति, किं तु तद्वृत्त्यारूढचैतन्यमेव तद्वृत्तिसहितसर्वनाशकम्’ इति मतमाह —
केचित्त्विति ।
ननु चैतन्यस्याज्ञानादिसाधकत्वात् कथं तस्य नाशकत्वम्, अत आह —
स्वरूपेणेति ।
तत्र दृष्टान्तं श्लोकेन दर्शयति —
तृणादेरिति ।
एषा - प्रत्यक्षा सूर्यदीप्तिः स्वरूपेण तृणादेः प्रकाशिकाऽपि सूर्यकान्तमणिमुपारुह्य तृणादिकं दहतीति प्रत्यक्षसिद्धं, तन्न्यायं तत्र - चैतन्ये योजयेत् । चैतन्यं स्वरूपेणाज्ञानादिप्रकाशकमपि वृत्तिविशेषसंसृष्टं सत् अज्ञानादेर्नाशकमिति निश्चिनुयादेव, न तु ‘साधकस्य कथं घातकत्वं’ इत्यसम्भावनया प्रमाणसिद्धमर्थमुपेक्षेतेति श्लोकतात्पर्यम् ।
ननु — मण्यारूढा सूर्यदीप्तिः मणिव्यतिरिक्तमेव तृणादिकं दहति, न तु मणिमपि । तथा वृत्त्यारूढं चैतन्यं वृत्तिव्यतिरिक्तमेवाज्ञानादिकं नाशयेत् । न वृत्तिमपि । तथा च ब्रह्मज्ञानं कथं नश्येत्, नाशकान्तराभावात् - इति शङ्कायाः समाधानं कथं लब्धं, तत्राह —
एवं चेति ।
चैतन्यस्य वृत्त्यारूढस्य नाशकत्वे ‘प्रकाशाप्रकाशयोरेवे लोके निवर्त्यनिवर्तकभावदर्शनात् प्रकाशस्यापि सहकारिविशेषवशेन नाशकत्वाविरोधाच्च’ इति युक्तिद्वयेन सिद्धे सतीत्यर्थः ।
उन्मूलयन्निति ।
मूलभूताज्ञानेन सह नाशयन्नित्यर्थः ।
प्रगल्भते इति ।
समर्थो भवतीत्यर्थः ।
तन्नाश इति ।
चरमवृत्तिनाश इत्यर्थः ।
अज्ञाननाश एव ब्रह्मज्ञाननाशहेतुः —इति मतं दर्शयति —
अन्ये त्विति ।
अज्ञानस्यैवेति ।
उक्तं च पञ्चपादिकायां —‘ज्ञानमज्ञानस्यैव निवर्तकम्’ इति ।
साक्षादिति ।
विरोधप्रयोजकस्य समानविषयत्वादेः अज्ञान एव सम्भवादिति भावः ।
तत एवेति ।
उपादाननाशादेवेत्यर्थः ।
साक्षात् परम्परया वेति ।
मूलाज्ञानमात्रस्य ज्ञानैकनिवर्त्यतया मिथ्यात्वसिद्धौ मूलाज्ञानातिरिक्तजडमात्रस्य तदधीनतया स्वयं साक्षाज्ज्ञाननिवर्त्यत्वाभावेऽपि कृत्स्नप्रपञ्चस्य मिथ्यात्वसिद्धिरप्रत्यूहा इत्यपि मन्तव्यम् ।
अस्य मतस्य जीवन्मुक्तिशास्त्रानुगृहीतत्वं दर्शयति —
एवञ्चेत्यादिना ।
अज्ञानातिरिक्तस्य जडस्य ज्ञानेन सह साक्षाद्विरोधाभावे सतीत्यर्थः ।
ननु तत्त्वसाक्षात्कारेणाज्ञाननाशे सति उपादानाभावात् देहादेरवस्थानासम्भवे सति कथं विद्योदये देहादिप्रतिभासः, इत्यत आह —
प्रारब्धेति ।
तत्त्वसाक्षात्कारोदये सति अज्ञानस्य निश्शेषेण निवृत्तिप्रसक्तौ, प्रारब्धकर्मकृतप्रतिबन्धवशात् अज्ञानलेशस्य निवृत्तिर्न सम्भवति, तल्लेशानुवृत्तौ च तत्त्वज्ञानानन्तरमपि प्रारब्धकर्मणः तत्कार्यस्य देहादिप्रतिभासस्याप्यनुवृत्तिर्युज्यते देहाद्युपादानभूतस्याविद्यालेशस्यानुवृत्तेरित्यर्थः ।
पूर्वमते जीवन्मुक्त्यसिद्धिमाह —
अज्ञानवदिति ।
नायमिति ।
जीवन्मुक्तस्य देहादिप्रतिभास इत्यर्थः ।
विरोधिनीति ।
ज्ञानस्येव प्रारब्धकर्मणोऽपि साक्षाद्विरोधिनीत्यर्थः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्स्वयंप्रकाशानन्द- सरस्वतीदिव्यश्रीचरणारविन्दसंलग्नरजोभूतस्याच्युत- कृष्णानन्दतीर्थस्य कृतौ शास्त्रसिद्धान्त- लेशसंग्रहव्याख्यायां कृष्णालङ्काराख्यायां तृतीयपरिच्छेदः समाप्तः ॥
श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं सम्प्रणम्य च ।
व्याख्यातोऽयं परिच्छेदः श्रीकृष्णपरितुष्टये ॥