कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
‘प्रमासामान्यम् अज्ञाननिवर्तकम्’ इति नियमपरीक्षा
‘प्रमामात्रमज्ञाननिवर्तकम्’ इति नियमस्यापि व्यभिचारं शङ्कते —
नन्विति ।
परोक्षज्ञानस्यापि तन्निवर्तकत्वसत्त्वात् न व्यभिचार इति वक्तुमज्ञानस्य द्वैविध्यमाह —
द्विविधमित्यादिना ।
रज्ज्वादीति ।
रज्ज्वादेर्यो विक्षेपः सर्पादिरूपो विवर्तः तदुपादानभूतमित्यर्थः ।
कार्यकल्प्यमिति ।
विक्षेपाख्यकार्यानुपपत्तिकल्प्यम्, न त्वनुभवसिद्धमित्यर्थः ।
ननु रज्ज्वादिगताज्ञानस्य ‘रज्जुं न जानामि’ इत्यनुभवसिद्धत्वात् कथं तस्य कार्यैककल्प्यत्वमित्याशङ्क्य, अनुभवस्य विषयगताज्ञानं न विषय इत्याह —
अन्यदिति ।
अत्र ‘विषयावारकमज्ञानं द्विविधम् — एकं विषयाश्रितं अन्यत् पुरुषाश्रितम्’ इति सम्बन्धः । तथा च ‘विषयाश्रितं सप्रमाणं प्रदर्श्य पुरुषाश्रितं सप्रमाणं दर्शयति’ इति वा अन्यदित्यस्यावतरणं बोध्यम् ।
नन्वेकेनैवाज्ञानेन सर्पादिविक्षेपस्य ‘न जानामि’ इत्यनुभवस्य च सिद्धेः किमज्ञानद्वैविध्येन ? अत आह —
पुरुषाश्रितस्येति ।
विषयोरज्ज्वादिरधिष्ठानं, तत्सम्भिन्नः - विषयतादात्म्यापन्नः यो विक्षेपः, तदुपादानत्वासम्भवेनेत्यर्थः ।
विषयाश्रितस्येति । ‘स जानामि’ इत्याकारको यस्साक्षिरूपः प्रकाशः तत्संसर्गायोगेनेत्यर्थः ।
इदानीं व्यभिचारं परिहरति —
एवं चेति ।
अज्ञानद्वैविध्ये सतीत्यर्थः । एवं च परोक्षस्थले विषयगताज्ञानानिवृत्तावपि पुरुषगताज्ञाननिवृत्तिरस्त्येवेति सम्बन्धः । तथा च न व्यभिचार इति भावः ।
परोक्षज्ञानस्य विषयगताज्ञाननिवर्तकत्वाभावे हेतुद्वयमाह —
वृत्तेरित्यादिना ।
निर्गमनाभावादिति ।
विषयचैतन्यसंसृष्टाया एव वृत्तेर्विषयचैतन्यगताज्ञाननिवर्तकत्वस्य वक्ष्यमाणतया निर्गमनाभावे वृत्तिविषयचैतन्यसंसर्गो न सिध्यतीति भावः ।
तद्विपरीतेति ।
‘दूरे दृश्यमानो वृक्षः सन्निहितवृक्ष इव महान्’ इत्याप्तवाक्यजन्यपरोक्षज्ञानविषयभूतात् दूरस्थवृक्षगतात् तस्मात् परिमाणविशेषात् विपरीतो यः परिमाणरूपविक्षेपविशेषः तस्य दर्शनादित्यर्थः । यदि परोक्षज्ञानं विषयगताज्ञाननिवर्तकं स्यात्, तदा आप्तवाक्यजन्यावगमेन परिमाणविशेषाज्ञाननिवृत्त्यापत्त्या विपरीतपरिमाणात्मकविक्षेपोत्पत्तिर्न स्यात् उपादानाभावादिति भावः ।
परोक्षज्ञानेन पुरुषगताज्ञाननिवृत्तौ हेतुमाह —
शास्त्रार्थमिति ।
‘शास्त्रार्थं न जानामि’ इत्यनेन प्रकारेण यच्छास्त्रार्थाज्ञानमनुभूतं तस्य शास्त्रार्थोपदेशानन्तरं ‘शास्त्रार्थाज्ञानमिदानीं निवृत्तम्’ इति निवृत्तिरनुभूयते । तत्र शास्त्रार्थो द्विविधः - धर्मरूपो ब्रह्मरूपश्च । धर्मरूपे शास्त्रार्थे उपदेशजन्यज्ञानं परोक्षमेव, न तु कदाचिदप्यपरोक्षम् । तस्य साक्षात्कारायोग्यत्वात् । तथा च तत्र विषयगताज्ञाननिवृत्तिप्रसक्तिरेव नास्तीति पुरुषगताज्ञानमेव निवर्तत इति वक्तव्यम् । इतरथा तन्निवृत्त्यनुभवविरोधात् । ब्रह्मरूपे च शास्त्रार्थे उपदेशजन्यज्ञानं परोक्षम् । तावन्मात्रात् न विषयावारकं मूलाज्ञानं विषयगतं निवर्तते । मननादिविधिवैयर्थ्यप्रसङ्गात् । अतः पुरुषगताज्ञानमेव निवर्तत इति वक्तव्यम्, अन्यथा तत्रापि तन्निवृत्त्यनुभवविरोधादेव इति भावः ।
परोक्षज्ञानस्य अज्ञाननिवर्तकत्वे विवरणादिसम्मतिमाह —
अत एवेति ।
उक्तानुभवबलादेवेत्यर्थः । तद्विषयेत्यत्र तत्पदमनुमेयादिपरम् । सुषुप्तिपदमज्ञानपरं व्यावृत्तिपदं निवृत्तिपरमिति व्याख्यातं तत्त्वदीपने ।
तथा च अनुमेयादौ विषयगताज्ञाननिवृत्त्यभावस्य वक्ष्यमाणतया तत्र पुरुषगताज्ञाननिवृत्तिः अनुमित्यादिपरोक्षज्ञानेन जायत इत्ययमर्थः तत्र विवृत इति प्रतीयत इत्यर्थः ॥अज्ञानद्वैविध्याभावेऽपि ‘प्रमामात्रमज्ञाननिवर्तकम्’ इति नियमस्य न व्यभिचार इति मतं दर्शयति —
अन्ये त्विति ।
पुरुषगताज्ञानापेक्षया अन्यत् विषयगतमज्ञानं किं विषयावरणार्थमुपेयते, किं वा शुक्तिरजतादिविक्षेपोत्पत्त्यर्थम् ।
नाद्य इत्याह —
नयनपटलवदिति ।
नयनगतकाचादिवदित्यर्थः ।
न द्वितीय इत्याह —
न तदतिरेकेणेति ।
विषयगताज्ञानाभावेऽपि वक्ष्यमाणविधया विक्षेपोत्पत्तिसम्भवादिति भावः ।
प्रमाणाभावोऽसिद्ध इति शङ्कते —
न चेति ।
न सम्भवतीति ।
पुरुषगताज्ञानस्य शुक्त्याद्यवच्छिन्नचैतन्ये सत्त्वाभावादिति भावः ।
पुरुषगतस्यैवाज्ञानस्य विषयगतविक्षेपोपादानत्वे दोषमाह —
तत्सम्भवे वेति ।
पुरुषगताज्ञानस्य विषयगतविक्षेपपरिणामित्वं तच्छब्दार्थः ।
न सम्भवतीति ।
विषयगताज्ञानस्यानभ्युपगमात् पुरुषगताज्ञानस्य च आप्तोपदेशजन्यपरोक्षज्ञानेन निवृत्तत्वाच्चेति भावः ।
आद्यदोषं परिहरति —
वाचस्पतिमत इति ।
शुक्तिरजतादिविक्षेपस्याज्ञानपरिणामत्वपक्षे अज्ञानस्य विषयचैतन्यगतत्वं वक्तव्यम् । तस्याज्ञानपरिणामत्वानङ्गीकारपक्षे तु तस्य विषयचैतन्यगतत्वं नापेक्षितमिति भावः । दार्ष्टान्तिके ब्रह्मपदं शुक्त्याद्यवच्छिन्नचैतन्यरूपब्रह्मपरं, न तु पूर्णब्रह्मपरम्, अवच्छिन्नचैतन्यस्यैव शुक्तिरजताद्यधिष्ठानत्वोपगमादिति भावः । ‘विपरीतपरिमाणरूपो विक्षेपो न सम्भवति’ इति द्वितीयदोषं परिहरति —
परोक्षवृत्त्येति ।
परोक्षज्ञानात् अज्ञाननिवृत्तिर्यथा अनुभूयते, तथा उदाहृतस्थले सत्यपि परोक्षज्ञाने विपरीतपरिमाणोत्पत्तिरनुभूयते । तथा चानुभवद्वयानुरोधेन पुरुषाश्रितस्यैवाज्ञानस्य विषयावारकस्य एकदेशः परोक्षज्ञानेन निवर्तते एकदेशान्तरमनुवर्तते इति कल्प्यते । न त्वज्ञानद्वैविध्यमभ्युपगम्यते, गौरवादिति भावः । अवस्थान्तरेणेत्यनन्तरं पुरुषाश्रिताज्ञानस्यैवेति शेषः । वस्तुतस्तु परोक्षज्ञानस्याज्ञाननिवर्तकत्वमतेऽपि प्रतिबन्धरहितमेव परोक्षज्ञानमज्ञाननिवर्तकम् । प्रकृते च भ्रमानुरोधेन दूरत्वादिदोषप्रतिबद्धत्वात् आप्तवाक्यजन्यमपि ज्ञानं पुरुषगताज्ञाननिवर्तकं न भवति । अतो न विपरीतपरिमाणोत्पत्त्यनुपपत्तिशङ्कावकाशः । न च तथा सति आप्तोपदेशानन्तरं ‘दूरस्थवृक्षगतपरिमाणविशेषं न जानामि’ इत्यनुभवापत्तिरिति वाच्यम् । सत्तानिश्चयरूपपरोक्षज्ञानस्य सत्यप्यज्ञाने तदनुभवप्रतिबन्धकत्वोपपत्तेः । न च ‘प्रमामात्रमज्ञाननिवर्तकम्’ इति नियमस्य प्रतिबद्धपरोक्षप्रमायां व्यभिचार इति वाच्यम् । अप्रतिबद्धत्वस्य प्रभाविशेषणत्वोपपत्तेरिति बोध्यम् । एवं ‘अप्रतिबद्धप्रमामात्रमज्ञाननिवर्तकम्’ नियममनुसृत्य तदव्यभिचाराय परोक्षज्ञानस्याज्ञाननिवर्तकत्वमुपपादितम् ।
इदानीं ‘तथा नियमो नास्ति, किं त्वप्रतिबद्धापरोक्षज्ञानमेवाज्ञाननिवर्तकम्, अतो न परोक्षज्ञाने व्यभिचारशङ्का’ इति मतमवतारयति —
अपरे त्विति ।
लोके घटादेर्मृदादिपरिणामत्वस्य प्रसिद्धत्वात् तद्वत् शुक्तिरजतादेरपि परिणामत्वं सिद्ध्यति । तत्परिणामि च अन्वयव्यतिरेकाभ्यां परिशेषसहकृताभ्यां अज्ञानमेव सिद्ध्यति । शुक्त्यादेः प्रातिभासिकरजतादिपरिणामित्वासम्भवात् । अज्ञानस्य च विषयचैतन्यगतस्य यथा रजतादिविक्षेपपरिणामित्वमाञ्जस्येनोपपद्यते, न तथा पुरुषाश्रितस्योपपद्यते । अतस्तदुपपत्त्याञ्जस्यानुरोधेन विषयगतमेव अवस्थारूपमज्ञानमास्थेयं, न तु पुरुषगतमप्यवस्थारूपमज्ञानान्तरं, वैयर्थ्यात् मानाभावाच्चेति भावः । यद्यपि पुरुषाश्रितस्याप्यज्ञानस्य पुरुषमपरित्यज्यैव दीर्घप्रभान्यायेन वृत्तिद्वारा बहिर्निर्गत्य विषयचैतन्यमाश्रितस्य रजतादिपरिणामित्वमुपपद्यते, तथापि सा उपपत्तिर्नाञ्जसी, मूलाऽज्ञानवदवस्थाऽज्ञानस्यापि निष्क्रियत्वेन प्रभान्यायानवतारात्, इत्यभिप्रेत्य परिणामोपपत्त्याञ्जस्यादित्युक्तम् ।
तथा सतीति ।
विषयावारकाज्ञानस्य विषयगतत्वे सतीत्यर्थः । तत इति पञ्चमी । साक्षिणः इत्यर्थः ।
असम्भवश्चेति ।
परोक्षवृत्तेः विषयदेशे निर्गमनाभावादिति भावः ।
आद्यदोषं परिहरति —
अवस्थारूपाज्ञानस्येति ।
‘शुक्तिं न जानामि’ इत्याद्यनुभवस्य न अवस्थाऽज्ञानं विषयगतं विषयः, किं तु मूलाज्ञानम्, तस्यैव साक्षिसंसृष्टत्वादित्यर्थः । ननु मूलाज्ञानस्य ब्रह्मविषयकत्वात् कथं तस्य शुक्तिविषयकत्वानुभवस्सम्भवति । अवस्थाऽज्ञानस्य वा कथं शुक्तिविषयकत्वानुभवस्सम्भवति, तस्यापि शुक्त्यवच्छिन्नचैतन्यमात्रविषयकत्वात् ।
शुक्तेरवस्थाऽज्ञानविषयचैतन्यतादात्म्याच्छुक्तिविषयकत्वानुभवो न विरुद्ध्यत - इति चेत्, तुल्यमुत्तरमित्यभिप्रेत्याह —
शुक्त्यादेरपीति ।
अभिन्नतयेति ।
जडमात्रस्य मूलाज्ञानविषयचैतन्येऽध्यस्ततया शुक्त्यादेरपि तत्तादात्म्यरूपं तदभिन्नत्वमस्तीति भावः । ‘शुक्तिं न जानामि’ इत्यनुभवस्य मूलाज्ञानविषयकत्वे विवरणादिसम्मतिमाह —
विवरणादिष्विति ।
ननु मूलाज्ञानसाधनप्रकरणे ‘अहमज्ञः’ इत्याकारे योऽनुभवः प्रदर्शितः स एव मूलाज्ञानसाधकः । ‘इदमहं न जानामि’ इत्यनुभवस्तु अवस्थाऽज्ञानविषयक एव । न च प्रकरणविरोधश्शङ्कनीयः । शुक्तिरजतादिलक्षणपरिणामोपपत्तये अवस्थाऽज्ञानस्यापि साधनीयत्वेन मूलाज्ञानसाधनप्रकरणेऽपि प्रसङ्गात् तत्साधनोपपत्तेः । यथा ‘इदं न जानामि’ इत्यनुभवः तत्तद्विषयावच्छिन्नचैतन्याज्ञानगोचरः एवम् ‘अहमज्ञस्तत्त्वं न जानामि’ इत्यनुभवो मूलाज्ञानगोचरः इति दृष्टान्तविधया मूलाज्ञानसाधनप्रस्तावेऽपिविषयविशेषालिङ्गिताज्ञानानुभवप्रदर्शनोपपत्तेश्च ।
तस्मात् ‘इदं न जानामि, शुक्तिं न जानामि’ इत्याद्यनुभवानां मूलाज्ञानविषयकत्वे प्रमाणाभावात् अवस्थाऽज्ञानविषयकत्वस्यैव तत्साधनार्थतया वक्तव्यत्वाच्च तस्य विषयगतत्वे सिद्धे साक्षिसंसर्गाभावात् न तदनुभवस्संभवति - इत्याशयवतीं शङ्कामनुवदति —
अहमज्ञ इतीति ।
विषयगताज्ञानस्य साक्षिणा सह साक्षात्सम्बन्धाभावेऽपि परम्परासम्बन्धसम्भवात् न तदनुभवानुपपत्तिरिति परिहरति —
अवस्थाऽवस्थावतोरिति ।
अभेदेनेति ।
तादात्म्यमभेदः । तथा च साक्षिसंसृष्टमूलाज्ञानावस्थात्वात् विषयगताज्ञानस्य मूलाज्ञानद्वारा साक्षिसंसर्ग इत्यर्थः ।
साक्षीति ।
साक्षिचैतन्यस्य अवस्थाऽज्ञानाश्रयविषयचैतन्यस्य च वस्तुत एकत्वात् वस्तुतस्साक्ष्यभिन्नचैतन्याश्रितत्वं साक्षिणा सह विषयगताज्ञानस्य संसर्ग इत्यर्थः । यदुक्तं — परोक्षवृत्तिनिवर्त्यत्वं विषयगताज्ञानस्य न सम्भवति । परोक्षवृत्तेर्निर्गमनाभावात् । तथा च ‘प्रमामात्रमज्ञाननिवर्तकम्’ इति नियमो न सम्भवति, परोक्षवृत्तौ व्यभिचारात् - इति - तन्न - परोक्षज्ञानस्याज्ञाननिवर्तकत्वानुपगमेन तथानियमानभ्युपगमात् । तथानियमे ह्यभ्युपगते परोक्षवृत्तौ व्यभिचारो दोषो भवेत् ।
ननु तर्हि ‘शास्त्रार्थं न जानामि’ इत्यनुभूताज्ञानस्य तदुपदेशानन्तरं तन्निवृत्त्यनुभवविरोध इति, नेत्याह —
परोक्षज्ञानस्येति ।
तत इति ।
परोक्षज्ञानादित्यर्थः ।
भ्रान्तित्वोपपत्तेरिति ।
न चात्र बाधकाभावात् कथं भ्रान्तित्वकल्पनमिति वाच्यम् । विषयगताज्ञानापेक्षया पुरुषगतानन्तावस्थाऽज्ञानान्तरकल्पनागौरवस्य बाधकस्य सत्त्वादिति भावः ।
कथं तर्हि प्रमाणवृत्तीनां तन्निवर्तकत्वाभ्युपगमः तत्राह —
अपरोक्षज्ञानस्यैवेति ।
न तु परोक्षज्ञानसाधारणप्रमाणज्ञानमात्रस्य, अतो न परोक्षज्ञाने व्यभिचारः इत्येवकाराभिप्रयः ॥तद्धर्मेति । तच्छब्दोऽहङ्कारपरः ।
अनभ्युपगमादिति ।
अविद्याऽहङ्कारादीनां स्वसत्ताकाले भाननियमेन तेषामावरणानङ्गीकारादित्यर्थः ।
नियमस्य सङ्कोचं वदन् परिहरति —
नेति ।