कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
साक्षिस्वरूपनिर्णयवादः
सुखादिधर्मिणोऽहङ्कारस्य साक्षिप्रत्यक्षविषयत्वोक्त्या अहमर्थजीवापेक्षया भिन्नः तत्साक्षी निर्दिष्टः । सुखादिधर्मिणोऽहङ्कारस्यैव लोके जीवत्वप्रसिद्धेः । तथा च योऽयं जीवभिन्नः साक्षी व्यवह्रियते स नास्ति मानाभावात् इत्याक्षिपति —
अथेति ।
यः साक्षी जीवातिरेकेण व्यवह्रियते अयं क इति सम्बन्धः । किंशब्द आक्षेपार्थः ।
मानाभावोऽसिद्ध इत्याशयेनाह —
अत्रोक्तमिति ।
साक्षादीक्षणादिति ।
अपरोक्षतया द्रष्टृत्वादित्यर्थः ।
निर्विकारत्वाच्चेति ।
ननु द्रष्टृत्वं दृष्टिक्रियाकर्तृत्वम्, निर्विकारत्वं च कर्तृत्वादिविकारराहित्यम्, तथा च तयोः परस्परविरोध इति चेत् - न - दृष्टिस्वरूप एव कूटस्थे तत्कर्तृत्वस्य ‘साक्षाद्द्रष्टरि संज्ञायाम्’ [पा.सू.५-२-९१] इति सूत्रानुसारेण साक्षिशब्दात् प्रतीतस्य सवितरि प्रकाशात्मके ‘प्रकाशते’ इति प्रकाशकर्तृत्ववत् उपचारमात्रत्वात् । साक्षात्पदात् द्रष्टर्यर्थे इनिप्रत्ययो भवति साक्षिपदस्य संज्ञात्वे इति सूत्रार्थः ।
ननु साक्षिपदात् साक्षिलक्षणं बोद्धृत्वमात्रं प्रतीयते, न तु निर्विकारत्वरूपमौदासीन्यमपि, तत् कथं साक्षिलक्षणे निर्विकारत्वमपि प्रक्षिप्यते, तत्राह —
लोकेऽपि हीति ।
अपिशब्दव्याख्यानमवधारणम् । तच्च औदासीन्यबोद्धृत्वयोः प्रत्येकं लक्षणत्वशङ्काव्यवच्छेदार्थम् । हिशब्दव्याख्यानं प्रसिद्धपदम् । लोके हि द्वयोर्विवदमानयोस्सतोः ताभ्यामन्यः तयोर्विवादस्यापरोक्षतया बोद्धा उदासीनश्च यो भवति स साक्षीत्युच्यते । अतः उदासीनत्वविशेषणमावश्यकम् । औदासीन्यमात्रं उक्तविवादस्थले स्तम्भादेरप्यस्तीति तद्वारणाय बोद्धृत्वविशेषणमिति मन्तव्यम् । स्थूलसूक्ष्मात्मकदेहद्वयावच्छिन्नं स्वावच्छेदकदेहद्वयावभासकं चैतन्यं साक्षीति यदुक्तं न तत् सम्भवति । तथाभूतचैतन्ये मानाभावात् । न च तदभावे देहद्वयावभासासिद्धिरिति वाच्यम् ।
प्रकाशात्मकान्तःकरणवृत्तिभिरेव तत्सिद्धेः इति मत्वा शङ्कते —
यद्यपीति ।
जीवपदमहङ्कारात्मकान्तःकरणपरम्, नित्यचैतन्यस्यानङ्गीकारपक्षे जडाहङ्कारातिरिक्तजीवाभावात् वृत्तीनामन्तःकरणपरिणामतायाः ‘कामस्सङ्कल्पः’ इत्यादिश्रुतिसिद्धत्वाच्च इति बोध्यम् ।
वृत्तीनां दीपादिवत् प्रकाशात्मकत्वेऽपि तासां जडत्वाद्देहद्वयावभासकत्वं न भवति, स्वप्रकाशनित्यचैतन्याभ्युपगमे तु तत्प्रतिबिम्बयुक्तानां तासां देहद्वयानुभवरूपत्वं सम्भवति, अतस्तादृशचैतन्यमुपेयमित्यभिप्रायेणाह —
तथापीति ।
किं च वृत्तीनामन्तरालदशासु देहद्वयस्यास्पष्टं भानं, देहद्वयगोचरवृत्तीनां सद्भावकाले तु ‘अहं कर्ता स्थूलोऽहम्’ इत्यादिरूपेण स्पष्टं भानमित्यनुभवसिद्धम् ।
तत्रास्पष्टभानोपपत्तये वृत्तिज्ञानातिरिक्तं नित्यसाक्षिचैतन्यमुपेयमित्याशयेनाह —
सर्वतःप्रसृतेनेति ।
व्याप्तेनेत्यर्थः । देहद्वयं कूटस्थचैतन्येन ईषत् सदा भास्यमानमेव वृत्तिज्ञानैः स्फुटं अवभास्यत इति सम्बन्धः । जीवचैतन्यरूपो यः प्रतिबिम्बः तद्गर्भात् तद्युक्तादित्यर्थः । अनेन अन्तःकरणप्रतिबिम्बो जीवः, बिम्बचैतन्यरूपः कूटस्थः साक्षी, इति जीवसाक्षिणोर्भेदो दर्शितः । यथा अग्नितप्तात् अयःपिण्डात् उद्गच्छन्तो विस्फुलिङ्गाः साग्नय एवोद्गच्छन्ति, एवं चैतन्यप्रतिबिम्बोपेतादन्तःकरणात् उत्पद्यमाना वृत्तयोऽपि तत्प्रतिबिम्बगर्भा एवोत्पद्यन्ते । अतस्तासां देहाद्यनुभवरूपत्वं सम्भवतीति सूचयितुं अन्तःकरणस्य प्रतिबिम्बगर्भत्वमुक्तम् । जाग्रदवस्थायां देहद्वयस्य साक्षिचैतन्यमात्रात् अस्पष्टतया भानावसरं दर्शयितुं विच्छिद्यविच्छिद्येत्युक्तम् ।
तमेवावसरं स्पष्टमाह —
अन्तरालकालेष्विति ।
तुशब्दस्य व्याख्यानमेवकारः । देहद्वयं वृत्त्यभावैः सह अवभास्यते इति सम्बन्धः । वृत्त्यभावैरित्यस्य वृत्तीनां ध्वंसैरित्यर्थः । उपलक्षणं चैतत् । वृत्तीनामुत्पत्तिभिर्वृत्तिभेदैश्च सहेत्यर्थः । अयं भावः — नित्यचैतन्यानभ्युपगमे वृत्त्युत्पत्तिविनाशतद्भेदादेःअपरोक्षतया भानं न स्यात् । स्वोत्पत्तिविनाशयोः स्वग्राह्यत्वासम्भवात्, वृत्तिगोचरापरोक्षवृत्तीनां निरसिष्यमाणतया तयोर्वृत्त्यन्तरग्राह्यत्वासम्भवाच्च । तस्मात् वृत्तिनाशादिसाक्षितयापि नित्यचैतन्यमुपेयमिति ।
अत्रैव उपपत्त्यन्तरं दर्शयति —
अत एवेति ।
नित्यचैतन्यरूपसाक्षिसद्भावादेवेत्यर्थः । अहङ्कारप्राणशरीरादीनां योग्यतद्धर्मसुखदुःखादीनां च सदा अहङ्कारादिसत्ताकाले संशयादिनिवृत्तिलक्षणफलभाक्त्वं तावदनुभवसिद्धम् । न हि कदाचिदपि ‘अहमासं न वा, अहं वर्ते न वा, अहं प्राणिमि न वा, अहं ब्राह्मणो न वा’ इत्यादिप्रकारेण अहङ्कारादिसत्तासंशयः कस्यचिदप्यस्ति । तच्च तेषां सदाप्रकाशसंसर्गं विना न सम्भवति । घटादीनां प्रकाशसंसर्गदशायामेव संशयाद्यगोचरत्वदर्शनात् । सदाप्रकाशसंसर्गित्वं अहङ्कारादीनां जन्यज्ञानपक्षे न सम्भवति । तेषामुत्पत्तिविनाशवत्त्वात् क्रमिकत्वात् प्रायेण बाह्यविषयगोचरत्वाच्च । तस्मादहङ्कारादीनां सदा संशयाद्यगोचरत्वनिर्वाहाय तेषां सदा साक्षिचैतन्यरूपप्रकाशसंसर्गो वाच्य इति भावः ।
साक्षिसद्भावे उपपत्त्यन्तरमाह —
अन्यज्ञानेति ।
अहङ्कारग्रहणं धारान्तर्गतवृत्तीनामप्युपलक्षणम् । नित्यानुभवरूपसाक्ष्यनाङ्गीकारे दिव्यमङ्गलश्रीकृष्णमूर्तिगोचरवृत्तिसन्ततिकालीनाहमर्थस्य तत्कालीनवृत्तीनां च तत्काले जन्यानुभवासम्भवेन संस्कारासम्भवात् उत्तरत्रानुसन्धानं न स्यात् । न हि धाराकाले अहङ्कारगोचरो वा प्रत्येकं वृत्तिगोचरो वा जन्यानुभवः सम्भवति । धाराविच्छेदप्रसङ्गात् । वृत्तिसन्ततेरिच्छाघटितसामग्रीकत्वेन तद्विच्छेदासम्भवाच्च । तस्मादन्यज्ञानधाराकालीनाहमर्थादिसाक्षितया नित्यानुभवो वाच्य इति भावः ।
अनुसन्धानं चेति ।
सङ्गच्छत इति शेषः । ननु — साक्षिचैतन्येनानुभूताहमर्थतद्वृत्तीनां कथं ‘अहं पश्यन्नेवासम्’ इति स्मरणं जीवस्य सम्भवति ।
अहमर्थभूतप्रतिबिम्बजीवापेक्षया बिम्बभूतस्य कूटस्थचैतन्यात्मकसाक्षिणो भिन्नत्वात्, अन्यानुभूतेऽर्थे अन्यस्मरणायोगात् - इति शङ्कते —
न च कूटस्थेति ।
स्वेन स्वतादात्म्यापन्नेन वा अनुभूतेऽर्थे स्वस्य स्मरणं भवतीत्यङ्गीकारान्नातिप्रसङ्गः, न हि देवदत्तयज्ञदत्तजीवयोः परस्परं तादात्म्यमस्ति, येन देवदत्तानुभूतेऽर्थे यज्ञदत्तम्य स्मरणप्रसङ्ग इति दोषो भवेत् इत्याशयेन परिहरति —
अन्योन्याध्यासेनेति ।
तादात्म्याध्यासेनेत्यर्थः । जीवस्य कूटस्थे कल्पितत्वस्य प्रागेव निरूपितत्वादिति भावः । न च - एवमपि सर्वदेहेषु साक्षिण एकत्वात् देवदत्तसाक्षिणाऽनुभूतदेवदत्ताहङ्कारादिषु यज्ञदत्तादेरप्यनुसन्धानप्रसङ्गः, यज्ञदत्तादेरपि देवदत्तसाक्षिण्येवाध्यस्ततया तदेकत्वापत्तेः सत्त्वादिति - वाच्यम् । देहद्वयरूपावच्छेदकभेदेन तत्तज्जीवतादात्म्यापन्नसाक्षिणो भेदाभ्युपगमात् । एवमवच्छेदकभेदेन साक्षिभेदं ज्ञापयितुमेव स्वावच्छेदकस्येति विशेषणं पूर्वमेव दत्तमिति बोध्यम् ।
ननु अस्तु जीवकूटस्थनामकं चैतन्यद्वयम्, तथापि जीव एव साक्षी किं न स्यादिति शङ्कते —
न चेति ।
किं कूटस्थेनेति ।
किं कूटस्थस्य साक्षित्वेनेत्यर्थः । न तु कूटस्थस्यैव आक्षेपः । तस्य साधितत्वात् ।
उदासीनस्यैव लोके साक्षित्वस्य प्रसिद्धत्वात् तदनुरोधेन श्रुत्यनुरोधेन च कूटस्थस्यैव साक्षित्वं न जीवस्येति परिहरति —
लौकिकेति ।
साक्षिणो लक्षणमाह श्रुतिः —
चेता केवल इति ।
चेता बोद्धा । केवलः-अकर्ता-उदासीन इति यावत् ।
‘ज्ञानादिगुणक आत्मा’ इति वैशेषिकादिमतं श्रुतिः स्वयमेव निराकरोति —
निर्गुणश्चेति ।
‘मध्यमपरिमाणः सक्रिय आत्मा’ इति दिगम्बरमतनिरासार्थश्चकारः । निष्क्रियश्चेत्यर्थः ।
साक्षिणो जीवात् भिन्नत्वे श्रुतिमप्याह —
तयोरन्य इति ।
जीवकूटस्थयोर्मध्ये कूटस्थादन्यो जीवः पिप्पलं - कर्मफलं स्वादु यथाभवति तथा अत्ति - भुङ्क्ते । शरीरस्य अश्वत्थवृक्षत्वेन निरूपितत्वात् कर्मफलस्य पिप्पलत्वेन रूपणमिति द्रष्टव्यम् । स्वाद्वत्तीति विशेषणं पुण्यफलाभिप्रायम् । जीवादन्यः कूटस्थः अनश्रन् - अशनं कर्मफलभोगं अकुर्वन् अभिचाकशीति - अभि - आभिमुख्येन अपरोक्षतया चाकशीति - बुद्ध्यादिसाक्षितया प्रकाशते इति यावत् । अत्र अनश्रन्नित्यनेन भोक्तृत्वे निषिद्धे सति कर्तृत्वमपि निषिद्धं भवति । तथा च अनाश्रन्नभिचाकाशीतिपदाभ्यां उदासीनत्वे सति बोद्धृत्वरूपं साक्षित्वं प्रदर्शितमित्यर्थः ।
कूटस्थदीपे निरूपितः साक्षी अन्यत्रापि दृष्टान्तविशेषपूर्वकं सुषुप्तिसाधारणो निरूपित इत्याह —
नाटकदीपेऽपीति ।
दृष्टान्तप्रतिपादकं तत्रत्यश्लोकं पठति —
नृत्यशालास्थित इति ।
प्रभुं नृत्याभिमानिनं सभ्यान् तत्परिसरवर्तिनः ।
अविशेषेणेति ।
दीपो हि वृद्धिं प्राप्य प्रभुं प्रकाशयति, मध्यमावस्थां प्राप्य सभ्यान्, ततो निकृष्टावस्थां प्राप्य नर्तकीं इति प्रकाश्यतारतम्यानुसारेण वृद्ध्यादिविकारं प्राप्य न दीपयेत्, किं तु एकरूपेणैव स्थितः सन् प्रकाशयेदित्यर्थः । इदं च विशेषणं दार्ष्टान्तिके निर्विकारस्य कूटस्थस्य साक्षित्वज्ञापनार्थमिति मन्तव्यम् ।
तदभावेऽपीति ।
प्रभुसभ्याद्यभावेऽपीत्यर्थः । ‘अहङ्कारः प्रभुः सभ्या विषया नर्तकी मतिः ।
तालादिधारीण्यक्षाणि दीपस्साक्ष्यवभासकः ॥’ [पं.द. १०-१४] इति दार्ष्टान्तिकसङ्ग्राहकं श्लोकं मनसि निधायाह —
तथेति ।
जीवस्य नृत्याभिमानिप्रभुतुल्यत्वकल्पनाप्रयोजकं साम्यमाह —
विषयेति ।
नृत्यसाकल्यवैकल्यप्रयुक्तहर्षादिमत्त्वं प्रभोरभिमानिपदेन सूचितम् । यथा सभ्याः प्रभुपरिसरवर्तिनः तथा रूपादयो विषयाः जीवपरिसरवर्तिनः ।
तथा च विषयाणां सभ्यसाम्यात् सभ्यत्वकल्पनं युक्तमित्याशयेनाह —
तत्परिसरवर्तित्वेऽपीति ।
तत्पदं जीवपरम् ।
ननु जीवपरिसरवर्तिनामपि विषयाणां जीववत् प्रभुतुल्यत्वमेव कुतो न कल्प्यते इत्याशङ्क्य तत्प्रयोजकाभावादित्याशयेनाह —
तद्राहित्यादिति ।
प्रभुतुल्यत्वकल्पकहर्षविषादादेरभावादित्यर्थः ।
यद्वा विषयाणां सभ्यपुरुषसाम्यमाह —
तद्राहित्यादिति ।
बुद्धेर्नर्तकीसाम्यमाह —
नानाविधेति ।
यथा तालार्दिधारिणः पुरुषाः नर्तकीमनुवर्तन्ते, एवमिन्द्रियाण्यपि धियमनुवर्तन्ते, इत्यनेन साम्येन इन्द्रियाणां तालादिधारिपुरुषसाम्यं श्लोकोपात्तं ‘धियं च’ इत्यत्र चशब्दार्थः । जीवादीनामवभासकस्साक्षी दीपतुल्य इति चरमपादार्थः ।
तं संगृह्णाति —
दीपयन्नित्यादिना ।
प्रकाशयन्नित्यर्थः । दीपयन्नित्यतः प्राक् जाग्रदादाविति शेषः ।
नाटकदीपे निरूपितः साक्षी कूटस्थदीपोक्तकूटस्थ एव, नान्य इत्याशयेनाह —
चिदाभासविशिष्टेति ।
कूटस्थदीपे हि जीवभ्रमाधिष्ठानभूतकूटस्थचैतन्यं जीवादेरवभासकम् इत्युक्तम् । नाटकदीपे च ‘चिदाभासविशिष्टाहङ्कारं जीवं कल्पयित्वा तदवभासकं चैतन्यं साक्षीत्युक्तम् । ततश्च तत्रोक्तकूटस्थ एव अत्र साक्षीत्यवगम्यते । अन्तःकरणप्रतिबिम्बरूपजीवाधिष्ठानत्वतदवभासकत्वादिनिर्देशसाम्यात् । तथा च ‘नाटकदीपेऽपि नृत्यशालास्थदीपदृष्टान्तेन साक्षी जीवाद्विविच्य दर्शित’ इति पूर्वग्रन्थे ‘कूटस्थदीपे यःसाक्षी जीवात् भेदेन दर्शितः स एव नाटकदीपेऽपि ततो भेदेन दर्शितः’ इति विवक्षितार्थः सिद्ध इति भावः ।
साक्षी यथा जीवकोटिर्न भवति, जीवस्य उदासीनत्वाभावात्, तथा ईश्वरकोटिरपि न भवति, जगत्सृष्टिनियमनादिव्यापारकर्तृस्तस्य उदासीनत्वाभावात्, ईश्वरस्य परोक्षतया जीवं प्रति बुद्ध्यादिसाक्षितया नित्यापरोक्षसाक्षिरूपत्वासम्भवाच्च इत्याशयेनाह —
एवं जीवादिति ।
ब्रह्मपदमीश्वरपरं, न तूदासीनचैतन्यपरम् ।
कस्तर्हि साक्षीति पृच्छति—
किंत्विति ।
उत्तरम् —
अस्पृष्टेति ।
उक्तमिति ।
‘इति शैवपुराणेषु कूटस्थः प्रविवेचितः । जीवेशत्वादिरहितः केवलस्स्वप्रभश्शिवः’ ॥ [पं-द-८-५९] इति श्लोकेनेति शेषः । जगद्रूपत्वमादिपदार्थः ।
केवलः-उदासीनः शिवः-शुद्धः परमात्मेत्यर्थः ॥ईश्वरत्वादिधर्मरहितश्चिदात्मैव अन्यत्रापि साक्षित्वेनोक्त इति संवादार्थमाह —
तत्त्वप्रदीपिकायामपीति ।
सर्वेषां जीवानां अन्तःकरणगतचित्प्रतिबिम्बात्मकानां प्रत्यग्भूतं-अधिष्ठानतया आन्तरं स्वरूपं विशुद्धं-जीवत्वेश्वरत्वजगद्रूपत्वरहितं ब्रह्म जीवाभेदेन-तत्तज्जीवाधिष्ठानत्वादेव तत्तज्जीवतादात्म्यापत्त्या प्रतिशरीरं प्राप्तभेदं सत् साक्षीति प्रतिपद्यते । इतिशब्दः प्रकारवाची सन् साक्षित्वमाह, साक्षित्वं प्रतिपद्यते । परमेश्वरस्यैव कश्चिद्रूपभेदः साक्षी नाम । कुतः, देवत्वादिश्रुतेः । न त्वीश्वरविलक्षणः साक्षी । देवत्वादिश्रुतिविरोधात् इत्येवकारार्थः । देवत्वादीत्यादिपदेन सर्वभूतान्तरात्मत्वादिधर्मा गृह्यन्ते । एतदुक्तं भवति — देवत्वादयो धर्माः श्रुतिस्मृत्यादिषु परमेश्वरधर्मत्वेन प्रसिद्धा इति नान्यस्य साक्षित्वम् । देवत्वादिश्रवणविरोधात् । यद्यपि देवत्वं हिरण्यगर्भेन्द्रादिजीवसाधारणं, तथाऽपि इतरधर्माणामीश्वरासाधारणत्वाद्देवत्वमपीश्वरगतमेव ग्राह्यमिति भावः ।
परमेश्वरस्य शिवविष्ण्वात्मना प्राप्तं भेदं निराचष्टे —
एक इति ।
बिम्बभूतस्य परमेश्वरस्य भूर्तिभेदेन शिवविष्णुसंज्ञा, न त्वीश्वरभेदोऽस्तीत्यर्थः । तथा च श्रुत्यन्तरं — ‘शाश्वतं शिवमच्युतम् [महाना.उ.११-३] इति । अच्युतपदस्य विष्णौ रूढत्वात् । ‘आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते’ इत्यादिस्मृतयोऽप्यत्र शतशो द्रष्टव्याः । श्रुतौ सर्वभूतेष्वित्यनन्तरं वर्तत इति शेषः । तथा च स्मृतिः — ‘ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति’ [भ.गी. १८-६१] इति ।
तर्हि किमिति सर्वेषां नोपलभ्यते, तत्राह —
गूढ इति ।
तथा च स्मृतिः — ‘नाहं प्रहाशःसर्वस्य योगमायासमावृतः’ [भ.गी.७-२५] इति । श्रीकृष्णोऽत्राहंशब्दार्थः । प्रकाशः - प्रकाशमान इत्यर्थः ।
परमात्मनो भूतेषु अवस्थानाभ्युपगमे अधिकरणभेदात्तस्यापि भिन्नत्वशङ्का स्यात्, तां वारयति —
व्यापीति ।
व्यापित्वेऽपि नभोवत् वस्तुतो जीवभिन्नत्वं वारयति —
सर्वभूतान्तरात्मेति ।
सर्वभूतानां — ब्रह्मादिस्तम्बपर्यन्तसङ्घातानां अन्तरवस्थित आत्मा, सर्वजीवस्वरूप इति यावत् ।
परमेश्वरस्य कर्मकर्तृजीवाभिन्नत्वे तस्यापि तत्कर्तृत्वं स्यादिति, नेत्याह —
कर्माध्यक्ष इति ।
जीवकर्तृककर्मणां साक्षी, न स्वयं तत्कर्तेत्यर्थः । जीवपरमात्मनोरौपाधिकभेदेन धर्मव्यवस्था सम्भवतीति भावः ।
सर्वभूतेष्वित्यादिना परमात्मापेक्षया भेदेन भूतानां निर्देशात्तस्य सद्वितीयत्वमाशङ्क्याह —
सर्वभूताधिवास इति ।
अधि उपरि वसन्त्यस्मिन् भूतानीत्यधिवासः अधिष्ठानम् । सर्वेषां भूतानां अधिवासः सर्वभूताधिवासः । न चाधिष्ठानातिरेकेण आरोपितानां पृथक्सत्त्वमस्तीति नाद्वितीयत्वविरोध इति भावः ।
न केवलं जीवगतकर्मणामेव साक्षी, किं तु जीवानामपि, इत्याशयेनाह —
साक्षीति ।
अवशिष्टा श्रुतिः प्रागेव व्याख्याता । अनुमन्ता-नैरन्तर्येण बोद्धा ।
स्वयमुदासीन इति ।
जीवे व्यापारवत्यपि स्वयं तद्रहितः ।
रूपविशेषे साक्षिलक्षणमुक्त्वा साक्षिपदं तत्र वर्तयति —
साक्षीनामेति ।
नामपदं श्रुतिप्रसिद्धिद्योतकम् । ननु-साक्षी जीवस्यापरोक्षः, तस्य अज्ञानान्तःकरणाद्यनुभवरूपत्वाङ्गीकारात् ।
ईश्वरस्तु नित्यं परोक्षः, कारणत्वसर्वज्ञत्वसर्वनियन्तृत्वादेर्जीवं प्रत्ययोग्यत्वेन तद्विशिष्टबिम्बचैतन्यरूपेश्वरस्यायोग्यत्वात् इति चेत्, न, तस्य रूपविशेषत्वाङ्गीकारेणापरोक्षत्वोपपत्तेः इत्याशयेनाह —
स चेति ।
न चेश्वरस्यैतादृशरूपभेदे मानाभावः शङ्कनीयः । ‘एको देवः’ इति मन्त्रस्य ‘अनश्नन्नन्योऽभिचाकशीति’ इति मन्त्रभागस्य च उदासीने परमेश्वररूपभेदे मानत्वात्, कारणत्वादिधर्मास्पदे चेश्वरे सृष्टिवाक्यानां सर्वेषामेव मानत्वात्, इति भावः । स च जीवस्यापरोक्षोऽन्तरङ्गश्चेति सम्बन्धः ।
उभयत्र हेतुमाह —
जीवगतमज्ञानाद्यवभासयन्निति ।
अन्तःकरणतद्धर्मसुखदुःखादिसङ्ग्रहार्थमादिपदम् । साक्षिचैतन्यमज्ञानाद्यवभासनद्वारा ‘अहमज्ञः’, ‘अहं सुखी, अहं दुःखी’ इत्यादिव्यवहारनिर्वाहकं भवति । अतस्साक्षी जीवस्यान्तरङ्गः, लोके राजादिव्यववहारनिर्वाहकपुरुषे राजान्तरङ्गत्वस्य प्रसिद्धत्वादिति भावः । ननु-सुषुप्त्यादौ साक्ष्यस्यान्तःकरणतद्वृत्त्यादेरुपरतत्वात् तदा चिदात्मनस्साक्षित्वं न स्यात् ।
तथा च ‘तेभ्यो विलक्षणस्साक्षी चिन्मात्रोऽहं सदा शिवः’ [कै.उ.१८] इत्यादौ सुषुप्त्यादावपि तस्य साक्षित्वव्यवहारविरोधः इत्यत आह —
सुषुप्त्यादौ चेति ।
तेभ्य इति ।
भोक्त्रादिभ्य इत्यर्थः । तदापि मूलाज्ञानस्य साक्ष्यस्य सत्त्वात् न विरोध इति भावः ।
परमेश्वरस्यैव रूपविशेषात्मके साक्षिणि सुषुप्त्युत्क्रान्तिविषयकवाक्यद्वयमपि प्रमाणमित्याशयेनाह —
प्राज्ञशब्दित इति ।
सुषुप्तिविषयकवाक्ये उत्क्रान्तिविषयकवाक्ये च प्राज्ञशब्देन यथोक्तसाक्षिण एव प्रतिपादितत्वादिति भावः ।
ननु ‘सुषुप्त्युत्क्रान्त्योर्भेदेन’ [ब्र.सू.१-३-४२] इत्यधिकरणे सुषुप्त्यादिविषयकश्रुतिगतप्राज्ञशब्दस्य सर्वेश्वरत्वभूताधिपतित्वादिविशिष्टपरमात्मप्रतिपादकताया उक्तत्वात् कथं प्राज्ञशब्दस्य उदासीनेश्वरपरत्वम्, अत आह —
तद्यथेति ।
दृष्टान्तवाक्ये बाह्यं-रथ्यादिवृत्तान्तं, आन्तरंगृहकृत्यं, पुरुषः-जीवः, प्राज्ञः-परमात्मा, तेन सम्परिष्वक्तः-सुषुप्तावुपाधिलयादेकीभावं प्राप्तः, [दार्ष्टान्तिकवाक्ये] बाह्यं-जाग्रत्प्रपञ्चम्, आन्तरं-स्वप्नप्रपञ्चं, किञ्चन-किञ्चिदपि ।
उत्क्रान्तिवाक्यमुदाहरति —
प्राज्ञेनात्मनाऽन्वारूढ इति ।
अन्वारूढः - अधिष्ठितः उत्सर्जन्-वेदनावशात् शब्दं कुर्वन् याति-शरीरात् बहिर्निर्गच्छतिउत्क्रामतीत्यर्थः । अवस्थयोरिति सप्तमी । प्रतिपादित इत्यनन्तरं प्राज्ञ इति शेषः । तथा चा वाक्याभ्यां जीवात् भेदेन प्रतिपादितः प्राज्ञः परमेश्वर इति निर्णयोऽपि साक्षिपरः इत्युपवर्णितं कौमुद्यामिति सम्बन्धः । बृहदारण्यकषष्ठाध्यायो जीवानुवादमात्ररूपो न तदतिरिक्तेश्वरपर इति पूर्वपक्षे प्राप्ते सिद्धान्तः — ‘तद्यथा प्रियया’ इत्यादिवाक्ययोस्सुषुप्त्यवस्थायामुत्क्रान्त्यवस्थायां च पुरुषशब्दितजीवापेक्षया भेदेन परमेश्वरस्य तृतीयान्तप्राज्ञशब्देन व्यपदेशात् न षष्ठाध्यायो जीवानुवादमात्ररूपः । किं तु तदतिरिक्तेश्वरप्रतिपादनपरः । तत्प्रतिपादनं च लोकसिद्धजीवानुवादेन तस्य ईश्वराभेदप्रतिपादनार्थम् ।
तथा च वाक्यशेषो दृश्यते —
‘स वा एष महानज आत्मा योऽयं विज्ञानमयः’ [बृ.उ. ४-४-२२] इति ।
यो विज्ञानमयो जीवः स एष महानात्मा-पूर्णः परमात्मा इत्यर्थः - इति तदधिकरणनिर्णयः । ननु - अस्य निर्णयस्य उदासीनेश्वररूपसाक्षिपरत्वमनुपपन्नम् । ‘स वा एष महानज आत्मा’ इत्येतदनन्तरं ‘एष सर्वेश्वर एष भूताधिपतिः’ इत्यादिना तस्य सर्वेश्वरत्वादिगुणजातप्रतिपादनात् - इति चेत्, न - ज्ञेयब्रह्मप्रकरणगतसर्वेश्वरत्वादिवचनस्य स्तुतिमात्रपरत्वादिति भावः ।
कौमुदीकारमतस्य संवादार्थं मतान्तरमुपन्यस्यति —
तत्त्वशिद्धावपीति ।
‘इदं रजतम्’ इतिभ्रमस्थले रजताभेदेन प्रतिभासमानोऽपि इदमंशः राजतान्तर्भूतो न भवति । रजतवत्तस्य बाधाभावात् । नापि शुक्तावेवान्तर्भवति तस्य शुक्त्यंशवदज्ञातत्वप्रसङ्गात् । अतो यथा इदमंशस्य वस्तुतश्शुक्तिरूपत्वं प्रतिभासतो रजताभिन्नत्वम्, एवं साक्षिणोऽपि वस्तुगत्या ईश्वररूपभेदत्वं कल्पिततत्तज्जीवाधिष्ठानरूपस्य साक्षिणस्सुखाद्यनुभवितुः ‘अहं सुखमनुभवामि’ इत्यादिप्रतिभासतः तत्तज्जीवाभिन्नत्वम् । अतो जीवस्य सुखादिव्यवहारे तस्य-सुखाद्यनुभवितुः जीवैकत्वमापन्नस्य उपयोगः इत्यर्थः ।
अयमेवेति ।
साक्षिणो वस्तुतोऽपि जीवान्तर्भावे तस्य ब्रह्मकोटित्वोक्तिविरोधात् तस्य ईश्वररूपभेदत्वं तत्त्वशुद्धिकाराभिमतमिति गम्यत इति भावः ।
जीवसाक्षिणोर्भेदपक्षानुपन्यस्य तयोरभेदप्रक्षावुपन्यस्यति —
केचिदित्यादिना ।
जीव एव साक्षीति सम्बन्धः । नत्वीश्वरस्य रूपभेदः साक्षी तत्र मानाभावात् इत्येवकाराभिप्रायः ।
जीवस्य साक्षित्वाभ्युपगमे हेतुमाह —
साक्षाद्द्रष्टृत्वादिति ।
तस्य औदासीन्यं सूचयति —
अविद्योपाधिक इति ।
एतदेव प्रपञ्चयितुं इदमेव साक्षिलक्षणं नान्यत् इति पूर्वोक्तं स्मारयति —
लोकेऽपि हीति ।
पूर्वं सङ्ग्रहेणोक्तं जीवस्यैव साक्षित्वं प्रपञ्चयति —
तच्चेति ।
साक्षादिति ।
अविद्याप्रतिबिम्बरूपजीवस्य स्वतस्सम्भवतीत्यर्थः । अनेन कॢप्तस्य जीवस्यैव साक्षित्वसम्भवे तदतिरिक्तःसाक्षी न कल्पनीयः गौरवात् इति सूचितम् ।
ननु लौकिकवैदिकव्यवहारकर्तृरौदासीन्यमसिद्धमित्युक्तं इत्याशङ्क्य, बुद्धितादात्म्यप्रयुक्तमेव कर्तृत्वादिकं स्वतस्तु उदासीनत्वमित्युपगमात् तस्य साक्षित्वं सम्भवतीत्याह —
जीवस्यान्तःकरणेति ।
नन्वीश्वरस्य साक्षित्वानुपगमे मन्त्रविरोध इत्यत आह —
एको देव इति मन्त्रस्त्विति ।
साक्षी तावत् जीवस्यापरोक्ष इत्युक्तम् । ईश्वरस्य तु उदासीनस्याप्यपरोक्षत्वं न सम्भवति । बिम्बरूपस्येश्वरस्य जीवादौपाधिकभेदसत्त्वेन जीवं प्रति जीवान्तरचैतन्यस्येव अपरोक्षत्वायोगात् । अतो जीवभावापन्नब्रह्माभिप्रायो मन्त्रगतसाक्षिप्रतिपादकभाग इति भावः । ऐश्वररूपभेदस्यापरोक्षत्वानुपपत्तिरूपहेतुः मन्त्रस्त्विति तुशब्देनोक्त इति ध्येयम् । ननु-गुहाधिकरणे यथा ‘गुहां प्रविष्टौ’ [क.उ.३-१] इति मन्त्रो जीवेश्वरोभयपरः तथा ‘द्वा सुपर्णा’ [मु.उ.३-१-३] इति मन्त्रोऽपि जीवेश्वरोभयषर इत्युक्तं भाष्ये । तथा ‘च द्वासुपर्णा’ इति मन्त्रे ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ इति वाक्यं जीवविषयं ‘अनश्नन्नन्योऽभिचाकशीति’ इति वाक्यं परमेश्वरविषयमिति पर्यवस्यति ।
ततश्च जीवस्य साक्षित्वमिति पक्षे ईश्वरस्य साक्षित्वप्रतिपादकेन ‘अनश्न्नन्यः’ इति मन्त्रभागेन विरोधः - इत्याशङ्क्याह —
द्वा सुपर्णेति मन्त्र इति ।
यदा मन्त्रः जीवेश्वरोभयपरः, तदापि न विरोधः कश्चित् । ‘एको देवः’ इति मन्त्रवत् ‘द्वा सुपर्णा’ इति मन्त्रस्यापि जीवभावापन्नपरमात्मपरत्वाभ्युपगमादित्यर्थः । ननु — गुहाधिकरणभाष्ये पैङ्गिरहस्यब्राह्मणमुदाहृतम् । तच्चेदं ब्राह्मणं — ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्वम्, अनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञः, तावेतौ सत्वक्षेत्रज्ञौ’ इति । अनेन ब्राह्मणेन अदनवाक्यमन्तःकरणविषयं अनशनवाक्यं क्षेत्रज्ञविषयं इति व्याख्यातम् । न च ब्राह्मणेनैव सत्वक्षेत्रज्ञपरत्वेन मन्त्रे व्याख्यायमाने कथं भाष्यकारैरस्य मन्त्रस्य जीवेश्वरपरत्वमुक्तमिति वाच्यम् । तदुक्तेः कृत्वाचिन्तामात्रत्वेन विरोधाभावात् । तथा चान्तःकरणप्रतिबिम्बरूपो जीवो यदि पैङ्गिब्राह्मणाभिमतः क्षेत्रज्ञः स्यात्, तदा तस्यैवानश्नन्निति वाक्योक्तं साक्षित्वं स्यात्, नाविद्याप्रतिबिम्बस्य ।
तथा चाविद्याप्रतिबिम्बरूपस्य ब्रह्मस्वभावस्य जीवस्य साक्षित्वपक्षः पैङ्गिब्राह्मणनिर्णीतार्थकद्वासुपर्णेतिमन्त्रभागविरुद्धः प्रसज्येत - इत्याशङ्क्याह —
गुहाधिकरणभाष्योदाहृतेति ।
न कश्चिद्विरोध इति ।
पैङ्गिब्राह्मणाभिप्रेतः क्षेत्रज्ञो नान्तःकरणगतचैतन्यप्रतिबिम्बरूपो जीवः । तस्य कर्तृभोक्तृस्वभावत्वेन अनश्नन्निति वाक्योक्तसाक्षित्वासम्भवात् । किं तु असङ्गोदासीनप्रकाशरूपः अविद्याप्रतिबिम्बरूपजीव एव ब्राह्मणाभिप्रेतः क्षेत्रज्ञः । तस्यानशनवाक्योक्तसाक्षित्वसम्भवस्योपपादितत्वात् । अतः अविद्याप्रतिबिम्बरूपजीवस्य साक्षित्वपक्षे न पैङ्गिरहस्यब्राह्मणानु रोधिमन्त्रविरोध इत्यर्थः ।
अविद्यायां चैतन्यप्रतिबिम्बरूपजीवस्यैव साक्षित्वमुपेत्य तत्र कञ्चिद्विशेषं वक्तुं मतान्तरमवतारयति —
अन्ये त्विति ।
न त्वविद्यायां चिद्बीम्बभूतेश्वरःसाक्षी, तस्यापरोक्षत्वानुपपत्तेरित्येवकाराभिप्रायः ।
रूपेणेति ।
साक्षीत्यनुषङ्गः ।
सर्वशरीरसाधारणाविद्योपाधिकस्य साधारणरूपेण साक्षित्वाभावे हेतुमाह —
पुरुषान्तरेति ।
यज्ञदत्तान्तःकरणतद्वृत्तीनामित्यर्थः ।
पुरुषान्तरं प्रतीति ।
देवदत्तं प्रतीत्यर्थः ।
स्वेति ।
स्वस्य देवदत्तस्यान्तःकरणभासको यस्साक्षी तेन साक्षिणा सह देवदत्तान्तःकरणस्येव यज्ञदत्तान्तःकरणादीनामपि संसर्गाविशेषाद्देवदत्तस्य यथा स्वान्तःकरणप्रत्यक्षं तथा यज्ञदत्तान्तःकरणतद्वृत्तयोऽपि देवदत्तस्य प्रत्यक्षाःस्युरित्यर्थः । अत्र पुरुषान्तरं प्रति पुरुषान्तरान्तःकरणादीनामपि प्रत्यक्षत्वापत्तेरिति सम्बन्धः । तत्र हेतुः स्वान्तःकरणेत्यादिः इति विभागः ।
सर्वशरीरेषु साक्षिण एकत्वेऽपि प्रतिशरीरं प्रमातृभेदान्नोक्तदोष इत्याशङ्कते —
न चेति ।
देवदत्तं प्रति तदन्तःकरणादेः प्रत्यक्षत्वे हि देवदत्तसाक्षिसंसर्गः प्रयोजकः, तथा च यज्ञदत्तान्तःकरणादीनामपि देवदत्तं प्रत्यपरोक्षत्वप्रयोजकस्य देवदत्तसाक्षिसंसर्गस्याविशेषेण तं प्रत्यपरोक्षत्वापादनात्मको दोषः प्रत्यक्षत्वप्रयोजकसाक्षिसंसर्गभेदेनैव परिहर्तव्यः, नाप्रयोजकप्रमातृभेदेन - इति दूषयति —
साक्षिभास्य इति ।
साक्ष्यभेदे इति ।
साक्षिण एकत्वे सतीत्यर्थः ।
अप्रयोजकत्वादिति ।
देवदत्तं प्रति तदीयान्तःकरणादिकमेव प्रत्यक्षं नान्यदीयान्तःकरणादिकमिति व्यवस्थायामिति शेषः ।
तस्मादिति ।
अविद्योपाधिकजीवस्य साधारणरूपेण साक्षित्वासम्भवादित्यर्थः ।
तथा चेति ।
साक्षिभेदप्रयोजकोपाधिभेदविवक्षायां सत्यामित्यर्थः ।
तदयोग्यत्वाद्वेति ।
पुरुषान्तरं प्रत्ययोग्यत्वकल्पनाद्वा प्रत्यक्षत्वाभाव उपपद्यते इत्यर्थः ।
ननु-अविद्याप्रतिबिम्बरूपजीवस्य अविद्योपाधिकत्वेनैव रूपेण साक्षित्वे सति तस्य सुषुप्तिसाधारण्यं सम्भवति, प्रतिशरीरं साक्षिभेदसिद्धयर्थं तस्यान्तःकरणोपहितत्वेन रूपेण साक्षित्वे तु सुषुप्तिसाधारण्यं तस्य न सम्भवति सुषुप्तावन्तः करणलयश्रवणात्, इत्याशङ्क्याह —
सुषुप्तावपीति ।
शङ्कते —
न चान्तःकरणोपहितस्येति ।
अविद्याप्रतिबिम्बरूपजीवस्येति शेषः ।
न तस्येति ।
अन्तःकरणोपहितजीवस्य साक्षित्वं न सम्भवति, तस्य प्रमातृत्वात्, अन्यथा प्रमातुरेव साक्षित्वापत्त्या साक्षिप्रमात्रोर्भेदो न स्यादिति भावः ।
इष्टापत्तिमाशङ्क्याह —
सुषुप्ताविति ।
प्रमात्रभावेऽपीति ।
‘अथास्मिन् प्राण एवैकधा भवति’ [कौ.उ.३-३] इति श्रुतौ सुषुप्तिकाले प्राणशब्दिते परमात्मनिएकीभावलक्षणस्य प्रमातृलयस्य श्रवणादिति भावः ।
साक्षिसत्त्वेनेति ।
सुषुप्तिकाले साक्षिणस्सत्त्वमवश्यं वाच्यम् । तत्काले तत्सत्त्वस्य ‘त्रिषु धामसु’ [कै.उ.१८] इत्यादिबहुश्रुतिसिद्धत्वात् । धामसु अवस्थासु (???) इत्यर्थः । तत्काले साक्षिणाऽनुभूतानामज्ञानसुखसुषुप्तीनां उत्थितस्य ‘न किंचिदवेदिषं सुखमस्वाप्सम्’ इति स्मरणदर्शनाच्च । न च ‘अहमस्वाप्सम्’ इति स्वापादिवदहमर्थस्य प्रमातुरपि सुषुप्तिकालीनत्वेनस्मरणदर्शनात् तस्यापि तदा सत्त्वं वाच्यमेवेति वाच्यम् । सुषुप्तौ प्रमातृलयप्रतिपादकबहुश्रुतिविरोधेन ‘अहमस्वाप्सम्’ इत्यादिस्मरणस्य अहमर्थांशे अनुभवरूपत्वकल्पनात् न प्रमातुः तदा सत्त्वमावश्कम् । तथा च सुषुप्तिकाले सदसतोस्साक्षिप्रमात्रोरभेदायोगात् प्रमातुस्सकाशात् साक्षी भिन्न एव वाच्य इत्यर्थः । प्रमातृसाक्षिणोरभेदपक्षे प्रमातुरुदासीनत्वाभावेन साक्षित्वासम्भवरूपदोषसङ्ग्रहार्थश्चकार इति बोध्यम् ।
न च वाच्यमित्यत्र हेतुमाह —
अन्तःकरणविशिष्ट इति ।
अन्तःकरणस्याविद्योपाधिके जीवे विशेषणत्वेन प्रमातृत्वप्रयोजकत्वम्, उपाधित्वेन साक्षित्वप्रयोजकत्वम् । तथा च विशिष्टोपहितयोः प्रमातृसाक्षिणोर्भेदः, विशिष्टस्य प्रमातुः कर्तृभोक्तृस्वभावत्वेऽपि उपहितस्योदासीनत्वात् साक्षित्वं सम्भवतीत्यर्थः ।
ननु-विशेषणत्वस्य उपाधित्वस्य च भेदे सति एकस्याप्यन्तःकरणस्य विशेषणत्वादिरूपेण भेदं कल्पयित्वा तद्विशिष्टस्य प्रमातृत्वं तदुपहितस्य साक्षित्वमिति व्यवस्था सिद्ध्यति, तयोर्भेद एव कथमिति, अत आह —
विशेषणोपाध्योरिति ।
कार्यान्वयित्वे सति व्यावर्तकत्वं देवदत्तगृहत्वस्य कार्यस्य उपलक्षणे काके नास्त्यन्वयः, गृहान्तरव्यावर्तकत्वं त्वस्तीति तत्रातिव्याप्तिवारणाय सत्यन्तम् । कार्यान्वयिनि विशेष्ये उत्पलादौ अतिव्याप्तिवारणाय विशेष्यदलम् । कार्यानन्वयित्वे सति व्यावर्तकत्वे सति कार्यान्वयकाले विद्यमानत्वं उपाधित्वम् । यथा ‘लोहितस्फटिकमानय’ इत्यादौ स्फटिकसन्निहितस्य जपाकुसुमस्य उपाधित्वम्, तस्य आनयनलक्षणकार्यान्वयाभावात् स्फटिकान्तरव्यावर्तकत्वात् आनयनान्वयकाले विद्यमानत्वाच्च । तत्र प्रथमसत्यन्तं विशेषणे नैल्यादावतिव्याप्तिवारणाय । न च विशेषणत्वेनाभिमतनैल्यादिकमप्यत्र लक्ष्यमेवेति वाच्यम् । जपाकुसुमादावुपाधित्वव्यवहारवत् नैल्यादौ तथाव्यवहाराभावात्, जपाकुसुमादौ स्फटिकादिविशेषणत्वव्यवहाराभावाच्च । तथा च विषेषणोपाध्योर्भेदावश्यंभावे सति विशेषणत्वाभिमतनैल्यादेरलक्ष्यत्वात् तत्रातिव्याप्तिवारणं युक्तमेव । ‘काकवत् गृहं प्रविश’ इत्यत्र प्रवेशरूपकार्यान्वयकाले यदि दैवयोगादुपलक्षणभूतकाकस्यान्यत्र गमनं, काकान्तरस्य तद्गृहे आगमनं, तदा तत्रागतकाकस्य पूर्वस्थितकाकवद्व्यावर्तकत्वं नास्ति । तथा च तत्रागतकाके प्रवेशानन्वयिनि विद्यमाने उपाधित्वरहिते अतिव्याप्तिवारणाय द्वितीयसत्यन्तम् । उक्तस्थल एव उपलक्षणीभूतकाके अतिव्याप्तिवारणाय विशेष्यदलम् । न च यत्र उपलक्षणीभूतकाकस्यैव कार्यकालेऽपि दैवात् विद्यमानत्वं तत्रोपलक्षणकाके कृत्स्नं लक्षणमस्तीत्यतिव्याप्तिरिति वाच्यम् । कार्यकाले नियमेन विद्यमानत्वस्य विवक्षितत्वात् । नन्वेवमपि ‘लोहितस्फटिकमानय’ इत्यत्र क्वचित् वाक्यश्रवणकाले सत एव जपाकुसुमस्य स्फटिकानयनकाले दैवादविद्यमानत्वसम्भवात् जपाकुसुमस्यापि कार्यकाले विद्यमानत्वनियमो नास्तीति चेत्, तर्हीदं लक्षणं श्रोत्रत्वोपाधिकर्णशष्कुल्यां अन्तःकरणादौ च विवक्षितमस्तु । जपाकुसुमस्य अन्यस्य वा तत्तुल्यस्य स्वनिष्ठधर्मासञ्जकत्वरूपं प्रसिद्धमेवोपाधित्वमस्तु । न चाननुगमः । स्वनिष्ठेत्यादिलक्षणोपाधित्वस्य प्रसिद्धोपाधौ कर्णवलये बिम्बप्रतिबिम्बभेदपक्षे दर्पणादौ स्वोपहितबिम्बमुखे स्वधर्मानासञ्जके च बाधितत्वेन तत्सङ्ग्राहकलक्षणान्तरकरणस्यावश्यकतया तस्यादोषत्वात् । अनुगतलक्षणसम्भवे हि तस्य दोषत्वं प्रसिद्धम् । तथा च प्रकृतेऽन्तःकरणस्य उभयविधोपाधित्वसम्भवात् ‘कार्यानन्वयित्वे सति’ इत्यादिलक्षणानुरोधेन अन्तःकरणोपहितो जीवः साक्षी इत्युपगमे साक्षित्वं जीवचैतन्यमात्रनिष्ठं पर्यवस्यति । जीवचैतन्यमात्रं तु उदासीनमेवेति नोपहितस्य साक्षित्वानुपपत्तिः न वा प्रमातृसाक्षिणोः साङ्कर्यमिति संक्षेपः ।