अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

साक्षिस्वरूपनिर्णयवादः

सुखा­दि­ध­र्मि­णोऽ­ह­ङ्का­रस्य साक्षि­प्र­त्य­क्ष­वि­ष­य­त्वोक्त्या अह­म­र्थ­जी­वा­पे­क्षया भिन्नः तत्साक्षी निर्दिष्टः । सुखा­दि­ध­र्मि­णोऽ­ह­ङ्का­र­स्यैव लोके जीव­त्व­प्र­सिद्धेः । तथा च योऽयं जीवभिन्नः साक्षी व्यवह्रियते स नास्ति मानाभावात् इत्याक्षिपति —
अथेति ।
यः साक्षी जीवातिरेकेण व्यवह्रियते अयं क इति सम्बन्धः । किंशब्द आक्षेपार्थः ।

मानाभावोऽसिद्ध इत्याशयेनाह —
अत्रोक्तमिति ।

साक्षा­दी­क्ष­णा­दिति ।
अपरोक्षतया द्रष्टृ­त्वा­दि­त्यर्थः ।

निर्वि­का­र­त्वा­च्चेति ।
ननु द्रष्टृत्वं दृष्टि­क्रि­या­क­र्तृ­त्वम्, निर्विकारत्वं च कर्तृ­त्वा­दि­वि­का­र­रा­हि­त्यम्, तथा च तयोः परस्परविरोध इति चेत् - न - दृष्टिस्वरूप एव कूटस्थे तत्कर्तृत्वस्य ‘साक्षा­द्द्र­ष्टरि संज्ञायाम्’ [पा.सू.५-२-९१] इति सूत्रानुसारेण साक्षिशब्दात् प्रतीतस्य सवितरि प्रकाशात्मके ‘प्रकाशते’ इति प्रका­श­क­र्तृ­त्व­वत् उप­चा­र­मा­त्र­त्वात् । साक्षात्पदात् द्रष्टर्यर्थे इनिप्रत्ययो भवति साक्षिपदस्य संज्ञात्वे इति सूत्रार्थः ।

ननु साक्षिपदात् साक्षिलक्षणं बोद्धृत्वमात्रं प्रतीयते, न तु निर्वि­का­र­त्व­रू­प­मौ­दा­सी­न्य­मपि, तत् कथं साक्षिलक्षणे निर्विकारत्वमपि प्रक्षिप्यते, तत्राह —
लोकेऽपि हीति ।
अपि­श­ब्द­व्या­ख्या­न­म­व­धा­र­णम् । तच्च औदा­सी­न्य­बो­द्धृ­त्वयोः प्रत्येकं लक्ष­ण­त्व­श­ङ्का­व्य­व­च्छे­दा­र्थम् । हिश­ब्द­व्या­ख्यानं प्रसिद्धपदम् । लोके हि द्वयो­र्वि­व­द­मा­न­यो­स्सतोः ताभ्यामन्यः तयो­र्वि­वा­द­स्या­प­रो­क्ष­तया बोद्धा उदासीनश्च यो भवति स साक्षीत्युच्यते । अतः उदा­सी­न­त्व­वि­शे­ष­ण­मा­व­श्य­कम् । औदासीन्यमात्रं उक्तविवादस्थले स्तम्भा­दे­र­प्य­स्तीति तद्वारणाय बोद्धृ­त्व­वि­शे­ष­ण­मिति मन्तव्यम् । स्थूल­सू­क्ष्मा­त्म­क­दे­ह­द्व­या­व­च्छिन्नं स्वाव­च्छे­द­क­दे­ह­द्व­या­व­भा­सकं चैतन्यं साक्षीति यदुक्तं न तत् सम्भवति । तथाभूतचैतन्ये मानाभावात् । न च तदभावे देह­द्व­या­व­भा­सा­सि­द्धि­रिति वाच्यम् ।

प्रका­शा­त्म­का­न्तः­क­र­ण­वृ­त्ति­भि­रेव तत्सिद्धेः इति मत्वा शङ्कते —
यद्यपीति ।
जीव­प­द­म­ह­ङ्का­रा­त्म­का­न्तः­क­र­ण­प­रम्, नित्य­चै­त­न्य­स्या­न­ङ्गी­का­र­पक्षे जडा­ह­ङ्का­रा­ति­रि­क्त­जी­वा­भा­वात् वृत्ती­ना­म­न्तः­क­र­ण­प­रि­णा­म­तायाः ‘कामस्सङ्कल्पः’ इत्या­दि­श्रु­ति­सि­द्ध­त्वाच्च इति बोध्यम् ।

वृत्तीनां दीपादिवत् प्रका­शा­त्म­क­त्वेऽपि तासां जड­त्वा­द्दे­ह­द्व­या­व­भा­स­कत्वं न भवति, स्वप्र­का­श­नि­त्य­चै­त­न्या­भ्यु­प­गमे तु तत्प्र­ति­बि­म्ब­यु­क्तानां तासां देह­द्व­या­नु­भ­व­रू­पत्वं सम्भवति, अत­स्ता­दृ­श­चै­त­न्य­मु­पे­य­मि­त्य­भि­प्रा­ये­णाह —
तथापीति ।
किं च वृत्ती­ना­म­न्त­रा­ल­द­शासु देह­द्व­य­स्या­स्पष्टं भानं, देह­द्व­य­गो­च­र­वृ­त्तीनां सद्भावकाले तु ‘अहं कर्ता स्थूलोऽहम्’ इत्यादिरूपेण स्पष्टं भान­मि­त्य­नु­भ­व­सि­द्धम् ।

तत्रा­स्प­ष्ट­भा­नो­प­प­त्तये वृत्ति­ज्ञा­ना­ति­रिक्तं नित्य­सा­क्षि­चै­त­न्य­मु­पे­य­मि­त्या­श­ये­नाह —
सर्व­तः­प्र­सृ­ते­नेति ।
व्याप्ते­ने­त्यर्थः । देहद्वयं कूटस्थचैतन्येन ईषत् सदा भास्यमानमेव वृत्तिज्ञानैः स्फुटं अवभास्यत इति सम्बन्धः । जीवचैतन्यरूपो यः प्रतिबिम्बः तद्गर्भात् तद्यु­क्ता­दि­त्यर्थः । अनेन अन्तः­क­र­ण­प्र­ति­बिम्बो जीवः, बिम्बचैतन्यरूपः कूटस्थः साक्षी, इति जीव­सा­क्षि­णो­र्भेदो दर्शितः । यथा अग्नितप्तात् अयःपिण्डात् उद्गच्छन्तो विस्फुलिङ्गाः साग्नय एवोद्गच्छन्ति, एवं चैत­न्य­प्र­ति­बि­म्बो­पे­ता­द­न्तः­क­र­णात् उत्पद्यमाना वृत्तयोऽपि तत्प्र­ति­बि­म्ब­गर्भा एवोत्पद्यन्ते । अतस्तासां देहा­द्य­नु­भ­व­रू­पत्वं सम्भवतीति सूचयितुं अन्तःकरणस्य प्रति­बि­म्ब­ग­र्भ­त्व­मु­क्तम् । जाग्रदवस्थायां देहद्वयस्य साक्षि­चै­त­न्य­मा­त्रात् अस्पष्टतया भानावसरं दर्शयितुं विच्छि­द्य­वि­च्छि­द्ये­त्यु­क्तम् ।

तमेवावसरं स्पष्टमाह —
अन्त­रा­ल­का­ले­ष्विति ।
तुशब्दस्य व्याख्या­न­मे­व­कारः । देहद्वयं वृत्त्यभावैः सह अवभास्यते इति सम्बन्धः । वृत्त्य­भा­वै­रि­त्यस्य वृत्तीनां ध्वंसैरित्यर्थः । उपलक्षणं चैतत् । वृत्ती­ना­मु­त्प­त्ति­भि­र्वृ­त्ति­भे­दैश्च सहेत्यर्थः । अयं भावः — नित्य­चै­त­न्या­न­भ्यु­प­गमे वृत्त्यु­त्प­त्ति­वि­ना­श­त­द्भे­दा­देः­अ­प­रो­क्ष­तया भानं न स्यात् । स्वोत्प­त्ति­वि­ना­शयोः स्वग्रा­ह्य­त्वा­स­म्भ­वात्, वृत्ति­गो­च­रा­प­रो­क्ष­वृ­त्तीनां निरसिष्यमाणतया तयो­र्वृ­त्त्य­न्त­र­ग्रा­ह्य­त्वा­स­म्भ­वाच्च । तस्मात् वृत्ति­ना­शा­दि­सा­क्षि­त­यापि नित्य­चै­त­न्य­मु­पे­य­मिति ।

अत्रैव उपपत्त्यन्तरं दर्शयति —
अत एवेति ।
नित्य­चै­त­न्य­रू­प­सा­क्षि­स­द्भा­वा­दे­वे­त्यर्थः । अह­ङ्का­र­प्रा­ण­श­री­रा­दीनां योग्य­त­द्ध­र्म­सु­ख­दुः­खा­दीनां च सदा अह­ङ्का­रा­दि­स­त्ता­काले संश­या­दि­नि­वृ­त्ति­ल­क्ष­ण­फ­ल­भाक्त्वं तावदनुभवसिद्धम् । न हि कदाचिदपि ‘अहमासं न वा, अहं वर्ते न वा, अहं प्राणिमि न वा, अहं ब्राह्मणो न वा’ इत्यादिप्रकारेण अह­ङ्का­रा­दि­स­त्ता­सं­शयः कस्यचिदप्यस्ति । तच्च तेषां सदा­प्र­का­श­सं­सर्गं विना न सम्भवति । घटादीनां प्रका­श­सं­स­र्ग­द­शा­या­मेव संश­या­द्य­गो­च­र­त्व­द­र्श­नात् । सदा­प्र­का­श­सं­स­र्गित्वं अहङ्कारादीनां जन्यज्ञानपक्षे न सम्भवति । तेषा­मु­त्प­त्ति­वि­ना­श­व­त्त्वात् क्रमिकत्वात् प्रायेण बाह्य­वि­ष­य­गो­च­र­त्वाच्च । तस्मा­द­ह­ङ्का­रा­दीनां सदा संश­या­द्य­गो­च­र­त्व­नि­र्वा­हाय तेषां सदा साक्षि­चै­त­न्य­रू­प­प्र­का­श­सं­सर्गो वाच्य इति भावः ।

साक्षिसद्भावे उपपत्त्यन्तरमाह —
अन्यज्ञानेति ।
अहङ्कारग्रहणं धारा­न्त­र्ग­त­वृ­त्ती­ना­म­प्यु­प­ल­क्ष­णम् । नित्या­नु­भ­व­रू­प­सा­क्ष्य­ना­ङ्गी­कारे दिव्य­म­ङ्ग­ल­श्री­कृ­ष्ण­मू­र्ति­गो­च­र­वृ­त्ति­स­न्त­ति­का­ली­ना­ह­म­र्थस्य तत्का­ली­न­वृ­त्तीनां च तत्काले जन्या­नु­भ­वा­स­म्भ­वेन संस्का­रा­स­म्भ­वात् उत्त­र­त्रा­नु­स­न्धानं न स्यात् । न हि धाराकाले अहङ्कारगोचरो वा प्रत्येकं वृत्तिगोचरो वा जन्यानुभवः सम्भवति । धारा­वि­च्छे­द­प्र­स­ङ्गात् । वृत्ति­स­न्त­ते­रि­च्छा­घ­टि­त­सा­म­ग्री­क­त्वेन तद्वि­च्छे­दा­स­म्भ­वाच्च । तस्मा­द­न्य­ज्ञा­न­धा­रा­का­ली­ना­ह­म­र्था­दि­सा­क्षि­तया नित्यानुभवो वाच्य इति भावः ।

अनुसन्धानं चेति ।
सङ्गच्छत इति शेषः । ननु — साक्षि­चै­त­न्ये­ना­नु­भू­ता­ह­म­र्थ­त­द्वृ­त्तीनां कथं ‘अहं पश्यन्नेवासम्’ इति स्मरणं जीवस्य सम्भवति ।

अह­म­र्थ­भू­त­प्र­ति­बि­म्ब­जी­वा­पे­क्षया बिम्बभूतस्य कूट­स्थ­चै­त­न्या­त्म­क­सा­क्षिणो भिन्नत्वात्, अन्या­नु­भू­तेऽर्थे अन्य­स्म­र­णा­यो­गात् - इति शङ्कते —
न च कूटस्थेति ।

स्वेन स्वता­दा­त्म्या­प­न्नेन वा अनुभूतेऽर्थे स्वस्य स्मरणं भव­ती­त्य­ङ्गी­का­रा­न्ना­ति­प्र­सङ्गः, न हि देव­द­त्त­य­ज्ञ­द­त्त­जी­वयोः परस्परं तादात्म्यमस्ति, येन देव­द­त्ता­नु­भू­तेऽर्थे यज्ञदत्तम्य स्मरणप्रसङ्ग इति दोषो भवेत् इत्याशयेन परिहरति —
अन्यो­न्या­ध्या­से­नेति ।
तादा­त्म्या­ध्या­से­ने­त्यर्थः । जीवस्य कूटस्थे कल्पितत्वस्य प्रागेव निरूपितत्वादिति भावः । न च - एवमपि सर्वदेहेषु साक्षिण एकत्वात् देव­द­त्त­सा­क्षि­णाऽ­नु­भू­त­दे­व­द­त्ता­ह­ङ्का­रा­दिषु यज्ञ­द­त्ता­दे­र­प्य­नु­स­न्धा­न­प्र­सङ्गः, यज्ञदत्तादेरपि देव­द­त्त­सा­क्षि­ण्ये­वा­ध्य­स्त­तया तदेकत्वापत्तेः सत्त्वादिति - वाच्यम् । देह­द्व­य­रू­पा­व­च्छे­द­क­भे­देन तत्त­ज्जी­व­ता­दा­त्म्या­प­न्न­सा­क्षिणो भेदाभ्युपगमात् । एवमवच्छेदकभेदेन साक्षिभेदं ज्ञापयितुमेव स्वाव­च्छे­द­क­स्येति विशेषणं पूर्वमेव दत्तमिति बोध्यम् ।

ननु अस्तु जीवकूटस्थनामकं चैतन्यद्वयम्, तथापि जीव एव साक्षी किं न स्यादिति शङ्कते —
न चेति ।

किं कूटस्थेनेति ।
किं कूटस्थस्य साक्षि­त्वे­ने­त्यर्थः । न तु कूटस्थस्यैव आक्षेपः । तस्य साधितत्वात् ।

उदासीनस्यैव लोके साक्षित्वस्य प्रसिद्धत्वात् तदनुरोधेन श्रुत्यनुरोधेन च कूटस्थस्यैव साक्षित्वं न जीवस्येति परिहरति —
लौकिकेति ।

साक्षिणो लक्षणमाह श्रुतिः —
चेता केवल इति ।
चेता बोद्धा । केव­लः-अ­क­र्ता-उ­दा­सीन इति यावत् ।

‘ज्ञानादिगुणक आत्मा’ इति वैशेषिकादिमतं श्रुतिः स्वयमेव निराकरोति —
निर्गुणश्चेति ।
‘मध्यमपरिमाणः सक्रिय आत्मा’ इति दिग­म्ब­र­म­त­नि­रा­सा­र्थ­श्च­कारः । निष्क्रि­य­श्चे­त्यर्थः ।

साक्षिणो जीवात् भिन्नत्वे श्रुतिमप्याह —
तयोरन्य इति ।
जीव­कू­ट­स्थ­यो­र्मध्ये कूटस्थादन्यो जीवः पिप्पलं - कर्मफलं स्वादु यथाभवति तथा अत्ति - भुङ्क्ते । शरीरस्य अश्व­त्थ­वृ­क्ष­त्वेन निरूपितत्वात् कर्मफलस्य पिप्पलत्वेन रूपणमिति द्रष्टव्यम् । स्वाद्वत्तीति विशेषणं पुण्य­फ­ला­भि­प्रा­यम् । जीवादन्यः कूटस्थः अनश्रन् - अशनं कर्मफलभोगं अकुर्वन् अभिचाकशीति - अभि - आभिमुख्येन अपरोक्षतया चाकशीति - बुद्ध्या­दि­सा­क्षि­तया प्रकाशते इति यावत् । अत्र अनश्रन्नित्यनेन भोक्तृत्वे निषिद्धे सति कर्तृत्वमपि निषिद्धं भवति । तथा च अना­श्र­न्न­भि­चा­का­शी­ति­प­दाभ्यां उदासीनत्वे सति बोद्धृत्वरूपं साक्षित्वं प्रद­र्शि­त­मि­त्यर्थः ।

कूटस्थदीपे निरूपितः साक्षी अन्यत्रापि दृष्टा­न्त­वि­शे­ष­पू­र्वकं सुषुप्तिसाधारणो निरूपित इत्याह —
नाटकदीपेऽपीति ।

दृष्टा­न्त­प्र­ति­पा­दकं तत्रत्यश्लोकं पठति —
नृत्यशालास्थित इति ।
प्रभुं नृत्याभिमानिनं सभ्यान् तत्परिसरवर्तिनः ।

अविशेषेणेति ।
दीपो हि वृद्धिं प्राप्य प्रभुं प्रकाशयति, मध्यमावस्थां प्राप्य सभ्यान्, ततो निकृष्टावस्थां प्राप्य नर्तकीं इति प्रका­श्य­ता­र­त­म्या­नु­सा­रेण वृद्ध्या­दि­वि­कारं प्राप्य न दीपयेत्, किं तु एकरूपेणैव स्थितः सन् प्रका­श­ये­दि­त्यर्थः । इदं च विशेषणं दार्ष्टान्तिके निर्विकारस्य कूटस्थस्य साक्षि­त्व­ज्ञा­प­ना­र्थ­मिति मन्तव्यम् ।

तदभावेऽपीति ।
प्रभु­स­भ्या­द्य­भा­वेऽ­पी­त्यर्थः । ‘अहङ्कारः प्रभुः सभ्या विषया नर्तकी मतिः ।

ताला­दि­धा­री­ण्य­क्षाणि दीप­स्सा­क्ष्य­व­भा­सकः ॥’ [पं.द. १०-१४] इति दार्ष्टा­न्ति­क­स­ङ्ग्रा­हकं श्लोकं मनसि निधायाह —
तथेति ।

जीवस्य नृत्या­भि­मा­नि­प्र­भु­तु­ल्य­त्व­क­ल्प­ना­प्र­यो­जकं साम्यमाह —
विषयेति ।
नृत्य­सा­क­ल्य­वै­क­ल्य­प्र­यु­क्त­ह­र्षा­दि­मत्त्वं प्रभो­र­भि­मा­नि­प­देन सूचितम् । यथा सभ्याः प्रभु­प­रि­स­र­व­र्तिनः तथा रूपादयो विषयाः जीवपरिसरवर्तिनः ।

तथा च विषयाणां सभ्यसाम्यात् सभ्यत्वकल्पनं युक्त­मि­त्या­श­ये­नाह —
तत्प­रि­स­र­व­र्ति­त्वेऽ­पीति ।
तत्पदं जीवपरम् ।

ननु जीव­प­रि­स­र­व­र्ति­ना­मपि विषयाणां जीववत् प्रभु­तु­ल्य­त्व­मेव कुतो न कल्प्यते इत्याशङ्क्य तत्प्र­यो­ज­का­भा­वा­दि­त्या­श­ये­नाह —
तद्राहित्यादिति ।
प्रभु­तु­ल्य­त्व­क­ल्प­क­ह­र्ष­वि­षा­दा­दे­र­भा­वा­दि­त्यर्थः ।

यद्वा विषयाणां सभ्य­पु­रु­ष­सा­म्य­माह —
तद्राहित्यादिति ।

बुद्धे­र्न­र्त­की­सा­म्य­माह —
नानाविधेति ।
यथा तालार्दिधारिणः पुरुषाः नर्त­की­म­नु­व­र्तन्ते, एव­मि­न्द्रि­या­ण्यपि धियमनुवर्तन्ते, इत्यनेन साम्येन इन्द्रियाणां ताला­दि­धा­रि­पु­रु­ष­साम्यं श्लोकोपात्तं ‘धियं च’ इत्यत्र चशब्दार्थः । जीवा­दी­ना­म­व­भा­स­क­स्साक्षी दीपतुल्य इति चरमपादार्थः ।

तं संगृह्णाति —
दीप­य­न्नि­त्या­दिना ।
प्रका­श­य­न्नि­त्यर्थः । दीपयन्नित्यतः प्राक् जाग्रदादाविति शेषः ।

नाटकदीपे निरूपितः साक्षी कूट­स्थ­दी­पो­क्त­कू­टस्थ एव, नान्य इत्याशयेनाह —
चिदा­भा­स­वि­शि­ष्टेति ।
कूटस्थदीपे हि जीव­भ्र­मा­धि­ष्ठा­न­भू­त­कू­ट­स्थ­चै­तन्यं जीवादेरवभासकम् इत्युक्तम् । नाटकदीपे च ‘चिदा­भा­स­वि­शि­ष्टा­ह­ङ्कारं जीवं कल्पयित्वा तदवभासकं चैतन्यं साक्षीत्युक्तम् । ततश्च तत्रोक्तकूटस्थ एव अत्र साक्षी­त्य­व­ग­म्यते । अन्तः­क­र­ण­प्र­ति­बि­म्ब­रू­प­जी­वा­धि­ष्ठा­न­त्व­त­द­व­भा­स­क­त्वा­दि­नि­र्दे­श­सा­म्यात् । तथा च ‘नाटकदीपेऽपि नृत्य­शा­ला­स्थ­दी­प­दृ­ष्टा­न्तेन साक्षी जीवाद्विविच्य दर्शित’ इति पूर्वग्रन्थे ‘कूटस्थदीपे यःसाक्षी जीवात् भेदेन दर्शितः स एव नाटकदीपेऽपि ततो भेदेन दर्शितः’ इति विवक्षितार्थः सिद्ध इति भावः ।

साक्षी यथा जीवकोटिर्न भवति, जीवस्य उदा­सी­न­त्वा­भा­वात्, तथा ईश्वरकोटिरपि न भवति, जग­त्सृ­ष्टि­नि­य­म­ना­दि­व्या­पा­र­क­र्तृ­स्तस्य उदा­सी­न­त्वा­भा­वात्, ईश्वरस्य परोक्षतया जीवं प्रति बुद्ध्या­दि­सा­क्षि­तया नित्या­प­रो­क्ष­सा­क्षि­रू­प­त्वा­स­म्भ­वाच्च इत्याशयेनाह —
एवं जीवादिति ।
ब्रह्म­प­द­मी­श्व­र­परं, न तूदा­सी­न­चै­त­न्य­प­रम् ।

कस्तर्हि साक्षीति पृच्छति—
किंत्विति ।

उत्तरम् —
अस्पृष्टेति ।

उक्तमिति ।
‘इति शैवपुराणेषु कूटस्थः प्रविवेचितः । जीवे­श­त्वा­दि­र­हितः केव­ल­स्स्व­प्र­भ­श्शिवः’ ॥ [पं-द-८-५९] इति श्लोकेनेति शेषः । जग­द्रू­प­त्व­मा­दि­प­दार्थः ।

केवलः-उदासीनः शिवः-शुद्धः परमात्मेत्यर्थः ॥ई­श्व­र­त्वा­दि­ध­र्म­र­हि­त­श्चि­दा­त्मैव अन्यत्रापि साक्षित्वेनोक्त इति संवादार्थमाह —
तत्त्व­प्र­दी­पि­का­या­म­पीति ।
सर्वेषां जीवानां अन्तः­क­र­ण­ग­त­चि­त्प्र­ति­बि­म्बा­त्म­कानां प्रत्य­ग्भू­तं-अ­धि­ष्ठा­न­तया आन्तरं स्वरूपं विशु­द्धं-जी­व­त्वे­श्व­र­त्व­ज­ग­द्रू­प­त्व­र­हितं ब्रह्म जीवा­भे­दे­न-त­त्त­ज्जी­वा­धि­ष्ठा­न­त्वा­देव तत्त­ज्जी­व­ता­दा­त्म्या­पत्त्या प्रतिशरीरं प्राप्तभेदं सत् साक्षीति प्रतिपद्यते । इतिशब्दः प्रकारवाची सन् साक्षित्वमाह, साक्षित्वं प्रतिपद्यते । परमेश्वरस्यैव कश्चिद्रूपभेदः साक्षी नाम । कुतः, देव­त्वा­दि­श्रुतेः । न त्वीश्व­र­वि­ल­क्षणः साक्षी । देव­त्वा­दि­श्रु­ति­वि­रो­धात् इत्येवकारार्थः । देव­त्वा­दी­त्या­दि­प­देन सर्व­भू­ता­न्त­रा­त्म­त्वा­दि­धर्मा गृह्यन्ते । एतदुक्तं भवति — देवत्वादयो धर्माः श्रुति­स्मृ­त्या­दिषु पर­मे­श्व­र­ध­र्म­त्वेन प्रसिद्धा इति नान्यस्य साक्षित्वम् । देव­त्वा­दि­श्र­व­ण­वि­रो­धात् । यद्यपि देवत्वं हिर­ण्य­ग­र्भे­न्द्रा­दि­जी­व­सा­धा­रणं, तथाऽपि इत­र­ध­र्मा­णा­मी­श्व­रा­सा­धा­र­ण­त्वा­द्दे­व­त्व­म­पी­श्व­र­ग­त­मेव ग्राह्यमिति भावः ।

परमेश्वरस्य शिव­वि­ष्ण्वा­त्मना प्राप्तं भेदं निराचष्टे —
एक इति ।
बिम्बभूतस्य परमेश्वरस्य भूर्तिभेदेन शिव­वि­ष्णु­संज्ञा, न त्वीश्व­र­भे­दोऽ­स्ती­त्यर्थः । तथा च श्रुत्यन्तरं — ‘शाश्वतं शिवमच्युतम् [महाना.उ.११-३] इति । अच्युतपदस्य विष्णौ रूढत्वात् । ‘आवयोरन्तरं नास्ति शब्दै­र­र्थै­र्ज­ग­त्पते’ इत्या­दि­स्मृ­त­योऽ­प्यत्र शतशो द्रष्टव्याः । श्रुतौ सर्व­भू­ते­ष्वि­त्य­न­न्तरं वर्तत इति शेषः । तथा च स्मृतिः — ‘ईश्व­र­स्स­र्व­भू­तानां हृद्देशेऽर्जुन तिष्ठति’ [भ.गी. १८-६१] इति ।

तर्हि किमिति सर्वेषां नोपलभ्यते, तत्राह —
गूढ इति ।
तथा च स्मृतिः — ‘नाहं प्रहाशःसर्वस्य योगमायासमावृतः’ [भ.गी.७-२५] इति । श्रीकृ­ष्णोऽ­त्रा­हं­श­ब्दार्थः । प्रकाशः - प्रकाशमान इत्यर्थः ।

परमात्मनो भूतेषु अव­स्था­ना­भ्यु­प­गमे अधि­क­र­ण­भे­दा­त्त­स्यापि भिन्नत्वशङ्का स्यात्, तां वारयति —
व्यापीति ।

व्यापित्वेऽपि नभोवत् वस्तुतो जीवभिन्नत्वं वारयति —
सर्व­भू­ता­न्त­रा­त्मेति ।
सर्वभूतानां — ब्रह्मा­दि­स्त­म्ब­प­र्य­न्त­स­ङ्घा­तानां अन्तरवस्थित आत्मा, सर्वजीवस्वरूप इति यावत् ।

परमेश्वरस्य कर्म­क­र्तृ­जी­वा­भि­न्नत्वे तस्यापि तत्कर्तृत्वं स्यादिति, नेत्याह —
कर्माध्यक्ष इति ।
जीव­क­र्तृ­क­क­र्मणां साक्षी, न स्वयं तत्कर्तेत्यर्थः । जीव­प­र­मा­त्म­नो­रौ­पा­धि­क­भे­देन धर्मव्यवस्था सम्भवतीति भावः ।

सर्व­भू­ते­ष्वि­त्या­दिना परमात्मापेक्षया भेदेन भूतानां निर्देशात्तस्य सद्वि­ती­य­त्व­मा­श­ङ्क्याह —
सर्वभूताधिवास इति ।
अधि उपरि वसन्त्यस्मिन् भूतानीत्यधिवासः अधिष्ठानम् । सर्वेषां भूतानां अधिवासः सर्वभूताधिवासः । न चाधि­ष्ठा­ना­ति­रे­केण आरोपितानां पृथ­क्स­त्त्व­म­स्तीति नाद्वि­ती­य­त्व­वि­रोध इति भावः ।

न केवलं जीवगतकर्मणामेव साक्षी, किं तु जीवानामपि, इत्याशयेनाह —
साक्षीति ।
अवशिष्टा श्रुतिः प्रागेव व्याख्याता । अनु­म­न्ता-नै­र­न्त­र्येण बोद्धा ।

स्वयमुदासीन इति ।
जीवे व्यापारवत्यपि स्वयं तद्रहितः ।

रूपविशेषे साक्षि­ल­क्ष­ण­मुक्त्वा साक्षिपदं तत्र वर्तयति —
साक्षीनामेति ।
नामपदं श्रुति­प्र­सि­द्धि­द्यो­त­कम् । ननु-साक्षी जीवस्यापरोक्षः, तस्य अज्ञा­ना­न्तः­क­र­णा­द्य­नु­भ­व­रू­प­त्वा­ङ्गी­का­रात् ।

ईश्वरस्तु नित्यं परोक्षः, कार­ण­त्व­स­र्व­ज्ञ­त्व­स­र्व­नि­य­न्तृ­त्वा­दे­र्जीवं प्रत्य­यो­ग्य­त्वेन तद्वि­शि­ष्ट­बि­म्ब­चै­त­न्य­रू­पे­श्व­र­स्या­यो­ग्य­त्वात् इति चेत्, न, तस्य रूप­वि­शे­ष­त्वा­ङ्गी­का­रे­णा­प­रो­क्ष­त्वो­प­पत्तेः इत्याशयेनाह —
स चेति ।
न चेश्व­र­स्यै­ता­दृ­श­रू­प­भेदे मानाभावः शङ्कनीयः । ‘एको देवः’ इति मन्त्रस्य ‘अन­श्न­न्न­न्योऽ­भि­चा­क­शीति’ इति मन्त्रभागस्य च उदासीने परमेश्वररूपभेदे मानत्वात्, कार­ण­त्वा­दि­ध­र्मा­स्पदे चेश्वरे सृष्टिवाक्यानां सर्वेषामेव मानत्वात्, इति भावः । स च जीव­स्या­प­रो­क्षोऽ­न्त­र­ङ्ग­श्चेति सम्बन्धः ।

उभयत्र हेतुमाह —
जीव­ग­त­म­ज्ञा­ना­द्य­व­भा­स­य­न्निति ।
अन्तः­क­र­ण­त­द्ध­र्म­सु­ख­दुः­खा­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् । साक्षि­चै­त­न्य­म­ज्ञा­ना­द्य­व­भा­स­न­द्वारा ‘अहमज्ञः’, ‘अहं सुखी, अहं दुःखी’ इत्या­दि­व्य­व­हा­र­नि­र्वा­हकं भवति । अतस्साक्षी जीव­स्या­न्त­रङ्गः, लोके राजा­दि­व्य­व­व­हा­र­नि­र्वा­ह­क­पु­रुषे राजा­न्त­र­ङ्ग­त्वस्य प्रसि­द्ध­त्वा­दिति भावः । ननु-सु­षु­प्त्यादौ साक्ष्य­स्या­न्तः­क­र­ण­त­द्वृ­त्त्या­दे­रु­प­र­त­त्वात् तदा चिदा­त्म­न­स्सा­क्षित्वं न स्यात् ।

तथा च ‘तेभ्यो विलक्षणस्साक्षी चिन्मात्रोऽहं सदा शिवः’ [कै.उ.१८] इत्यादौ सुषुप्त्यादावपि तस्य साक्षि­त्व­व्य­व­हा­र­वि­रोधः इत्यत आह —
सुषुप्त्यादौ चेति ।

तेभ्य इति ।
भोक्त्रादिभ्य इत्यर्थः । तदापि मूलाज्ञानस्य साक्ष्यस्य सत्त्वात् न विरोध इति भावः ।

परमेश्वरस्यैव रूपविशेषात्मके साक्षिणि सुषु­प्त्यु­त्क्रा­न्ति­वि­ष­य­क­वा­क्य­द्व­य­मपि प्रमा­ण­मि­त्या­श­ये­नाह —
प्राज्ञशब्दित इति ।
सुषु­प्ति­वि­ष­य­क­वाक्ये उत्क्रा­न्ति­वि­ष­य­क­वाक्ये च प्राज्ञशब्देन यथोक्तसाक्षिण एव प्रति­पा­दि­त­त्वा­दिति भावः ।

ननु ‘सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन’ [ब्र.सू.१-३-४२] इत्यधिकरणे सुषु­प्त्या­दि­वि­ष­य­क­श्रु­ति­ग­त­प्रा­ज्ञ­श­ब्दस्य सर्वे­श्व­र­त्व­भू­ता­धि­प­ति­त्वा­दि­वि­शि­ष्ट­प­र­मा­त्म­प्र­ति­पा­द­क­ताया उक्तत्वात् कथं प्राज्ञशब्दस्य उदा­सी­ने­श्व­र­प­र­त्वम्, अत आह —
तद्यथेति ।
दृष्टान्तवाक्ये बाह्यं-र­थ्या­दि­वृ­त्तान्तं, आन्त­रं­गृ­ह­कृत्यं, पुरुषः-जीवः, प्राज्ञः-प­र­मात्मा, तेन सम्प­रि­ष्व­क्तः-सु­षु­प्ता­वु­पा­धि­ल­या­दे­की­भावं प्राप्तः, [दार्ष्टा­न्ति­क­वाक्ये] बाह्यं-जा­ग्र­त्प्र­प­ञ्चम्, आन्त­रं-स्व­प्न­प्र­पञ्चं, किञ्च­न-कि­ञ्चि­दपि ।

उत्क्रा­न्ति­वा­क्य­मु­दा­ह­रति —
प्राज्ञे­ना­त्म­नाऽ­न्वा­रूढ इति ।
अन्वारूढः - अधिष्ठितः उत्स­र्ज­न्-वे­द­ना­व­शात् शब्दं कुर्वन् याति-शरीरात् बहि­र्नि­र्ग­च्छ­ति­उ­त्क्रा­म­ती­त्यर्थः । अवस्थयोरिति सप्तमी । प्रतिपादित इत्यनन्तरं प्राज्ञ इति शेषः । तथा चा वाक्याभ्यां जीवात् भेदेन प्रतिपादितः प्राज्ञः परमेश्वर इति निर्णयोऽपि साक्षिपरः इत्युपवर्णितं कौमुद्यामिति सम्बन्धः । बृह­दा­र­ण्य­क­ष­ष्ठा­ध्यायो जीवा­नु­वा­द­मा­त्र­रूपो न तद­ति­रि­क्ते­श्व­र­पर इति पूर्वपक्षे प्राप्ते सिद्धान्तः — ‘तद्यथा प्रियया’ इत्या­दि­वा­क्य­यो­स्सु­षु­प्त्य­व­स्था­या­मु­त्क्रा­न्त्य­व­स्थायां च पुरु­ष­श­ब्दि­त­जी­वा­पे­क्षया भेदेन परमेश्वरस्य तृती­या­न्त­प्रा­ज्ञ­श­ब्देन व्यपदेशात् न षष्ठाध्यायो जीवा­नु­वा­द­मा­त्र­रूपः । किं तु तद­ति­रि­क्ते­श्व­र­प्र­ति­पा­द­न­परः । तत्प्रतिपादनं च लोक­सि­द्ध­जी­वा­नु­वा­देन तस्य ईश्व­रा­भे­द­प्र­ति­पा­द­ना­र्थम् ।

तथा च वाक्यशेषो दृश्यते —
‘स वा एष महानज आत्मा योऽयं विज्ञानमयः’ [बृ.उ. ४-४-२२] इति ।
यो विज्ञानमयो जीवः स एष महा­ना­त्मा-पूर्णः परमात्मा इत्यर्थः - इति तदधिकरणनिर्णयः । ननु - अस्य निर्णयस्य उदा­सी­ने­श्व­र­रू­प­सा­क्षि­प­र­त्व­म­नु­प­प­न्नम् । ‘स वा एष महानज आत्मा’ इत्येतदनन्तरं ‘एष सर्वेश्वर एष भूताधिपतिः’ इत्यादिना तस्य सर्वे­श्व­र­त्वा­दि­गु­ण­जा­त­प्र­ति­पा­द­नात् - इति चेत्, न - ज्ञेय­ब्र­ह्म­प्र­क­र­ण­ग­त­स­र्वे­श्व­र­त्वा­दि­व­च­नस्य स्तुति­मा­त्र­प­र­त्वा­दिति भावः ।

कौमुदीकारमतस्य संवादार्थं मता­न्त­र­मु­प­न्य­स्यति —
तत्त्व­शि­द्धा­व­पीति ।
‘इदं रजतम्’ इतिभ्रमस्थले रजताभेदेन प्रतिभासमानोऽपि इदमंशः राजतान्तर्भूतो न भवति । रजतवत्तस्य बाधाभावात् । नापि शुक्ता­वे­वा­न्त­र्भ­वति तस्य शुक्त्यं­श­व­द­ज्ञा­त­त्व­प्र­स­ङ्गात् । अतो यथा इदमंशस्य वस्तु­त­श्शु­क्ति­रू­पत्वं प्रतिभासतो रजताभिन्नत्वम्, एवं साक्षिणोऽपि वस्तुगत्या ईश्वररूपभेदत्वं कल्पि­त­त­त्त­ज्जी­वा­धि­ष्ठा­न­रू­पस्य साक्षि­ण­स्सु­खा­द्य­नु­भ­वितुः ‘अहं सुखमनुभवामि’ इत्या­दि­प्र­ति­भा­सतः तत्त­ज्जी­वा­भि­न्न­त्वम् । अतो जीवस्य सुखादिव्यवहारे तस्य-सु­खा­द्य­नु­भ­वितुः जीवै­क­त्व­मा­प­न्नस्य उपयोगः इत्यर्थः ।

अयमेवेति ।
साक्षिणो वस्तुतो​​ऽपि जीवान्तर्भावे तस्य ब्रह्म­को­टि­त्वो­क्ति­वि­रो­धात् तस्य ईश्वररूपभेदत्वं तत्त्व­शु­द्धि­का­रा­भि­म­त­मिति गम्यत इति भावः ।

जीव­सा­क्षि­णो­र्भे­द­प­क्षा­नु­प­न्यस्य तयो­र­भे­द­प्र­क्षा­वु­प­न्य­स्यति —
केचिदित्यादिना ।
जीव एव साक्षीति सम्बन्धः । नत्वीश्वरस्य रूपभेदः साक्षी तत्र मानाभावात् इत्ये­व­का­रा­भि­प्रायः ।

जीवस्य साक्षि­त्वा­भ्यु­प­गमे हेतुमाह —
साक्षा­द्द्र­ष्टृ­त्वा­दिति ।

तस्य औदासीन्यं सूचयति —
अविद्योपाधिक इति ।

एतदेव प्रपञ्चयितुं इदमेव साक्षिलक्षणं नान्यत् इति पूर्वोक्तं स्मारयति —
लोकेऽपि हीति ।

पूर्वं सङ्ग्रहेणोक्तं जीवस्यैव साक्षित्वं प्रपञ्चयति —
तच्चेति ।

साक्षादिति ।
अवि­द्या­प्र­ति­बि­म्ब­रू­प­जी­वस्य स्वत­स्स­म्भ­व­ती­त्यर्थः । अनेन कॢप्तस्य जीवस्यैव साक्षित्वसम्भवे तद­ति­रि­क्तः­साक्षी न कल्पनीयः गौरवात् इति सूचितम् ।

ननु लौकि­क­वै­दि­क­व्य­व­हा­र­क­र्तृ­रौ­दा­सी­न्य­म­सि­द्ध­मि­त्युक्तं इत्याशङ्क्य, बुद्धि­ता­दा­त्म्य­प्र­यु­क्त­मेव कर्तृत्वादिकं स्वतस्तु उदा­सी­न­त्व­मि­त्यु­प­ग­मात् तस्य साक्षित्वं सम्भवतीत्याह —
जीव­स्या­न्तः­क­र­णेति ।

नन्वीश्वरस्य साक्षि­त्वा­नु­प­गमे मन्त्रविरोध इत्यत आह —
एको देव इति मन्त्रस्त्विति ।
साक्षी तावत् जीवस्यापरोक्ष इत्युक्तम् । ईश्वरस्य तु उदा­सी­न­स्या­प्य­प­रो­क्षत्वं न सम्भवति । बिम्ब­रू­प­स्ये­श्व­रस्य जीवा­दौ­पा­धि­क­भे­द­स­त्त्वेन जीवं प्रति जीवा­न्त­र­चै­त­न्य­स्येव अप­रो­क्ष­त्वा­यो­गात् । अतो जीव­भा­वा­प­न्न­ब्र­ह्मा­भि­प्रायो मन्त्र­ग­त­सा­क्षि­प्र­ति­पा­द­क­भाग इति भावः । ऐश्व­र­रू­प­भे­द­स्या­प­रो­क्ष­त्वा­नु­प­प­त्ति­रू­प­हेतुः मन्त्रस्त्विति तुशब्देनोक्त इति ध्येयम् । ननु-गुहाधिकरणे यथा ‘गुहां प्रविष्टौ’ [क.उ.३-१] इति मन्त्रो जीवेश्वरोभयपरः तथा ‘द्वा सुपर्णा’ [मु.उ.३-१-३] इति मन्त्रोऽपि जीवेश्वरोभयषर इत्युक्तं भाष्ये । तथा ‘च द्वासुपर्णा’ इति मन्त्रे ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ इति वाक्यं जीवविषयं ‘अन­श्न­न्न­न्योऽ­भि­चा­क­शीति’ इति वाक्यं पर­मे­श्व­र­वि­ष­य­मिति पर्यवस्यति ।

ततश्च जीवस्य साक्षित्वमिति पक्षे ईश्वरस्य साक्षि­त्व­प्र­ति­पा­द­केन ‘अनश्न्नन्यः’ इति मन्त्रभागेन विरोधः - इत्याशङ्क्याह —
द्वा सुपर्णेति मन्त्र इति ।
यदा मन्त्रः जीवेश्वरोभयपरः, तदापि न विरोधः कश्चित् । ‘एको देवः’ इति मन्त्रवत् ‘द्वा सुपर्णा’ इति मन्त्रस्यापि जीव­भा­वा­प­न्न­प­र­मा­त्म­प­र­त्वा­भ्यु­प­ग­मा­दि­त्यर्थः । ननु — गुहाधिकरणभाष्ये पैङ्गि­र­ह­स्य­ब्रा­ह्म­ण­मु­दा­हृ­तम् । तच्चेदं ब्राह्मणं — ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्वम्, अन­श्न­न्न­न्योऽ­भि­चा­क­शी­ती­त्य­न­श्न­न्न­न्योऽ­भि­प­श्यति ज्ञः, तावेतौ सत्व­क्षे­त्रज्ञौ’ इति । अनेन ब्राह्मणेन अद­न­वा­क्य­म­न्तः­क­र­ण­वि­षयं अनशनवाक्यं क्षेत्रज्ञविषयं इति व्याख्यातम् । न च ब्राह्मणेनैव सत्व­क्षे­त्र­ज्ञ­प­र­त्वेन मन्त्रे व्याख्यायमाने कथं भाष्यकारैरस्य मन्त्रस्य जीवे­श्व­र­प­र­त्व­मु­क्त­मिति वाच्यम् । तदुक्तेः कृत्वा­चि­न्ता­मा­त्र­त्वेन विरोधाभावात् । तथा चान्तः­क­र­ण­प्र­ति­बि­म्ब­रूपो जीवो यदि पैङ्गि­ब्रा­ह्म­णा­भि­मतः क्षेत्रज्ञः स्यात्, तदा तस्यै­वा­न­श्न­न्निति वाक्योक्तं साक्षित्वं स्यात्, नावि­द्या­प्र­ति­बि­म्बस्य ।

तथा चावि­द्या­प्र­ति­बि­म्ब­रू­पस्य ब्रह्मस्वभावस्य जीवस्य साक्षित्वपक्षः पैङ्गि­ब्रा­ह्म­ण­नि­र्णी­ता­र्थ­क­द्वा­सु­प­र्णे­ति­म­न्त्र­भा­ग­वि­रुद्धः प्रसज्येत - इत्याशङ्क्याह —
गुहा­धि­क­र­ण­भा­ष्यो­दा­हृ­तेति ।

न कश्चिद्विरोध इति ।
पैङ्गि­ब्रा­ह्म­णा­भि­प्रेतः क्षेत्रज्ञो नान्तः­क­र­ण­ग­त­चै­त­न्य­प्र­ति­बि­म्ब­रूपो जीवः । तस्य कर्तृ­भो­क्तृ­स्व­भा­व­त्वेन अनश्नन्निति वाक्यो­क्त­सा­क्षि­त्वा­स­म्भ­वात् । किं तु अस­ङ्गो­दा­सी­न­प्र­का­श­रूपः अवि­द्या­प्र­ति­बि­म्ब­रू­प­जीव एव ब्राह्म­णा­भि­प्रेतः क्षेत्रज्ञः । तस्या­न­श­न­वा­क्यो­क्त­सा­क्षि­त्व­स­म्भ­व­स्यो­प­पा­दि­त­त्वात् । अतः अवि­द्या­प्र­ति­बि­म्ब­रू­प­जी­वस्य साक्षित्वपक्षे न पैङ्गि­र­ह­स्य­ब्रा­ह्म­णानु रोधिमन्त्रविरोध इत्यर्थः ।

अविद्यायां चैत­न्य­प्र­ति­बि­म्ब­रू­प­जी­व­स्यैव साक्षि­त्व­मु­पेत्य तत्र कञ्चिद्विशेषं वक्तुं मतान्तरमवतारयति —
अन्ये त्विति ।
न त्वविद्यायां चिद्बी­म्ब­भू­ते­श्व­रः­साक्षी, तस्या­प­रो­क्ष­त्वा­नु­प­प­त्ते­रि­त्ये­व­का­रा­भि­प्रायः ।

रूपेणेति ।
साक्षी­त्य­नु­षङ्गः ।

सर्व­श­री­र­सा­धा­र­णा­वि­द्यो­पा­धि­कस्य साधारणरूपेण साक्षित्वाभावे हेतुमाह —
पुरुषान्तरेति ।
यज्ञ­द­त्ता­न्तः­क­र­ण­त­द्वृ­त्ती­ना­मि­त्यर्थः ।

पुरुषान्तरं प्रतीति ।
देवदत्तं प्रतीत्यर्थः ।

स्वेति ।
स्वस्य देव­द­त्त­स्या­न्तः­क­र­ण­भा­सको यस्साक्षी तेन साक्षिणा सह देव­द­त्ता­न्तः­क­र­ण­स्येव यज्ञ­द­त्ता­न्तः­क­र­णा­दी­ना­मपि संस­र्गा­वि­शे­षा­द्दे­व­द­त्तस्य यथा स्वान्तः­क­र­ण­प्र­त्यक्षं तथा यज्ञ­द­त्ता­न्तः­क­र­ण­त­द्वृ­त्त­योऽपि देवदत्तस्य प्रत्य­क्षाः­स्यु­रि­त्यर्थः । अत्र पुरुषान्तरं प्रति पुरु­षा­न्त­रा­न्तः­क­र­णा­दी­ना­मपि प्रत्य­क्ष­त्वा­प­त्ते­रिति सम्बन्धः । तत्र हेतुः स्वान्तः­क­र­णे­त्यादिः इति विभागः ।

सर्वशरीरेषु साक्षिण एकत्वेऽपि प्रतिशरीरं प्रमा­तृ­भे­दा­न्नो­क्त­दोष इत्याशङ्कते —
न चेति ।

देवदत्तं प्रति तदन्तःकरणादेः प्रत्यक्षत्वे हि देव­द­त्त­सा­क्षि­सं­सर्गः प्रयोजकः, तथा च यज्ञ­द­त्ता­न्तः­क­र­णा­दी­ना­मपि देवदत्तं प्रत्य­प­रो­क्ष­त्व­प्र­यो­ज­कस्य देव­द­त्त­सा­क्षि­सं­स­र्ग­स्या­वि­शे­षेण तं प्रत्य­प­रो­क्ष­त्वा­पा­द­ना­त्मको दोषः प्रत्य­क्ष­त्व­प्र­यो­ज­क­सा­क्षि­सं­स­र्ग­भे­दे­नैव परिहर्तव्यः, नाप्र­यो­ज­क­प्र­मा­तृ­भे­देन - इति दूषयति —
साक्षिभास्य इति ।

साक्ष्यभेदे इति ।
साक्षिण एकत्वे सतीत्यर्थः ।

अप्र­यो­ज­क­त्वा­दिति ।
देवदत्तं प्रति तदी­या­न्तः­क­र­णा­दि­क­मेव प्रत्यक्षं नान्य­दी­या­न्तः­क­र­णा­दि­क­मिति व्यवस्थायामिति शेषः ।

तस्मादिति ।
अवि­द्यो­पा­धि­क­जी­वस्य साधारणरूपेण साक्षि­त्वा­स­म्भ­वा­दि­त्यर्थः ।

तथा चेति ।
साक्षि­भे­द­प्र­यो­ज­को­पा­धि­भे­द­वि­व­क्षायां सत्यामित्यर्थः ।

तद­यो­ग्य­त्वा­द्वेति ।
पुरुषान्तरं प्रत्य­यो­ग्य­त्व­क­ल्प­नाद्वा प्रत्य­क्ष­त्वा­भाव उपपद्यते इत्यर्थः ।

ननु-अ­वि­द्या­प्र­ति­बि­म्ब­रू­प­जी­वस्य अवि­द्यो­पा­धि­क­त्वे­नैव रूपेण साक्षित्वे सति तस्य सुषु­प्ति­सा­धा­रण्यं सम्भवति, प्रतिशरीरं साक्षि­भे­द­सि­द्ध­यर्थं तस्या­न्तः­क­र­णो­प­हि­त­त्वेन रूपेण साक्षित्वे तु सुषु­प्ति­सा­धा­रण्यं तस्य न सम्भवति सुषुप्तावन्तः करणलयश्रवणात्, इत्याशङ्क्याह —
सुषुप्तावपीति ।

शङ्कते —
न चान्तः­क­र­णो­प­हि­त­स्येति ।
अवि­द्या­प्र­ति­बि­म्ब­रू­प­जी­व­स्येति शेषः ।

न तस्येति ।
अन्तः­क­र­णो­प­हि­त­जी­वस्य साक्षित्वं न सम्भवति, तस्य प्रमातृत्वात्, अन्यथा प्रमातुरेव साक्षि­त्वा­पत्त्या साक्षि­प्र­मा­त्रो­र्भेदो न स्यादिति भावः ।

इष्टा­प­त्ति­मा­श­ङ्क्याह —
सुषुप्ताविति ।

प्रमा­त्र­भा­वेऽ­पीति ।
‘अथास्मिन् प्राण एवैकधा भवति’ [कौ.उ.३-३] इति श्रुतौ सुषुप्तिकाले प्राणशब्दिते पर­मा­त्म­नि­ए­की­भा­व­ल­क्ष­णस्य प्रमातृलयस्य श्रवणादिति भावः ।

साक्षि­स­त्त्वे­नेति ।
सुषुप्तिकाले साक्षि­ण­स्स­त्त्व­म­वश्यं वाच्यम् । तत्काले तत्सत्त्वस्य ‘त्रिषु धामसु’ [कै.उ.१८] इत्या­दि­ब­हु­श्रु­ति­सि­द्ध­त्वात् । धामसु अवस्थासु (???) इत्यर्थः । तत्काले साक्षि­णाऽ­नु­भू­ता­ना­म­ज्ञा­न­सु­ख­सु­षु­प्तीनां उत्थितस्य ‘न किंचिदवेदिषं सुखमस्वाप्सम्’ इति स्मरणदर्शनाच्च । न च ‘अहमस्वाप्सम्’ इति स्वापा­दि­व­द­ह­म­र्थस्य प्रमातुरपि सुषु­प्ति­का­ली­न­त्वे­न­स्म­र­ण­द­र्श­नात् तस्यापि तदा सत्त्वं वाच्यमेवेति वाच्यम् । सुषुप्तौ प्रमा­तृ­ल­य­प्र­ति­पा­द­क­ब­हु­श्रु­ति­वि­रो­धेन ‘अहमस्वाप्सम्’ इत्यादिस्मरणस्य अहमर्थांशे अनु­भ­व­रू­प­त्व­क­ल्प­नात् न प्रमातुः तदा सत्त्वमावश्कम् । तथा च सुषुप्तिकाले सद­स­तो­स्सा­क्षि­प्र­मा­त्रो­र­भे­दा­यो­गात् प्रमा­तु­स्स­का­शात् साक्षी भिन्न एव वाच्य इत्यर्थः । प्रमा­तृ­सा­क्षि­णो­र­भे­द­पक्षे प्रमा­तु­रु­दा­सी­न­त्वा­भा­वेन साक्षि­त्वा­स­म्भ­व­रू­प­दो­ष­स­ङ्ग्र­हा­र्थ­श्च­कार इति बोध्यम् ।

न च वाच्यमित्यत्र हेतुमाह —
अन्तःकरणविशिष्ट इति ।
अन्तः­क­र­ण­स्या­वि­द्यो­पा­धिके जीवे विशेषणत्वेन प्रमा­तृ­त्व­प्र­यो­ज­क­त्वम्, उपाधित्वेन साक्षि­त्व­प्र­यो­ज­क­त्वम् । तथा च विशिष्टोपहितयोः प्रमा­तृ­सा­क्षि­णो­र्भेदः, विशिष्टस्य प्रमातुः कर्तृ­भो­क्तृ­स्व­भा­व­त्वेऽपि उप­हि­त­स्यो­दा­सी­न­त्वात् साक्षित्वं सम्भवतीत्यर्थः ।

ननु-वि­शे­ष­ण­त्वस्य उपाधित्वस्य च भेदे सति एक­स्या­प्य­न्तः­क­र­णस्य विशे­ष­ण­त्वा­दि­रू­पेण भेदं कल्पयित्वा तद्विशिष्टस्य प्रमातृत्वं तदुपहितस्य साक्षित्वमिति व्यवस्था सिद्ध्यति, तयोर्भेद एव कथमिति, अत आह —
विशे­ष­णो­पा­ध्यो­रिति ।
कार्यान्वयित्वे सति व्यावर्तकत्वं देव­द­त्त­गृ­ह­त्वस्य कार्यस्य उपलक्षणे काके नास्त्यन्वयः, गृहा­न्त­र­व्या­व­र्त­कत्वं त्वस्तीति तत्रा­ति­व्या­प्ति­वा­र­णाय सत्यन्तम् । कार्यान्वयिनि विशेष्ये उत्पलादौ अति­व्या­प्ति­वा­र­णाय विशेष्यदलम् । कार्या­न­न्व­यित्वे सति व्यावर्तकत्वे सति कार्यान्वयकाले विद्यमानत्वं उपाधित्वम् । यथा ‘लोहि­त­स्फ­टि­क­मा­नय’ इत्यादौ स्फटि­क­स­न्नि­हि­तस्य जपाकुसुमस्य उपाधित्वम्, तस्य आन­य­न­ल­क्ष­ण­का­र्या­न्व­या­भा­वात् स्फटि­का­न्त­र­व्या­व­र्त­क­त्वात् आनयनान्वयकाले विद्यमानत्वाच्च । तत्र प्रथमसत्यन्तं विशेषणे नैल्या­दा­व­ति­व्या­प्ति­वा­र­णाय । न च विशे­ष­ण­त्वे­ना­भि­म­त­नै­ल्या­दि­क­म­प्यत्र लक्ष्यमेवेति वाच्यम् । जपा­कु­सु­मा­दा­वु­पा­धि­त्व­व्य­व­हा­र­वत् नैल्यादौ तथा­व्य­व­हा­रा­भा­वात्, जपाकुसुमादौ स्फटि­का­दि­वि­शे­ष­ण­त्व­व्य­व­हा­रा­भा­वाच्च । तथा च विषे­ष­णो­पा­ध्यो­र्भे­दा­व­श्यं­भावे सति विशे­ष­ण­त्वा­भि­म­त­नै­ल्या­दे­र­ल­क्ष्य­त्वात् तत्रा­ति­व्या­प्ति­वा­रणं युक्तमेव । ‘काकवत् गृहं प्रविश’ इत्यत्र प्रवे­श­रू­प­का­र्या­न्व­य­काले यदि दैव­यो­गा­दु­प­ल­क्ष­ण­भू­त­का­क­स्या­न्यत्र गमनं, काकान्तरस्य तद्गृहे आगमनं, तदा तत्रागतकाकस्य पूर्व­स्थि­त­का­क­व­द्व्या­व­र्त­कत्वं नास्ति । तथा च तत्रागतकाके प्रवेशानन्वयिनि विद्यमाने उपाधित्वरहिते अति­व्या­प्ति­वा­र­णाय द्विती­य­स­त्य­न्तम् । उक्तस्थल एव उपलक्षणीभूतकाके अति­व्या­प्ति­वा­र­णाय विशेष्यदलम् । न च यत्र उप­ल­क्ष­णी­भू­त­का­क­स्यैव कार्यकालेऽपि दैवात् विद्यमानत्वं तत्रोपलक्षणकाके कृत्स्नं लक्ष­ण­म­स्ती­त्य­ति­व्या­प्ति­रिति वाच्यम् । कार्यकाले नियमेन विद्यमानत्वस्य विवक्षितत्वात् । नन्वेवमपि ‘लोहि­त­स्फ­टि­क­मा­नय’ इत्यत्र क्वचित् वाक्यश्रवणकाले सत एव जपाकुसुमस्य स्फटिकानयनकाले दैवा­द­वि­द्य­मा­न­त्व­स­म्भ­वात् जपाकुसुमस्यापि कार्यकाले विद्य­मा­न­त्व­नि­यमो नास्तीति चेत्, तर्हीदं लक्षणं श्रोत्र­त्वो­पा­धि­क­र्ण­श­ष्कुल्यां अन्तःकरणादौ च विवक्षितमस्तु । जपाकुसुमस्य अन्यस्य वा तत्तुल्यस्य स्वनि­ष्ठ­ध­र्मा­स­ञ्ज­क­त्व­रूपं प्रसि­द्ध­मे­वो­पा­धि­त्व­मस्तु । न चाननुगमः । स्वनि­ष्ठे­त्या­दि­ल­क्ष­णो­पा­धि­त्वस्य प्रसिद्धोपाधौ कर्णवलये बिम्ब­प्र­ति­बि­म्ब­भे­द­पक्षे दर्पणादौ स्वोप­हि­त­बि­म्ब­मुखे स्वध­र्मा­ना­स­ञ्जके च बाधितत्वेन तत्स­ङ्ग्रा­ह­क­ल­क्ष­णा­न्त­र­क­र­ण­स्या­व­श्य­क­तया तस्यादोषत्वात् । अनु­ग­त­ल­क्ष­ण­स­म्भवे हि तस्य दोषत्वं प्रसिद्धम् । तथा च प्रकृ­तेऽ­न्तः­क­र­णस्य उभ­य­वि­धो­पा­धि­त्व­स­म्भ­वात् ‘कार्या­न­न्व­यित्वे सति’ इत्या­दि­ल­क्ष­णा­नु­रो­धेन अन्तःकरणोपहितो जीवः साक्षी इत्युपगमे साक्षित्वं जीव­चै­त­न्य­मा­त्र­निष्ठं पर्यवस्यति । जीवचैतन्यमात्रं तु उदासीनमेवेति नोपहितस्य साक्षि­त्वा­नु­प­पत्तिः न वा प्रमा­तृ­सा­क्षिणोः साङ्कर्यमिति संक्षेपः ।