अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

‘ज्ञानसामान्यम् अज्ञाननिवर्तकम्’ इति नियमपरीक्षा

ज्ञान­मा­त्र­म­ज्ञा­न­नि­व­र्त­क­मिति नियममाक्षिपति —
नन्वेवंसतीति ।
एकेन ज्ञानेन एकाज्ञानस्य नाशः इतरेषां तिरस्कारः इत्युपगमे सतीत्यर्थः ।

वैफल्यं स्यादिति ।
अज्ञा­न­ना­शा­दि­प्र­यो­ज­न­वत्त्वं न स्यादित्यर्थः ।

तत्प्रयोजनस्य प्रथमज्ञानेनैव सिद्ध­त्वा­दि­त्याह —
प्रथमेति ।

प्रथ­म­ज्ञा­न­सि­द्ध­स्यापि आवरणतिरस्कारस्य द्विती­या­दि­ज्ञा­न­सा­ध्यत्वं साध्य­ल­क्ष­ण­वि­शे­षा­नु­रो­धेन सम्भवति, अतो न द्विती­या­दि­ज्ञा­न­वै­फ­ल्यम्, अज्ञा­न­ना­श­रू­प­प्र­यो­ज­ना­भा­वेऽपि तत्ति­र­स्क­र­ण­ल­क्ष­ण­फ­लस्य सत्त्वात् - इति परिहरति —
अत्राहुरिति ।

प्रथमं धारा­र­हि­त­बु­द्धि­स्थले धारावहनस्थले च सिद्धमर्थं सदृष्टान्तं दर्शयति —
वृत्ति­ति­र­स्कृ­त­मिति ।
‘घटोऽयम्’ इति प्रत्यक्षज्ञानं हि एकमज्ञानं नाशयत् इतरदज्ञानं सर्वं तिरस्करोति । तच्च तिरस्कृतमज्ञानं घट­ज्ञा­नों­प­र­म­स­मये पुनस्तमावृणोति । यदि बुभुत्सादिवशात् प्रथ­म­मु­त्प­न्न­घ­ट­ज्ञा­न­ना­श­क्षणे घट­प्र­त्य­क्षा­न्त­र­मु­देति तदा तिरस्कृतमज्ञानं तथैवावतिष्ठते इत्यर्थः । ‘यस्मिन् सति अग्रिमक्षणे यस्य सत्त्वं यस्मिन्नसति यस्यासत्त्वं तत् तज्जन्यम्’ इति साध्यलक्षणम् । इदं च साद्य­ना­दि­सा­धा­र­णम् । तथा हि - (यस्मिन्) दण्डादौ सति उत्तरक्षणे घटा­दि­का­र्य­सत्त्वं दण्डादावसति च घटा­दि­का­र्या­सत्त्वं ततो घटादिकं दण्डादिजन्यम्, तथा प्रायश्चित्ते सति उत्तरक्षणे दुःखप्रागभावस्य सत्त्वं प्रायश्चित्ते चासति दुःखस्यैवोदयात् दुःख­प्रा­ग­भा­व­स्या­सत्त्वं इति रीत्या अनादेरपि दुःखप्रागभावस्य प्राय­श्चि­त्त­प­रि­पा­ल्य­तया प्राय­श्चि­त्त­सा­ध्य­त्व­मु­पे­यते ।

एवं प्रकृतेऽपि साध्यत्वं दर्शयति —
तथा चेति ।
द्विती­य­वृ­त्त्यु­दये सति प्रथ­म­ज्ञा­न­सि­द्ध­स्या­व­र­ण­ति­र­स्का­रस्य उत्तरक्षणे सत्त्वं प्रथ­म­ज्ञा­न­ना­श­क्षणे द्विती­य­वृ­त्त्यु­द­य­व्य­ति­रेके च उक्त­ति­र­स्का­र­स्या­सत्त्वं इति प्रथमज्ञानकाल एव सिद्धस्यापि तस्य द्विती­य­वृ­त्ति­ज­न्य­तया तत्फलत्वम्, एवं तृती­या­दि­वृ­त्ती­ना­मपि आव­र­ण­ति­र­स्का­र­फ­ल­कत्वं योजनीयमित्यर्थः ।

अनावरणस्येति ।

आव­र­ण­ति­र­स्का­र­स्ये­त्यर्थः ॥‘ज्ञान­मा­त्र­म­ज्ञा­न­नि­व­र्तकं न भवति, धारा­द्वि­ती­या­दि­ज्ञाने व्यभिचारात्’ इत्यत्र प्रकारान्तरेण परिहारं ब्रूते —
न्याय­च­न्द्रि­का­कृ­त­स्त्विति ।

न त्विति ।
न चाज्ञा­ना­न्त­राणां तिरस्काराभावे एकज्ञानकालेऽपि तैर­ति­र­स्कृ­तै­र्वि­ष­य­स्या­वृ­त­त्वा­द्वि­ष­या­न­व­भा­स­प्र­सङ्ग इति वाच्यम् । प्रथ­म­ज्ञा­नो­द­य­स­मये एकमेवाज्ञानं विषयावारकम्, इतरेषां तु तदा विषयावारकत्वमेव नोपेयते, अतों न तत्ति­र­स्क­र­णा­पे­क्षेति भावः ।

ततः किं तत्राह —
तथा चेति ।

आशयमविदुषः शङ्कामनूद्य निराकरोति —
न चैवमित्यादिना ।
एवंशब्दस्य प्रथमज्ञानेन आवा­र­का­ज्ञा­ना­न्त­रा­णा­म­ति­र­स्क­रणे सतीत्यर्थः ।

तत्तत्कालेति ।
अव­स्थाऽ­ज्ञा­नानां सर्वेषां मूलाज्ञानस्येव सर्वदा विष­य­चै­त­न्या­वा­र­कत्वं नास्ति । वैयर्थ्यात् । किं तु किञ्चिदज्ञानं कञ्चित्कालं विष­य­चै­त­न्य­मा­वृ­णोति किञ्चिच्च कालान्तरे तदावृणोति इत्यनेन प्रकारेण काल­वि­शे­षै­रु­प­ल­क्षि­त­वि­ष­य­चै­त­न्या­वा­र­कत्वं, ज्ञानानामपि स्वस्वोदयकाले स्वस्व­वि­ष­या­वा­र­क­त्वे­न­प्र­स­क्ता­ज्ञा­न­नि­व­र्त­क­त्व­मि­त्यर्थः ।

एवमाशयमुद्धाट्य इदानीं विष­या­न­व­भा­स­प्र­सङ्ग परिहरति —
तथा चेति ।
एक­ज्ञा­न­का­लेऽ­ज्ञा­ना­न्त­रा­णा­म­ना­वा­र­कत्वे सिद्धे सतीत्यर्थः ।

तत्कालीनेति ।
किञ्चि­ज्ज्ञा­नो­द­य­का­ली­न­वि­ष­य­स्या­वा­र­क­त्वेन प्रस­क्ता­ज्ञा­न­स्ये­त्यर्थः ।

न तदिति ।
किञ्चि­ज्ज्ञा­न­का­ली­ने­त्यर्थः ।

ननु तैस्तैः काल­वि­शे­षै­र्वि­शि­ष्ट­स्यैव विषयस्य तत्त­द­ज्ञा­ना­व­र­णी­यत्वं इत्येवं कालविशेषाणां विशेषणतया आव­र­णी­य­को­टा­व­नु­प्र­वेशं विहाय तेषां किमि­त्यु­प­ल­क्ष­णत्वं स्वीक्रियते इत्याशङ्क्य, तथा सति धारास्थले आवा­र­क­त्वे­न­प्र­स­क्ता­ज्ञा­न­नि­व­र्त­क­द्वि­ती­या­दि­वृ­त्ती­ना­मपि तत्त­त्का­ल­वि­शे­ष­वि­शि­ष्ट­वि­ष­य­कत्वं वाच्यम्, समानविषयकत्वं विना तन्नि­व­र्त­क­त्वा­नु­प­पत्तेः, तच्च न सम्भवति, क्षण­भे­दा­ना­म­प्र­त्य­क्ष­त्वात्, अत­स्ते­षा­मु­प­ल­क्ष­ण­त्व­मा­श्रितं इति समा­धा­न­म­भि­प्रेत्य सम­य­वि­शे­ष­स्यो­प­ल­क्ष­णत्वे दृष्टान्तमाह —
कारीरीफले वृष्टाविति ।
कारी­री­ना­म­के­ष्टि­फ­ल­भूता वृष्टिः इष्टि­स­मा­प्त्यु­त्त­र­क्षण एव वक्तव्या, न तु कालान्तरे । तदानीं शुष्यतः सस्यस्य सञ्जीवने काल­न्त­री­य­वृ­ष्टे­र­नु­प­यो­गात् । तत्र च आसन्नसमयस्य वृष्टिविशेषणतया फलकोटिप्रवेशो नोंपेयते, इष्ट्या विनापि सम­य­वि­शे­ष­स­म्भ­वात्, किं तु सम­या­न्त­र­व्या­व­र्त­क­तया उप­ल­क्ष­ण­त्व­मे­वा­श्रि­त­मि­त्यर्थः ।

धारावहनस्थले द्विती­या­दि­वृ­त्ती­ना­मा­व­र­णा­भि­भा­व­कत्वं न स्यादि­त्या­क्षेपे एव परिहारं त्रेधा दर्शयति —
केचित्त्विति ।

प्रथमं वस्तुगतिमाह —
प्रथमज्ञानेति ।

उक्तव्यवस्थायां प्रमा­ण­त्वे­ना­नु­भवं दर्शयति —
अत एवेति ।
उक्त­वि­भा­गा­भ्यु­प­ग­मा­दे­वे­त्यर्थः ।

ननु उक्तविभागो न सिद्ध्यति, क्वचित् सकृद्दृष्टेऽपि वस्तुनि पूर्ववत् स्वरू­पा­व­र­णा­नु­भ­वात् इत्याशङ्क्याह —
विस्मरणशालिन इति ।

तत्र तथाऽस्त्विति ।
पुनः स्वरू­पा­व­र­णा­नु­भ­व­स्थले द्विती­या­दि­ज्ञा­न­नि­व­र्त्य­म­प्य­ज्ञानं स्वरू­पा­वा­र­क­म­स्त्वि­त्यर्थः । तथा च उक्तविभाग औत्सर्गिक इति भावः ।

अन्यत्रेति ।
विस्म­र­णा­भा­व­स्थले इत्यर्थः ।

नन्वज्ञानानां विशि­ष्ट­वि­ष­य­कत्वे तेषा­म­नि­वृ­त्ति­प्र­सङ्गः, सकृद्दृष्टे वस्तुनि द्विती­या­दि­ज्ञा­ना­ना­मपि प्रथमज्ञानवत् स्वरू­प­मा­त्र­वि­ष­य­क­त्वेन तत्स­मा­न­वि­ष­य­क­त्व­र­हि­तानां तन्नि­व­र्त­क­त्वा­नु­प­प­त्ते­रिति, नेत्याह —
ज्ञानानि चेति ।
सकृद्दृष्टे विषये ज्ञानान्यपि ‘चैत्र इदानीमत्रास्ते’ इत्याद्याकाराणि सन्ति विशि­ष्ट­वि­ष­या­ण्ये­वेति स्वीकारात् नोक्तदोष इति भावः । ननु - ज्ञानानां विशि­ष्ट­वि­ष­य­कत्वं धारा­द्वि­ती­या­दि­वृ­त्तिषु व्यभि­चा­र­प­रि­हा­रार्थं कल्प्यते ।

तथा च तत्र ज्ञानानां किं घटि­का­र्ध­घ­टि­का­द्या­त्म­क­स्थू­ल­का­ल­वि­शि­ष्ट­घ­टा­दि­वि­ष­य­कत्वं विवक्षितं किं वा क्षणा­त्म­क­सू­क्ष्म­का­ल­वि­शि­ष्ट­घ­टा­दि­वि­ष­य­कत्वं विवक्षितमिति विकल्पं मनसि निधाय, उभयथाऽपि धारास्थले द्विती­या­दि­वृ­त्तिषु व्यभि­चा­र­ता­द­व­स्थ्य­मिति शङ्कते —
न चैवंसतीति ।
द्विती­या­दि­ज्ञा­नानां तन्नि­व­र्त्या­ज्ञा­नानां च उत्सर्गतो विशि­ष्ट­वि­ष­य­कत्वे सतीत्यर्थः ।

प्रथ­म­ज्ञा­ने­नै­वेति ।
स्थूल­का­ल­वि­शि­ष्ट­वि­ष­ये­णेति शेषः ।

पूर्वापरेति ।
धारास्थले हि ज्ञानानि क्षणस्थितिकानि । ततश्च पूर्वा­प­र­ज्ञा­न­का­लेभ्यो व्यावृत्ता ये सूक्ष्मकालाः क्षणात्मकाः तैर्विशिष्टस्य विषयस्य आवारकं यदज्ञानं तस्येत्यर्थः ।

तदविषयैरिति ।
सूक्ष्म­का­ल­वि­शि­ष्टा­वि­ष­य­कै­रि­त्यर्थः । यत्र एकस्मिन्नेव श्रीमूर्त्यादौ दीर्घकालं नैरन्तर्येण स्फुरणमस्ति तत्र श्रीमू­र्त्या­दि­गो­च­र­वृ­त्ति­रे­कैव । तद्भेदे मानाभावात् । सिद्धान्ते वृत्तेः क्षण­स्थि­ति­क­त्वा­न­भ्यु­प­ग­मात् ।

तथा च न तत्र व्यभि­चा­र­श­ङ्के­त्याह —
धारावहनस्थल इति ।
ननु-तत्र वृत्तेरेकत्वे धारा­व­ह­न­त्व­प्र­सि­द्धि­वि­रोधः, एकस्यां तदसम्भवात् ।

ध्यानसमाध्योरपि उक्तरीत्या एक­वृ­त्ति­रू­प­त्वा­पत्तौ तयोः प्रत्य­य­स­न्त­ति­रू­प­त्व­प्र­ति­पा­द­क­भा­ष्या­दि­वि­रो­ध­प्र­स­ङ्गाच्च इत्याशङ्क्य, धारायाः अने­क­वृ­त्ति­रू­प­त्व­म­ङ्गी­कृत्य व्यभिचारं परिहरति —
तदभ्युपगमेऽपीति ।

सम्भवेनेति ।
धाराया इति शेषः ।

उपपत्तेरिति ।
द्विती­या­दि­वृ­त्ती­ना­म­ज्ञा­ना­नि­व­र्त­क­त्व­दोषो नास्तीति शेषः ।

धारा­वा­हि­क­वृ­त्तीनां न्याथमत इव क्षण­स्थि­ति­क­त्व­मु­पे­त्यापि व्यभिचारं परिहरति —
प्रति­क्ष­णो­द्य­दिति ।
प्रति­क्ष­ण­मु­द्यन्त्यः अनेकाश्च या वृत्तयः तत्स­न्ता­ने­त्यर्थः ।

अभ्युपगमेऽपीति ।
धाराया इति शेषः ।

अहानेश्चेति ।
ज्ञान­म­ज्ञा­न­नि­व­र्त­क­मिति नियमभङ्गरूपाया हाने­र­भा­वा­दि­त्यर्थः ।

हान्यभावे हेतुमाह —
प्रामा­ण्या­भा­वे­नेति ।

तत्र हेतुमाह —
अधि­ग­ता­र्थ­मा­त्रेति ।
अन­धि­ग­ता­र्थ­वि­ष­य­क­त्वा­भावो मात्रपदार्थः । तथा च द्विती­या­दि­वृ­त्तीनां प्रमात्वं नास्ति, स्मृति­व­द­धि­ग­ता­र्थ­मा­त्र­वि­ष­य­क­त्वा­दि­त्यर्थः । ननु-अ­न­धि­ग­ता­बा­धि­ता­र्था­नु­भ­वत्वं प्रमात्वं न भवति, अबा­धि­ता­नु­भ­व­प­द­व्या­व­र्त्य­यो­र्भ्र­म­स्मृ­त्यो­रि­वा­न­धि­ग­त­प­द­व्या­व­र्त्या­भा­वात् ।

तथाच अबा­धि­ता­र्था­नु­भ­व­त्व­मात्रं प्रमात्वम्, तच्च द्विती­या­दि­वृ­त्ति­ष्व­क्ष­त­मिति तत्र नियमभङ्गरूपा हानिः स्यादेवेति - नेत्याह —
न हीति ।
प्रामा­ण्य­मि­त्य­न­न्तरं तथासतीति शेषः ।

नैयायिकः शङ्कते —
न चेष्टापत्तिरिति ।
इष्टापत्तिरिति न च इति सम्बन्धः ।

व्यव­हा­रा­द­र्श­ना­दिति ।
तथा च प्रामा­ण्या­प्रा­मा­ण्य­व्य­व­स्थायाः व्यव­हा­रा­नु­सा­रि­त्वात् अनुमितेः पर्वतांशे प्रमात्वाभावेन अलक्ष्यत्वे सिद्धे पर्वतांशानुमितौ प्रमा­ल­क्ष­ण­स्या­ति­व्या­प्ति­प­रि­हा­राय अन­धि­ग­त­त्व­वि­शे­षणं तल्लक्षणे देयमेव, ततश्च धारा­द्वि­ती­या­दि­वृ­त्तीनां न प्रामाण्यमिति भावः ।

अज्ञातत्वस्य प्रमालक्षणे प्रवे­शोऽ­स्ती­त्यत्र हेत्वन्तरमाह —
विवरण इति ।
विवरणे अज्ञानस्य प्रमा­णा­वे­द्य­त्वो­क्ते­श्चेति सम्बन्धः । अत्रा­नु­मा­न­प­द­म­नु­मि­ति­प­रम् । प्रमाणपदमपि प्रमितिपरम् । प्रमालक्षणस्य प्रकृतत्वादिति बोध्यम् ।

नन्व­ज्ञा­न­स्या­नु­मि­ति­शा­ब्दा­र्था­प­त्ति­रू­प­वृ­त्ति­वि­ष­यत्वे कथं तस्य प्रमा­णा­वे­द्यत्वं, अत आह —
साक्षि­सि­द्ध­स्येति ।
‘अज्ञोऽहम्’ इत्यनुभवरूपेण साक्षिणा अज्ञानस्वरूपस्य ज्ञातत्वात् अज्ञा­ना­नु­मि­त्या­दे­र­ज्ञा­न­स्व­रूपे विषये अज्ञा­त­त्व­घ­टि­त­प्र­मात्वं नास्तीति मत्वा प्रमा­णा­वे­द्यत्वं तस्योक्तम् । न च साक्षिण एव प्रमाणत्वात् कथं सामान्यतः प्रमा­णा­वे­द्य­त्व­मु­क्त­मिति वाच्यम् । साक्ष्य­ति­रि­क्त­प्र­मा­णा­वे­द्य­त्व­स्यैव विवक्षितत्वात् साक्षिणो नित्यत्वेन प्रमा­क­र­णा­ज­न्य­तया परा­भि­म­ते­श्व­र­ज्ञा­न­वत् साक्षिणः प्रमाऽ­प्र­मा­ब­हि­र्भू­त­त्वेन प्रमा­ण­त्वा­भा­वाद्वा तद­वे­द्य­त्व­व­च­न­मिति भावः ।

ननु साक्षि­प्र­त्य­क्ष­सिद्धं चेदज्ञानं किमर्थं तर्हि तत्रा­नु­मा­ना­द्यु­प­न्य­स्यते, तत्राह —
अभा­व­व्या­वृ­त्तीति ।
अज्ञानस्य परा­भि­म­ता­ज्ञा­ना­द­भा­व­रू­पात् या व्यावृत्तिः तत्प्रत्यायनं अर्थः प्रयोजनं येषा­म­नु­मा­ना­दीनां तानि तथेत्यर्थः । एतदुक्तं भवति — ‘अहमज्ञः’ इत्य­नु­भ­व­सि­द्ध­म­ज्ञानं भावरूपमिति सिद्धान्तिनः । तत् ज्ञान­प्रा­ग­भा­व­रू­प­मिति वैशेषिकादयः । तत­श्चा­नु­मा­ना­दि­भि­र­ज्ञा­न­स्या­भा­व­प्र­ति­यो­गि­क­भेदः साध्यते इति न तेषां वैयर्थ्यम् । न च तस्य भावरूपत्वसाधने वा किं लभ्यत इति वाच्यम् । ‘मायां तु प्रकृतिं विद्यात्’ इत्या­दि­शा­स्त्र­सि­द्धस्य प्रप­ञ्च­प­रि­णा­म्यु­पा­दा­न­त्वस्य सिद्धेः तत्साधनफलत्वात् ।

तस्मादिति ।
अन­धि­ग­त­त्व­घ­टि­त­प्र­मा­ल­क्ष­णा­भा­वा­दि­त्यर्थः ।

उपा­स­ना­दि­वृ­त्ती­ना­मि­वेति ।
उपासनारूपा वृत्तिः न ज्ञानम् । कॢप्त­त­त्क­र­णा­ज­न्य­त्वात्, मनसो ज्ञानकरणत्वस्य निरस्तत्वात् निर­सि­ष्य­मा­ण­त्वाच्च, किं तु गमनादिवत् क्रियारूपा, पुरु­ष­कृ­ति­सा­ध्य­त्वात् । अतः सा नोपा­स्य­स्व­रू­पा­ज्ञा­न­नि­व­र्तिका । एवम् इच्छा­द्वे­षा­दि­वृ­त्त­योऽपि न स्ववि­ष­या­ज्ञा­न­नि­व­र्तिकाः । ज्ञान­रू­प­त्वा­भा­वात् । द्विती­या­दि­वृ­त्तीनां तु स्मृतिवत् ज्ञानरूपत्वेऽपि नाज्ञा­न­नि­व­र्त­क­त्व­मु­पे­यते प्रमा­त्वा­भा­वा­दि­त्यर्थः ।

ननु— कथं न हानिः, तासां प्रमा­त्वा­भा­वेऽपि ज्ञान­त्वा­भ्यु­प­ग­मेन ‘ज्ञान­मा­त्र­म­ज्ञा­न­नि­व­र्त­कम्’ इति नियमस्य व्यभि­चा­र­रू­प­हानेः आव­श्य­क­त्वा­त्-इ­त्या­श­ङ्क्याह -
प्रमा­ण­वृ­त्ती­ना­मे­वेति ।
न तु अधि­ग­ता­र्थ­मा­त्र­गो­च­र­वृ­त्ती­ना­मपि इत्येवकारार्थः । तथा च ‘ज्ञान­मा­त्र­म­ज्ञा­न­नि­व­र्त­कम्’ इति नियमो नाङ्गीक्रियते, येनोक्तदोषः स्यात् इति भावः । अभ्यु­प­ग­मा­दि­त्य­न­न्त­रम् इत्याहुरीति शेषः । केचि­त्त्वि­त्यु­फ­क्र­मात् ।