अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

‘प्रमासामान्यम् अज्ञाननिवर्तकम्’ इति नियमपरीक्षा

‘प्रमा­मा­त्र­म­ज्ञा­न­नि­व­र्त­कम्’ इति नियमस्यापि व्यभिचारं शङ्कते —
नन्विति ।

परो­क्ष­ज्ञा­न­स्यापि तन्नि­व­र्त­क­त्व­स­त्त्वात् न व्यभिचार इति वक्तुमज्ञानस्य द्वैविध्यमाह —
द्विवि­ध­मि­त्या­दिना ।

रज्ज्वादीति ।
रज्ज्वादेर्यो विक्षेपः सर्पादिरूपो विवर्तः तदु­पा­दा­न­भू­त­मि­त्यर्थः ।

कार्यकल्प्यमिति ।
विक्षे­पा­ख्य­का­र्या­नु­प­प­त्ति­क­ल्प्यम्, न त्वनु­भ­व­सि­द्ध­मि­त्यर्थः ।

ननु रज्ज्वा­दि­ग­ता­ज्ञा­नस्य ‘रज्जुं न जानामि’ इत्य­नु­भ­व­सि­द्ध­त्वात् कथं तस्य कार्यै­क­क­ल्प्य­त्व­मि­त्या­शङ्क्य, अनुभवस्य विषयगताज्ञानं न विषय इत्याह —
अन्यदिति ।
अत्र ‘विष­या­वा­र­क­म­ज्ञानं द्विविधम् — एकं विषयाश्रितं अन्यत् पुरुषाश्रितम्’ इति सम्बन्धः । तथा च ‘विषयाश्रितं सप्रमाणं प्रदर्श्य पुरुषाश्रितं सप्रमाणं दर्शयति’ इति वा अन्य­दि­त्य­स्या­व­त­रणं बोध्यम् ।

नन्वे­के­नै­वा­ज्ञा­नेन सर्पा­दि­वि­क्षे­पस्य ‘न जानामि’ इत्यनुभवस्य च सिद्धेः किम­ज्ञा­न­द्वै­वि­ध्येन ? अत आह —
पुरु­षा­श्रि­त­स्येति ।
विष­यो­र­ज्ज्वा­दि­र­धि­ष्ठानं, तत्सम्भिन्नः - विष­य­ता­दा­त्म्या­पन्नः यो विक्षेपः, तदु­पा­दा­न­त्वा­स­म्भ­वे­ने­त्यर्थः ।

विष­या­श्रि­त­स्येति । ‘स जानामि’ इत्याकारको यस्साक्षिरूपः प्रकाशः तत्सं­स­र्गा­यो­गे­ने­त्यर्थः ।

इदानीं व्यभिचारं परिहरति —
एवं चेति ।
अज्ञा­न­द्वै­विध्ये सतीत्यर्थः । एवं च परोक्षस्थले विष­य­ग­ता­ज्ञा­ना­नि­वृ­त्ता­वपि पुरु­ष­ग­ता­ज्ञा­न­नि­वृ­त्ति­र­स्त्ये­वेति सम्बन्धः । तथा च न व्यभिचार इति भावः ।

परोक्षज्ञानस्य विष­य­ग­ता­ज्ञा­न­नि­व­र्त­क­त्वा­भावे हेतुद्वयमाह —
वृत्ते­रि­त्या­दिना ।

निर्ग­म­ना­भा­वा­दिति ।
विष­य­चै­त­न्य­सं­सृ­ष्टाया एव वृत्ते­र्वि­ष­य­चै­त­न्य­ग­ता­ज्ञा­न­नि­व­र्त­क­त्वस्य वक्ष्यमाणतया निर्गमनाभावे वृत्ति­वि­ष­य­चै­त­न्य­सं­सर्गो न सिध्यतीति भावः ।

तद्विपरीतेति ।
‘दूरे दृश्यमानो वृक्षः सन्निहितवृक्ष इव महान्’ इत्या­प्त­वा­क्य­ज­न्य­प­रो­क्ष­ज्ञा­न­वि­ष­य­भू­तात् दूर­स्थ­वृ­क्ष­ग­तात् तस्मात् परिमाणविशेषात् विपरीतो यः परि­मा­ण­रू­प­वि­क्षे­प­वि­शेषः तस्य दर्शनादित्यर्थः । यदि परोक्षज्ञानं विष­य­ग­ता­ज्ञा­न­नि­व­र्तकं स्यात्, तदा आप्त­वा­क्य­ज­न्या­व­ग­मेन परि­मा­ण­वि­शे­षा­ज्ञा­न­नि­वृ­त्त्या­पत्त्या विप­री­त­प­रि­मा­णा­त्म­क­वि­क्षे­पो­त्प­त्तिर्न स्यात् उपादानाभावादिति भावः ।

परोक्षज्ञानेन पुरु­ष­ग­ता­ज्ञा­न­नि­वृत्तौ हेतुमाह —
शास्त्रार्थमिति ।
‘शास्त्रार्थं न जानामि’ इत्यनेन प्रकारेण यच्छा­स्त्रा­र्था­ज्ञा­न­म­नु­भूतं तस्य शास्त्रा­र्थो­प­दे­शा­न­न्तरं ‘शास्त्रा­र्था­ज्ञा­न­मि­दानीं निवृत्तम्’ इति निवृ­त्ति­र­नु­भू­यते । तत्र शास्त्रार्थो द्विविधः - धर्मरूपो ब्रह्मरूपश्च । धर्मरूपे शास्त्रार्थे उपदेशजन्यज्ञानं परोक्षमेव, न तु कदा­चि­द­प्य­प­रो­क्षम् । तस्य साक्षा­त्का­रा­यो­ग्य­त्वात् । तथा च तत्र विष­य­ग­ता­ज्ञा­न­नि­वृ­त्ति­प्र­स­क्ति­रेव नास्तीति पुरु­ष­ग­ता­ज्ञा­न­मेव निवर्तत इति वक्तव्यम् । इतरथा तन्नि­वृ­त्त्य­नु­भ­व­वि­रो­धात् । ब्रह्मरूपे च शास्त्रार्थे उपदेशजन्यज्ञानं परोक्षम् । तावन्मात्रात् न विषयावारकं मूलाज्ञानं विषयगतं निवर्तते । मन­ना­दि­वि­धि­वै­य­र्थ्य­प्र­स­ङ्गात् । अतः पुरु­ष­ग­ता­ज्ञा­न­मेव निवर्तत इति वक्तव्यम्, अन्यथा तत्रापि तन्नि­वृ­त्त्य­नु­भ­व­वि­रो­धा­देव इति भावः ।

परोक्षज्ञानस्य अज्ञा­न­नि­व­र्त­कत्वे विव­र­णा­दि­स­म्म­ति­माह —
अत एवेति ।
उक्ता­नु­भ­व­ब­ला­दे­वे­त्यर्थः । तद्विषयेत्यत्र तत्प­द­म­नु­मे­या­दि­प­रम् । सुषु­प्ति­प­द­म­ज्ञा­न­परं व्यावृत्तिपदं निवृत्तिपरमिति व्याख्यातं तत्त्वदीपने ।

तथा च अनुमेयादौ विष­य­ग­ता­ज्ञा­न­नि­वृ­त्त्य­भा­वस्य वक्ष्यमाणतया तत्र पुरु­ष­ग­ता­ज्ञा­न­नि­वृत्तिः अनु­मि­त्या­दि­प­रो­क्ष­ज्ञा­नेन जायत इत्ययमर्थः तत्र विवृत इति प्रतीयत इत्यर्थः ॥अ­ज्ञा­न­द्वै­वि­ध्या­भा­वेऽपि ‘प्रमा­मा­त्र­म­ज्ञा­न­नि­व­र्त­कम्’ इति नियमस्य न व्यभिचार इति मतं दर्शयति —
अन्ये त्विति ।
पुरु­ष­ग­ता­ज्ञा­ना­पे­क्षया अन्यत् विषयगतमज्ञानं किं विष­या­व­र­णा­र्थ­मु­पे­यते, किं वा शुक्ति­र­ज­ता­दि­वि­क्षे­पो­त्प­त्त्य­र्थम् ।

नाद्य इत्याह —
नयनपटलवदिति ।
नय­न­ग­त­का­चा­दि­व­दि­त्यर्थः ।

न द्वितीय इत्याह —
न तदतिरेकेणेति ।
विष­य­ग­ता­ज्ञा­ना­भा­वेऽपि वक्ष्यमाणविधया विक्षे­पो­त्प­त्ति­स­म्भ­वा­दिति भावः ।

प्रमा­णा­भा­वोऽ­सिद्ध इति शङ्कते —
न चेति ।

न सम्भवतीति ।
पुरु­ष­ग­ता­ज्ञा­नस्य शुक्त्या­द्य­व­च्छि­न्न­चै­तन्ये सत्त्वाभावादिति भावः ।

पुरु­ष­ग­त­स्यै­वा­ज्ञा­नस्य विष­य­ग­त­वि­क्षे­पो­पा­दा­नत्वे दोषमाह —
तत्सम्भवे वेति ।
पुरु­ष­ग­ता­ज्ञा­नस्य विष­य­ग­त­वि­क्षे­प­प­रि­णा­मित्वं तच्छब्दार्थः ।

न सम्भवतीति ।
विष­य­ग­ता­ज्ञा­न­स्या­न­भ्यु­प­ग­मात् पुरु­ष­ग­ता­ज्ञा­नस्य च आप्तो­प­दे­श­ज­न्य­प­रो­क्ष­ज्ञा­नेन निवृ­त्त­त्वा­च्चेति भावः ।

आद्यदोषं परिहरति —
वाचस्पतिमत इति ।
शुक्ति­र­ज­ता­दि­वि­क्षे­प­स्या­ज्ञा­न­प­रि­णा­म­त्व­पक्षे अज्ञानस्य विष­य­चै­त­न्य­ग­तत्वं वक्तव्यम् । तस्या­ज्ञा­न­प­रि­णा­म­त्वा­न­ङ्गी­का­र­पक्षे तु तस्य विष­य­चै­त­न्य­ग­तत्वं नापेक्षितमिति भावः । दार्ष्टान्तिके ब्रह्मपदं शुक्त्या­द्य­व­च्छि­न्न­चै­त­न्य­रू­प­ब्र­ह्म­परं, न तु पूर्ण­ब्र­ह्म­प­रम्, अव­च्छि­न्न­चै­त­न्य­स्यैव शुक्ति­र­ज­ता­द्य­धि­ष्ठा­न­त्वो­प­ग­मा­दिति भावः । ‘विप­री­त­प­रि­मा­ण­रूपो विक्षेपो न सम्भवति’ इति द्वितीयदोषं परिहरति —

परो­क्ष­वृ­त्त्येति ।
परोक्षज्ञानात् अज्ञा­न­नि­वृ­त्ति­र्यथा अनुभूयते, तथा उदाहृतस्थले सत्यपि परोक्षज्ञाने विप­री­त­प­रि­मा­णो­त्प­त्ति­र­नु­भू­यते । तथा चानु­भ­व­द्व­या­नु­रो­धेन पुरु­षा­श्रि­त­स्यै­वा­ज्ञा­नस्य विषयावारकस्य एकदेशः परोक्षज्ञानेन निवर्तते एक­दे­शा­न्त­र­म­नु­व­र्तते इति कल्प्यते । न त्वज्ञा­न­द्वै­वि­ध्य­म­भ्यु­प­ग­म्यते, गौरवादिति भावः । अव­स्था­न्त­रे­णे­त्य­न­न्तरं पुरु­षा­श्रि­ता­ज्ञा­न­स्यै­वेति शेषः । वस्तुतस्तु परो­क्ष­ज्ञा­न­स्या­ज्ञा­न­नि­व­र्त­क­त्व­म­तेऽपि प्रति­ब­न्ध­र­हि­त­मेव परो­क्ष­ज्ञा­न­म­ज्ञा­न­नि­व­र्त­कम् । प्रकृते च भ्रमानुरोधेन दूर­त्वा­दि­दो­ष­प्र­ति­ब­द्ध­त्वात् आप्त­वा­क्य­ज­न्य­मपि ज्ञानं पुरु­ष­ग­ता­ज्ञा­न­नि­व­र्तकं न भवति । अतो न विप­री­त­प­रि­मा­णो­त्प­त्त्य­नु­प­प­त्ति­श­ङ्का­व­काशः । न च तथा सति आप्तो­प­दे­शा­न­न्तरं ‘दूर­स्थ­वृ­क्ष­ग­त­प­रि­मा­ण­वि­शेषं न जानामि’ इत्य­नु­भ­वा­प­त्ति­रिति वाच्यम् । सत्ता­नि­श्च­य­रू­प­प­रो­क्ष­ज्ञा­नस्य सत्यप्यज्ञाने तद­नु­भ­व­प्र­ति­ब­न्ध­क­त्वो­प­पत्तेः । न च ‘प्रमा­मा­त्र­म­ज्ञा­न­नि­व­र्त­कम्’ इति नियमस्य प्रति­ब­द्ध­प­रो­क्ष­प्र­मायां व्यभिचार इति वाच्यम् । अप्र­ति­ब­द्ध­त्वस्य प्रभा­वि­शे­ष­ण­त्वो­प­प­त्ते­रिति बोध्यम् । एवं ‘अप्र­ति­ब­द्ध­प्र­मा­मा­त्र­म­ज्ञा­न­नि­व­र्त­कम्’ नियममनुसृत्य तदव्यभिचाराय परो­क्ष­ज्ञा­न­स्या­ज्ञा­न­नि­व­र्त­क­त्व­मु­प­पा­दि­तम् ।

इदानीं ‘तथा नियमो नास्ति, किं त्वप्र­ति­ब­द्धा­प­रो­क्ष­ज्ञा­न­मे­वा­ज्ञा­न­नि­व­र्त­कम्, अतो न परोक्षज्ञाने व्यभिचारशङ्का’ इति मतमवतारयति —
अपरे त्विति ।
लोके घटा­दे­र्मृ­दा­दि­प­रि­णा­म­त्वस्य प्रसिद्धत्वात् तद्वत् शुक्तिरजतादेरपि परिणामत्वं सिद्ध्यति । तत्परिणामि च अन्व­य­व्य­ति­रे­काभ्यां परि­शे­ष­स­ह­कृ­ताभ्यां अज्ञानमेव सिद्ध्यति । शुक्त्यादेः प्राति­भा­सि­क­र­ज­ता­दि­प­रि­णा­मि­त्वा­स­म्भ­वात् । अज्ञानस्य च विषयचैतन्यगतस्य यथा रज­ता­दि­वि­क्षे­प­प­रि­णा­मि­त्व­मा­ञ्ज­स्ये­नो­प­प­द्यते, न तथा पुरु­षा­श्रि­त­स्यो­प­प­द्यते । अत­स्त­दु­प­प­त्त्या­ञ्ज­स्या­नु­रो­धेन विषयगतमेव अव­स्था­रू­प­म­ज्ञा­न­मा­स्थेयं, न तु पुरु­ष­ग­त­म­प्य­व­स्था­रू­प­म­ज्ञा­ना­न्तरं, वैयर्थ्यात् मानाभावाच्चेति भावः । यद्यपि पुरु­षा­श्रि­त­स्या­प्य­ज्ञा­नस्य पुरु­ष­म­प­रि­त्य­ज्यैव दीर्घ­प्र­भा­न्या­येन वृत्तिद्वारा बहिर्निर्गत्य विष­य­चै­त­न्य­मा­श्रि­तस्य रज­ता­दि­प­रि­णा­मि­त्व­मु­प­प­द्यते, तथापि सा उप­प­त्ति­र्ना­ञ्जसी, मूलाऽ­ज्ञा­न­व­द­व­स्थाऽ­ज्ञा­न­स्यापि निष्क्रियत्वेन प्रभा­न्या­या­न­व­ता­रात्, इत्यभिप्रेत्य परि­णा­मो­प­प­त्त्या­ञ्ज­स्या­दि­त्यु­क्तम् ।

तथा सतीति ।
विष­या­वा­र­का­ज्ञा­नस्य विषयगतत्वे सतीत्यर्थः । तत इति पञ्चमी । साक्षिणः इत्यर्थः ।

असम्भवश्चेति ।
परोक्षवृत्तेः विषयदेशे निर्ग­म­ना­भा­वा­दिति भावः ।

आद्यदोषं परिहरति —
अव­स्था­रू­पा­ज्ञा­न­स्येति ।
‘शुक्तिं न जानामि’ इत्याद्यनुभवस्य न अवस्थाऽज्ञानं विषयगतं विषयः, किं तु मूलाज्ञानम्, तस्यैव साक्षि­सं­सृ­ष्ट­त्वा­दि­त्यर्थः । ननु मूलाज्ञानस्य ब्रह्म­वि­ष­य­क­त्वात् कथं तस्य शुक्ति­वि­ष­य­क­त्वा­नु­भ­व­स्स­म्भ­वति । अवस्थाऽज्ञानस्य वा कथं शुक्ति­वि­ष­य­क­त्वा­नु­भ­व­स्स­म्भ­वति, तस्यापि शुक्त्य­व­च्छि­न्न­चै­त­न्य­मा­त्र­वि­ष­य­क­त्वात् ।

शुक्ते­र­व­स्थाऽ­ज्ञा­न­वि­ष­य­चै­त­न्य­ता­दा­त्म्या­च्छु­क्ति­वि­ष­य­क­त्वा­नु­भवो न विरुद्ध्यत - इति चेत्, तुल्य­मु­त्त­र­मि­त्य­भि­प्रे­त्याह —
शुक्त्यादेरपीति ।

अभिन्नतयेति ।
जडमात्रस्य मूला­ज्ञा­न­वि­ष­य­चै­त­न्येऽ­ध्य­स्त­तया शुक्त्यादेरपि तत्ता­दा­त्म्य­रूपं तद­भि­न्न­त्व­म­स्तीति भावः । ‘शुक्तिं न जानामि’ इत्यनुभवस्य मूला­ज्ञा­न­वि­ष­य­कत्वे विव­र­णा­दि­स­म्म­ति­माह —

विवरणादिष्विति ।
ननु मूला­ज्ञा­न­सा­ध­न­प्र­क­रणे ‘अहमज्ञः’ इत्याकारे योऽनुभवः प्रदर्शितः स एव मूलाज्ञानसाधकः । ‘इदमहं न जानामि’ इत्यनुभवस्तु अव­स्थाऽ­ज्ञा­न­वि­ष­यक एव । न च प्रक­र­ण­वि­रो­ध­श्श­ङ्क­नीयः । शुक्ति­र­ज­ता­दि­ल­क्ष­ण­प­रि­णा­मो­प­प­त्तये अव­स्थाऽ­ज्ञा­न­स्यापि साधनीयत्वेन मूला­ज्ञा­न­सा­ध­न­प्र­क­र­णेऽपि प्रसङ्गात् तत्साधनोपपत्तेः । यथा ‘इदं न जानामि’ इत्यनुभवः तत्त­द्वि­ष­या­व­च्छि­न्न­चै­त­न्या­ज्ञा­न­गो­चरः एवम् ‘अह­म­ज्ञ­स्तत्त्वं न जानामि’ इत्यनुभवो मूलाज्ञानगोचरः इति दृष्टान्तविधया मूला­ज्ञा­न­सा­ध­न­प्र­स्ता­वेऽ­पि­वि­ष­य­वि­शे­षा­लि­ङ्गि­ता­ज्ञा­ना­नु­भ­व­प्र­द­र्श­नो­प­प­त्तेश्च ।

तस्मात् ‘इदं न जानामि, शुक्तिं न जानामि’ इत्या­द्य­नु­भ­वानां मूला­ज्ञा­न­वि­ष­य­कत्वे प्रमाणाभावात् अव­स्थाऽ­ज्ञा­न­वि­ष­य­क­त्व­स्यैव तत्साधनार्थतया वक्तव्यत्वाच्च तस्य विषयगतत्वे सिद्धे साक्षि­सं­स­र्गा­भा­वात् न तदनुभवस्संभवति - इत्याशयवतीं शङ्कामनुवदति —
अहमज्ञ इतीति ।

विषयगताज्ञानस्य साक्षिणा सह साक्षा­त्स­म्ब­न्धा­भा­वेऽपि पर­म्प­रा­स­म्ब­न्ध­स­म्भ­वात् न तद­नु­भ­वा­नु­प­प­त्ति­रिति परिहरति —
अव­स्थाऽ­व­स्था­व­तो­रिति ।

अभेदेनेति ।
तादात्म्यमभेदः । तथा च साक्षि­सं­सृ­ष्ट­मू­ला­ज्ञा­ना­व­स्था­त्वात् विषयगताज्ञानस्य मूलाज्ञानद्वारा साक्षिसंसर्ग इत्यर्थः ।

साक्षीति ।
साक्षिचैतन्यस्य अव­स्थाऽ­ज्ञा­ना­श्र­य­वि­ष­य­चै­त­न्यस्य च वस्तुत एकत्वात् वस्तु­त­स्सा­क्ष्य­भि­न्न­चै­त­न्या­श्रि­तत्वं साक्षिणा सह विषयगताज्ञानस्य संसर्ग इत्यर्थः । यदुक्तं — परो­क्ष­वृ­त्ति­नि­व­र्त्यत्वं विषयगताज्ञानस्य न सम्भवति । परो­क्ष­वृ­त्ते­र्नि­र्ग­म­ना­भा­वात् । तथा च ‘प्रमा­मा­त्र­म­ज्ञा­न­नि­व­र्त­कम्’ इति नियमो न सम्भवति, परोक्षवृत्तौ व्यभिचारात् - इति - तन्न - परो­क्ष­ज्ञा­न­स्या­ज्ञा­न­नि­व­र्त­क­त्वा­नु­प­ग­मेन तथा­नि­य­मा­न­भ्यु­प­ग­मात् । तथानियमे ह्यभ्युपगते परोक्षवृत्तौ व्यभिचारो दोषो भवेत् ।

ननु तर्हि ‘शास्त्रार्थं न जानामि’ इत्य­नु­भू­ता­ज्ञा­नस्य तदुपदेशानन्तरं तन्नि­वृ­त्त्य­नु­भ­व­वि­रोध इति, नेत्याह —
परो­क्ष­ज्ञा­न­स्येति ।

तत इति ।
परो­क्ष­ज्ञा­ना­दि­त्यर्थः ।

भ्रान्ति­त्वो­प­प­त्ते­रिति ।
न चात्र बाधकाभावात् कथं भ्रान्ति­त्व­क­ल्प­न­मिति वाच्यम् । विष­य­ग­ता­ज्ञा­ना­पे­क्षया पुरु­ष­ग­ता­न­न्ता­व­स्थाऽ­ज्ञा­ना­न्त­र­क­ल्प­ना­गौ­र­वस्य बाधकस्य सत्त्वादिति भावः ।

कथं तर्हि प्रमाणवृत्तीनां तन्नि­व­र्त­क­त्वा­भ्यु­प­गमः तत्राह —
अप­रो­क्ष­ज्ञा­न­स्यै­वेति ।
न तु परो­क्ष­ज्ञा­न­सा­धा­र­ण­प्र­मा­ण­ज्ञा­न­मा­त्रस्य, अतो न परोक्षज्ञाने व्यभिचारः इत्ये­व­का­रा­भि­प्रयः ॥तद्धर्मेति । तच्छ­ब्दोऽ­ह­ङ्का­र­परः ।

अनभ्युपगमादिति ।
अवि­द्याऽ­ह­ङ्का­रा­दीनां स्वसत्ताकाले भाननियमेन तेषा­मा­व­र­णा­न­ङ्गी­का­रा­दि­त्यर्थः ।

नियमस्य सङ्कोचं वदन् परिहरति —
नेति ।