अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

श्रुतेः प्रत्यक्षात्प्राबल्यप्रयोजकविचारः

इदानीं प्रत्यक्षम्य काल­त्र­या­बा­ध्य­त्व­रू­प­स­त्त्व­ग्रा­हि­त्वेन श्रुति­वि­रो­धि­त्वेऽपि न मिथ्या­त्व­सि­द्ध्य­नु­प­पत्तिः, श्रुत्या प्रत्यक्षस्य बाधोपपत्तेः इत्याह —
अपरेत्विति ।
श्रुतिरेव प्रत्यक्षात् बलीयसीति सम्बन्धः ।

श्रुतेः प्राबल्ये हेतुद्वयमाह —
निर्दोषत्वादिति ।
अपच्छेदन्यायो वक्ष्यते ।

प्रत्यक्षस्यापि निर्दोषत्वादिकं तुल्यमिति शङ्कां वारयति —
दोषेति ।

एतच्चाग्रे स्पष्टं भविष्यति ।

श्रुतेः प्राबल्ये मनुवचनमपि नियामकमित्याह —
प्राबल्यमिति ।
जात्या-आ­ग­म­त्वे­नैव तेषु-प्रकृतेषु त्रिषु-प्र­त्य­क्षा­नु­मा­ना­ग­मेषु स्मृतं-वैदिकेषु प्रसि­द्ध­मि­त्यर्थः । ननु वेदैकगम्ये स्वर्ग­सा­ध­न­त्वादौ वेदस्य प्राब­ल्य­प्र­ति­पा­दकं तद्वचनम् । मिथ्यात्वं तु न वेदैकगम्यम् । तस्या­नु­मा­ना­दि­नापि सिद्ध्युपगमात् ।

अतस्तत्र श्रुतेः प्राबल्ये तद्वचनं न प्रमाणमिति मत्वा शङ्कते —
न चेति ।

निराकरोति —
तत्रेति ।
वेदैकगम्यार्थ इत्यर्थः । तथा च वचनस्य तद्विषयत्वे वैयर्थ्यं स्यादिति भावः ।

वचनस्य मिथ्या­त्व­प्र­ति­पा­द­क­श्रु­ति­प्रा­ब­ल्य­प­रत्वे तु सार्थक्यमित्याह —
शङ्कितेति ।
शङ्कि­तः-प्र­त्य­क्षेण सह विरोधो यस्य मिथ्यात्वरूपस्य वेदार्थस्य स तथा । एतदुक्तं भवति — यस्मिन्नर्थे वेद­त­दि­त­र­प्र­मा­ण­यो­र्वि­रोधः प्रसक्तः तस्मिन्नर्थे द्वयोः प्रामा­ण्या­यो­गात् अन्यतरबाधे कर्तव्ये सति तत्र प्रबलेन दुर्बलस्य बाध इति (च) स्थिते कस्य प्राबल्यमिति भवत्यपेक्षा । तथा च वचनस्य अपे­क्षि­ता­र्थ­स­म­र्प­क­त्वात् सार्थक्यमिति । ननु - प्रत्यक्षस्य क्वचि­द­प्रा­माण्ये दृष्टे सति प्रप­ञ्च­स­त्त्व­ग्रा­हि­प्र­त्य­क्षेऽपि मिथ्या­त्व­रू­प­वि­रो­धि­को­ट्य­नु­स­न्धा­न­वतां स्याद­प्रा­मा­ण्य­रू­प­दो­ष­शङ्का । ततश्च शङ्कितदोषं प्रत्यक्षं मिथ्या­त्व­श्रुत्या निर्दोषत्वेन प्रबलया बाध्यत इति वक्तव्यम् । तच्च न सम्भवति ।

क्वचिदपि प्रत्य­क्षा­प्रा­मा­ण्या­द­र्श­नात् - इति सत्ख्यातिवादिनः शङ्कां नारदवचनोदाहरणेन निराकरोति —
तलवदिति ।
तलं — इन्द्र­नी­ल­म­णि­म­य­क­टा­हा­का­रम् ।

तस्मादिति ।
सर्व­ज­न­सि­द्ध­म्यापि व्योमादौ तला­दि­प्र­त्य­क्ष­स्या­प्रा­मा­ण्य­द­र्श­ना­दि­त्यर्थः ।

अर्थ इति ।
प्रत्य­क्ष­दृ­ष्टेऽ­प्यर्थे इत्यर्थः ।

ज्ञापयन्निति ।
आचार्यः शिष्यान् प्रति शास्त्रार्थान् बोधयन् धर्मा­त्-श्रे­य­स्सा­ध­न­भू­तात् न प्रच्यवत इत्यर्थः ।

ज्ञापयन्निति ।
आचार्यः शिष्यान् प्रति शास्त्रार्थान् बोधयन् धर्मा­त्-श्रे­य­स्सा­ध­न­भू­तात् न प्रच्यवत इत्यर्थः । ‘आत्मनः श्रुत्युक्तं साक्षि­त्व­म­नु­प­प­न्नम्, तस्य बोद्धृत्वेऽपि कर्तृ­त्वे­नो­दा­सी­न­त्वा­भा­वात्’ इति पूर्वपक्षे प्राप्ते ‘अहं करोमि’ इति प्रत्य­क्ष­मा­त्रेण आत्मनि कर्तृत्वं वास्तवमिति सहसा विश्वासो न कर्तव्यः । लोके प्रत्य­क्ष­दृ­ष्ट­स्यापि बाधदर्शनात् ।

अतः प्रत्य­क्ष­दृ­ष्ट­म­प्या­त्मनि कर्तृत्वं किं चैत­न्य­व­द्वा­स्तवं किं वा कल्पितमिति सम्यग्विचार्य श्रुति­न्या­याभ्यां ‘कल्पितमेव तत अतो न साक्षि­त्व­स्या­नु­प­पत्तिः’ इति शिष्यान् प्रति बोधयन् आचार्यो धर्मान्न परिहीयते इत्येतद्विषयकं नारदवचनद्वयमिति सूचयति —
साक्षिप्रकरण इति ।

एवं प्रत्य­क्ष­दृ­ष्ट­मपि प्रपञ्चसत्त्वं किं तस्य वास्तवं किं वा काल्पनिकमिति परीक्षा युक्तेत्याशयेन नारदवचनस्य प्रकृतसाधारणं तात्पर्यं कथयति —
प्रत्य­क्ष­दृ­ष्ट­स्या­पीति ।
प्रमा­ण­प­द­मा­ग­म­प­रम् । अनु­मा­ना­र्था­प­त्त्या­दयः आदिपदग्राह्याः । प्रतिपादनाच्च प्रत्य­क्षा­पे­क्षया श्रुतिरेव बलीयसीति सम्बन्धः ।

प्रत्यक्षस्य दोष­श­ङ्का­क­ल­ङ्कि­तत्वं प्रदर्श्य तम्यागमेन बाधं प्रकृतोपयोगितया प्रतिपादयति —
न हीत्यादिना ।
नभो­नै­ल्य­प्र­त्यक्षं प्रत्यक्षादिना न हि शक्यमपवदितुमिति सम्बन्धः ।

आगमं विनापि ‘नीलं नभः’ इति प्रत्यक्षस्य बाधकमस्तीति शङ्कते —
न चेति ।
समीपे गगने रूपानुपलम्भेन समीपे रूपाभावनिश्चये सति दूरेऽपि तत्र रूपं नास्तीति निश्चीयते, रूपस्य व्याप्य­वृ­त्ति­त्व­नि­य­मेन तदे­क­दे­श­वृ­त्ति­त्वा­यो­गा­दि­त्यर्थः ।

कथं तर्हि दूरे ‘नीलं नभः’ इति धीः, तत्राह —
दूरे तद्धीरिति ।

तद्बाध इति ।
तस्य - नभो­नै­ल्य­प्र­त्य­क्षस्य ।

इति निश्चयेन बाधो न चेत्यत्र हेतुमाह —
दूरे नैल्यदर्शनादिति ।
तुहिनावकुन्ठनं - हिमरूपमावरणम् । तद्धि समीपे सदपि न दृश्यते । दूरे तु वृक्षा­द्या­व­र­ण­रू­प­त्वेन दृश्यते । तद्वत् सर्वत्र गगने विद्यमानमपि रूपं समीपे न दृश्यत इत्यर्थः ।

दोषजन्य इति ।
दोषाधीनस्थितिक इत्यर्थः । यथाश्रुते अनुपलम्भस्य उप­ल­म्भ­प्रा­ग­भा­व­रू­पस्य जन्य­त्वा­भा­वा­द­स­ङ्गतिः स्यात् । सामीप्यदोषेण तदुपलम्भे निरुद्धे तत्प्रागभावस्य नाशाभावात् दोषा­धी­न­स्थि­ति­क­त्व­म­स्तीति नासङ्गतिरिति मन्तव्यम् । रूपस्य व्याप्य­वृ­त्ति­त्व­नि­य­म­मु­पेत्य समीपे तदनुपलम्भस्य गतिरुक्ता ।

इदानीं व्याप्य­वृ­त्ति­त्व­नि­य­म­स्या­सि­द्धि­माह —
अनुभवबलादिति ।

नभो­नै­ल्य­प्र­त्य­क्षस्य यौक्ति­क­नि­श्च­य­बा­ध्यत्वं निरस्य प्रत्य­क्ष­बा­ध्य­त्व­मा­शङ्क्य निराकरोति —
नापीत्यादिना ।

भूस­न्नि­हि­त­ग­ग­न­भागे कुत्रापि नैल्यं नास्त्येव, तत्र तत्प्रतीतिस्तु दूरस्थत्वदोषात् सम्भवति इत्याह —
उपरिस्थितस्येति ।
तथा च गग­न­नै­ल्य­प्र­त्य­क्ष­मा­ग­मै­क­बा­ध्य­मिति स्थितम् ।

प्रत्य­क्ष­स्या­ग­मेन बाधे उदाहरणान्तरमाह —
पृथि­व्या­दि­ष्विति ।
अप्सु वायौ च पृथिव्यामिव गन्धमुपलभ्य केचिदनैपुणाः ब्रूयुः — तयोरपि गन्धः स्वाभाविक इति, तत् न तथा ग्राह्यं, किं त्वपो वायुं च संश्रितं गन्धं तद­न्त­र्ग­त­पृ­थि­व्या­मेव स्थितं विद्यात् - इति वचनार्थः ।

इत्यादिभिरिति ।
आदिपदेन - रसो जलमात्रगुणः, रूपं तेजोमात्रगुणः, स्पर्शो वायुमात्रगुणः, शब्दः आकाशमात्रगुणः, पृथिव्यादिषु रसा­द्यु­प­ल­ब्धि­रपि पृथि­व्या­द्य­न्त­र्ग­त­ज­ला­द्या­श्रि­त­र­सा­दि­वि­षया - इति व्यव­स्था­प्र­ति­पा­द­क­पु­रा­ण­व­च­नानि ग्राह्याणि । ननु —

जले पुष्पा­दि­रू­प­पा­र्थि­वां­श­सं­सर्गे सति गन्धो­प­ल­ब्धि­रस्ति नान्यथा इत्य­न्व­य­व्य­ति­रे­का­भ्या­मेव गन्धस्य पृथि­वी­मा­त्र­गु­ण­त्वस्य निर्णयसम्भवात् किमागमेनेति चेत्, नेत्याह —
न हीति ।
आजानसिद्धो यो जलोपष्टम्भः पार्थिवः द्रव्यविशेषः तदा­दि­ग­त­मि­त्यर्थः । जल एव गन्धः क्वचित् स्वाभाविकः क्वचिदौपाधिक इति कल्प­नो­प­प­त्ते­श्चेति भावः । ननु —

जलादौ गन्धा­दि­प्र­त्यक्षं अप्रा­मा­ण्य­रू­प­दो­ष­श­ङ्का­क­ल­ङ्कि­त­त्वा­दा­ग­मेन शिक्ष्यत इति युक्तम्, प्रप­ञ्च­स­त्त्व­ग्रा­हि­प्र­त्यक्षं तु तच्छ­ङ्का­शू­न्य­मिति कथं तस्यागमेन बाधः — इत्याशयेन शङ्कते —
पृथि­व्या­दी­ना­मिति ।

तस्य तच्छ­ङ्का­शू­न्य­त्व­म­सि­द्ध­मिति तस्या­प्या­ग­म­बा­ध्यत्वं युक्तमित्याह —
तर्हीति ।

संसृष्टतयेति ।
संस­र्ग­स्ता­दा­त्म्यम् ।

अन्यधर्मस्येति ।
जगदुपादानत्वेन श्रुतिसिद्धस्य सद्वस्तुनो धर्मः सत्ता । तस्या एव प्रपञ्चे प्रतीतिः सम्भाव्यते । अतः प्रप­ञ्च­स­त्त्व­ग्रा­हि­प्र­त्यक्षं अन्य­स­त्ता­वि­ष­य­क­त्वेन भ्रान्तिरूपं वा प्रपञ्चस्य स्वाभा­वि­क­स­त्ता­वि­ष­य­क­त्वेन प्रमारूपं वा इति शङ्का­क­ल­ङ्कि­त­मि­त्यर्थः ।

प्रत्य­क्ष­बा­ध­प्र­कारं वृद्धवचनेन दर्शयति —
अस्तीति ।
‘अस्ति घटः, भाति घटः, प्रियो घटः’ इति घटे सत्त्व­चै­त­न्या­न­न्दा­स्ता­व­द­नु­भू­यन्ते । प्रिय­श­ब्द­स्या­नन्दे मुख्यत्वात् घट­स्या­न­न्द­ता­दा­त्म्य­प्र­ती­ति­रु­प­प­द्यते । एवं पटादिष्वपि द्रष्टव्यम् । नाम-घटशब्दादि । कम्बु­ग्री­वा­द्या­त्मकं वस्तु - रूपम् । अंशपञ्चकम् - अंशाः पञ्च यस्य जगतः तत् अंश­प­ञ्च­क­म­नु­भू­यते । न च - कृत्स्नेऽपि जगति पञ्चा­त्म­क­त्वा­नु­भवो नास्ति, दुःखं प्रिय­मि­त्य­नु­भ­वा­द­र्श­ना­दिति - वाच्यम् । कोषांचित् परकीये दुःखे तदनुभवस्यापि सत्त्वात् । तथा च ‘सर्वत्रानुगतं सच्चिदानन्दरूपं वस्तु ब्रह्मैव, ब्रह्म­ण­स्त­द्रू­प­तायाः श्रुति­सि­द्ध­त्वात् । नाम­रू­पा­त्म­क­रू­प­द्वयं जगत्, तस्य नाम­रू­प­मा­त्र­तायाः ‘सर्वाणि रूपाणि विचित्य धीरः इत्या­दि­श्रु­ति­सि­द्ध­त्वात्’ इत्यनेन प्रकारेण, प्रप­ञ्च­स­त्त्व­ग्रा­हि­प्र­त्यक्षं जग­त­स्स्वा­भा­वि­क­स­त्ता­वि­ष­यकं न भवति किं त्वधिष्ठानतया जग­त्य­नु­ग­त­ब्र­ह्म­स­त्ता­वि­ष­य­क­मेव - इति व्यवस्थाप्यते श्रुत्येत्यर्थः ।

एवं प्रत्य­क्ष­स्या­ग­मा­पे­क्षया स्वतः प्राबल्यं निरस्य उप­जी­व्य­त्व­प्र­युक्तं तन्निरस्यति —
न चैवमिति ।
प्रत्य­क्ष­स्या­ग­मेन बाधाङ्गीकारे इत्यर्थः । वर्ण­प­द­वा­क्या­त्म­क­श­ब्द­प्र­त्यक्षं हि श्रुति­ज­न्य­मि­थ्या­त्व­बोधं प्रत्युपजीव्यम् । शब्दज्ञानं विना शाब्द­बो­धा­नु­द­यात् । तथा च श्रुत्या प्रत्य­क्ष­मा­त्र­बाधे शब्द­प्र­त्य­क्ष­स्यापि बाधः प्रसज्येत । तथा च उपजीव्यबाधः स्यादित्यर्थः । श्रोत्रे­न्द्रि­येण जायमानं प्रत्यक्षं शब्दस्वरूपं तस्य सत्त्वं च विषयीकरोति । श्रुत्या च सत्त्वां­श­प्र­त्य­क्ष­मेव बाध्यते । तच्च न श्रुते­रु­प­जी­व्यम् । कल्पि­त­श­ब्द­स्यापि बोधकत्वसम्भवेन शाब्दबोधार्थं तत्स­त्त्व­स्या­न­पे­क्षि­त­त्वात् । यच्च शब्द­स्व­रू­पां­श­प्र­त्य­क्ष­मु­प­जीव्यं तत् न बाध्यते । विरोधाभावात् ।

अतो नोपजीव्यविरोध इति परिहरति —
आगमप्रमाणेनेति ।

आगममात्रस्य प्रत्यक्षात् प्राब­ल्य­मु­क्त­मा­क्षि­पति —
नन्वागमस्येति ।

गौणीति ।
क्रतु­नि­र्व­र्त­कत्वं गुणः ।

तथेति ।
सिद्धान्ते इष्टसाधनत्वं विध्यर्थः । ततश्च सोम­प­द­य­जि­प­द­यो­र्वै­य­धि­क­र­ण्ये­ना­न्वये स्वीक्रियमाणे ‘याग इष्टसाधनं सोमो यागरूपेष्टस्य साधनं’ इति सकृच्छ्रुतस्य विधिप्रत्ययस्य व्यापा­र­भे­दा­पत्त्या तद्ध­टि­त­वा­क्य­स्यापि व्यापा­र­भे­दा­पत्तेः तत्परिहाराय तयो­स्सा­मा­ना­धि­क­र­ण्ये­ना­न्वयो वक्तव्यः इति सिद्धान्ते स्थिते सतीत्यर्थः ।

प्रत्य­क्षा­वि­रो­धा­येति ।
सामा­ना­धि­क­र­ण्य­पक्षे सोमयागयोरभेदो वक्तव्यः । सोऽय­मि­त्या­दि­स्थले समा­ना­धि­क­र­ण­प­द­द्व­यस्य पदा­र्थ­द्व­या­भे­दा­र्थ­क­तायाः कॢप्तत्वात् । स च प्रत्य­क्ष­वि­रुद्ध इति तत्प­रि­हा­रा­ये­त्यर्थः ।

सोमवतेति ।
सोमपदस्य मत्वर्थे लक्षणा । तथा च सोमवता यागेनेष्टं भावयेदिति मीमांसकरीत्या वाक्यार्थः । सिद्धान्तरीत्या तु सोमवदभिन्नो याग इष्टसाधनमिति वाक्यार्थो द्रष्टव्यः । सोमस्य यागेन सह मत्व­र्थ­स­म्ब­न्धश्च वस्तुगत्या क्रिया­का­र­क­भा­व­ल­क्षण इति ज्ञापनाय सोमेनेति तृतीया ।

भामतीति ।
भाम­ती­सं­ज्ञ­क­ग्रन्थे वाचस्पतिमिश्रैः उक्तमित्यर्थः ।

न श्रुतिमात्रमिति ।
तथा च ‘सोमेन यजेत’ इत्यत्र सोमयागसम्बन्धे श्रुते­स्ता­त्प­र्य­भा­वात् (श्रुते­स्ता­त्प­र्या­भा­वात् ???) श्रुत्यपेक्षया प्रत्यक्षमेव बलवदिति तदविरोधाय लक्ष­णा­क­ल्प­न­मु­चि­तम् । तथा ‘यजमानः प्रस्तरः’ इत्या­द्य­र्थ­वा­दा­ना­मपि स्वार्थे तात्पर्याभावात् प्रत्य­क्ष­प्रा­ब­ल्य­मिति तत्रापि तदविरोधाय गौण्यादिकल्पनं युक्तम् । प्रप­ञ्च­मि­थ्या­त्व­बो­ध­क­श्रु­तीनां तु स्वार्थे तात्प­र्य­स­त्त्वात् प्रत्य­क्षा­पे­क्षया प्राबल्यमिति तासां तद्बाधकत्वं निष्प्र­त्यू­ह­मिति समा­धा­न­ग्र­न्थार्थः ।

ननु मन्त्रा­र्थ­वा­दा­दी­ना­मपि स्वार्थे तात्पर्यं किं न स्यात्, तत्राह —
मन्त्रेति ।
तेषां स्वार्थे फलाभावात् गौरवाच्च तात्पर्यं न कल्प्यत इति भावः । ‘देवस्यत्वा’ इत्यादिमन्त्रैः ‘यजमानः प्रस्तरः’ इत्या­द्य­र्थ­वा­दैश्च विधेयगता स्तुति­र्ल­क्ष­णीया । ततश्च मन्त्रा­दि­वा­क्या­र्थस्य द्रव्य­दे­व­ता­दि­रू­पस्य लक्षणीयया स्तुत्या सह सम्बन्धो वाच्यः । इतरथा मन्त्रादीनां स्वज्ञा­प्य­स­म्ब­न्धा­भा­वेन स्तुति­ल­क्ष­क­त्वा­नु­प­पत्तेः । अतः स्तुतौ लक्षणीयायां मन्त्रा­दि­वा­क्यार्थो द्वारभूतः ।

यथा गङ्गापदेन तीरे लक्षणीये प्रवाहः अतोऽपि न तत्र तेषां तात्पर्यम्, लक्षणास्थले द्वारभूतार्थे तात्प­र्या­द­र्श­नात् - इत्याशयेनाह —
स्तुतिद्वारभूत इति ।

तत्र स्वयं दृष्टान्तमाह —
वाक्या­र्थ­द्वा­र­भूत इति ।
वाक्या­र्थ­ता­त्प­र्येण प्रयुक्तानां पदानां वाक्या­र्थ­प्र­ति­प­त्ति­द्वा­र­भू­तेषु स्मारि­त­प­दा­र्थेषु यथा तात्पर्यं नास्ति तथेत्यर्थः । विधि­प­र­म­न्त्रा­र्थ­वा­दानां स्वार्थे तात्पर्याभावे देव­ता­वि­ग्र­हा­दि­प्र­ति­पा­द­कानां ‘वज्रहस्तः पुरन्दरः’ इत्यादीनामपि देवताविग्रहादौ स्वार्थे तात्प­र्या­भा­वा­पत्त्या तेषां देव­ता­वि­ग्र­हा­दि­प्र­मि­ति­ज­न­कत्वं न स्यात् । वेद­ता­त्प­र्य­वि­ष­य­त्वस्य वेद­ज­न्य­प्र­मि­ति­वि­ष­यत्वं प्रति व्यापकत्वात्, व्याप­क­नि­वृत्त्या तन्नि­वृ­त्ते­रा­व­श्य­क­त्वात् ।

तदाहुः —
x‘यत्परः शब्दः स शब्दार्थः’ [ ] इति ।
तथा च देव­ता­धि­क­र­ण­वि­रोधः ।

तत्र अन्यपरेभ्योऽपि मन्त्रादिभ्यो देव­ता­वि­ग्र­हा­दि­सि­द्धि­प्र­ति­पा­द­नात् - इत्याशयेन शङ्कते —
तात्पर्याभाव इति ।
माना­न्त­रा­वि­रु­द्ध­त्व­वि­शे­षणं ‘यजमानः प्रस्तरः’ इत्यादिवारणाय । इदमुपलक्षणं माना­न्त­रा­प्रा­प्त­त्व­स्यापि । एतच्च विशेषणं ‘अग्निर्हिमस्य भेषजम्’ इत्यादिवारणाय । अग्ने­र्हि­म­भे­ष­ज­त्वस्य प्रत्य­क्ष­सि­द्ध­त्वेन तस्या­र्थ­वा­द­त­स्सि­द्ध्य­न­पे­क्ष­णात् । तथा च मानान्तरेण विरो­ध­प्रा­प्त्यो­र­भावे सत्य­न्य­प­रे­भ्योऽपि मन्त्रा­दि­भ्योऽ­व­ग­म्य­मा­नोऽ­र्थ­स्सि­द्ध्य­त्येव, देव­ता­वि­ग्र­हा­दिश्च तथाविध इति तत्सि­द्धि­र­प्र­त्यू­हेति प्रतिपादितं देवताधिकरण इति भावः ।

परिहरति —
नेति ।

एतस्यैवेति ।
इदमेतत्पदं प्रकृ­ता­ग्रि­ष्टु­द्ध­र्मा­ति­दे­श­कम् । तथा च रेवत्याधारकं वारवन्तीयाख्यं साम अग्निष्टोमसाम कृत्वा प्रकृ­ता­ग्नि­ष्टु­द्ध­र्म­के­णा­नेन यागेन पशून् भावयेत् - इति श्रुत्यर्थः ।

विशिष्टविधेरिति ।
रेव­त्या­धा­र­क­वा­र­व­न्ती­य­सा­मा­दि­वि­शे­ष­ण­वि­शि­ष्ट­क्र­तु­भा­व­ना­वि­धे­रि­त्यर्थः ।

उक्तेति ।
शब्द­ता­त्प­र्य­वि­ष­य­त्वस्य शाब्द­प्र­मि­ति­वि­ष­यत्वं प्रति व्याप­क­त्व­रू­प­नि­य­मा­सि­द्धे­रि­त्यर्थः ।

उक्तमर्थं विवृणोति - अत्र हीति ।
न चैतदिति । यदि वारवन्तीयं साम रेवतीषु ऋक्षु अध्ययनसिद्धं भवेत्, तदा तस्य विशेषणस्य दध्यादिवल्लोकत एवा­व­ग­त­त्वा­द्वा­क्यस्य तद्व्य­ति­रि­क्तार्थ एव प्रमि­ति­ज­न­क­त्व­रूपं प्रामाण्यं भवेत् ।

न त्वेतदस्ति ।
वारवन्तीयसाम्नः ऋग­न्त­रे­ष्वे­वा­ध्य­य­न­सि­द्ध­त्वात् । अतो वाक्यादेव रेव­त्या­धा­र­क­वा­र­व­न्ती­या­ख्य­वि­शे­ष­णस्य प्रमि­ति­र्व­क्त­व्ये­त्यर्थः ।

ननु विशिष्टविषयको विधिः अप्र­सि­द्ध­वि­शे­ष­ण­स्व­रू­प­प्र­मि­ति­ज­नकं रेवतीषु वारवन्तीयं साम कुर्यात् इत्येवमात्मकं विशेषणविधिं आक्षिपति, तथा च तस्य विशेषणस्य नैत­द्वा­क्य­प्र­मे­य­त्व­मि­ति-ने­त्याह —
नापीति ।
विशे­ष­ण­गो­च­र­वि­धि­क­ल्प­नात् पूर्वं विशिष्टविधिना विशेषणस्वरूपं प्रमितं वा, न वा । आद्ये तत्कल्पनं व्यर्थम् ।

द्वितीये विध्याक्षेपो न सिद्ध्यति ।
प्रमितस्यैव द्रव्य­दे­व­ता­स­म्ब­न्धस्य याग­वि­ध्या­क्षे­प­क­त्व­द­र्श­नात् । तथा च विशिष्टविधिना विशे­ष­ण­वि­धि­रा­क्षि­प्यत इति वदता आक्षेपात् प्राग्विशेषणस्य प्रभितत्वं वाच्यम्, तत्प्रमापकश्च कल्पितविधिरिति च वक्तव्यम् । ततश्च आक्षिप्तविधिना विशेषणस्वरूपे प्रमिते सति प्रकृ­त­वि­धि­र्वि­शि­ष्ट­गो­च­र­स्सि­द्ध्यति, तस्मिंश्च प्रकृतविधौ विशिष्टगोचरे सति तेन विशिष्टविधिना विशे­ष­ण­वि­ध्या­क्षेपः, इति पर­स्प­रा­श्र­या­पत्त्या विशे­ष­ण­वि­ध्या­क्षे­पा­सि­द्धे­रि­त्यर्थः ।

अत इति ।
रेव­त्या­धा­र­क­वा­र­व­न्ती­य­सा­मा­ख्य­वि­शे­ष­णस्य प्रकृ­त­वा­क्या­द­न्यतः प्रमि­त्य­स­म्भ­वा­दि­त्यर्थः ।

तर्हि तत्रापि तात्पर्यमस्तु, नेत्याह —
अथ चेति ।
गौरवादिति भावः । न च ‘यत्परश्शब्दस्स शब्दार्थः’ इति न्याय­वि­रो­ध­श्श­ङ्क­नीयः । तस्यौ­त्स­र्गि­क­त्वो­प­पत्तेः । प्रकृते च गौर­व­ल­क्ष­ण­बा­ध­क­स­त्त्वान्न तस्येह प्रवृत्तिः ।

एवमिति ।
विशि­ष्ट­वि­धे­र्वि­शे­ष­ण­स्व­रूप इवेत्यर्थः ।

न तात्पर्यमिति ।
तथा च तात्प­र्या­वि­ष­येऽपि रेव­ती­वा­र­व­न्ती­य­वि­शे­ष­ण­स्व­रूपे श्रुतेः प्रमि­ति­ज­न­क­त्व­वत् अन्यपराणामपि मन्त्रादीनां देव­ता­वि­ग्र­हा­दि­प्र­मि­ति­ज­न­कत्वं सम्भवतीति न देवताधिकरणविरोध इति भावः ।

प्रकृतमाह —
तेभ्य इति ।
मन्त्रा­र्थ­वा­देभ्यः - तात्प­र्य­र­हि­त­श्रु­ति­वा­क्येभ्य इति यावत् ।

‘सोमेन यजेत’ इत्यत्र सामा­ना­धि­क­र­ण्ये­ना­न्वय इति सिद्धान्ते कथं प्रत्यक्षविरोधः कथं वा तदविरोधाय लक्षणाकल्पनं इत्या­का­ङ्क्षा­या­माह —
सोमेनेति ।

तत्रापीति ।
‘यजमानः प्रस्तरः’ इत्य­त्रे­वे­त्य­पि­श­ब्दार्थः । प्रत्य­क्षा­वि­रो­धाय वृत्त्य­न्त­र­क­ल्प­न­मात्रे दृष्टान्तः, न तु मत्व­र्थ­ल­क्ष­णां­शेऽ­पीति बोध्यम् । ननु-द्वै­त­मि­थ्या­त्व­बो­ध­का­द्वै­त­श्रु­ते­रपि न स्वार्थे मिथ्यात्वे तात्पर्यम् मानाभावात् ।

तथा च द्वैत­स­त्य­त्व­ग्रा­हि­प्र­त्य­क्ष­वि­रो­ध­प­रि­हा­रा­या­द्वै­त­श्रु­ते­र­प्य­न्य­था­न­य­न­मेव न्याय्यमिति, नेत्याह —
अद्वै­त­श्रु­ति­स्त्विति ।
तात्प­र्य­लि­ङ्गानि च शास्त्रे व्यक्तानि ।

तत इति ।
अद्वै­त­श्रु­ते­स्स­का­शा­दि­त्यर्थः ।

वाचस्पत्युक्तं तात्पर्यस्य प्राब­ल्य­प्र­यो­ज­कत्वं दूषयति —
विवरणवार्तिके त्विति ।
कृष्णलाः - सुव­र्ण­वि­का­र­भूताः माषाः । कृष्णलशेषत्वेन श्रपणं विधीयत इति श्रुतेस्तत्र तात्पर्यं सिद्धमिति भावः । रूप­र­स­प­रा­वृ­त्ति­प्रा­दु­र्भावो नाम पूर्व­रू­प­र­सा­दि­ना­श­पू­र्वकं रूप­र­सा­द्य­न्त­रो­त्पत्ति, तत्पर्यन्तो योऽधिश्रयणादिः व्यापारः स एव श्रपणशब्दस्य मुख्योऽर्थः, तत्सम्बन्ध इत्यर्थः । कृष्णलानां अधि­श्र­य­ण­ज्वा­ला­दि­स­म्पा­द­न­रूपे पाके कृतेऽपि रूप­र­सा­दि­प­रा­वृ­त्ति­प्रा­दु­र्भावो नास्तीति प्रत्य­क्ष­सि­द्ध­मिति भावः । ननु अत्र श्रपणं विधीयते, तच्च न प्रत्य­क्ष­बा­धि­तम् । ज्वाला[दि­सं­पा­द­ना]धि­श्र­य­णा­दि­क्रि­या­रू­प­पा­क­स्यैव श्रप­ण­श­ब्दा­र्थ­त्वेन तस्य तत्रापि सम्भवात् । रूप­र­सा­दि­प­रा­वृ­त्ति­प्रा­दु­र्भा­वस्तु न धात्वर्थः । तस्य पाकफलस्य कर्मत्वरूपस्य द्विती­या­र्थ­त्वात्, फलस्य विध्ययोग्यत्वेन विधे­य­श्र­प­ण­रू­प­त्वा­यो­गाच्च ।

तथा च विधेयश्रपणस्य दृष्ट­प्र­यो­ज­ना­भा­वात् अदृष्टार्थो विधिः पर्यवस्यतीति श्रुति­ता­त्प­र्य­वि­ष­य­श्र­प­णस्य प्रत्य­क्ष­बा­धा­भा­वात् उष्णीकरणमात्रे श्रपणशब्दस्य लक्षणा न सम्प्रति न्ना इत्यस्वरसादाह —
तत्त्व­म­सी­ति­वा­क्य­स्येति ।

निष्कृष्टेति ।
निष्कृष्टं विशि­ष्ट­रू­पा­द्वा­च्या­र्थात् पृथक्कृतं विशेष्यमात्रं यच्चैतन्यं, तत्रेत्यर्थः । अत्रेदं बोध्यं — महा­वा­क्या­ना­म­ख­ण्डै­क­र­स­चै­त­न्य­रू­प­व­स्तु­मा­त्र­बो­धने तात्पर्यम् । कुतः । ‘तमेवैकं जानथ आत्मानं’ ‘तमेव विदित्वा तमृत्युमेति’ ‘एक­धे­वा­नु­द्र­ष्टव्यं’ इत्या­दि­श्रु­ति­स­ह­स्रेण मुक्ति­सा­ध­नी­भू­त­म­हा­वा­क्या­र्थ­ज्ञानं प्रति तादृ­श­व­स्तु­मा­त्र­स्यैव विषयत्वेन नियमनात् । श्रुती­ना­मे­षोऽर्थः — यस्मिन् कृत्स्नं जगदध्यस्तं, तमात्मानं जानथ हे मुमुक्षव । अत्र आधेयम्य कृत्स्नय जगतः ज्ञेय­त्व­नि­षे­धा­र्थ­म­व­धा­र­णम् । एकपदं च एक­र­स­त्व­प्र­ति­पा­द­न­प­रम् । मुमु­क्षु­ज्ञे­य­स्या­त्मनो नानारसत्वे एकपदमनर्थकं स्यात्, आत्मन एक­त्व­स­ङ्ख्या­यो­गस्य एकवचनादेव सिद्धत्वात् । अस्याः श्रुतेरिदं तात्पर्यं द्युभ्वा­द्य­धि­क­र­ण­भाष्ये स्फुटं प्रदर्शितम् । तमेव - प्रकृतं परमात्मानमेव, न तु तद्व्य­ति­रि­क्त­म­ण्व­पी­त्ये­व­का­रार्थः । विदि­त्वा-सा­क्षा­त्कृत्य मृत्युशब्दितं संसारं अत्येति ।

एकधैव एकरूपेणैव शास्त्रा­चा­र्यो­प­दे­श­मनु द्रष्टव्यं इति ।
तच्च अख­ण्डै­क­र­स­व­स्तु­मा­त्र­बो­धने तात्पर्यं महावाक्येषु तत्त्व­मा­दि­प­दानां लक्षणां विना न निर्वहतीति तेषु तात्प­र्या­नु­सा­रे­णैव लक्षणाभ्युपगमः, न तु प्रत्य­क्ष­वि­रो­ध­प­रि­हा­राय । परं तु तत्त्वं­प­द­यो­श्चै­त­न्य­मात्रे लक्षणां स्वीकृत्य वाक्या­र्थ­बो­धा­भ्यु­प­गमे प्रत्य­क्ष­वि­रो­धोऽपि परिहृतो भव­ती­त्ये­ता­व­न्मा­त्रेण प्रत्य­क्ष­वि­रो­ध­प­रि­हा­राय महावाक्येषु लक्षणेति निबन्धनेषु व्यवहारः ।

तथा च - सत्यपि तात्पर्ये तदनादृत्य प्रत्य­क्ष­वि­रो­ध­प­रि­हा­रा­यैव महावाक्येषु लक्ष­णा­भ्यु­प­ग­मात् तात्पर्यस्य प्राब­ल्य­प­यो­ज­कत्वं नास्तीति प्रति­पा­द­नं-म­न्द­मिति ।

यत्तु मन्त्रा­र्थ­वा­दानां स्तुतिद्वारभूते स्वार्थे तात्पर्यं नास्तीत्युक्तं, तद्दूषयति —
अर्थवादानामपीति ।
अन­न्या­र्थ­ता-स्वा­र्थ­प­र­ते­त्यर्थः ।

तर्हि अर्थवादानां विधिशेषत्वं न स्यादि­त्या­श­ङ्क्याह —
प्रमितानामेवेति ।
माना­न्त­र­सं­वा­द­वि­सं­वा­द­र­हि­ता­र्थ­वा­दा­दि­भि­रिति शेषः । तेषां स्वार्थ­प्र­मि­ति­मा­त्रेण फलाभावात् विधे­य­स्ता­व­क­त्वेन विध्ये­क­वा­क्यत्वं कल्प्यत इत्यर्थः । यथा प्रया­जा­दि­क­र्मणां प्रयो­ज­ना­का­ङ्क्षा­व­शेन प्रया­जा­दि­वा­क्यानां फल­व­द्द­र्श­पू­र्ण­मा­सा­दि­वि­धि­वा­क्यै­रे­क­वा­क्यत्वं तथेति भावः ।

अवान्तरसंसर्ग इति ।
अर्थवादानामपि विध्यन्वयात् प्राक् स्वरसतः प्रतीयमाने देवताया विग्र­हा­दि­सं­सर्गे अवा­न्त­र­ता­त्प­र्य­म­स्ती­त्यर्थः ।

प्रया­जा­दि­वा­क्या­ना­म­र्थ­वा­दा­दि­वा­क्यानां च स्वार्थप्रमितौ तात्पर्ये हेतुमाह —
वाक्यै­क­वा­क्य­त्वा­दिति ।
वाक्यानां सतामेव तेषां विधि­वा­क्यै­रे­क­वा­क्य­त्वा­भ्यु­प­ग­मात् वाक्यानां च वाक्यार्थे तात्पर्यस्य सामा­न्य­त­स्सि­द्ध­त्वा­दि­त्यर्थः ।

यत्तु वाक्या­र्थ­द्वा­र­भूते पदार्थ इवेति स्तुति­द्वा­र­भू­तेऽर्थे तात्पर्याभावे दृष्टा­न्त­प्र­द­र्शनं, तद्विघटयति —
पदै­क­वा­क्य­ता­या­मे­वेति ।
पदानां सतामेव एक­वा­क्या­र्थ­बो­ध­ने­नै­क­वा­क्यत्वे इत्यर्थः । तत्र पदार्थानां वाक्यार्थस्येव अपू­र्व­त्वा­भा­वात् न तेष्व­वा­न्त­र­ता­त्प­र्य­मपि स्वीक्रियत इत्यर्थः । एते­न-रे­व­त्या­धा­र­क­वा­र­व­न्ती­य­सा­मा­ख्य­वि­शे­ष­णेऽपि तात्प­र्यं-व्या­ख्या­तम् । वाक्यस्य वाक्यार्थे तात्पर्यस्य अत्स­र्ग­त­स्सि­द्ध­त्वात् विशि­ष्ट­वि­धे­र्वि­शि­ष्ट­भा­व­नायां तात्प­र्य­व­त्त्वाच्च तस्य विशेषणेषु तात्पर्यं सिद्ध्यति । विशि­ष्ट­वि­धि­ता­त्प­र्य­वि­ष­य­त्वस्य विशे­ष्य­मा­त्र­वृ­त्तित्वे तत्तात्पर्यस्य विशि­ष्ट­वि­ष­य­क­त्वा­नु­प­पत्तेः । मीमांसकानां विशि­ष्ट­वि­धे­र्वि­शे­ष­णेषु तात्प­र्या­भा­व­व्य­व­हा­रस्य विशेषणेषु प्रत्येकं तात्प­र्या­भा­व­प­र­त्वात् । (तस्मात्) [व्यव­स्था­प­ने­नेति] तात्पर्यविषय एव वेदस्य प्रमितिजनकत्वम् - इति नियमस्य न्यायनिर्णये विव­र­णा­चा­र्यै­र्व्य­व­स्था­पि­त­त्वे­ने­त्यर्थः ।
ततः किं, तत्राह —
यजमानः प्रस्तर इत्यादीनामिति ।
उक्तरीत्या तेषामपि यज­मा­न­प्र­स्त­रा­भे­दादौ तात्पर्यं स्यादेव । तच्च प्रत्यक्षेण बाध्यत इति वक्तव्यम् । अत­स्ता­त्प­र्य­वत्त्वं श्रुतेः प्राब­ल्य­प्र­यो­जकं न भवतीत्यर्थः । अत्र-म­न्त्रा­र्थ­वा­दा­ना­मपि प्रया­जा­दि­वा­क्या­ना­मिव स्तुति­द्वा­र­भू­तेऽर्थे यद्य­वा­न्त­र­ता­त्प­र्य­म­वश्यं कल्पनीयं, तर्ह्यस्तु तत् । तावता तात्पर्यस्य न प्राब­ल्य­प्र­यो­ज­क­त्व­क्षतिः । महातात्पर्यस्य तत्प्र­यो­ज­क­त्व­स­म्भ­वात् । अद्वैतश्रुतीनां प्रप­ञ्च­मि­थ्यात्वे महा­ता­त्प­र्या­भ्यु­प­ग­मेन तत्र प्रप­ञ्च­स­त्त्व­ग्रा­हि­प्र­त्य­क्षस्य मिथ्या­त्व­श्रत्या बाधोपपत्तेः - इत्या­दि­क­मा­लो­च­नी­यम् ।

तर्हीति ।
तात्पर्यस्य प्राब­ल्य­प्र­यो­ज­क­त्वा­भावे सतीत्यर्थः । ननु श्रुतिमात्रस्य प्राबल्ये सिद्धे तस्यौ­त्स­र्गि­कत्वं वक्तव्यं स्यात्, तदेव कुत इति चेत् - न — x‘प्राब­ल्य­मा­ग­म­स्यैव जात्या तेषु त्रिषु स्मृतम् ।’ इति वचनेन श्रुतिमात्रस्य प्रत्य­क्षा­द्य­पे­क्षया आगमत्वादेव सिद्धत्वात् ।

तन्मात्रस्य प्राबल्ये अन्यदपि हेतुद्वयं दर्शयति —
निर्दोषत्वात् परत्वाच्चेति ।

उत्सर्ग इति ।
श्रुति­त­दि­त­र­प्र­मा­ण­यो­र्वि­रोधे सति श्रुतिरेव बाधिका भवति, यत्र च श्रुतिबाधितं प्रत्यक्षादि निरवकाशं भवति तत्र निरवकाशेन तेन श्रुतिरेव बाध्यते, ‘साव­का­श­नि­र­व­का­श­यो­र्नि­र­व­काशं बलवत्’ इति न्यायादित्यर्थः ।

ननु श्रुतिबाधितस्य प्रत्यक्षादेः निरवकाशत्वस्थले तेन श्रुतेर्बाधः किमर्थमुपेयते, तत्राह —
किं त्वित्यादिना ।
सम्भावनीयम् - उप­पा­द­नी­य­मि­त्यर्थः ।

अत एवेति ।
निर्वि­ष­य­प्र­त्य­क्षा­यो­गा­दे­वे­त्यर्थः ।

प्रच्यावितमिति ।
श्रुतिबाधितस्य द्वैतस्य तत्त्व­रू­प­त्वा­यो­गात् द्वैत­बो­ध­क­प्र­त्य­क्षस्य तत्त्वा­वे­द­क­त्व­रू­पात् प्रामाण्यात् प्रच्यावितत्वं बोध्यम् । उपपाद्यते । भाष्यादिष्विति शेषः ।

श्रुति­बा­धि­त­प्र­त्य­क्षा­दीनां सिद्धान्ते व्याव­हा­रि­क­प्रा­मा­ण्यो­प­ग­मेन प्रत्य­क्ष­ज्ञा­नस्य निविंषयत्वरूपं निरवकाशत्वं सिद्धान्तसम्मतं न भवतीत्युपपाद्य तत्र कैमुतिकन्यायमाह —
किं बहुनेति ।
अद्वै­त­श्रु­ति­बा­धि­त­घ­टा­दि­प्र­त्य­क्षस्य निर्वि­ष­य­त्वो­प­गमे सर्व­व्य­व­हा­रो­च्छे­द­प्र­स­ङ्ग­ल­क्षणं बाधकं यथा विद्यते, न तथा शुक्ति­र­ज­ता­दि­प्र­त्य­क्षस्य निर्वि­ष­य­त्वो­प­गमे बाधकमस्ति । कैश्चित् असतोऽपि रज­ता­दे­र्भा­नो­प­ग­मात् । तथापि तस्य तत्का­लो­त्प­न्न­र­ज­ता­दि­वि­ष­य­कत्वं सिद्धान्ते स्वीक्रियते, अनुभवस्य निर्वि­ष­य­त्वा­यो­गात् । तस्मात् श्रुतिबाधितस्य प्रत्यक्षस्य निरवकाशत्वं यत्र प्रसज्यते तत्र तेन श्रुतिबाधो युक्त­स्सि­द्धा­न्त­स­म्म­त­श्चेति श्रुतेः प्राब­ल्य­मौ­त्स­र्गिकं इत्येतत् सिद्धमिति भावः ।

शुक्ति­स­म्भि­न्नेति ।
शुक्ति­ता­दा­त्म्या­प­न्ने­त्यर्थः ।

व्यवहितमिति ।
बाह्य­दे­शा­न्त­र­स्थ­मि­त्यर्थः ।

आन्तरमिति ।
ज्ञाना­का­र­रू­प­मि­त्यर्थः ।

न कल्प्यत इत्यत्र हेतुः —
तद्विरोधेनेति ।
रजतस्य इद­म­र्था­भि­न्न­त्वा­नु­भ­व­वि­रो­धे­ने­त्यर्थः । व्यव­हि­त­र­ज­ता­दी­ना­मि­द­म­र्थ­ता­दा­त्म्या­स­म्भ­वा­दिति भावः ।

एवं चेति ।
विरोधस्थले निर­व­का­श­मा­ना­न्त­रेण श्रुतिबाधे न्याय्ये सतीत्यर्थः ।

ननु प्रस्त­र­य­ज­मा­न­यो­र­भे­द­श्रु­ति­बा­धि­तस्य तयो­र्भे­द­प्र­त्य­क्षस्य शुक्ति­र­ज­त­प्र­त्य­क्ष­वत् प्राति­भा­सि­क­वि­ष­य­त्व­स­म्भ­वात् न तत्र तेन श्रुतिबाधः कल्पनीय इति, नेत्याह —
प्राति­भा­सि­क­वि­ष­य­त्वा­भ्यु­प­ग­मे­नेति ।

प्रत्य­क्ष­वि­ष­यस्य प्रस्तरे यजमानभेदस्य प्राति­भा­सि­क­त्वा­स­म्भवे युक्तिं सूचयति —
यावदिति ।
यथा शुक्तिरजतस्य ब्रह्मज्ञानात् प्रागेव ‘नेदं रजतं’ इति प्रत्यक्षेण निवृत्तिः स्वोचि­ता­र्थ­क्रि­या­भा­वश्च तस्य प्राति­भा­सि­क­त्व­हे­तु­रस्ति, न तथा प्रस्तरे यजमानभेदस्य ब्रह्मज्ञानात् प्राग्बाधः अर्थ­क्रि­या­सा­म­र्थ्या­भा­वश्च प्राति­भा­सि­क­त्व­हे­तु­र­स्ती­त्यर्थः । याव­द्ब्र­ह्म­ज्ञा­न­म­नु­व­र्त­मा­न­स्ये­त्यस्य ब्रह्मज्ञानात् प्राक् बाध­र­हि­त­स्ये­त्यर्थः । अर्थ­क्रि­या­सं­वा­दे­ने­त्य­स्या­र्थ­क्रि­या­स­म­र्थ­भे­द­वि­ष­य­क­त्वे­ने­त्यर्थः ।

बाध्यत्व इति ।
प्रस्तरे यज­मा­न­भे­द­ग्रा­हिणः प्रत्य­क्ष­स्ये­त्य­नु­षङ्गः ।

सर्वथेति ।
अयमर्थः — प्राति­भा­सि­क­भे­द­वि­ष­य­कत्वं तस्य प्रत्यक्षस्य न सम्भ­व­ती­त्यु­क्तम् । तथा व्याव­हा­रि­क­भे­द­वि­ष­य­कत्वं तस्य न सम्भ­व­ती­त्य­नु­प­द­मेव वक्ष्यते । पार­मा­र्थि­क­भे­दश्च अद्वै­त­श्रु­ति­वि­रो­धा­देव नाभ्युपगन्तुं शक्यते । तथा च तस्य निर्विषयत्वरूपं निरवकाशत्वं स्यादेवेति श्रुतिरेवान्यथा नीयत इति सम्बन्धः ।

अन्य­था­न­य­न­प्र­का­र­माह —
तत्सिद्धीति ।

मुख्या­र्थ­स्या­भे­दस्य प्रत्य­क्ष­वि­रो­धे­ना­स­म्भ­वात् प्रस्तरे यजमानशब्दस्य गौणवृत्तौ कल्पनीयायां को गुण इत्या­का­ङ्क्षायां सूत्रकारेण गुणो दर्शितः —
तत्सिद्धीति ।
तस्य - क्रतोस्सिद्धिः - उपकारः यज­मा­न­प्र­स्त­र­साध्यो गुणः, तयोः क्रतु­नि­र्व­र्त­क­त्व­रूपं सादृश्यं गुण इति यावत् । एव­म­न्ये­षा­म­प्य­र्थ­वा­दानां प्रत्य­क्ष­वि­रो­ध­प­रि­हा­राय यथासम्भवं आलम्बनानि जैमिनिना भगवता अधिकरणान्तरेषु कल्पि­ता­नी­त्यर्थः ।

ननु अद्वै­त­श्रु­ति­प्र­त्य­क्ष­यो­र्वि­रो­ध­स्थले पार­मा­र्थि­क­म­द्वैतं श्रुतिविषयः व्याव­हा­रि­क­द्वैतं प्रत्यक्षविषय इति व्यवस्था यथा कल्प्यते, तथा प्रकृतेऽपि यज­मा­न­प्र­स्त­र­यो­र्वा­स्त­वा­भेदः श्रुतिविषयः कल्पितभेदः प्रत्यक्षविषय इति व्यवस्था कल्प्यतामिति, नेत्याह —
न चेति ।

इहेति ।
‘यजमानः प्रस्तरः’ इत्यत्रेत्यर्थः । यजमानः प्रस्तर इत्यर्थवादेन तयोस्तात्त्विकं तादात्म्यं प्रतिपादयितुं न शक्यम् । ब्रह्मा­द्वै­त­श्रु­तिभिः विरोधात् । न चाद्वै­त­श्रु­ती­ना­मपि विधि­रू­प­त्वा­भा­वे­ना­र्थ­वा­द­त्वा­वि­शे­षात् विनिगमनाविरह इति वाच्यम् ।

तथापि तासां बहुत्वेन विनि­ग­म­ना­वि­र­हा­न­व­ता­रा­दि­त्या­श­ये­नाह —
अनेकेति ।
किं च यज­मा­न­प्र­स्त­रा­भेदे तस्यार्थवादस्य तात्पर्यं नास्ति, तद्र­ग्रा­ह­क­लि­ङ्गा­भा­वात् । अद्वैतश्रुतीनां च स्वार्थे तात्प­र्य­ग्रा­ह­क­लि­ङ्गानि षड्विधान्यपि सन्ति । तथाहि — छान्दोग्ये षष्ठाध्याये ‘सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­तीयं’ इत्युपक्रम्य ‘ऐतदात्म्यमिदं सर्वं’ इति सर्वा­त्म­क­म­द्वि­तीयं वस्तूपसंहरति श्रुतिः । अत उप­क्र­मो­प­सं­हा­र­यो­रै­क­रू­प्य­ल­क्ष­णेन लिङ्गेन तस्याध्यायस्य अद्वितीये वस्तुनि तात्पर्यं निश्चीयते । हे सोम्य इदं-प­रि­दृ­श्य­मानं जगत् सृष्टेः प्राक् अद्वितीयमेकरूपं ब्रह्मैव आसीदिति श्वेतकेतुं पुत्रं प्रति उद्दालकवचनम् । इदं सर्वं ऐतदात्म्यम् — एतदात्मकं - प्रकृ­त­स­द्व­स्त्वा­त्म­क­मि­त्यर्थः । भाव­प्र­त्य­योऽ­वि­व­क्षितः । ‘ऐतदात्म्यमिदं सर्वं’ इतिवाक्यस्य अस­कृ­त्पा­ठा­द­भ्या­स­सिद्धिः । अद्वितीयवस्तुनो माना­न्त­रा­यो­ग्य­त्वात् अपू­र्व­त्व­सिद्धिः । ‘आचार्यवान् पुरुषो वेद’ इति वाक्येन प्रकृ­ता­द्वै­त­स­द्व­स्तु­ज्ञानं प्रकृत्य सम्पत्तिवाक्येन तस्य मुक्ति­ल­क्ष­ण­फ­ल­श्र­व­णात् फलमपि तत्र तात्प­र्य­ग्रा­ह­क­मस्ति ।

पितृ­पु­त्रा­ख्या­यि­का­दि­रू­पा­र्थ­वा­दश्च तत्ता­त्प­र्य­ग्रा­ह­क­स्त­त्रास्ति ।
मृदा­दि­दृ­ष्टान्तैः प्रपञ्चस्य ब्रह्म­का­र्य­त्व­प्र­ति­पा­द­न­पू­र्वकं ब्रह्मा­न­न्य­त्व­प्र­ति­पा­दनं उप­प­त्ति­स्त­त्रास्ति । तथा च षड्वि­धै­स्ता­त्प­र्य­लि­ङ्गै­र­द्वि­ती­य­व­स्तु­प­रत्वं तस्याध्यायस्य सिद्धम् । एवं अध्यायान्तरेषु श्रुत्यन्तरेषु च तात्प­र्य­लि­ङ्गानि द्रष्टव्यानि ।

तथा च उक्त­ता­त्प­र्य­लि­ङ्गै­रु­पे­त­त्वा­द­द्वै­त­श्रु­तीनां प्राब­ल्य­मि­त्या­श­ये­नाह —
षड्विधेति ।
ननु-तर्हि व्यावहारिको यज­मा­न­प्र­स्त­र­यो­र­भेदः श्रुत्य­र्थोऽस्तु । ततश्च व्याव­हा­रि­क­त­द­भे­द­प्र­ति­पा­द­क­श्रु­ति­बा­धितं तयो­र्भे­द­प्र­त्य­क्ष­मपि व्याव­हा­रि­क­भे­द­वि­ष­य­क­मस्तु । तथा च प्रत्यक्षस्य निर­व­का­श­त्वा­भा­वान्न श्रुति­बा­ध­क­त्व­मिति चेत्, न — समा­न­स­त्ता­क­यो­र्भे­दा­भे­द­यो­रे­क­त्रा­स­म्भ­वेन तथाकल्पनायोगात् । अस्तु तर्हि प्राति­भा­सि­क­स्त­यो­र­भेदः श्रुत्यर्थः - न — शुक्तौ रजताभेदस्येव प्रस्तरे यजमानाभेदस्य प्रत्य­क्ष­प्र­ति­भा­सा­भा­वा­दिति भावः ।

श्रुतेः प्रत्यक्षात् प्राबल्यं इत्युत्सर्गस्य ‘यजमानः प्रस्तरः’ इत्यपवादस्थलं दर्शयित्वा अप­वा­द­स्थ­ला­न्त­र­माह —
एवं तत्त्वमसीति ।
तत्त्व­म­सी­ति­वा­क्येन हि स्वरसतः किञ्चि­ज्ज्ञ­त्व­क­र्तृ­त्व­भो­क्तृ­त्वा­दि­वि­शि­ष्ट­चै­त­न्य­रू­प­जी­वस्य तद्विपरीतेन सर्व­ज्ञ­त्वा­भो­क्तृ­त्वा­क­र्तृ­त्वा­दि­वि­शि­ष्ट­चै­त­न्य­रू­पेण ब्रह्मणा सह अभेदः सार्वकालिकः प्रतिपाद्यते । तदनुरोधेन जीवे सदा सर्व­ज्ञ­त्वा­दि­ध­र्मा­ङ्गी­कारे जीवे तद्वि­रु­द्धा­स­र्व­ज्ञ­त्व­क­र्तृ­त्वा­दि­रू­प­सं­सा­रा­व­गा­हि­प्र­त्यक्षं निरालम्बनं स्यात् । अतो निर­व­का­श­सं­सा­र­प्र­त्य­क्षेण श्रुतेर्बाधः स्वीकर्तव्यः । स च बाधः विशे­ष्य­चै­त­न्यां­श­मा­त्रा­भे­द­प्र­ति­पा­द­क­त्वेन श्रुते­स्स­ङ्को­च­रूप एव, न तु यजमानः प्रस्तर इत्यत्रेव कार्त्स्न्येन मुख्यार्थं त्यक्त्वा गौणा­र्थ­क­ल्प­न­रूपः, इति विशेष इत्यर्थः ।

अह­ङ्का­र­श­ब­लि­त­स्येति ।
अन्तः­क­र­ण­वि­शि­ष्ट­चै­त­न्य­स्ये­त्यर्थः ।

भागत्यागेति ।

त्वंप­द­वा­च्या­र्थस्य द्वौ भागौ स्तः —
विशेषणभागो विशे­ष्य­भा­ग­श्चेति ।
तत्र विशेषणरूपस्य भागस्य त्यागपूर्वकं त्वंपदस्य विशेष्यभागे चैतन्यमात्रे लक्षणा स्वीक्रियते । एवं तत्पदार्थेऽपि द्रष्टव्यम् ।

अप­वा­द­स्थ­ला­न्त­र­माह —
एवं कृष्णलमिति ।

प्रसक्ताविति ।
श्रुतिबलात् कृष्णलेषु रूप­र­स­प­रा­वृ­त्ति­प्रा­दु­र्भा­व­प­र्य­न्त­पा­क­रू­पस्य श्रप­ण­स्या­ङ्गी­कारे तेषु श्रप­णा­भा­व­प्र­त्य­क्षस्य विषयो न लभ्यते । अद्वै­त­श्रु­ति­वि­रो­धेन तेषु पारमार्थिकस्य श्रप­णा­भा­व­स्या­स­म्भ­वात्, श्रुत्यु­क्त­श्र­प­णस्य तेषु व्यावहारिकस्यैव वक्तव्यतया तेषु तदभावस्यापि व्याव­हा­रि­क­स्या­स­म्भ­वात्, व्यवहारकाले बाधरहितस्य श्रपणाभावस्य प्राति­भा­सि­क­त्वा­स­म्भ­वाच्च । तस्मात् प्रत्यक्षं निर्विषयं स्यादित्यर्थः । एवं ‘सोमेन यजेत’ इत्यत्रापि सोमेन योगेनेष्टं भावयेदिति वाक्यार्थे स्थिते श्रुतिबलात् सोम­या­ग­यो­र­भे­दा­ङ्गी­कारे तयो­र्भे­द­ग्रा­हि­प्र­त्यक्षं निरवकाशं स्यादिति तद्वि­रो­ध­प­रि­हा­राय सोमपदस्य मत्वर्थलक्षणा स्वीक्रियते इत्यपि द्रष्टव्यम् ।

एवं निर­व­का­श­प्र­त्य­क्षेण श्रुतिबाधं उत्स­र्ग­स्या­प­वा­द­रूपं दर्शयित्वा औत्सर्गिकं श्रुतिप्राबल्यं प्रकृ­ता­भि­प्रा­येण दर्शयति —
कथञ्चिदिति ।
द्वैत­मि­थ्या­त्व­श्रु­तीनां तत्स­त्य­त्व­ग्रा­हि­प्र­त्य­क्षस्य च विरोधस्थले प्रत्यक्षस्य श्रुति­बा­धि­त­स्यापि न निरवकाशत्वम् । कल्पि­त­द्वै­त­त­द्ग­त­स­त्ता­जा­त्या­दि­वि­ष­य­क­त्वेन सावकाशत्वात् । अतोऽत्र श्रुत्या प्रत्यक्षस्यैव बाध इति भावः । कथञ्चिदित्यस्य कल्पि­त­द्वै­ता­दि­स­म­र्प­णे­ने­त्यर्थः । कथञ्चिच्छब्दात् पूर्वं प्रत्यक्षस्येति शेषः ।

न कश्चिदपीति ।
तात्पर्यस्य प्राब­ल्य­प्र­यो­ज­क­त्व­पक्षे यथा तात्प­र्य­वि­ष­य­स्यापि श्रपणादेः बाधदर्शनरूपा अव्यवस्था प्रसक्ता, न तथा श्रुति­प्रा­ब­ल्यौ­त्स­र्गि­क­त्व­पक्षे सा प्रसज्यते, अनु­प­ल­म्भा­दि­त्यर्थः । ननु प्रत्यक्षेण श्रुतिबाधे बहून्युदाहरणानि दर्शितानि । श्रुत्या प्रत्य­क्ष­बा­धो­दा­ह­रणं त्वेकमेव दर्शितम् ।

तथा च प्रत्यक्षस्य श्रुत्यपेक्षया प्राब­ल्य­मि­त्यु­त्सर्ग इति वक्तव्यं न तु वैपरीत्यं - इत्यस्वरसादाह —
अथवेति ।

तदभिन्न इति ।
सोमाभिन्न इत्यर्थः ।

तस्या इति ।
अनु­ष्ठा­ना­श­क्ते­रि­त्यर्थः ।

तत इति ।
प्रत्य­क्ष­वि­रो­धा­दि­त्यर्थः ।

तत एवेति ।
अनु­ष्ठा­ना­श­क्ते­रेव, न तु प्रत्य­क्ष­वि­रो­धात् । अतो न प्रत्य­क्ष­प्रा­ब­ल्य­स्यौ­र्गि­क­त्वम्, आगमबाध्यानां गग­न­नै­ल्य­प्र­त्य­क्षा­दीनां भूयसां प्राक् दर्शि­त­त्वा­दि­त्यर्थः ।

तस्मादिति ।
आग­म­प्रा­ब­ल्य­स्यौ­त्स­र्गि­क­त्व­स­म्भ­वा­दि­त्यर्थः ।

न कश्चिद्बाध इति ।
आगमस्य प्रत्य­क्षा­त्प्रा­बल्ये यजमानः प्रस्तर इत्यादावपि यज­मा­न­प्र­स्त­रा­भे­दा­दि­सि­द्धि­प्र­सङ्ग इति यो बाध आशङ्कितः पूर्वं स नास्ति, तस्य बहुभिः प्रकारैः परि­हृ­त­त्वा­दि­त्यर्थः ।

अपच्छेदन्यायं प्रकृते योज­यि­तु­मा­क्षि­पति —
अथ कथमिति ।
कथं­श­ब्द­सू­चि­त­स्या­क्षे­पस्य विवरणं तन्निराकरणं च यत्वित्यादिना भविष्यति ।

प्रथमं तन्न्यायं प्रकृते योजयति —
उच्यत इति ।
बहि­ष्प­व­मा­न­स्तो­त्र­मु­द्दिश्य अन्वारब्धतया गच्छतामृत्विजां मध्ये उद्गातुः अपच्छेदे सति आरब्धं ऋतुमदक्षिणतया समाप्य पुनस्स एव क्रतुरनुष्ठेय इति तद­प­च्छे­द­नि­मि­त्तकं आर­ब्ध­क्र­तो­र­द­क्षि­ण­तया समापनं प्रायश्चित्ततया विहितम् । तथा प्रति­ह­र्त्र­प­च्छे­द­नि­मि­त्तकं सर्व­स्व­दा­न­रू­प­द­क्षि­णा­दा­न­वि­शि­ष्ट­तया आरब्धस्य क्रतोः समापनरूपं प्रायश्चित्तं विहितम् । तथा च एकस्मिन् प्रयोगे दैवात् क्रमे­णो­भ­यो­र­प­च्छेदे सति विरु­द्ध­यो­रु­क्त­प्रा­य­श्चि­त्त­यो­र­नु­ष्ठा­तु­म­श­क्य­त्वात् अन्य­त­र­स्या­नु­ष्ठे­यत्वे स्थिते सति किं पूर्व­नि­मि­त्त­क­प्रा­य­श्चि­त्त­म­नु­ष्ठेयं किं वा उत्त­र­नि­मि­त्त­क­मिति विशये निर्णयमाह उद्गातुरपच्छेद इत्यादिना । यत्र प्रयोगे प्रथ­म­मु­द्गा­तु­र­प­च्छेदो भवति तत्प्र­यो­गा­भि­प्रा­योऽयं ग्रन्थः ।

श्रुति­नि­री­क्ष­णे­नेति ।
निमि­त्तो­प­ज­न­ना­न­न्त­र­मेव नैमि­त्ति­क­शा­स्त्रस्य बुद्धि­स्थ­त्वा­दिति भावः ।

अप­च्छे­द­नि­मि­त्त­क­र्त­व्य­ता­बु­द्धि­रिति ।
उद्गात्रपच्छेदो निमित्तं यस्य प्रायश्चित्तस्य तत् उद्गा­त्र­प­च्छे­द­नि­मित्तं तस्य कर्त­व्य­ता­बु­द्धि­रि­त्यर्थः ।

तद्विरुद्धेति ।
उद्गा­त्र­प­च्छे­द­नि­मि­त्त­क­र्त­व्यता तच्छब्दार्थः । तद्विरुद्धत्वं च कर्त­व्य­ता­वि­शे­ष­णम् ।

एवमिति ।
एकस्मिन् प्रयोगे अद­क्षि­ण­त्व­स­र्व­स्व­द­क्षि­णा­क­त्व­यों­रिव एकत्र घटादिप्रपञ्चे सत्य­त्व­मि­थ्या­त्व­यो­रपि विरुद्धत्वात् तद्बु­द्ध्यो­र्बा­ध्य­बा­ध­क­भाव इति भावः ।

न चोदाहृतस्थल इति ।
यत्र प्रथ­म­मु­द्गा­त्र­प­च्छेदः तत्रेत्यर्थः ।

शास्त्रमिति ।
‘यद्यु­द्गा­ता­प­च्छि­द्येत’ इति शास्त्र­मि­त्यर्थः ।

युगपदिति ।
उद्गा­तृ­प्र­ति­ह­र्त्र­प­च्छे­द­यो­र्यौ­ग­प­द्य­स्थले उद्गा­त्र­प­च्छे­द­नि­मि­त्त­क­मेव प्राय­श्चि­त्त­म­नु­ष्ठे­य­मि­त्या­प­स्त­म्बा­चा­र्यै­रु­क्त­त्वा­दिति भावः ।

प्रत्यक्षं त्विति ।
द्वैत­स­त्य­त्व­प्र­त्य­क्ष­मि­त्यर्थः ।

अद्वै­त­श्रु­त्येति ।
द्वैत­मि­थ्या­त्व­श्रु­त्ये­त्यर्थः ।

विष­या­न्त­रा­भा­वा­दिति ।
द्वैतप्रपञ्चे प्रती­य­मा­न­स­त्त्वस्य श्रुत्या बाधे सति तत्र सत्त्वा­न्त­रा­भा­वात् सत्त्व­प्र­त्यक्षं निर्विषयं स्यात्, न चैतद्युज्यते, (प्रत्यक्ष) ज्ञानस्य निर्वि­ष­य­त्वा­द­र्श­नात् तदनुपगमाच्चेति भावः ।

द्वैतप्रपञ्चे पारमार्थिकस्य सत्त्वस्य श्रुत्या अपहृतत्वेऽपि व्यावहारिकस्य सत्त्वस्य तया अनपहृतत्वात् सत्त्व­प्र­त्य­क्षस्य न निरवकाशत्वमिति परिहरति —
यत्रेति ।

विषयमिति ।
सत्त्वरूपमिति शेषः । ननु — ब्रह्मणि सत्त्वं पारमार्थिकं घटादिप्रपञ्चे सत्त्वं व्यावहारिकं शुक्तिराजतादौ सत्त्वं प्रातिभासिकमिति सत्ता­त्रै­वि­ध्य­पक्षे घटा­दि­स­त्त्व­प्र­त्य­क्षस्य विषयान्तरं नान्वेषणीयम् । व्याव­हा­रि­क­स­त्त्वस्य घटादौ विद्यमानस्यैव तद्विषयस्य लाभात् । एकैव सर्वत्र सत्ता इति पक्षे व्याव­हा­रि­क­स­त्त्व­प्रा­ति­भा­सि­क­स­त्त्व­यो­र­भा­वात् सत्त्व­प्र­त्य­क्षस्य विष­या­न्त­र­म­न्वे­ष­णी­य­मेव ।

यथा उत्त­र­भा­वि­वि­रु­द्धा­प­च्छे­द­स्थले सर्वथा बाधितस्य पूर्वा­प­च्छे­द­नि­मि­त्त­क­प्रा­य­श्चि­त्त­शा­स्त्रस्य - इत्याशङ्क्याह —
इहापीति ।
द्वैत­स­त्त्व­प्र­त्यक्षं घटादिद्वैते सत्तामलभमानमपि न निरवकाशम् । पूर्वा­प­च्छे­द­नि­मि­त्त­क­प्रा­य­श्चि­त्त­शा­स्त्रस्य परयोगान्तरे सावकाशत्ववत् इहापि घटा­दि­द्वै­ता­द­न्यत्र तद­धि­ष्ठा­न­भू­त­ब्र­ह्म­स­त्तायां साव­का­श­त्व­स­म्भ­वा­दि­त्यर्थः ।

ब्रह्म­स्व­रू­प­स­त्तायाः प्रत्य­क्ष­वि­ष­यत्वे कैमु­ति­क­न्या­य­म­भि­प्रे­त्याह —
सर्वेति ।
सर्व­प्र­त्य­य­वे­द्यत्वं सत्ताविशेषणम् । लोके हि यद्यद्वस्तु मनसि स्फुरति तत् सर्वं सदित्येव प्रतीयते । अतः सर्वस्य जगतः सत्ता सर्व­प्र­त्य­य­वेद्या । सा च सर्वा­धि­ष्ठा­न­भू­त­ब्र­ह्म­स­त्तैव, न तु तदतिरिक्ता, कल्पनागौरवादिति भावः ।

पूर्वं कथं­श­ब्द­सू­चि­त­मा­क्षे­प­मि­दा­नी­मु­द्भा­व­यति —
यत्त्विति ।

बदरफल इति ।
यथा - तत्र पूर्वं श्याम­रू­प­मु­त्प­द्यते, तत्रैव पश्चात् पूर्व­रू­प­ना­श­पू­र्वकं रक्त­रू­प­मु­त्प­द्यते, तथा - पूर्वनिमित्तेन जातमात्रेण पूर्व­नै­मि­त्ति­क­क­र्त­व्यता जायते पाश्चात्येन च निमित्तेन पूर्व­क­र्त­व्य­ता­ना­श­पू­र्व­क­मु­त्त­र­नै­मि­त्ति­क­क­र्त­व्यता उत्पाद्यते इत्यर्थः ।

ततः किं, तत्राह —
रूप­ज्ञा­न­द्व­य­व­दिति ।
तथा च उत्त­र­भा­वि­वि­रु­द्धा­प­च्छे­द­व­त्यपि क्रतौ पूर्व­नै­मि­त्ति­क­शा­स्त्रस्य नाप्रामाण्यमिति तत्प्रा­मा­ण्य­सं­र­क्ष­ण­मेव तथा कल्पकमिति भावः ।

उत्त­र­नि­मि­त्तो­प­ज­न­नात् प्राक् पूर्व­नै­मि­त्ति­का­क­र्त­व्यता वस्तुत आसीत्-इत्यत्र सम्मतिमाह —
अत एवेति ।
पूर्वं वस्तु­त­स्त­द­भ्यु­प­ग­मा­दे­वे­त्यर्थः । उत्त­र­भा­वि­प्र­ति­ह­र्त्र­प­च्छे­द­ज­न­नात् प्राक् अन्य­था-अ­द­क्षि­ण­तया वस्तुतः कर्तव्योऽपि क्रतुः पश्चात् प्रति­ह­र्त्र­प­च्छे­द­रूपे निमित्ते सति अन्य­था­स­र्व­वे­द­स­द­क्षि­ण­तया कर्तव्यः इति शङ्का­भि­प्रा­या­नु­सा­रेण वचनार्थः । क्रमेण विरु­द्धा­प­च्छे­द­द्व­य­वति क्रतौ पूर्व­नै­मि­त्ति­कस्य कर्त­व्य­ता­नि­ष्पत्तौ मानं नास्ति । तत्र पूर्व­प्रा­य­श्चि­त्त­स्या­न­ङ्ग­त्वात् । अनङ्गत्वं च तद्बो­ध­क­मा­ना­भा­वात् । न च पूर्व­नै­मि­त्ति­क्र­शास्त्रं तत्र मानम् ।

तस्य प्रयोगान्तरेषु सावकाशत्वेन तत्रा­प्य­ङ्ग­त्व­बो­ध­क­त्वा­भा­वात् - इत्याशयेन दूषयति —
तन्नेति ।

आहवनीयेति ।
‘आहवनीये जुहोति’ इति होममात्रे आहवनीयं विधातुं प्रवृत्तस्य सामा­न्य­शा­स्त्रस्य होमविशेषे पद­रू­पा­धि­क­र­ण­वि­धा­य­क­वि­शे­ष­शा­स्त्र­व­शेन पद­हो­मा­ति­रि­क्त­हो­मेषु आह­व­नी­य­वि­धा­य­क­त्व­व­दि­त्यर्थः ।

ऋतुविषयत्वादिति ।
तादृशक्रतावेव उद्गा­त्र­प­च्छे­द­नि­मि­त्त­क­प्रा­य­श्चि­त्त­स्या­ङ्ग­त्व­बो­ध­क­त्वा­दि­त्यर्थः ।

उत्कार्थे सम्मतिमाह —
उक्तं हीति ।
कॢप्तरूपस्य प्रत्य­क्ष­सि­द्धस्य साधारणस्य होममात्रे प्राप्तस्य ‘आहवनीये जुहोति’ इतिशास्त्रस्य विशेषशास्त्रेण यस्सङ्गोचः, स प्राप्त­बा­धोऽ­भि­धी­यते । यथा सामा­न्य­शा­स्त्रस्य विशेषशास्त्रं बाधकं, तथा सामा­न्य­शा­स्त्र­यो­रेव क्वचिद्विषये विरोधे सति पूर्वं प्राप्तस्य पश्चात् प्राप्तं परत्वात् बाधकं भवति । यथा विरु­द्धा­प­च्छे­द­नि­मि­त्त­क­शा­स्त्रयोः । तथा च विशे­ष­वि­ष­या­दि­ने­त्या­दि­पदं पर­त्वा­दि­स­ङ्ग्रा­हार्थं इति श्लोकार्थः ।

तत्रैवंसतीति ।
अपच्छेदस्थले उत्तरज्ञानेन पूर्वज्ञानबाधे सतीत्यर्थः ।

द्रष्टव्यमिति ।
पश्चा­द्भा­वि­प्र­ति­ह­र्त्र­प­च्छे­द­वि­धु­रस्य उद्गा­त्र­प­च्छे­द­वतः क्रतोरदक्षिणतया क्रतु­स­मा­प­न­म­ङ्ग­मिति ज्ञात­व्य­मि­त्यर्थः ।

शास्त्र­दी­पि­का­व­च­न­मपि न त्वद­भि­म­ता­र्थ­प­रम्, तत्पू­र्व­ग्र­न्थ­वि­रो­धात् पूर्व­ग्र­न्था­र्थ­नि­ग­म­न­रू­पस्य त्वदु­दा­हृ­त­व­च­नस्य पूर्व­ग्र­न्था­नु­सा­रे­णैव नेत­व्य­त्वा­च्च-इ­त्याह —
तदपीति ।
तदपि कृत्वा­चि­न्ता­मा­त्र­प­र­मिति सम्बन्धः ।

कृत्वा­चि­न्ता­प­रत्वे हेतुमाह —
तेनेत्यादिना ।
तेनेत्यस्य कॢप्त­पू­र्व­प्र­वृ­त्त­नै­मि­त्ति­क­शा­स्त्रे­णे­त्यर्थः ।

परोदाहृतवचनस्य शास्त्र­दी­पि­का­ग­त­पू­र्व­ग्र­न्था­नु­सा­रि­ण­म­र्थ­माह —
निमित्तोपजननं विनेति ।
क्रमेण विरु­द्धा­प­च्छे­द­द्व­य­वति क्रतौ यदि द्विती­य­नि­मि­त्तो­प­ज­ननं न स्यात्, तदा पूर्व­नि­मि­त्त­व­शा­द­न्य­था­क­र्तव्यो भवेदप्ययं क्रतुः, न त्वेत­द­स्ती­त्ये­त­द­र्थ­प­रोऽयं ग्रन्थ इत्यर्थः ।

पराभिमतं तद्वचनार्थं निषेधति —
न त्विति ।
तिष्ठन्तु मीमांसकाः दर्शितदर्शिनः ।

कुशलैरस्माभिः कल्पितस्य श्रुत्यर्थस्य का अनुपपत्तिरिति शङ्कते —
आस्तामिति ।
उत्त­र­नै­मि­त्ति­क­क­र्त­व्य­तो­त्पत्त्या नाश्यत्वेन पराभिमतं पूर्व­नै­मि­त्ति­कस्य कर्तव्यत्वमेव ताव­द्दु­र्नि­रू­पम् । तथा हि —

तत् किं कृति­सा­ध्य­त्व­यो­ग्यत्वं, किं वा फलमुखं कृतिसाध्यत्वं, क्रतु­वै­क­ल्य­प्र­यो­ज­का­न­नु­ष्ठा­न­प्र­ति­यो­ग्य­नु­ष्ठा­न­शा­लित्वं वा, अङ्गत्वं वा, अन्यद्वा किञ्चित् इति विकल्पं मनसि निधाय आद्यं दूषयति —
न तावदिति ।

अनपायादिति ।
तथा च उत्त­र­नै­मि­त्ति­क­क­र्त­व्य­ता­का­लेऽपि अनुवर्तमानायाः पूर्व­क­र्त­व्य­तायाः तन्ना­श्य­त्वा­यो­गेन बद­र­फ­ल­ग­त­श्या­म­ता­र­क्त­त­यो­रिव तयोः क्रमि­क­त्वा­भ्यु­प­ग­म­वि­रोध इति भावः ।

द्वितीयं दूषयति —
नापि फलेति ।

अजननादिति ।
तथा च पूर्व­नै­मि­त्ति­क­क­र्त­व्य­ता­ज्ञा­नस्य मीमां­स­क­म­र्या­दा­सिद्धं भ्रान्ति­त्व­मे­वा­याति, न त्वदभिमतं श्याम­ता­ज्ञा­न­स्येव प्रमात्वं इति भावः ।

तृती­य­च­तु­र्था­व­नु­व­दति —
नापि यदिति ।
यस्या­नु­ष्ठा­ना­भावे क्रतोर्वैकल्यं भवति तत् क्रतु­वै­क­ल्य­प्र­यो­ज­का­न­नु­ष्ठा­न­प्र­ति­यो­ग्य­नु­ष्ठा­न­शालि पर्यवस्यति, तत्त्वमित्यर्थः । ‘यत्र प्रथ­म­मु­द्गा­त्र­प­च्छेदः पश्चात् प्रति­ह­र्त्र­प­च्छेदः तत्र उद्गा­त्र­प­च्छे­प्रा­य­श्चि­त्ता­न­नु­ष्ठानं क्रतु­वै­क­ल्य­प्र­यो­जकं, तत्प्रा­य­श्चित्तं तस्य क्रतोरङ्गं’ इति च वदता वक्तव्यं - पूर्व­प्रा­य­श्चि­त्ता­न­नु­ष्ठा­नस्य क्रतु­वै­क­ल्य­प्र­यो­ज­कत्वं किं वैक­ल्यो­त्पा­द­कत्वं किंवा तद्व्यापकत्वं, तद्व्याप्यत्वं वा । नाद्यः । अभा­व­रू­प­स्या­न­नु­ष्ठा­न­स्यो­त्पा­द­क­त्वा­स­म्भ­वात्, क्रतु­वै­क­ल्य­स्या­पि­क्र­तू­प­का­र­प्रा­ग­भा­व­रू­प­तया तदु­त्पा­द्य­त्वा­यो­गाच्च । न द्वितीयः । यत्रो­द्गा­तृ­मा­त्रा­प­च्छे­द­वति क्रतौ तत्प्रा­य­श्चित्तं कृतं कार­णा­न्त­रा­द्वै­कल्यं च, तत्र क्रतु­वै­क­ल्य­स­त्त्वेऽपि उद्गा­त्र­प­च्छे­द­प्रा­य­श्चि­त्ता­न­नु­ष्ठा­ना­भा­वेन व्यभिचारात् ।

तस्मात् तृतीयः परिशिष्यते - इत्याशयेनाह —
निय­म­वि­शे­ष­रू­प­त्वे­नेति ।
व्याप्य­त्व­रू­प­त्वे­ने­त्यर्थः । फलोपकारित्वं परमापूर्वरूपफलं प्रत्य­दृ­ष्ट­द्वारा कारणत्वम् । यथा प्रयाजादीनाम् । सन्नि­प­त्यो­प­का­र­कत्वं च याग­स्व­रू­पो­त्पा­द­क­त्वम् । यथा द्रव्यदेवतादेः ।

अस्तु तयो­रु­क्त­रू­प­त्व­मिति चेत्, तत्र वक्तव्यं —
क्रमि­क­वि­रु­द्धा­प­च्छे­द­द्व­य­वति क्रतौ पूर्व­प्रा­य­श्चि­त्ता­न­नु­ष्ठा­न­गतं क्रतु­वै­क­ल्य­व्या­प्य­त्व­रूपं क्रतु­वै­क­ल्य­प्र­यो­ज­कत्वं पूर्व­प्रा­य­श्चि­त्त­ग­त­म­ङ्गत्वं च द्विती­य­नि­मि­त्त­ज­न­ना­न्त­र­म­प्य­नु­व­र्तते न वेति ।
आद्ये क्रतु­वै­क­ल्य­प्र­यो­ज­का­न­नु­ष्ठा­न­प्र­ति­यो­ग्य­नु­ष्ठा­न­शा­लि­त्व­रू­पायाः पूर्व­प्रा­य­श्चि­त्त­क­र्त­व्य­तायाः तत्प्रा­य­श्चि­त्त­ग­ता­ङ्ग­त्व­रू­प­क­र्त­व्य­ता­याश्च उत्त­र­नै­मि­त्ति­क­क­र्त­व्य­ता­ना­श्य­त्वा­भ्यु­प­ग­म­भ­ङ्गा­पत्तिः । द्वितीयकल्पे च पूर्व­प्रा­य­श्चि­त्ता­न­नु­ष्ठा­नस्य क्रतु­वै­क­ल्य­व्या­प्यत्वं द्विती­य­नि­मि­त्त­ज­न­नात् प्रागेवास्ति तज्जननानन्तरं तु नास्तीति पर्यवस्यति ।

तथा पूर्व­प्रा­य­श्चि­त्त­ग­ता­ङ्ग­त्व­रूपा कर्तव्यता पूर्व­प्रा­य­श्चि­त्तस्य द्विती­य­नि­मि­त्त­ज­न­ना­त्प्रा­गे­वास्ति पश्चात्तु नास्तीति पर्यवस्यति ।
तथा च व्याप्य­त्व­का­र­ण­त्वयोः स्वाश्रये कादा­चि­त्क­त्व­म­भ्यु­प­गतं स्यात् । तच्च न सम्भ­व­ती­त्य­नु­प­द­मेव वक्ष्यति नहीत्यादिना ।

तस्मात्तयोः याव­दा­श्र­य­भा­वि­त्व­रू­प­स्वा­भा­वि­क­त्व­नि­र्वा­हाय क्रमि­क­वि­रु­द्धा­प­च्छे­द­व­त्क्र­तु­व्या­व­र्त­क­वि­शे­ष­ण­मु­भ­य­त्रापि देयमित्याह —
पश्चाद्भावीति ।

असम्भवादिति ।
तथा च क्रमि­क­वि­रु­द्धा­प­च्छे­द­वति क्रतौ पूर्व­नै­मि­त्ति­क­क­र्त­व्य­ता­ज्ञानं भ्रान्तिरेवेति भावः ।

तयोः कादा­चि­त्क­त्वा­योगे हेतुमाह —
न हीति ।
धूमादौ वह्न्या­दि­व्या­प्य­तायाः वह्न्यादौ धूमा­दि­का­र­ण­ता­याश्च कादा­चि­त्क­त्वा­द­र्श­ना­दि­त्यर्थः ।

नन्वदृष्टमपि युक्तं चेत् सङ्ग्राह्यमेव, नेत्याह —
युक्तं वेति ।
वाकारो नञनुकर्षणार्थः । तयोः कादा­चि­त्क­त्व­पक्षे धूमादेः कदाचित् वह्नि­व्या­प्य­त्वा­भा­वा­पत्त्या तद­भा­व­प्र­यो­ज­को­पा­धि­म­त्त्व­प्र­सङ्गः स्यात्, वह्न्यादेः कदाचित् धूमा­दि­का­र­ण­त्वा­भा­वा­पत्त्या धूमा­दि­का­र्या­र्थिनो वह्न्या­द्यु­पा­दाने तत्का­र­ण­त्वा­भा­व­श­ङ्कया निष्क­म्प­प­वृ­त्तिश्च न स्यात् । अतस्तयोः कादा­चि­त्क­त्व­म­यु­क्त­मि­त्यर्थः ।

पञ्चमं निराकरोति —
नापीति ।
प्रथ­म­नि­मि­त्त­ज­न­ना­न­न्त­र­मे­वा­ग­म­योग्यं द्विती­य­नि­मि­त्त­ज­न­ना­न्त­र­मे­वा­पा­य­योग्यं चेत्यर्थः ।

पूर्व­नै­मि­त्ति­क­शा­स्त्रस्य आह­व­नी­या­दि­शा­स्त्र­व­द­न्यत्र सावकाशताया उक्तत्वेन तस्यैतादृशधर्मे मान­त्वा­यो­गा­दि­त्या­श­ये­नाह —
विरुद्धेति ।

क्रमि­क­वि­रु­द्धा­प­च्छे­द­वति क्रतौ पूर्व­नै­मि­त्ति­क­क­र्त­व्य­त्व­ज्ञा­न­स्या­प्र­मा­त्व­स­म्भ­वात् सति विरोधे उत्तरज्ञानेन पूर्वज्ञानबाधे अपच्छेदन्यायः उदाहरणं भव­त्ये­वे­त्या­श­ये­नो­प­सं­ह­रति —
तस्मादिति ।

नन्व­प­च्छे­द­न्या­येन श्रुतेः प्रत्य­क्षा­पे­क्षया प्राब­ल्या­व­ग­ति­वत् उप­क्र­मा­धि­क­र­ण­न्या­येन प्रत्यक्षस्यापि श्रुत्यपेक्षया प्राब­ल्या­व­ग­मा­त्त­यो­र्बा­ध्य­बा­ध­क­भावे विनिगमनाविरह इत्याशयेन शङ्कते —
ननु चेति ।

असञ्जातेति ।
यथा उप­क्र­म­वा­क्या­र्थ­ज्ञा­न­काले उप­सं­हा­र­वा­क्या­र्थ­ज्ञा­ना­भा­वेन विरो­ध­स्फु­र­णा­भा­वात् उप­क्र­म­स्या­स­ञ्जा­त­वि­रो­धित्वं, तथा द्वैत­स­त्य­स्व­प्र­त्य­क्ष­प्र­वृ­त्ति­काले द्वैत­मि­थ्या­त्व­बो­ध­क­श्रु­त्य­र्था­नु­भ­वा­भा­वेन विरो­ध­स्फू­र्त्य­भा­वात् प्रस्य­क्ष­स्या­स­ञ्जा­त­वि­रो­धि­त्व­मि­त्यर्थः ।

दृष्टा­न्त­वै­ष­म्येण परिहरति —
उच्यत इति ।

अश्वमनयदिति ।
अश्वं दत्तवानित्यर्थः । परस्य प्रजापतेः कृतिरनुष्ठानं परकृतिः, परकृतिपदं तत्प्र­ति­पा­द­क­वा­क्य­परं, तत्स­दृ­शा­र्थ­वा­दे­ने­त्यर्थः । प्रजापतेः कर्मा­धि­का­रा­भा­वेन वस्तु­त­स्त­त्प्र­ति­पा­द­क­त्वा­भा­वा­दिति सरूपेत्युक्तम् ।

दातुरिति ।
‘स एतं वारुणं चतु­ष्क­पा­ल­म­प­श्य­त्त­न्नि­र­व­पत्’ इत्युपक्रमे श्रवणादिति भावः । स इत्यनेन प्रकृतः प्रजापतिः परामृश्यते । उप­क्र­मो­प­सं­हा­र­यो­र्वा­रु­णे­ष्टि­रू­पै­का­र्थ­स्प­र्शि­त्वा­त्त­यो­र­त्रै­क­वा­क्य­त्व­म­व­ग­मत् । तत्सं­र­क्ष­णा­या­न­यो­रे­का­र्थ­प­र्य­व­सानं वक्तव्यम् । उपक्रमो दातुरिष्टिं विधत्ते उपसंहारः प्रति­ग्र­ही­तु­रिति यथा­श्रु­त­वा­क्या­र्था­भ्यु­प­गमे प्रती­तै­क­वा­क्यत्वं न स्यादित्यर्थः ।

णिजर्थमिति ।
प्रति­गृ­ह्णी­या­दि­त्यस्य प्रति­ग्रा­ह­ये­दि­त्यर्थः । एक­वा­क्य­त्व­प्र­ती­ति­स्थल एव उत्तरस्य पूर्वापेक्षा —

इत्यु­क्ता­र्थ­दा­र्ढ्याय एक­वा­क्य­त्व­प्र­ती­त्य­भा­व­स्थले उत्तरेण पूर्वं नाद­र्त­व्य­मि­त्या­श­ये­नाह —
यत्र त्विति ।

नन्वे­क­स्मि­न्न­ति­रा­त्र­क्रतौ षोड­शि­ग्र­ह­ण­त­द­भा­व­यो­र्वि­रु­द्ध­त्वात् वाक्यद्वयं कथं प्रमाणं स्यादिति शङ्कते —
किंत्विति ।

प्रयोगभेदेन विरोधसमाधानमाह —
उभयोरिति ।

ननु ग्रहणवाक्यं तन्निषेधवाक्यं च क्रतुभेदेन व्यवस्थितं किं न स्यादित्यत आह —
विष­या­न्त­रा­भा­वा­दिति ।
तयो­र्वा­क्य­यो­रे­क­प्र­क­र­ण­ग­त­त्वा­दि­त्यर्थः ।

अगत्येति ।
समु­च्च­य­स्या­प्य­सं­भ­वे­ने­त्यर्थः ।

तत्रैवेति ।
अतिरात्र एवेत्यर्थः ।

एवं चेति ।
उपक्रमन्यायस्य प्रती­तै­क­वा­क्य­ता­क­ग्र­न्थ­वि­ष­यत्वे सतीत्यर्थः ।

शङ्काभावादिति ।
तथा च न प्रत्यक्षस्य श्रुत्यपेक्षया प्राबल्यशङ्केति भावः ।

अप­च्छे­द­न्या­य­प्र­वृत्तिं प्रकृते शङ्का­स­मा­धा­नाभ्यां निरूप्य निगमयति —
तदर्थेति ।

पूर्वमिति ।
क्रमि­क­वि­रु­द्धा­प­च्छे­द­वति क्रतौ प्रथ­मा­प­च्छे­द­नि­मि­त्त­क­प्रा­य­श्चि­त्त­क­र्त­व्य­ता­ज्ञानं पूर्वशब्दार्थः । उत्त­र­नै­मि­त्ति­क­क­र्त­व्य­ता­ज्ञानं परशब्दार्थः ।

पूर्वेण परस्य बाधाभावे हेतुमाह —
अजातत्वादिति ।
परस्य अन्यथा — पूर्व­ज्ञा­न­बा­ध­म­न्तरा उत्प­त्तु­म­यो­ग्य­त्वात् आद्यस्याबाधेन परस्य सम्भवो नास्तीति श्लोकार्थः ।

पूर्व­प्र­वृ­त्तस्य प्रत्यक्षस्यापि परेण शब्देन बाधे उदाहरणमाह —
अत एवेति ।
पर­त्वा­दे­वे­त्यर्थः ।