कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
‘ज्ञानसामान्यम् अज्ञाननिवर्तकम्’ इति नियमपरीक्षा
ज्ञानमात्रमज्ञाननिवर्तकमिति नियममाक्षिपति —
नन्वेवंसतीति ।
एकेन ज्ञानेन एकाज्ञानस्य नाशः इतरेषां तिरस्कारः इत्युपगमे सतीत्यर्थः ।
वैफल्यं स्यादिति ।
अज्ञाननाशादिप्रयोजनवत्त्वं न स्यादित्यर्थः ।
तत्प्रयोजनस्य प्रथमज्ञानेनैव सिद्धत्वादित्याह —
प्रथमेति ।
प्रथमज्ञानसिद्धस्यापि आवरणतिरस्कारस्य द्वितीयादिज्ञानसाध्यत्वं साध्यलक्षणविशेषानुरोधेन सम्भवति, अतो न द्वितीयादिज्ञानवैफल्यम्, अज्ञाननाशरूपप्रयोजनाभावेऽपि तत्तिरस्करणलक्षणफलस्य सत्त्वात् - इति परिहरति —
अत्राहुरिति ।
प्रथमं धारारहितबुद्धिस्थले धारावहनस्थले च सिद्धमर्थं सदृष्टान्तं दर्शयति —
वृत्तितिरस्कृतमिति ।
‘घटोऽयम्’ इति प्रत्यक्षज्ञानं हि एकमज्ञानं नाशयत् इतरदज्ञानं सर्वं तिरस्करोति । तच्च तिरस्कृतमज्ञानं घटज्ञानोंपरमसमये पुनस्तमावृणोति । यदि बुभुत्सादिवशात् प्रथममुत्पन्नघटज्ञाननाशक्षणे घटप्रत्यक्षान्तरमुदेति तदा तिरस्कृतमज्ञानं तथैवावतिष्ठते इत्यर्थः । ‘यस्मिन् सति अग्रिमक्षणे यस्य सत्त्वं यस्मिन्नसति यस्यासत्त्वं तत् तज्जन्यम्’ इति साध्यलक्षणम् । इदं च साद्यनादिसाधारणम् । तथा हि - (यस्मिन्) दण्डादौ सति उत्तरक्षणे घटादिकार्यसत्त्वं दण्डादावसति च घटादिकार्यासत्त्वं ततो घटादिकं दण्डादिजन्यम्, तथा प्रायश्चित्ते सति उत्तरक्षणे दुःखप्रागभावस्य सत्त्वं प्रायश्चित्ते चासति दुःखस्यैवोदयात् दुःखप्रागभावस्यासत्त्वं इति रीत्या अनादेरपि दुःखप्रागभावस्य प्रायश्चित्तपरिपाल्यतया प्रायश्चित्तसाध्यत्वमुपेयते ।
एवं प्रकृतेऽपि साध्यत्वं दर्शयति —
तथा चेति ।
द्वितीयवृत्त्युदये सति प्रथमज्ञानसिद्धस्यावरणतिरस्कारस्य उत्तरक्षणे सत्त्वं प्रथमज्ञाननाशक्षणे द्वितीयवृत्त्युदयव्यतिरेके च उक्ततिरस्कारस्यासत्त्वं इति प्रथमज्ञानकाल एव सिद्धस्यापि तस्य द्वितीयवृत्तिजन्यतया तत्फलत्वम्, एवं तृतीयादिवृत्तीनामपि आवरणतिरस्कारफलकत्वं योजनीयमित्यर्थः ।
अनावरणस्येति ।
आवरणतिरस्कारस्येत्यर्थः ॥‘ज्ञानमात्रमज्ञाननिवर्तकं न भवति, धाराद्वितीयादिज्ञाने व्यभिचारात्’ इत्यत्र प्रकारान्तरेण परिहारं ब्रूते —
न्यायचन्द्रिकाकृतस्त्विति ।
न त्विति ।
न चाज्ञानान्तराणां तिरस्काराभावे एकज्ञानकालेऽपि तैरतिरस्कृतैर्विषयस्यावृतत्वाद्विषयानवभासप्रसङ्ग इति वाच्यम् । प्रथमज्ञानोदयसमये एकमेवाज्ञानं विषयावारकम्, इतरेषां तु तदा विषयावारकत्वमेव नोपेयते, अतों न तत्तिरस्करणापेक्षेति भावः ।
ततः किं तत्राह —
तथा चेति ।
आशयमविदुषः शङ्कामनूद्य निराकरोति —
न चैवमित्यादिना ।
एवंशब्दस्य प्रथमज्ञानेन आवारकाज्ञानान्तराणामतिरस्करणे सतीत्यर्थः ।
तत्तत्कालेति ।
अवस्थाऽज्ञानानां सर्वेषां मूलाज्ञानस्येव सर्वदा विषयचैतन्यावारकत्वं नास्ति । वैयर्थ्यात् । किं तु किञ्चिदज्ञानं कञ्चित्कालं विषयचैतन्यमावृणोति किञ्चिच्च कालान्तरे तदावृणोति इत्यनेन प्रकारेण कालविशेषैरुपलक्षितविषयचैतन्यावारकत्वं, ज्ञानानामपि स्वस्वोदयकाले स्वस्वविषयावारकत्वेनप्रसक्ताज्ञाननिवर्तकत्वमित्यर्थः ।
एवमाशयमुद्धाट्य इदानीं विषयानवभासप्रसङ्ग परिहरति —
तथा चेति ।
एकज्ञानकालेऽज्ञानान्तराणामनावारकत्वे सिद्धे सतीत्यर्थः ।
तत्कालीनेति ।
किञ्चिज्ज्ञानोदयकालीनविषयस्यावारकत्वेन प्रसक्ताज्ञानस्येत्यर्थः ।
न तदिति ।
किञ्चिज्ज्ञानकालीनेत्यर्थः ।
ननु तैस्तैः कालविशेषैर्विशिष्टस्यैव विषयस्य तत्तदज्ञानावरणीयत्वं इत्येवं कालविशेषाणां विशेषणतया आवरणीयकोटावनुप्रवेशं विहाय तेषां किमित्युपलक्षणत्वं स्वीक्रियते इत्याशङ्क्य, तथा सति धारास्थले आवारकत्वेनप्रसक्ताज्ञाननिवर्तकद्वितीयादिवृत्तीनामपि तत्तत्कालविशेषविशिष्टविषयकत्वं वाच्यम्, समानविषयकत्वं विना तन्निवर्तकत्वानुपपत्तेः, तच्च न सम्भवति, क्षणभेदानामप्रत्यक्षत्वात्, अतस्तेषामुपलक्षणत्वमाश्रितं इति समाधानमभिप्रेत्य समयविशेषस्योपलक्षणत्वे दृष्टान्तमाह —
कारीरीफले वृष्टाविति ।
कारीरीनामकेष्टिफलभूता वृष्टिः इष्टिसमाप्त्युत्तरक्षण एव वक्तव्या, न तु कालान्तरे । तदानीं शुष्यतः सस्यस्य सञ्जीवने कालन्तरीयवृष्टेरनुपयोगात् । तत्र च आसन्नसमयस्य वृष्टिविशेषणतया फलकोटिप्रवेशो नोंपेयते, इष्ट्या विनापि समयविशेषसम्भवात्, किं तु समयान्तरव्यावर्तकतया उपलक्षणत्वमेवाश्रितमित्यर्थः ।
धारावहनस्थले द्वितीयादिवृत्तीनामावरणाभिभावकत्वं न स्यादित्याक्षेपे एव परिहारं त्रेधा दर्शयति —
केचित्त्विति ।
प्रथमं वस्तुगतिमाह —
प्रथमज्ञानेति ।
उक्तव्यवस्थायां प्रमाणत्वेनानुभवं दर्शयति —
अत एवेति ।
उक्तविभागाभ्युपगमादेवेत्यर्थः ।
ननु उक्तविभागो न सिद्ध्यति, क्वचित् सकृद्दृष्टेऽपि वस्तुनि पूर्ववत् स्वरूपावरणानुभवात् इत्याशङ्क्याह —
विस्मरणशालिन इति ।
तत्र तथाऽस्त्विति ।
पुनः स्वरूपावरणानुभवस्थले द्वितीयादिज्ञाननिवर्त्यमप्यज्ञानं स्वरूपावारकमस्त्वित्यर्थः । तथा च उक्तविभाग औत्सर्गिक इति भावः ।
अन्यत्रेति ।
विस्मरणाभावस्थले इत्यर्थः ।
नन्वज्ञानानां विशिष्टविषयकत्वे तेषामनिवृत्तिप्रसङ्गः, सकृद्दृष्टे वस्तुनि द्वितीयादिज्ञानानामपि प्रथमज्ञानवत् स्वरूपमात्रविषयकत्वेन तत्समानविषयकत्वरहितानां तन्निवर्तकत्वानुपपत्तेरिति, नेत्याह —
ज्ञानानि चेति ।
सकृद्दृष्टे विषये ज्ञानान्यपि ‘चैत्र इदानीमत्रास्ते’ इत्याद्याकाराणि सन्ति विशिष्टविषयाण्येवेति स्वीकारात् नोक्तदोष इति भावः । ननु - ज्ञानानां विशिष्टविषयकत्वं धाराद्वितीयादिवृत्तिषु व्यभिचारपरिहारार्थं कल्प्यते ।
तथा च तत्र ज्ञानानां किं घटिकार्धघटिकाद्यात्मकस्थूलकालविशिष्टघटादिविषयकत्वं विवक्षितं किं वा क्षणात्मकसूक्ष्मकालविशिष्टघटादिविषयकत्वं विवक्षितमिति विकल्पं मनसि निधाय, उभयथाऽपि धारास्थले द्वितीयादिवृत्तिषु व्यभिचारतादवस्थ्यमिति शङ्कते —
न चैवंसतीति ।
द्वितीयादिज्ञानानां तन्निवर्त्याज्ञानानां च उत्सर्गतो विशिष्टविषयकत्वे सतीत्यर्थः ।
प्रथमज्ञानेनैवेति ।
स्थूलकालविशिष्टविषयेणेति शेषः ।
पूर्वापरेति ।
धारास्थले हि ज्ञानानि क्षणस्थितिकानि । ततश्च पूर्वापरज्ञानकालेभ्यो व्यावृत्ता ये सूक्ष्मकालाः क्षणात्मकाः तैर्विशिष्टस्य विषयस्य आवारकं यदज्ञानं तस्येत्यर्थः ।
तदविषयैरिति ।
सूक्ष्मकालविशिष्टाविषयकैरित्यर्थः । यत्र एकस्मिन्नेव श्रीमूर्त्यादौ दीर्घकालं नैरन्तर्येण स्फुरणमस्ति तत्र श्रीमूर्त्यादिगोचरवृत्तिरेकैव । तद्भेदे मानाभावात् । सिद्धान्ते वृत्तेः क्षणस्थितिकत्वानभ्युपगमात् ।
तथा च न तत्र व्यभिचारशङ्केत्याह —
धारावहनस्थल इति ।
ननु-तत्र वृत्तेरेकत्वे धारावहनत्वप्रसिद्धिविरोधः, एकस्यां तदसम्भवात् ।
ध्यानसमाध्योरपि उक्तरीत्या एकवृत्तिरूपत्वापत्तौ तयोः प्रत्ययसन्ततिरूपत्वप्रतिपादकभाष्यादिविरोधप्रसङ्गाच्च इत्याशङ्क्य, धारायाः अनेकवृत्तिरूपत्वमङ्गीकृत्य व्यभिचारं परिहरति —
तदभ्युपगमेऽपीति ।
सम्भवेनेति ।
धाराया इति शेषः ।
उपपत्तेरिति ।
द्वितीयादिवृत्तीनामज्ञानानिवर्तकत्वदोषो नास्तीति शेषः ।
धारावाहिकवृत्तीनां न्याथमत इव क्षणस्थितिकत्वमुपेत्यापि व्यभिचारं परिहरति —
प्रतिक्षणोद्यदिति ।
प्रतिक्षणमुद्यन्त्यः अनेकाश्च या वृत्तयः तत्सन्तानेत्यर्थः ।
अभ्युपगमेऽपीति ।
धाराया इति शेषः ।
अहानेश्चेति ।
ज्ञानमज्ञाननिवर्तकमिति नियमभङ्गरूपाया हानेरभावादित्यर्थः ।
हान्यभावे हेतुमाह —
प्रामाण्याभावेनेति ।
तत्र हेतुमाह —
अधिगतार्थमात्रेति ।
अनधिगतार्थविषयकत्वाभावो मात्रपदार्थः । तथा च द्वितीयादिवृत्तीनां प्रमात्वं नास्ति, स्मृतिवदधिगतार्थमात्रविषयकत्वादित्यर्थः । ननु-अनधिगताबाधितार्थानुभवत्वं प्रमात्वं न भवति, अबाधितानुभवपदव्यावर्त्ययोर्भ्रमस्मृत्योरिवानधिगतपदव्यावर्त्याभावात् ।
तथाच अबाधितार्थानुभवत्वमात्रं प्रमात्वम्, तच्च द्वितीयादिवृत्तिष्वक्षतमिति तत्र नियमभङ्गरूपा हानिः स्यादेवेति - नेत्याह —
न हीति ।
प्रामाण्यमित्यनन्तरं तथासतीति शेषः ।
नैयायिकः शङ्कते —
न चेष्टापत्तिरिति ।
इष्टापत्तिरिति न च इति सम्बन्धः ।
व्यवहारादर्शनादिति ।
तथा च प्रामाण्याप्रामाण्यव्यवस्थायाः व्यवहारानुसारित्वात् अनुमितेः पर्वतांशे प्रमात्वाभावेन अलक्ष्यत्वे सिद्धे पर्वतांशानुमितौ प्रमालक्षणस्यातिव्याप्तिपरिहाराय अनधिगतत्वविशेषणं तल्लक्षणे देयमेव, ततश्च धाराद्वितीयादिवृत्तीनां न प्रामाण्यमिति भावः ।
अज्ञातत्वस्य प्रमालक्षणे प्रवेशोऽस्तीत्यत्र हेत्वन्तरमाह —
विवरण इति ।
विवरणे अज्ञानस्य प्रमाणावेद्यत्वोक्तेश्चेति सम्बन्धः । अत्रानुमानपदमनुमितिपरम् । प्रमाणपदमपि प्रमितिपरम् । प्रमालक्षणस्य प्रकृतत्वादिति बोध्यम् ।
नन्वज्ञानस्यानुमितिशाब्दार्थापत्तिरूपवृत्तिविषयत्वे कथं तस्य प्रमाणावेद्यत्वं, अत आह —
साक्षिसिद्धस्येति ।
‘अज्ञोऽहम्’ इत्यनुभवरूपेण साक्षिणा अज्ञानस्वरूपस्य ज्ञातत्वात् अज्ञानानुमित्यादेरज्ञानस्वरूपे विषये अज्ञातत्वघटितप्रमात्वं नास्तीति मत्वा प्रमाणावेद्यत्वं तस्योक्तम् । न च साक्षिण एव प्रमाणत्वात् कथं सामान्यतः प्रमाणावेद्यत्वमुक्तमिति वाच्यम् । साक्ष्यतिरिक्तप्रमाणावेद्यत्वस्यैव विवक्षितत्वात् साक्षिणो नित्यत्वेन प्रमाकरणाजन्यतया पराभिमतेश्वरज्ञानवत् साक्षिणः प्रमाऽप्रमाबहिर्भूतत्वेन प्रमाणत्वाभावाद्वा तदवेद्यत्ववचनमिति भावः ।
ननु साक्षिप्रत्यक्षसिद्धं चेदज्ञानं किमर्थं तर्हि तत्रानुमानाद्युपन्यस्यते, तत्राह —
अभावव्यावृत्तीति ।
अज्ञानस्य पराभिमताज्ञानादभावरूपात् या व्यावृत्तिः तत्प्रत्यायनं अर्थः प्रयोजनं येषामनुमानादीनां तानि तथेत्यर्थः । एतदुक्तं भवति — ‘अहमज्ञः’ इत्यनुभवसिद्धमज्ञानं भावरूपमिति सिद्धान्तिनः । तत् ज्ञानप्रागभावरूपमिति वैशेषिकादयः । ततश्चानुमानादिभिरज्ञानस्याभावप्रतियोगिकभेदः साध्यते इति न तेषां वैयर्थ्यम् । न च तस्य भावरूपत्वसाधने वा किं लभ्यत इति वाच्यम् । ‘मायां तु प्रकृतिं विद्यात्’ इत्यादिशास्त्रसिद्धस्य प्रपञ्चपरिणाम्युपादानत्वस्य सिद्धेः तत्साधनफलत्वात् ।
तस्मादिति ।
अनधिगतत्वघटितप्रमालक्षणाभावादित्यर्थः ।
उपासनादिवृत्तीनामिवेति ।
उपासनारूपा वृत्तिः न ज्ञानम् । कॢप्ततत्करणाजन्यत्वात्, मनसो ज्ञानकरणत्वस्य निरस्तत्वात् निरसिष्यमाणत्वाच्च, किं तु गमनादिवत् क्रियारूपा, पुरुषकृतिसाध्यत्वात् । अतः सा नोपास्यस्वरूपाज्ञाननिवर्तिका । एवम् इच्छाद्वेषादिवृत्तयोऽपि न स्वविषयाज्ञाननिवर्तिकाः । ज्ञानरूपत्वाभावात् । द्वितीयादिवृत्तीनां तु स्मृतिवत् ज्ञानरूपत्वेऽपि नाज्ञाननिवर्तकत्वमुपेयते प्रमात्वाभावादित्यर्थः ।
ननु— कथं न हानिः, तासां प्रमात्वाभावेऽपि ज्ञानत्वाभ्युपगमेन ‘ज्ञानमात्रमज्ञाननिवर्तकम्’ इति नियमस्य व्यभिचाररूपहानेः आवश्यकत्वात्-इत्याशङ्क्याह -
प्रमाणवृत्तीनामेवेति ।
न तु अधिगतार्थमात्रगोचरवृत्तीनामपि इत्येवकारार्थः । तथा च ‘ज्ञानमात्रमज्ञाननिवर्तकम्’ इति नियमो नाङ्गीक्रियते, येनोक्तदोषः स्यात् इति भावः । अभ्युपगमादित्यनन्तरम् इत्याहुरीति शेषः । केचित्त्वित्युफक्रमात् ।