कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
श्रुतेः प्रत्यक्षात्प्राबल्यप्रयोजकविचारः
इदानीं प्रत्यक्षम्य कालत्रयाबाध्यत्वरूपसत्त्वग्राहित्वेन श्रुतिविरोधित्वेऽपि न मिथ्यात्वसिद्ध्यनुपपत्तिः, श्रुत्या प्रत्यक्षस्य बाधोपपत्तेः इत्याह —
अपरेत्विति ।
श्रुतिरेव प्रत्यक्षात् बलीयसीति सम्बन्धः ।
श्रुतेः प्राबल्ये हेतुद्वयमाह —
निर्दोषत्वादिति ।
अपच्छेदन्यायो वक्ष्यते ।
प्रत्यक्षस्यापि निर्दोषत्वादिकं तुल्यमिति शङ्कां वारयति —
दोषेति ।
एतच्चाग्रे स्पष्टं भविष्यति ।
श्रुतेः प्राबल्ये मनुवचनमपि नियामकमित्याह —
प्राबल्यमिति ।
जात्या-आगमत्वेनैव तेषु-प्रकृतेषु त्रिषु-प्रत्यक्षानुमानागमेषु स्मृतं-वैदिकेषु प्रसिद्धमित्यर्थः । ननु वेदैकगम्ये स्वर्गसाधनत्वादौ वेदस्य प्राबल्यप्रतिपादकं तद्वचनम् । मिथ्यात्वं तु न वेदैकगम्यम् । तस्यानुमानादिनापि सिद्ध्युपगमात् ।
अतस्तत्र श्रुतेः प्राबल्ये तद्वचनं न प्रमाणमिति मत्वा शङ्कते —
न चेति ।
निराकरोति —
तत्रेति ।
वेदैकगम्यार्थ इत्यर्थः । तथा च वचनस्य तद्विषयत्वे वैयर्थ्यं स्यादिति भावः ।
वचनस्य मिथ्यात्वप्रतिपादकश्रुतिप्राबल्यपरत्वे तु सार्थक्यमित्याह —
शङ्कितेति ।
शङ्कितः-प्रत्यक्षेण सह विरोधो यस्य मिथ्यात्वरूपस्य वेदार्थस्य स तथा । एतदुक्तं भवति — यस्मिन्नर्थे वेदतदितरप्रमाणयोर्विरोधः प्रसक्तः तस्मिन्नर्थे द्वयोः प्रामाण्यायोगात् अन्यतरबाधे कर्तव्ये सति तत्र प्रबलेन दुर्बलस्य बाध इति (च) स्थिते कस्य प्राबल्यमिति भवत्यपेक्षा । तथा च वचनस्य अपेक्षितार्थसमर्पकत्वात् सार्थक्यमिति । ननु - प्रत्यक्षस्य क्वचिदप्रामाण्ये दृष्टे सति प्रपञ्चसत्त्वग्राहिप्रत्यक्षेऽपि मिथ्यात्वरूपविरोधिकोट्यनुसन्धानवतां स्यादप्रामाण्यरूपदोषशङ्का । ततश्च शङ्कितदोषं प्रत्यक्षं मिथ्यात्वश्रुत्या निर्दोषत्वेन प्रबलया बाध्यत इति वक्तव्यम् । तच्च न सम्भवति ।
क्वचिदपि प्रत्यक्षाप्रामाण्यादर्शनात् - इति सत्ख्यातिवादिनः शङ्कां नारदवचनोदाहरणेन निराकरोति —
तलवदिति ।
तलं — इन्द्रनीलमणिमयकटाहाकारम् ।
तस्मादिति ।
सर्वजनसिद्धम्यापि व्योमादौ तलादिप्रत्यक्षस्याप्रामाण्यदर्शनादित्यर्थः ।
अर्थ इति ।
प्रत्यक्षदृष्टेऽप्यर्थे इत्यर्थः ।
ज्ञापयन्निति ।
आचार्यः शिष्यान् प्रति शास्त्रार्थान् बोधयन् धर्मात्-श्रेयस्साधनभूतात् न प्रच्यवत इत्यर्थः ।
ज्ञापयन्निति ।
आचार्यः शिष्यान् प्रति शास्त्रार्थान् बोधयन् धर्मात्-श्रेयस्साधनभूतात् न प्रच्यवत इत्यर्थः । ‘आत्मनः श्रुत्युक्तं साक्षित्वमनुपपन्नम्, तस्य बोद्धृत्वेऽपि कर्तृत्वेनोदासीनत्वाभावात्’ इति पूर्वपक्षे प्राप्ते ‘अहं करोमि’ इति प्रत्यक्षमात्रेण आत्मनि कर्तृत्वं वास्तवमिति सहसा विश्वासो न कर्तव्यः । लोके प्रत्यक्षदृष्टस्यापि बाधदर्शनात् ।
अतः प्रत्यक्षदृष्टमप्यात्मनि कर्तृत्वं किं चैतन्यवद्वास्तवं किं वा कल्पितमिति सम्यग्विचार्य श्रुतिन्यायाभ्यां ‘कल्पितमेव तत अतो न साक्षित्वस्यानुपपत्तिः’ इति शिष्यान् प्रति बोधयन् आचार्यो धर्मान्न परिहीयते इत्येतद्विषयकं नारदवचनद्वयमिति सूचयति —
साक्षिप्रकरण इति ।
एवं प्रत्यक्षदृष्टमपि प्रपञ्चसत्त्वं किं तस्य वास्तवं किं वा काल्पनिकमिति परीक्षा युक्तेत्याशयेन नारदवचनस्य प्रकृतसाधारणं तात्पर्यं कथयति —
प्रत्यक्षदृष्टस्यापीति ।
प्रमाणपदमागमपरम् । अनुमानार्थापत्त्यादयः आदिपदग्राह्याः । प्रतिपादनाच्च प्रत्यक्षापेक्षया श्रुतिरेव बलीयसीति सम्बन्धः ।
प्रत्यक्षस्य दोषशङ्काकलङ्कितत्वं प्रदर्श्य तम्यागमेन बाधं प्रकृतोपयोगितया प्रतिपादयति —
न हीत्यादिना ।
नभोनैल्यप्रत्यक्षं प्रत्यक्षादिना न हि शक्यमपवदितुमिति सम्बन्धः ।
आगमं विनापि ‘नीलं नभः’ इति प्रत्यक्षस्य बाधकमस्तीति शङ्कते —
न चेति ।
समीपे गगने रूपानुपलम्भेन समीपे रूपाभावनिश्चये सति दूरेऽपि तत्र रूपं नास्तीति निश्चीयते, रूपस्य व्याप्यवृत्तित्वनियमेन तदेकदेशवृत्तित्वायोगादित्यर्थः ।
कथं तर्हि दूरे ‘नीलं नभः’ इति धीः, तत्राह —
दूरे तद्धीरिति ।
तद्बाध इति ।
तस्य - नभोनैल्यप्रत्यक्षस्य ।
इति निश्चयेन बाधो न चेत्यत्र हेतुमाह —
दूरे नैल्यदर्शनादिति ।
तुहिनावकुन्ठनं - हिमरूपमावरणम् । तद्धि समीपे सदपि न दृश्यते । दूरे तु वृक्षाद्यावरणरूपत्वेन दृश्यते । तद्वत् सर्वत्र गगने विद्यमानमपि रूपं समीपे न दृश्यत इत्यर्थः ।
दोषजन्य इति ।
दोषाधीनस्थितिक इत्यर्थः । यथाश्रुते अनुपलम्भस्य उपलम्भप्रागभावरूपस्य जन्यत्वाभावादसङ्गतिः स्यात् । सामीप्यदोषेण तदुपलम्भे निरुद्धे तत्प्रागभावस्य नाशाभावात् दोषाधीनस्थितिकत्वमस्तीति नासङ्गतिरिति मन्तव्यम् । रूपस्य व्याप्यवृत्तित्वनियममुपेत्य समीपे तदनुपलम्भस्य गतिरुक्ता ।
इदानीं व्याप्यवृत्तित्वनियमस्यासिद्धिमाह —
अनुभवबलादिति ।
नभोनैल्यप्रत्यक्षस्य यौक्तिकनिश्चयबाध्यत्वं निरस्य प्रत्यक्षबाध्यत्वमाशङ्क्य निराकरोति —
नापीत्यादिना ।
भूसन्निहितगगनभागे कुत्रापि नैल्यं नास्त्येव, तत्र तत्प्रतीतिस्तु दूरस्थत्वदोषात् सम्भवति इत्याह —
उपरिस्थितस्येति ।
तथा च गगननैल्यप्रत्यक्षमागमैकबाध्यमिति स्थितम् ।
प्रत्यक्षस्यागमेन बाधे उदाहरणान्तरमाह —
पृथिव्यादिष्विति ।
अप्सु वायौ च पृथिव्यामिव गन्धमुपलभ्य केचिदनैपुणाः ब्रूयुः — तयोरपि गन्धः स्वाभाविक इति, तत् न तथा ग्राह्यं, किं त्वपो वायुं च संश्रितं गन्धं तदन्तर्गतपृथिव्यामेव स्थितं विद्यात् - इति वचनार्थः ।
इत्यादिभिरिति ।
आदिपदेन - रसो जलमात्रगुणः, रूपं तेजोमात्रगुणः, स्पर्शो वायुमात्रगुणः, शब्दः आकाशमात्रगुणः, पृथिव्यादिषु रसाद्युपलब्धिरपि पृथिव्याद्यन्तर्गतजलाद्याश्रितरसादिविषया - इति व्यवस्थाप्रतिपादकपुराणवचनानि ग्राह्याणि । ननु —
जले पुष्पादिरूपपार्थिवांशसंसर्गे सति गन्धोपलब्धिरस्ति नान्यथा इत्यन्वयव्यतिरेकाभ्यामेव गन्धस्य पृथिवीमात्रगुणत्वस्य निर्णयसम्भवात् किमागमेनेति चेत्, नेत्याह —
न हीति ।
आजानसिद्धो यो जलोपष्टम्भः पार्थिवः द्रव्यविशेषः तदादिगतमित्यर्थः । जल एव गन्धः क्वचित् स्वाभाविकः क्वचिदौपाधिक इति कल्पनोपपत्तेश्चेति भावः । ननु —
जलादौ गन्धादिप्रत्यक्षं अप्रामाण्यरूपदोषशङ्काकलङ्कितत्वादागमेन शिक्ष्यत इति युक्तम्, प्रपञ्चसत्त्वग्राहिप्रत्यक्षं तु तच्छङ्काशून्यमिति कथं तस्यागमेन बाधः — इत्याशयेन शङ्कते —
पृथिव्यादीनामिति ।
तस्य तच्छङ्काशून्यत्वमसिद्धमिति तस्याप्यागमबाध्यत्वं युक्तमित्याह —
तर्हीति ।
संसृष्टतयेति ।
संसर्गस्तादात्म्यम् ।
अन्यधर्मस्येति ।
जगदुपादानत्वेन श्रुतिसिद्धस्य सद्वस्तुनो धर्मः सत्ता । तस्या एव प्रपञ्चे प्रतीतिः सम्भाव्यते । अतः प्रपञ्चसत्त्वग्राहिप्रत्यक्षं अन्यसत्ताविषयकत्वेन भ्रान्तिरूपं वा प्रपञ्चस्य स्वाभाविकसत्ताविषयकत्वेन प्रमारूपं वा इति शङ्काकलङ्कितमित्यर्थः ।
प्रत्यक्षबाधप्रकारं वृद्धवचनेन दर्शयति —
अस्तीति ।
‘अस्ति घटः, भाति घटः, प्रियो घटः’ इति घटे सत्त्वचैतन्यानन्दास्तावदनुभूयन्ते । प्रियशब्दस्यानन्दे मुख्यत्वात् घटस्यानन्दतादात्म्यप्रतीतिरुपपद्यते । एवं पटादिष्वपि द्रष्टव्यम् । नाम-घटशब्दादि । कम्बुग्रीवाद्यात्मकं वस्तु - रूपम् । अंशपञ्चकम् - अंशाः पञ्च यस्य जगतः तत् अंशपञ्चकमनुभूयते । न च - कृत्स्नेऽपि जगति पञ्चात्मकत्वानुभवो नास्ति, दुःखं प्रियमित्यनुभवादर्शनादिति - वाच्यम् । कोषांचित् परकीये दुःखे तदनुभवस्यापि सत्त्वात् । तथा च ‘सर्वत्रानुगतं सच्चिदानन्दरूपं वस्तु ब्रह्मैव, ब्रह्मणस्तद्रूपतायाः श्रुतिसिद्धत्वात् । नामरूपात्मकरूपद्वयं जगत्, तस्य नामरूपमात्रतायाः ‘सर्वाणि रूपाणि विचित्य धीरः इत्यादिश्रुतिसिद्धत्वात्’ इत्यनेन प्रकारेण, प्रपञ्चसत्त्वग्राहिप्रत्यक्षं जगतस्स्वाभाविकसत्ताविषयकं न भवति किं त्वधिष्ठानतया जगत्यनुगतब्रह्मसत्ताविषयकमेव - इति व्यवस्थाप्यते श्रुत्येत्यर्थः ।
एवं प्रत्यक्षस्यागमापेक्षया स्वतः प्राबल्यं निरस्य उपजीव्यत्वप्रयुक्तं तन्निरस्यति —
न चैवमिति ।
प्रत्यक्षस्यागमेन बाधाङ्गीकारे इत्यर्थः । वर्णपदवाक्यात्मकशब्दप्रत्यक्षं हि श्रुतिजन्यमिथ्यात्वबोधं प्रत्युपजीव्यम् । शब्दज्ञानं विना शाब्दबोधानुदयात् । तथा च श्रुत्या प्रत्यक्षमात्रबाधे शब्दप्रत्यक्षस्यापि बाधः प्रसज्येत । तथा च उपजीव्यबाधः स्यादित्यर्थः । श्रोत्रेन्द्रियेण जायमानं प्रत्यक्षं शब्दस्वरूपं तस्य सत्त्वं च विषयीकरोति । श्रुत्या च सत्त्वांशप्रत्यक्षमेव बाध्यते । तच्च न श्रुतेरुपजीव्यम् । कल्पितशब्दस्यापि बोधकत्वसम्भवेन शाब्दबोधार्थं तत्सत्त्वस्यानपेक्षितत्वात् । यच्च शब्दस्वरूपांशप्रत्यक्षमुपजीव्यं तत् न बाध्यते । विरोधाभावात् ।
अतो नोपजीव्यविरोध इति परिहरति —
आगमप्रमाणेनेति ।
आगममात्रस्य प्रत्यक्षात् प्राबल्यमुक्तमाक्षिपति —
नन्वागमस्येति ।
गौणीति ।
क्रतुनिर्वर्तकत्वं गुणः ।
तथेति ।
सिद्धान्ते इष्टसाधनत्वं विध्यर्थः । ततश्च सोमपदयजिपदयोर्वैयधिकरण्येनान्वये स्वीक्रियमाणे ‘याग इष्टसाधनं सोमो यागरूपेष्टस्य साधनं’ इति सकृच्छ्रुतस्य विधिप्रत्ययस्य व्यापारभेदापत्त्या तद्धटितवाक्यस्यापि व्यापारभेदापत्तेः तत्परिहाराय तयोस्सामानाधिकरण्येनान्वयो वक्तव्यः इति सिद्धान्ते स्थिते सतीत्यर्थः ।
प्रत्यक्षाविरोधायेति ।
सामानाधिकरण्यपक्षे सोमयागयोरभेदो वक्तव्यः । सोऽयमित्यादिस्थले समानाधिकरणपदद्वयस्य पदार्थद्वयाभेदार्थकतायाः कॢप्तत्वात् । स च प्रत्यक्षविरुद्ध इति तत्परिहारायेत्यर्थः ।
सोमवतेति ।
सोमपदस्य मत्वर्थे लक्षणा । तथा च सोमवता यागेनेष्टं भावयेदिति मीमांसकरीत्या वाक्यार्थः । सिद्धान्तरीत्या तु सोमवदभिन्नो याग इष्टसाधनमिति वाक्यार्थो द्रष्टव्यः । सोमस्य यागेन सह मत्वर्थसम्बन्धश्च वस्तुगत्या क्रियाकारकभावलक्षण इति ज्ञापनाय सोमेनेति तृतीया ।
भामतीति ।
भामतीसंज्ञकग्रन्थे वाचस्पतिमिश्रैः उक्तमित्यर्थः ।
न श्रुतिमात्रमिति ।
तथा च ‘सोमेन यजेत’ इत्यत्र सोमयागसम्बन्धे श्रुतेस्तात्पर्यभावात् (श्रुतेस्तात्पर्याभावात् ???) श्रुत्यपेक्षया प्रत्यक्षमेव बलवदिति तदविरोधाय लक्षणाकल्पनमुचितम् । तथा ‘यजमानः प्रस्तरः’ इत्याद्यर्थवादानामपि स्वार्थे तात्पर्याभावात् प्रत्यक्षप्राबल्यमिति तत्रापि तदविरोधाय गौण्यादिकल्पनं युक्तम् । प्रपञ्चमिथ्यात्वबोधकश्रुतीनां तु स्वार्थे तात्पर्यसत्त्वात् प्रत्यक्षापेक्षया प्राबल्यमिति तासां तद्बाधकत्वं निष्प्रत्यूहमिति समाधानग्रन्थार्थः ।
ननु मन्त्रार्थवादादीनामपि स्वार्थे तात्पर्यं किं न स्यात्, तत्राह —
मन्त्रेति ।
तेषां स्वार्थे फलाभावात् गौरवाच्च तात्पर्यं न कल्प्यत इति भावः । ‘देवस्यत्वा’ इत्यादिमन्त्रैः ‘यजमानः प्रस्तरः’ इत्याद्यर्थवादैश्च विधेयगता स्तुतिर्लक्षणीया । ततश्च मन्त्रादिवाक्यार्थस्य द्रव्यदेवतादिरूपस्य लक्षणीयया स्तुत्या सह सम्बन्धो वाच्यः । इतरथा मन्त्रादीनां स्वज्ञाप्यसम्बन्धाभावेन स्तुतिलक्षकत्वानुपपत्तेः । अतः स्तुतौ लक्षणीयायां मन्त्रादिवाक्यार्थो द्वारभूतः ।
यथा गङ्गापदेन तीरे लक्षणीये प्रवाहः अतोऽपि न तत्र तेषां तात्पर्यम्, लक्षणास्थले द्वारभूतार्थे तात्पर्यादर्शनात् - इत्याशयेनाह —
स्तुतिद्वारभूत इति ।
तत्र स्वयं दृष्टान्तमाह —
वाक्यार्थद्वारभूत इति ।
वाक्यार्थतात्पर्येण प्रयुक्तानां पदानां वाक्यार्थप्रतिपत्तिद्वारभूतेषु स्मारितपदार्थेषु यथा तात्पर्यं नास्ति तथेत्यर्थः । विधिपरमन्त्रार्थवादानां स्वार्थे तात्पर्याभावे देवताविग्रहादिप्रतिपादकानां ‘वज्रहस्तः पुरन्दरः’ इत्यादीनामपि देवताविग्रहादौ स्वार्थे तात्पर्याभावापत्त्या तेषां देवताविग्रहादिप्रमितिजनकत्वं न स्यात् । वेदतात्पर्यविषयत्वस्य वेदजन्यप्रमितिविषयत्वं प्रति व्यापकत्वात्, व्यापकनिवृत्त्या तन्निवृत्तेरावश्यकत्वात् ।
तदाहुः —
x‘यत्परः शब्दः स शब्दार्थः’ [ ] इति ।
तथा च देवताधिकरणविरोधः ।
तत्र अन्यपरेभ्योऽपि मन्त्रादिभ्यो देवताविग्रहादिसिद्धिप्रतिपादनात् - इत्याशयेन शङ्कते —
तात्पर्याभाव इति ।
मानान्तराविरुद्धत्वविशेषणं ‘यजमानः प्रस्तरः’ इत्यादिवारणाय । इदमुपलक्षणं मानान्तराप्राप्तत्वस्यापि । एतच्च विशेषणं ‘अग्निर्हिमस्य भेषजम्’ इत्यादिवारणाय । अग्नेर्हिमभेषजत्वस्य प्रत्यक्षसिद्धत्वेन तस्यार्थवादतस्सिद्ध्यनपेक्षणात् । तथा च मानान्तरेण विरोधप्राप्त्योरभावे सत्यन्यपरेभ्योऽपि मन्त्रादिभ्योऽवगम्यमानोऽर्थस्सिद्ध्यत्येव, देवताविग्रहादिश्च तथाविध इति तत्सिद्धिरप्रत्यूहेति प्रतिपादितं देवताधिकरण इति भावः ।
परिहरति —
नेति ।
एतस्यैवेति ।
इदमेतत्पदं प्रकृताग्रिष्टुद्धर्मातिदेशकम् । तथा च रेवत्याधारकं वारवन्तीयाख्यं साम अग्निष्टोमसाम कृत्वा प्रकृताग्निष्टुद्धर्मकेणानेन यागेन पशून् भावयेत् - इति श्रुत्यर्थः ।
विशिष्टविधेरिति ।
रेवत्याधारकवारवन्तीयसामादिविशेषणविशिष्टक्रतुभावनाविधेरित्यर्थः ।
उक्तेति ।
शब्दतात्पर्यविषयत्वस्य शाब्दप्रमितिविषयत्वं प्रति व्यापकत्वरूपनियमासिद्धेरित्यर्थः ।
उक्तमर्थं विवृणोति - अत्र हीति ।
न चैतदिति । यदि वारवन्तीयं साम रेवतीषु ऋक्षु अध्ययनसिद्धं भवेत्, तदा तस्य विशेषणस्य दध्यादिवल्लोकत एवावगतत्वाद्वाक्यस्य तद्व्यतिरिक्तार्थ एव प्रमितिजनकत्वरूपं प्रामाण्यं भवेत् ।
न त्वेतदस्ति ।
वारवन्तीयसाम्नः ऋगन्तरेष्वेवाध्ययनसिद्धत्वात् । अतो वाक्यादेव रेवत्याधारकवारवन्तीयाख्यविशेषणस्य प्रमितिर्वक्तव्येत्यर्थः ।
ननु विशिष्टविषयको विधिः अप्रसिद्धविशेषणस्वरूपप्रमितिजनकं रेवतीषु वारवन्तीयं साम कुर्यात् इत्येवमात्मकं विशेषणविधिं आक्षिपति, तथा च तस्य विशेषणस्य नैतद्वाक्यप्रमेयत्वमिति-नेत्याह —
नापीति ।
विशेषणगोचरविधिकल्पनात् पूर्वं विशिष्टविधिना विशेषणस्वरूपं प्रमितं वा, न वा । आद्ये तत्कल्पनं व्यर्थम् ।
द्वितीये विध्याक्षेपो न सिद्ध्यति ।
प्रमितस्यैव द्रव्यदेवतासम्बन्धस्य यागविध्याक्षेपकत्वदर्शनात् । तथा च विशिष्टविधिना विशेषणविधिराक्षिप्यत इति वदता आक्षेपात् प्राग्विशेषणस्य प्रभितत्वं वाच्यम्, तत्प्रमापकश्च कल्पितविधिरिति च वक्तव्यम् । ततश्च आक्षिप्तविधिना विशेषणस्वरूपे प्रमिते सति प्रकृतविधिर्विशिष्टगोचरस्सिद्ध्यति, तस्मिंश्च प्रकृतविधौ विशिष्टगोचरे सति तेन विशिष्टविधिना विशेषणविध्याक्षेपः, इति परस्पराश्रयापत्त्या विशेषणविध्याक्षेपासिद्धेरित्यर्थः ।
अत इति ।
रेवत्याधारकवारवन्तीयसामाख्यविशेषणस्य प्रकृतवाक्यादन्यतः प्रमित्यसम्भवादित्यर्थः ।
तर्हि तत्रापि तात्पर्यमस्तु, नेत्याह —
अथ चेति ।
गौरवादिति भावः । न च ‘यत्परश्शब्दस्स शब्दार्थः’ इति न्यायविरोधश्शङ्कनीयः । तस्यौत्सर्गिकत्वोपपत्तेः । प्रकृते च गौरवलक्षणबाधकसत्त्वान्न तस्येह प्रवृत्तिः ।
एवमिति ।
विशिष्टविधेर्विशेषणस्वरूप इवेत्यर्थः ।
न तात्पर्यमिति ।
तथा च तात्पर्याविषयेऽपि रेवतीवारवन्तीयविशेषणस्वरूपे श्रुतेः प्रमितिजनकत्ववत् अन्यपराणामपि मन्त्रादीनां देवताविग्रहादिप्रमितिजनकत्वं सम्भवतीति न देवताधिकरणविरोध इति भावः ।
प्रकृतमाह —
तेभ्य इति ।
मन्त्रार्थवादेभ्यः - तात्पर्यरहितश्रुतिवाक्येभ्य इति यावत् ।
‘सोमेन यजेत’ इत्यत्र सामानाधिकरण्येनान्वय इति सिद्धान्ते कथं प्रत्यक्षविरोधः कथं वा तदविरोधाय लक्षणाकल्पनं इत्याकाङ्क्षायामाह —
सोमेनेति ।
तत्रापीति ।
‘यजमानः प्रस्तरः’ इत्यत्रेवेत्यपिशब्दार्थः । प्रत्यक्षाविरोधाय वृत्त्यन्तरकल्पनमात्रे दृष्टान्तः, न तु मत्वर्थलक्षणांशेऽपीति बोध्यम् । ननु-द्वैतमिथ्यात्वबोधकाद्वैतश्रुतेरपि न स्वार्थे मिथ्यात्वे तात्पर्यम् मानाभावात् ।
तथा च द्वैतसत्यत्वग्राहिप्रत्यक्षविरोधपरिहारायाद्वैतश्रुतेरप्यन्यथानयनमेव न्याय्यमिति, नेत्याह —
अद्वैतश्रुतिस्त्विति ।
तात्पर्यलिङ्गानि च शास्त्रे व्यक्तानि ।
तत इति ।
अद्वैतश्रुतेस्सकाशादित्यर्थः ।
वाचस्पत्युक्तं तात्पर्यस्य प्राबल्यप्रयोजकत्वं दूषयति —
विवरणवार्तिके त्विति ।
कृष्णलाः - सुवर्णविकारभूताः माषाः । कृष्णलशेषत्वेन श्रपणं विधीयत इति श्रुतेस्तत्र तात्पर्यं सिद्धमिति भावः । रूपरसपरावृत्तिप्रादुर्भावो नाम पूर्वरूपरसादिनाशपूर्वकं रूपरसाद्यन्तरोत्पत्ति, तत्पर्यन्तो योऽधिश्रयणादिः व्यापारः स एव श्रपणशब्दस्य मुख्योऽर्थः, तत्सम्बन्ध इत्यर्थः । कृष्णलानां अधिश्रयणज्वालादिसम्पादनरूपे पाके कृतेऽपि रूपरसादिपरावृत्तिप्रादुर्भावो नास्तीति प्रत्यक्षसिद्धमिति भावः । ननु अत्र श्रपणं विधीयते, तच्च न प्रत्यक्षबाधितम् । ज्वाला[दिसंपादना]धिश्रयणादिक्रियारूपपाकस्यैव श्रपणशब्दार्थत्वेन तस्य तत्रापि सम्भवात् । रूपरसादिपरावृत्तिप्रादुर्भावस्तु न धात्वर्थः । तस्य पाकफलस्य कर्मत्वरूपस्य द्वितीयार्थत्वात्, फलस्य विध्ययोग्यत्वेन विधेयश्रपणरूपत्वायोगाच्च ।
तथा च विधेयश्रपणस्य दृष्टप्रयोजनाभावात् अदृष्टार्थो विधिः पर्यवस्यतीति श्रुतितात्पर्यविषयश्रपणस्य प्रत्यक्षबाधाभावात् उष्णीकरणमात्रे श्रपणशब्दस्य लक्षणा न सम्प्रति न्ना इत्यस्वरसादाह —
तत्त्वमसीतिवाक्यस्येति ।
निष्कृष्टेति ।
निष्कृष्टं विशिष्टरूपाद्वाच्यार्थात् पृथक्कृतं विशेष्यमात्रं यच्चैतन्यं, तत्रेत्यर्थः । अत्रेदं बोध्यं — महावाक्यानामखण्डैकरसचैतन्यरूपवस्तुमात्रबोधने तात्पर्यम् । कुतः । ‘तमेवैकं जानथ आत्मानं’ ‘तमेव विदित्वा तमृत्युमेति’ ‘एकधेवानुद्रष्टव्यं’ इत्यादिश्रुतिसहस्रेण मुक्तिसाधनीभूतमहावाक्यार्थज्ञानं प्रति तादृशवस्तुमात्रस्यैव विषयत्वेन नियमनात् । श्रुतीनामेषोऽर्थः — यस्मिन् कृत्स्नं जगदध्यस्तं, तमात्मानं जानथ हे मुमुक्षव । अत्र आधेयम्य कृत्स्नय जगतः ज्ञेयत्वनिषेधार्थमवधारणम् । एकपदं च एकरसत्वप्रतिपादनपरम् । मुमुक्षुज्ञेयस्यात्मनो नानारसत्वे एकपदमनर्थकं स्यात्, आत्मन एकत्वसङ्ख्यायोगस्य एकवचनादेव सिद्धत्वात् । अस्याः श्रुतेरिदं तात्पर्यं द्युभ्वाद्यधिकरणभाष्ये स्फुटं प्रदर्शितम् । तमेव - प्रकृतं परमात्मानमेव, न तु तद्व्यतिरिक्तमण्वपीत्येवकारार्थः । विदित्वा-साक्षात्कृत्य मृत्युशब्दितं संसारं अत्येति ।
एकधैव एकरूपेणैव शास्त्राचार्योपदेशमनु द्रष्टव्यं इति ।
तच्च अखण्डैकरसवस्तुमात्रबोधने तात्पर्यं महावाक्येषु तत्त्वमादिपदानां लक्षणां विना न निर्वहतीति तेषु तात्पर्यानुसारेणैव लक्षणाभ्युपगमः, न तु प्रत्यक्षविरोधपरिहाराय । परं तु तत्त्वंपदयोश्चैतन्यमात्रे लक्षणां स्वीकृत्य वाक्यार्थबोधाभ्युपगमे प्रत्यक्षविरोधोऽपि परिहृतो भवतीत्येतावन्मात्रेण प्रत्यक्षविरोधपरिहाराय महावाक्येषु लक्षणेति निबन्धनेषु व्यवहारः ।
तथा च - सत्यपि तात्पर्ये तदनादृत्य प्रत्यक्षविरोधपरिहारायैव महावाक्येषु लक्षणाभ्युपगमात् तात्पर्यस्य प्राबल्यपयोजकत्वं नास्तीति प्रतिपादनं-मन्दमिति ।
यत्तु मन्त्रार्थवादानां स्तुतिद्वारभूते स्वार्थे तात्पर्यं नास्तीत्युक्तं, तद्दूषयति —
अर्थवादानामपीति ।
अनन्यार्थता-स्वार्थपरतेत्यर्थः ।
तर्हि अर्थवादानां विधिशेषत्वं न स्यादित्याशङ्क्याह —
प्रमितानामेवेति ।
मानान्तरसंवादविसंवादरहितार्थवादादिभिरिति शेषः । तेषां स्वार्थप्रमितिमात्रेण फलाभावात् विधेयस्तावकत्वेन विध्येकवाक्यत्वं कल्प्यत इत्यर्थः । यथा प्रयाजादिकर्मणां प्रयोजनाकाङ्क्षावशेन प्रयाजादिवाक्यानां फलवद्दर्शपूर्णमासादिविधिवाक्यैरेकवाक्यत्वं तथेति भावः ।
अवान्तरसंसर्ग इति ।
अर्थवादानामपि विध्यन्वयात् प्राक् स्वरसतः प्रतीयमाने देवताया विग्रहादिसंसर्गे अवान्तरतात्पर्यमस्तीत्यर्थः ।
प्रयाजादिवाक्यानामर्थवादादिवाक्यानां च स्वार्थप्रमितौ तात्पर्ये हेतुमाह —
वाक्यैकवाक्यत्वादिति ।
वाक्यानां सतामेव तेषां विधिवाक्यैरेकवाक्यत्वाभ्युपगमात् वाक्यानां च वाक्यार्थे तात्पर्यस्य सामान्यतस्सिद्धत्वादित्यर्थः ।
यत्तु वाक्यार्थद्वारभूते पदार्थ इवेति स्तुतिद्वारभूतेऽर्थे तात्पर्याभावे दृष्टान्तप्रदर्शनं, तद्विघटयति —
पदैकवाक्यतायामेवेति ।
पदानां सतामेव एकवाक्यार्थबोधनेनैकवाक्यत्वे इत्यर्थः । तत्र पदार्थानां वाक्यार्थस्येव अपूर्वत्वाभावात् न तेष्ववान्तरतात्पर्यमपि स्वीक्रियत इत्यर्थः । एतेन-रेवत्याधारकवारवन्तीयसामाख्यविशेषणेऽपि तात्पर्यं-व्याख्यातम् । वाक्यस्य वाक्यार्थे तात्पर्यस्य अत्सर्गतस्सिद्धत्वात् विशिष्टविधेर्विशिष्टभावनायां तात्पर्यवत्त्वाच्च तस्य विशेषणेषु तात्पर्यं सिद्ध्यति । विशिष्टविधितात्पर्यविषयत्वस्य विशेष्यमात्रवृत्तित्वे तत्तात्पर्यस्य विशिष्टविषयकत्वानुपपत्तेः । मीमांसकानां विशिष्टविधेर्विशेषणेषु तात्पर्याभावव्यवहारस्य विशेषणेषु प्रत्येकं तात्पर्याभावपरत्वात् । (तस्मात्) [व्यवस्थापनेनेति] तात्पर्यविषय एव वेदस्य प्रमितिजनकत्वम् - इति नियमस्य न्यायनिर्णये विवरणाचार्यैर्व्यवस्थापितत्वेनेत्यर्थः ।
ततः किं, तत्राह —
यजमानः प्रस्तर इत्यादीनामिति ।
उक्तरीत्या तेषामपि यजमानप्रस्तराभेदादौ तात्पर्यं स्यादेव । तच्च प्रत्यक्षेण बाध्यत इति वक्तव्यम् । अतस्तात्पर्यवत्त्वं श्रुतेः प्राबल्यप्रयोजकं न भवतीत्यर्थः । अत्र-मन्त्रार्थवादानामपि प्रयाजादिवाक्यानामिव स्तुतिद्वारभूतेऽर्थे यद्यवान्तरतात्पर्यमवश्यं कल्पनीयं, तर्ह्यस्तु तत् । तावता तात्पर्यस्य न प्राबल्यप्रयोजकत्वक्षतिः । महातात्पर्यस्य तत्प्रयोजकत्वसम्भवात् । अद्वैतश्रुतीनां प्रपञ्चमिथ्यात्वे महातात्पर्याभ्युपगमेन तत्र प्रपञ्चसत्त्वग्राहिप्रत्यक्षस्य मिथ्यात्वश्रत्या बाधोपपत्तेः - इत्यादिकमालोचनीयम् ।
तर्हीति ।
तात्पर्यस्य प्राबल्यप्रयोजकत्वाभावे सतीत्यर्थः । ननु श्रुतिमात्रस्य प्राबल्ये सिद्धे तस्यौत्सर्गिकत्वं वक्तव्यं स्यात्, तदेव कुत इति चेत् - न — x‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् ।’ इति वचनेन श्रुतिमात्रस्य प्रत्यक्षाद्यपेक्षया आगमत्वादेव सिद्धत्वात् ।
तन्मात्रस्य प्राबल्ये अन्यदपि हेतुद्वयं दर्शयति —
निर्दोषत्वात् परत्वाच्चेति ।
उत्सर्ग इति ।
श्रुतितदितरप्रमाणयोर्विरोधे सति श्रुतिरेव बाधिका भवति, यत्र च श्रुतिबाधितं प्रत्यक्षादि निरवकाशं भवति तत्र निरवकाशेन तेन श्रुतिरेव बाध्यते, ‘सावकाशनिरवकाशयोर्निरवकाशं बलवत्’ इति न्यायादित्यर्थः ।
ननु श्रुतिबाधितस्य प्रत्यक्षादेः निरवकाशत्वस्थले तेन श्रुतेर्बाधः किमर्थमुपेयते, तत्राह —
किं त्वित्यादिना ।
सम्भावनीयम् - उपपादनीयमित्यर्थः ।
अत एवेति ।
निर्विषयप्रत्यक्षायोगादेवेत्यर्थः ।
प्रच्यावितमिति ।
श्रुतिबाधितस्य द्वैतस्य तत्त्वरूपत्वायोगात् द्वैतबोधकप्रत्यक्षस्य तत्त्वावेदकत्वरूपात् प्रामाण्यात् प्रच्यावितत्वं बोध्यम् । उपपाद्यते । भाष्यादिष्विति शेषः ।
श्रुतिबाधितप्रत्यक्षादीनां सिद्धान्ते व्यावहारिकप्रामाण्योपगमेन प्रत्यक्षज्ञानस्य निविंषयत्वरूपं निरवकाशत्वं सिद्धान्तसम्मतं न भवतीत्युपपाद्य तत्र कैमुतिकन्यायमाह —
किं बहुनेति ।
अद्वैतश्रुतिबाधितघटादिप्रत्यक्षस्य निर्विषयत्वोपगमे सर्वव्यवहारोच्छेदप्रसङ्गलक्षणं बाधकं यथा विद्यते, न तथा शुक्तिरजतादिप्रत्यक्षस्य निर्विषयत्वोपगमे बाधकमस्ति । कैश्चित् असतोऽपि रजतादेर्भानोपगमात् । तथापि तस्य तत्कालोत्पन्नरजतादिविषयकत्वं सिद्धान्ते स्वीक्रियते, अनुभवस्य निर्विषयत्वायोगात् । तस्मात् श्रुतिबाधितस्य प्रत्यक्षस्य निरवकाशत्वं यत्र प्रसज्यते तत्र तेन श्रुतिबाधो युक्तस्सिद्धान्तसम्मतश्चेति श्रुतेः प्राबल्यमौत्सर्गिकं इत्येतत् सिद्धमिति भावः ।
शुक्तिसम्भिन्नेति ।
शुक्तितादात्म्यापन्नेत्यर्थः ।
व्यवहितमिति ।
बाह्यदेशान्तरस्थमित्यर्थः ।
आन्तरमिति ।
ज्ञानाकाररूपमित्यर्थः ।
न कल्प्यत इत्यत्र हेतुः —
तद्विरोधेनेति ।
रजतस्य इदमर्थाभिन्नत्वानुभवविरोधेनेत्यर्थः । व्यवहितरजतादीनामिदमर्थतादात्म्यासम्भवादिति भावः ।
एवं चेति ।
विरोधस्थले निरवकाशमानान्तरेण श्रुतिबाधे न्याय्ये सतीत्यर्थः ।
ननु प्रस्तरयजमानयोरभेदश्रुतिबाधितस्य तयोर्भेदप्रत्यक्षस्य शुक्तिरजतप्रत्यक्षवत् प्रातिभासिकविषयत्वसम्भवात् न तत्र तेन श्रुतिबाधः कल्पनीय इति, नेत्याह —
प्रातिभासिकविषयत्वाभ्युपगमेनेति ।
प्रत्यक्षविषयस्य प्रस्तरे यजमानभेदस्य प्रातिभासिकत्वासम्भवे युक्तिं सूचयति —
यावदिति ।
यथा शुक्तिरजतस्य ब्रह्मज्ञानात् प्रागेव ‘नेदं रजतं’ इति प्रत्यक्षेण निवृत्तिः स्वोचितार्थक्रियाभावश्च तस्य प्रातिभासिकत्वहेतुरस्ति, न तथा प्रस्तरे यजमानभेदस्य ब्रह्मज्ञानात् प्राग्बाधः अर्थक्रियासामर्थ्याभावश्च प्रातिभासिकत्वहेतुरस्तीत्यर्थः । यावद्ब्रह्मज्ञानमनुवर्तमानस्येत्यस्य ब्रह्मज्ञानात् प्राक् बाधरहितस्येत्यर्थः । अर्थक्रियासंवादेनेत्यस्यार्थक्रियासमर्थभेदविषयकत्वेनेत्यर्थः ।
बाध्यत्व इति ।
प्रस्तरे यजमानभेदग्राहिणः प्रत्यक्षस्येत्यनुषङ्गः ।
सर्वथेति ।
अयमर्थः — प्रातिभासिकभेदविषयकत्वं तस्य प्रत्यक्षस्य न सम्भवतीत्युक्तम् । तथा व्यावहारिकभेदविषयकत्वं तस्य न सम्भवतीत्यनुपदमेव वक्ष्यते । पारमार्थिकभेदश्च अद्वैतश्रुतिविरोधादेव नाभ्युपगन्तुं शक्यते । तथा च तस्य निर्विषयत्वरूपं निरवकाशत्वं स्यादेवेति श्रुतिरेवान्यथा नीयत इति सम्बन्धः ।
अन्यथानयनप्रकारमाह —
तत्सिद्धीति ।
मुख्यार्थस्याभेदस्य प्रत्यक्षविरोधेनासम्भवात् प्रस्तरे यजमानशब्दस्य गौणवृत्तौ कल्पनीयायां को गुण इत्याकाङ्क्षायां सूत्रकारेण गुणो दर्शितः —
तत्सिद्धीति ।
तस्य - क्रतोस्सिद्धिः - उपकारः यजमानप्रस्तरसाध्यो गुणः, तयोः क्रतुनिर्वर्तकत्वरूपं सादृश्यं गुण इति यावत् । एवमन्येषामप्यर्थवादानां प्रत्यक्षविरोधपरिहाराय यथासम्भवं आलम्बनानि जैमिनिना भगवता अधिकरणान्तरेषु कल्पितानीत्यर्थः ।
ननु अद्वैतश्रुतिप्रत्यक्षयोर्विरोधस्थले पारमार्थिकमद्वैतं श्रुतिविषयः व्यावहारिकद्वैतं प्रत्यक्षविषय इति व्यवस्था यथा कल्प्यते, तथा प्रकृतेऽपि यजमानप्रस्तरयोर्वास्तवाभेदः श्रुतिविषयः कल्पितभेदः प्रत्यक्षविषय इति व्यवस्था कल्प्यतामिति, नेत्याह —
न चेति ।
इहेति ।
‘यजमानः प्रस्तरः’ इत्यत्रेत्यर्थः । यजमानः प्रस्तर इत्यर्थवादेन तयोस्तात्त्विकं तादात्म्यं प्रतिपादयितुं न शक्यम् । ब्रह्माद्वैतश्रुतिभिः विरोधात् । न चाद्वैतश्रुतीनामपि विधिरूपत्वाभावेनार्थवादत्वाविशेषात् विनिगमनाविरह इति वाच्यम् ।
तथापि तासां बहुत्वेन विनिगमनाविरहानवतारादित्याशयेनाह —
अनेकेति ।
किं च यजमानप्रस्तराभेदे तस्यार्थवादस्य तात्पर्यं नास्ति, तद्रग्राहकलिङ्गाभावात् । अद्वैतश्रुतीनां च स्वार्थे तात्पर्यग्राहकलिङ्गानि षड्विधान्यपि सन्ति । तथाहि — छान्दोग्ये षष्ठाध्याये ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं’ इत्युपक्रम्य ‘ऐतदात्म्यमिदं सर्वं’ इति सर्वात्मकमद्वितीयं वस्तूपसंहरति श्रुतिः । अत उपक्रमोपसंहारयोरैकरूप्यलक्षणेन लिङ्गेन तस्याध्यायस्य अद्वितीये वस्तुनि तात्पर्यं निश्चीयते । हे सोम्य इदं-परिदृश्यमानं जगत् सृष्टेः प्राक् अद्वितीयमेकरूपं ब्रह्मैव आसीदिति श्वेतकेतुं पुत्रं प्रति उद्दालकवचनम् । इदं सर्वं ऐतदात्म्यम् — एतदात्मकं - प्रकृतसद्वस्त्वात्मकमित्यर्थः । भावप्रत्ययोऽविवक्षितः । ‘ऐतदात्म्यमिदं सर्वं’ इतिवाक्यस्य असकृत्पाठादभ्याससिद्धिः । अद्वितीयवस्तुनो मानान्तरायोग्यत्वात् अपूर्वत्वसिद्धिः । ‘आचार्यवान् पुरुषो वेद’ इति वाक्येन प्रकृताद्वैतसद्वस्तुज्ञानं प्रकृत्य सम्पत्तिवाक्येन तस्य मुक्तिलक्षणफलश्रवणात् फलमपि तत्र तात्पर्यग्राहकमस्ति ।
पितृपुत्राख्यायिकादिरूपार्थवादश्च तत्तात्पर्यग्राहकस्तत्रास्ति ।
मृदादिदृष्टान्तैः प्रपञ्चस्य ब्रह्मकार्यत्वप्रतिपादनपूर्वकं ब्रह्मानन्यत्वप्रतिपादनं उपपत्तिस्तत्रास्ति । तथा च षड्विधैस्तात्पर्यलिङ्गैरद्वितीयवस्तुपरत्वं तस्याध्यायस्य सिद्धम् । एवं अध्यायान्तरेषु श्रुत्यन्तरेषु च तात्पर्यलिङ्गानि द्रष्टव्यानि ।
तथा च उक्ततात्पर्यलिङ्गैरुपेतत्वादद्वैतश्रुतीनां प्राबल्यमित्याशयेनाह —
षड्विधेति ।
ननु-तर्हि व्यावहारिको यजमानप्रस्तरयोरभेदः श्रुत्यर्थोऽस्तु । ततश्च व्यावहारिकतदभेदप्रतिपादकश्रुतिबाधितं तयोर्भेदप्रत्यक्षमपि व्यावहारिकभेदविषयकमस्तु । तथा च प्रत्यक्षस्य निरवकाशत्वाभावान्न श्रुतिबाधकत्वमिति चेत्, न — समानसत्ताकयोर्भेदाभेदयोरेकत्रासम्भवेन तथाकल्पनायोगात् । अस्तु तर्हि प्रातिभासिकस्तयोरभेदः श्रुत्यर्थः - न — शुक्तौ रजताभेदस्येव प्रस्तरे यजमानाभेदस्य प्रत्यक्षप्रतिभासाभावादिति भावः ।
श्रुतेः प्रत्यक्षात् प्राबल्यं इत्युत्सर्गस्य ‘यजमानः प्रस्तरः’ इत्यपवादस्थलं दर्शयित्वा अपवादस्थलान्तरमाह —
एवं तत्त्वमसीति ।
तत्त्वमसीतिवाक्येन हि स्वरसतः किञ्चिज्ज्ञत्वकर्तृत्वभोक्तृत्वादिविशिष्टचैतन्यरूपजीवस्य तद्विपरीतेन सर्वज्ञत्वाभोक्तृत्वाकर्तृत्वादिविशिष्टचैतन्यरूपेण ब्रह्मणा सह अभेदः सार्वकालिकः प्रतिपाद्यते । तदनुरोधेन जीवे सदा सर्वज्ञत्वादिधर्माङ्गीकारे जीवे तद्विरुद्धासर्वज्ञत्वकर्तृत्वादिरूपसंसारावगाहिप्रत्यक्षं निरालम्बनं स्यात् । अतो निरवकाशसंसारप्रत्यक्षेण श्रुतेर्बाधः स्वीकर्तव्यः । स च बाधः विशेष्यचैतन्यांशमात्राभेदप्रतिपादकत्वेन श्रुतेस्सङ्कोचरूप एव, न तु यजमानः प्रस्तर इत्यत्रेव कार्त्स्न्येन मुख्यार्थं त्यक्त्वा गौणार्थकल्पनरूपः, इति विशेष इत्यर्थः ।
अहङ्कारशबलितस्येति ।
अन्तःकरणविशिष्टचैतन्यस्येत्यर्थः ।
भागत्यागेति ।
त्वंपदवाच्यार्थस्य द्वौ भागौ स्तः —
विशेषणभागो विशेष्यभागश्चेति ।
तत्र विशेषणरूपस्य भागस्य त्यागपूर्वकं त्वंपदस्य विशेष्यभागे चैतन्यमात्रे लक्षणा स्वीक्रियते । एवं तत्पदार्थेऽपि द्रष्टव्यम् ।
अपवादस्थलान्तरमाह —
एवं कृष्णलमिति ।
प्रसक्ताविति ।
श्रुतिबलात् कृष्णलेषु रूपरसपरावृत्तिप्रादुर्भावपर्यन्तपाकरूपस्य श्रपणस्याङ्गीकारे तेषु श्रपणाभावप्रत्यक्षस्य विषयो न लभ्यते । अद्वैतश्रुतिविरोधेन तेषु पारमार्थिकस्य श्रपणाभावस्यासम्भवात्, श्रुत्युक्तश्रपणस्य तेषु व्यावहारिकस्यैव वक्तव्यतया तेषु तदभावस्यापि व्यावहारिकस्यासम्भवात्, व्यवहारकाले बाधरहितस्य श्रपणाभावस्य प्रातिभासिकत्वासम्भवाच्च । तस्मात् प्रत्यक्षं निर्विषयं स्यादित्यर्थः । एवं ‘सोमेन यजेत’ इत्यत्रापि सोमेन योगेनेष्टं भावयेदिति वाक्यार्थे स्थिते श्रुतिबलात् सोमयागयोरभेदाङ्गीकारे तयोर्भेदग्राहिप्रत्यक्षं निरवकाशं स्यादिति तद्विरोधपरिहाराय सोमपदस्य मत्वर्थलक्षणा स्वीक्रियते इत्यपि द्रष्टव्यम् ।
एवं निरवकाशप्रत्यक्षेण श्रुतिबाधं उत्सर्गस्यापवादरूपं दर्शयित्वा औत्सर्गिकं श्रुतिप्राबल्यं प्रकृताभिप्रायेण दर्शयति —
कथञ्चिदिति ।
द्वैतमिथ्यात्वश्रुतीनां तत्सत्यत्वग्राहिप्रत्यक्षस्य च विरोधस्थले प्रत्यक्षस्य श्रुतिबाधितस्यापि न निरवकाशत्वम् । कल्पितद्वैततद्गतसत्ताजात्यादिविषयकत्वेन सावकाशत्वात् । अतोऽत्र श्रुत्या प्रत्यक्षस्यैव बाध इति भावः । कथञ्चिदित्यस्य कल्पितद्वैतादिसमर्पणेनेत्यर्थः । कथञ्चिच्छब्दात् पूर्वं प्रत्यक्षस्येति शेषः ।
न कश्चिदपीति ।
तात्पर्यस्य प्राबल्यप्रयोजकत्वपक्षे यथा तात्पर्यविषयस्यापि श्रपणादेः बाधदर्शनरूपा अव्यवस्था प्रसक्ता, न तथा श्रुतिप्राबल्यौत्सर्गिकत्वपक्षे सा प्रसज्यते, अनुपलम्भादित्यर्थः । ननु प्रत्यक्षेण श्रुतिबाधे बहून्युदाहरणानि दर्शितानि । श्रुत्या प्रत्यक्षबाधोदाहरणं त्वेकमेव दर्शितम् ।
तथा च प्रत्यक्षस्य श्रुत्यपेक्षया प्राबल्यमित्युत्सर्ग इति वक्तव्यं न तु वैपरीत्यं - इत्यस्वरसादाह —
अथवेति ।
तदभिन्न इति ।
सोमाभिन्न इत्यर्थः ।
तस्या इति ।
अनुष्ठानाशक्तेरित्यर्थः ।
तत इति ।
प्रत्यक्षविरोधादित्यर्थः ।
तत एवेति ।
अनुष्ठानाशक्तेरेव, न तु प्रत्यक्षविरोधात् । अतो न प्रत्यक्षप्राबल्यस्यौर्गिकत्वम्, आगमबाध्यानां गगननैल्यप्रत्यक्षादीनां भूयसां प्राक् दर्शितत्वादित्यर्थः ।
तस्मादिति ।
आगमप्राबल्यस्यौत्सर्गिकत्वसम्भवादित्यर्थः ।
न कश्चिद्बाध इति ।
आगमस्य प्रत्यक्षात्प्राबल्ये यजमानः प्रस्तर इत्यादावपि यजमानप्रस्तराभेदादिसिद्धिप्रसङ्ग इति यो बाध आशङ्कितः पूर्वं स नास्ति, तस्य बहुभिः प्रकारैः परिहृतत्वादित्यर्थः ।
अपच्छेदन्यायं प्रकृते योजयितुमाक्षिपति —
अथ कथमिति ।
कथंशब्दसूचितस्याक्षेपस्य विवरणं तन्निराकरणं च यत्वित्यादिना भविष्यति ।
प्रथमं तन्न्यायं प्रकृते योजयति —
उच्यत इति ।
बहिष्पवमानस्तोत्रमुद्दिश्य अन्वारब्धतया गच्छतामृत्विजां मध्ये उद्गातुः अपच्छेदे सति आरब्धं ऋतुमदक्षिणतया समाप्य पुनस्स एव क्रतुरनुष्ठेय इति तदपच्छेदनिमित्तकं आरब्धक्रतोरदक्षिणतया समापनं प्रायश्चित्ततया विहितम् । तथा प्रतिहर्त्रपच्छेदनिमित्तकं सर्वस्वदानरूपदक्षिणादानविशिष्टतया आरब्धस्य क्रतोः समापनरूपं प्रायश्चित्तं विहितम् । तथा च एकस्मिन् प्रयोगे दैवात् क्रमेणोभयोरपच्छेदे सति विरुद्धयोरुक्तप्रायश्चित्तयोरनुष्ठातुमशक्यत्वात् अन्यतरस्यानुष्ठेयत्वे स्थिते सति किं पूर्वनिमित्तकप्रायश्चित्तमनुष्ठेयं किं वा उत्तरनिमित्तकमिति विशये निर्णयमाह उद्गातुरपच्छेद इत्यादिना । यत्र प्रयोगे प्रथममुद्गातुरपच्छेदो भवति तत्प्रयोगाभिप्रायोऽयं ग्रन्थः ।
श्रुतिनिरीक्षणेनेति ।
निमित्तोपजननानन्तरमेव नैमित्तिकशास्त्रस्य बुद्धिस्थत्वादिति भावः ।
अपच्छेदनिमित्तकर्तव्यताबुद्धिरिति ।
उद्गात्रपच्छेदो निमित्तं यस्य प्रायश्चित्तस्य तत् उद्गात्रपच्छेदनिमित्तं तस्य कर्तव्यताबुद्धिरित्यर्थः ।
तद्विरुद्धेति ।
उद्गात्रपच्छेदनिमित्तकर्तव्यता तच्छब्दार्थः । तद्विरुद्धत्वं च कर्तव्यताविशेषणम् ।
एवमिति ।
एकस्मिन् प्रयोगे अदक्षिणत्वसर्वस्वदक्षिणाकत्वयोंरिव एकत्र घटादिप्रपञ्चे सत्यत्वमिथ्यात्वयोरपि विरुद्धत्वात् तद्बुद्ध्योर्बाध्यबाधकभाव इति भावः ।
न चोदाहृतस्थल इति ।
यत्र प्रथममुद्गात्रपच्छेदः तत्रेत्यर्थः ।
शास्त्रमिति ।
‘यद्युद्गातापच्छिद्येत’ इति शास्त्रमित्यर्थः ।
युगपदिति ।
उद्गातृप्रतिहर्त्रपच्छेदयोर्यौगपद्यस्थले उद्गात्रपच्छेदनिमित्तकमेव प्रायश्चित्तमनुष्ठेयमित्यापस्तम्बाचार्यैरुक्तत्वादिति भावः ।
प्रत्यक्षं त्विति ।
द्वैतसत्यत्वप्रत्यक्षमित्यर्थः ।
अद्वैतश्रुत्येति ।
द्वैतमिथ्यात्वश्रुत्येत्यर्थः ।
विषयान्तराभावादिति ।
द्वैतप्रपञ्चे प्रतीयमानसत्त्वस्य श्रुत्या बाधे सति तत्र सत्त्वान्तराभावात् सत्त्वप्रत्यक्षं निर्विषयं स्यात्, न चैतद्युज्यते, (प्रत्यक्ष) ज्ञानस्य निर्विषयत्वादर्शनात् तदनुपगमाच्चेति भावः ।
द्वैतप्रपञ्चे पारमार्थिकस्य सत्त्वस्य श्रुत्या अपहृतत्वेऽपि व्यावहारिकस्य सत्त्वस्य तया अनपहृतत्वात् सत्त्वप्रत्यक्षस्य न निरवकाशत्वमिति परिहरति —
यत्रेति ।
विषयमिति ।
सत्त्वरूपमिति शेषः । ननु — ब्रह्मणि सत्त्वं पारमार्थिकं घटादिप्रपञ्चे सत्त्वं व्यावहारिकं शुक्तिराजतादौ सत्त्वं प्रातिभासिकमिति सत्तात्रैविध्यपक्षे घटादिसत्त्वप्रत्यक्षस्य विषयान्तरं नान्वेषणीयम् । व्यावहारिकसत्त्वस्य घटादौ विद्यमानस्यैव तद्विषयस्य लाभात् । एकैव सर्वत्र सत्ता इति पक्षे व्यावहारिकसत्त्वप्रातिभासिकसत्त्वयोरभावात् सत्त्वप्रत्यक्षस्य विषयान्तरमन्वेषणीयमेव ।
यथा उत्तरभाविविरुद्धापच्छेदस्थले सर्वथा बाधितस्य पूर्वापच्छेदनिमित्तकप्रायश्चित्तशास्त्रस्य - इत्याशङ्क्याह —
इहापीति ।
द्वैतसत्त्वप्रत्यक्षं घटादिद्वैते सत्तामलभमानमपि न निरवकाशम् । पूर्वापच्छेदनिमित्तकप्रायश्चित्तशास्त्रस्य परयोगान्तरे सावकाशत्ववत् इहापि घटादिद्वैतादन्यत्र तदधिष्ठानभूतब्रह्मसत्तायां सावकाशत्वसम्भवादित्यर्थः ।
ब्रह्मस्वरूपसत्तायाः प्रत्यक्षविषयत्वे कैमुतिकन्यायमभिप्रेत्याह —
सर्वेति ।
सर्वप्रत्ययवेद्यत्वं सत्ताविशेषणम् । लोके हि यद्यद्वस्तु मनसि स्फुरति तत् सर्वं सदित्येव प्रतीयते । अतः सर्वस्य जगतः सत्ता सर्वप्रत्ययवेद्या । सा च सर्वाधिष्ठानभूतब्रह्मसत्तैव, न तु तदतिरिक्ता, कल्पनागौरवादिति भावः ।
पूर्वं कथंशब्दसूचितमाक्षेपमिदानीमुद्भावयति —
यत्त्विति ।
बदरफल इति ।
यथा - तत्र पूर्वं श्यामरूपमुत्पद्यते, तत्रैव पश्चात् पूर्वरूपनाशपूर्वकं रक्तरूपमुत्पद्यते, तथा - पूर्वनिमित्तेन जातमात्रेण पूर्वनैमित्तिककर्तव्यता जायते पाश्चात्येन च निमित्तेन पूर्वकर्तव्यतानाशपूर्वकमुत्तरनैमित्तिककर्तव्यता उत्पाद्यते इत्यर्थः ।
ततः किं, तत्राह —
रूपज्ञानद्वयवदिति ।
तथा च उत्तरभाविविरुद्धापच्छेदवत्यपि क्रतौ पूर्वनैमित्तिकशास्त्रस्य नाप्रामाण्यमिति तत्प्रामाण्यसंरक्षणमेव तथा कल्पकमिति भावः ।
उत्तरनिमित्तोपजननात् प्राक् पूर्वनैमित्तिकाकर्तव्यता वस्तुत आसीत्-इत्यत्र सम्मतिमाह —
अत एवेति ।
पूर्वं वस्तुतस्तदभ्युपगमादेवेत्यर्थः । उत्तरभाविप्रतिहर्त्रपच्छेदजननात् प्राक् अन्यथा-अदक्षिणतया वस्तुतः कर्तव्योऽपि क्रतुः पश्चात् प्रतिहर्त्रपच्छेदरूपे निमित्ते सति अन्यथासर्ववेदसदक्षिणतया कर्तव्यः इति शङ्काभिप्रायानुसारेण वचनार्थः । क्रमेण विरुद्धापच्छेदद्वयवति क्रतौ पूर्वनैमित्तिकस्य कर्तव्यतानिष्पत्तौ मानं नास्ति । तत्र पूर्वप्रायश्चित्तस्यानङ्गत्वात् । अनङ्गत्वं च तद्बोधकमानाभावात् । न च पूर्वनैमित्तिक्रशास्त्रं तत्र मानम् ।
तस्य प्रयोगान्तरेषु सावकाशत्वेन तत्राप्यङ्गत्वबोधकत्वाभावात् - इत्याशयेन दूषयति —
तन्नेति ।
आहवनीयेति ।
‘आहवनीये जुहोति’ इति होममात्रे आहवनीयं विधातुं प्रवृत्तस्य सामान्यशास्त्रस्य होमविशेषे पदरूपाधिकरणविधायकविशेषशास्त्रवशेन पदहोमातिरिक्तहोमेषु आहवनीयविधायकत्ववदित्यर्थः ।
ऋतुविषयत्वादिति ।
तादृशक्रतावेव उद्गात्रपच्छेदनिमित्तकप्रायश्चित्तस्याङ्गत्वबोधकत्वादित्यर्थः ।
उत्कार्थे सम्मतिमाह —
उक्तं हीति ।
कॢप्तरूपस्य प्रत्यक्षसिद्धस्य साधारणस्य होममात्रे प्राप्तस्य ‘आहवनीये जुहोति’ इतिशास्त्रस्य विशेषशास्त्रेण यस्सङ्गोचः, स प्राप्तबाधोऽभिधीयते । यथा सामान्यशास्त्रस्य विशेषशास्त्रं बाधकं, तथा सामान्यशास्त्रयोरेव क्वचिद्विषये विरोधे सति पूर्वं प्राप्तस्य पश्चात् प्राप्तं परत्वात् बाधकं भवति । यथा विरुद्धापच्छेदनिमित्तकशास्त्रयोः । तथा च विशेषविषयादिनेत्यादिपदं परत्वादिसङ्ग्राहार्थं इति श्लोकार्थः ।
तत्रैवंसतीति ।
अपच्छेदस्थले उत्तरज्ञानेन पूर्वज्ञानबाधे सतीत्यर्थः ।
द्रष्टव्यमिति ।
पश्चाद्भाविप्रतिहर्त्रपच्छेदविधुरस्य उद्गात्रपच्छेदवतः क्रतोरदक्षिणतया क्रतुसमापनमङ्गमिति ज्ञातव्यमित्यर्थः ।
शास्त्रदीपिकावचनमपि न त्वदभिमतार्थपरम्, तत्पूर्वग्रन्थविरोधात् पूर्वग्रन्थार्थनिगमनरूपस्य त्वदुदाहृतवचनस्य पूर्वग्रन्थानुसारेणैव नेतव्यत्वाच्च-इत्याह —
तदपीति ।
तदपि कृत्वाचिन्तामात्रपरमिति सम्बन्धः ।
कृत्वाचिन्तापरत्वे हेतुमाह —
तेनेत्यादिना ।
तेनेत्यस्य कॢप्तपूर्वप्रवृत्तनैमित्तिकशास्त्रेणेत्यर्थः ।
परोदाहृतवचनस्य शास्त्रदीपिकागतपूर्वग्रन्थानुसारिणमर्थमाह —
निमित्तोपजननं विनेति ।
क्रमेण विरुद्धापच्छेदद्वयवति क्रतौ यदि द्वितीयनिमित्तोपजननं न स्यात्, तदा पूर्वनिमित्तवशादन्यथाकर्तव्यो भवेदप्ययं क्रतुः, न त्वेतदस्तीत्येतदर्थपरोऽयं ग्रन्थ इत्यर्थः ।
पराभिमतं तद्वचनार्थं निषेधति —
न त्विति ।
तिष्ठन्तु मीमांसकाः दर्शितदर्शिनः ।
कुशलैरस्माभिः कल्पितस्य श्रुत्यर्थस्य का अनुपपत्तिरिति शङ्कते —
आस्तामिति ।
उत्तरनैमित्तिककर्तव्यतोत्पत्त्या नाश्यत्वेन पराभिमतं पूर्वनैमित्तिकस्य कर्तव्यत्वमेव तावद्दुर्निरूपम् । तथा हि —
तत् किं कृतिसाध्यत्वयोग्यत्वं, किं वा फलमुखं कृतिसाध्यत्वं, क्रतुवैकल्यप्रयोजकाननुष्ठानप्रतियोग्यनुष्ठानशालित्वं वा, अङ्गत्वं वा, अन्यद्वा किञ्चित् इति विकल्पं मनसि निधाय आद्यं दूषयति —
न तावदिति ।
अनपायादिति ।
तथा च उत्तरनैमित्तिककर्तव्यताकालेऽपि अनुवर्तमानायाः पूर्वकर्तव्यतायाः तन्नाश्यत्वायोगेन बदरफलगतश्यामतारक्ततयोरिव तयोः क्रमिकत्वाभ्युपगमविरोध इति भावः ।
द्वितीयं दूषयति —
नापि फलेति ।
अजननादिति ।
तथा च पूर्वनैमित्तिककर्तव्यताज्ञानस्य मीमांसकमर्यादासिद्धं भ्रान्तित्वमेवायाति, न त्वदभिमतं श्यामताज्ञानस्येव प्रमात्वं इति भावः ।
तृतीयचतुर्थावनुवदति —
नापि यदिति ।
यस्यानुष्ठानाभावे क्रतोर्वैकल्यं भवति तत् क्रतुवैकल्यप्रयोजकाननुष्ठानप्रतियोग्यनुष्ठानशालि पर्यवस्यति, तत्त्वमित्यर्थः । ‘यत्र प्रथममुद्गात्रपच्छेदः पश्चात् प्रतिहर्त्रपच्छेदः तत्र उद्गात्रपच्छेप्रायश्चित्ताननुष्ठानं क्रतुवैकल्यप्रयोजकं, तत्प्रायश्चित्तं तस्य क्रतोरङ्गं’ इति च वदता वक्तव्यं - पूर्वप्रायश्चित्ताननुष्ठानस्य क्रतुवैकल्यप्रयोजकत्वं किं वैकल्योत्पादकत्वं किंवा तद्व्यापकत्वं, तद्व्याप्यत्वं वा । नाद्यः । अभावरूपस्याननुष्ठानस्योत्पादकत्वासम्भवात्, क्रतुवैकल्यस्यापिक्रतूपकारप्रागभावरूपतया तदुत्पाद्यत्वायोगाच्च । न द्वितीयः । यत्रोद्गातृमात्रापच्छेदवति क्रतौ तत्प्रायश्चित्तं कृतं कारणान्तराद्वैकल्यं च, तत्र क्रतुवैकल्यसत्त्वेऽपि उद्गात्रपच्छेदप्रायश्चित्ताननुष्ठानाभावेन व्यभिचारात् ।
तस्मात् तृतीयः परिशिष्यते - इत्याशयेनाह —
नियमविशेषरूपत्वेनेति ।
व्याप्यत्वरूपत्वेनेत्यर्थः । फलोपकारित्वं परमापूर्वरूपफलं प्रत्यदृष्टद्वारा कारणत्वम् । यथा प्रयाजादीनाम् । सन्निपत्योपकारकत्वं च यागस्वरूपोत्पादकत्वम् । यथा द्रव्यदेवतादेः ।
अस्तु तयोरुक्तरूपत्वमिति चेत्, तत्र वक्तव्यं —
क्रमिकविरुद्धापच्छेदद्वयवति क्रतौ पूर्वप्रायश्चित्ताननुष्ठानगतं क्रतुवैकल्यव्याप्यत्वरूपं क्रतुवैकल्यप्रयोजकत्वं पूर्वप्रायश्चित्तगतमङ्गत्वं च द्वितीयनिमित्तजननान्तरमप्यनुवर्तते न वेति ।
आद्ये क्रतुवैकल्यप्रयोजकाननुष्ठानप्रतियोग्यनुष्ठानशालित्वरूपायाः पूर्वप्रायश्चित्तकर्तव्यतायाः तत्प्रायश्चित्तगताङ्गत्वरूपकर्तव्यतायाश्च उत्तरनैमित्तिककर्तव्यतानाश्यत्वाभ्युपगमभङ्गापत्तिः । द्वितीयकल्पे च पूर्वप्रायश्चित्ताननुष्ठानस्य क्रतुवैकल्यव्याप्यत्वं द्वितीयनिमित्तजननात् प्रागेवास्ति तज्जननानन्तरं तु नास्तीति पर्यवस्यति ।
तथा पूर्वप्रायश्चित्तगताङ्गत्वरूपा कर्तव्यता पूर्वप्रायश्चित्तस्य द्वितीयनिमित्तजननात्प्रागेवास्ति पश्चात्तु नास्तीति पर्यवस्यति ।
तथा च व्याप्यत्वकारणत्वयोः स्वाश्रये कादाचित्कत्वमभ्युपगतं स्यात् । तच्च न सम्भवतीत्यनुपदमेव वक्ष्यति नहीत्यादिना ।
तस्मात्तयोः यावदाश्रयभावित्वरूपस्वाभाविकत्वनिर्वाहाय क्रमिकविरुद्धापच्छेदवत्क्रतुव्यावर्तकविशेषणमुभयत्रापि देयमित्याह —
पश्चाद्भावीति ।
असम्भवादिति ।
तथा च क्रमिकविरुद्धापच्छेदवति क्रतौ पूर्वनैमित्तिककर्तव्यताज्ञानं भ्रान्तिरेवेति भावः ।
तयोः कादाचित्कत्वायोगे हेतुमाह —
न हीति ।
धूमादौ वह्न्यादिव्याप्यतायाः वह्न्यादौ धूमादिकारणतायाश्च कादाचित्कत्वादर्शनादित्यर्थः ।
नन्वदृष्टमपि युक्तं चेत् सङ्ग्राह्यमेव, नेत्याह —
युक्तं वेति ।
वाकारो नञनुकर्षणार्थः । तयोः कादाचित्कत्वपक्षे धूमादेः कदाचित् वह्निव्याप्यत्वाभावापत्त्या तदभावप्रयोजकोपाधिमत्त्वप्रसङ्गः स्यात्, वह्न्यादेः कदाचित् धूमादिकारणत्वाभावापत्त्या धूमादिकार्यार्थिनो वह्न्याद्युपादाने तत्कारणत्वाभावशङ्कया निष्कम्पपवृत्तिश्च न स्यात् । अतस्तयोः कादाचित्कत्वमयुक्तमित्यर्थः ।
पञ्चमं निराकरोति —
नापीति ।
प्रथमनिमित्तजननानन्तरमेवागमयोग्यं द्वितीयनिमित्तजननान्तरमेवापाययोग्यं चेत्यर्थः ।
पूर्वनैमित्तिकशास्त्रस्य आहवनीयादिशास्त्रवदन्यत्र सावकाशताया उक्तत्वेन तस्यैतादृशधर्मे मानत्वायोगादित्याशयेनाह —
विरुद्धेति ।
क्रमिकविरुद्धापच्छेदवति क्रतौ पूर्वनैमित्तिककर्तव्यत्वज्ञानस्याप्रमात्वसम्भवात् सति विरोधे उत्तरज्ञानेन पूर्वज्ञानबाधे अपच्छेदन्यायः उदाहरणं भवत्येवेत्याशयेनोपसंहरति —
तस्मादिति ।
नन्वपच्छेदन्यायेन श्रुतेः प्रत्यक्षापेक्षया प्राबल्यावगतिवत् उपक्रमाधिकरणन्यायेन प्रत्यक्षस्यापि श्रुत्यपेक्षया प्राबल्यावगमात्तयोर्बाध्यबाधकभावे विनिगमनाविरह इत्याशयेन शङ्कते —
ननु चेति ।
असञ्जातेति ।
यथा उपक्रमवाक्यार्थज्ञानकाले उपसंहारवाक्यार्थज्ञानाभावेन विरोधस्फुरणाभावात् उपक्रमस्यासञ्जातविरोधित्वं, तथा द्वैतसत्यस्वप्रत्यक्षप्रवृत्तिकाले द्वैतमिथ्यात्वबोधकश्रुत्यर्थानुभवाभावेन विरोधस्फूर्त्यभावात् प्रस्यक्षस्यासञ्जातविरोधित्वमित्यर्थः ।
दृष्टान्तवैषम्येण परिहरति —
उच्यत इति ।
अश्वमनयदिति ।
अश्वं दत्तवानित्यर्थः । परस्य प्रजापतेः कृतिरनुष्ठानं परकृतिः, परकृतिपदं तत्प्रतिपादकवाक्यपरं, तत्सदृशार्थवादेनेत्यर्थः । प्रजापतेः कर्माधिकाराभावेन वस्तुतस्तत्प्रतिपादकत्वाभावादिति सरूपेत्युक्तम् ।
दातुरिति ।
‘स एतं वारुणं चतुष्कपालमपश्यत्तन्निरवपत्’ इत्युपक्रमे श्रवणादिति भावः । स इत्यनेन प्रकृतः प्रजापतिः परामृश्यते । उपक्रमोपसंहारयोर्वारुणेष्टिरूपैकार्थस्पर्शित्वात्तयोरत्रैकवाक्यत्वमवगमत् । तत्संरक्षणायानयोरेकार्थपर्यवसानं वक्तव्यम् । उपक्रमो दातुरिष्टिं विधत्ते उपसंहारः प्रतिग्रहीतुरिति यथाश्रुतवाक्यार्थाभ्युपगमे प्रतीतैकवाक्यत्वं न स्यादित्यर्थः ।
णिजर्थमिति ।
प्रतिगृह्णीयादित्यस्य प्रतिग्राहयेदित्यर्थः । एकवाक्यत्वप्रतीतिस्थल एव उत्तरस्य पूर्वापेक्षा —
इत्युक्तार्थदार्ढ्याय एकवाक्यत्वप्रतीत्यभावस्थले उत्तरेण पूर्वं नादर्तव्यमित्याशयेनाह —
यत्र त्विति ।
नन्वेकस्मिन्नतिरात्रक्रतौ षोडशिग्रहणतदभावयोर्विरुद्धत्वात् वाक्यद्वयं कथं प्रमाणं स्यादिति शङ्कते —
किंत्विति ।
प्रयोगभेदेन विरोधसमाधानमाह —
उभयोरिति ।
ननु ग्रहणवाक्यं तन्निषेधवाक्यं च क्रतुभेदेन व्यवस्थितं किं न स्यादित्यत आह —
विषयान्तराभावादिति ।
तयोर्वाक्ययोरेकप्रकरणगतत्वादित्यर्थः ।
अगत्येति ।
समुच्चयस्याप्यसंभवेनेत्यर्थः ।
तत्रैवेति ।
अतिरात्र एवेत्यर्थः ।
एवं चेति ।
उपक्रमन्यायस्य प्रतीतैकवाक्यताकग्रन्थविषयत्वे सतीत्यर्थः ।
शङ्काभावादिति ।
तथा च न प्रत्यक्षस्य श्रुत्यपेक्षया प्राबल्यशङ्केति भावः ।
अपच्छेदन्यायप्रवृत्तिं प्रकृते शङ्कासमाधानाभ्यां निरूप्य निगमयति —
तदर्थेति ।
पूर्वमिति ।
क्रमिकविरुद्धापच्छेदवति क्रतौ प्रथमापच्छेदनिमित्तकप्रायश्चित्तकर्तव्यताज्ञानं पूर्वशब्दार्थः । उत्तरनैमित्तिककर्तव्यताज्ञानं परशब्दार्थः ।
पूर्वेण परस्य बाधाभावे हेतुमाह —
अजातत्वादिति ।
परस्य अन्यथा — पूर्वज्ञानबाधमन्तरा उत्पत्तुमयोग्यत्वात् आद्यस्याबाधेन परस्य सम्भवो नास्तीति श्लोकार्थः ।
पूर्वप्रवृत्तस्य प्रत्यक्षस्यापि परेण शब्देन बाधे उदाहरणमाह —
अत एवेति ।
परत्वादेवेत्यर्थः ।