कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
तृतीयपरिच्छेदः
आपन्ना यं समाश्रित्य रक्षां प्राप सुदुर्लभाम् ।
कृष्णा कृष्णस्य महिषी तं कृष्णं संश्रयेऽन्वहम् ॥
पूर्वपरिच्छेदान्ते ब्रह्मप्राप्तिरूपमोक्षस्य विद्यैकप्राप्यत्वमुक्तम् । तत्र विद्याप्राप्यत्वमुपेत्य मोक्षस्य एक - पदलभ्यं साधनान्तरव्यवच्छेदं असहमानः समुच्चयवादी प्रत्यवतिष्ठते —
ननु कथमिति ।