अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

अभेदाभिव्यक्तिवादः

द्विती­य­प­क्ष­मा­क्षि­पति —
अथेति ।

केयमिति ।
अभे­दा­भि­व्य­क्त्यर्था वृत्तिरिति द्वितीयपक्षो हि जीवस्य परि­च्छि­न्न­त्व­मते इत्युक्तम् । अस्मिन् मते अन्तः­क­र­णो­पा­धि­कस्य जीवस्य विष­या­व­च्छि­न्न­बि­म्ब­भू­त­ब्र­ह्म­चै­त­न्यस्य च वृत्त्या अभे­दा­भि­व्य­क्तिर्न सम्भवति, अख­ण्डा­का­र­वृ­त्ते­रिव घटा­दि­गो­च­र­वृत्तेः उपा­धि­नि­व­र्त­क­त्वा­भा­वेन भेद­को­पा­ध्यो­र­न्तः­क­र­ण­वि­ष­ययोः सतोः जीव­ब्र­ह्मा­भे­दा­भि­व्य­क्ते­र­यो­गात् इत्यर्थः ।

व्याव­र्त­को­पाध्योः सत्त्वेऽपि तयो­रे­क­दे­श­स्थ­त्व­स­म्पत्तौ तद्ब­ला­द­भे­दा­भि­व्यक्तिः सम्भवति, लोके तथा दर्शनात्, इति परिहरति —
केचिदाहुरिति ।
केदारः सस्य­नि­ष्प­त्ति­स्था­नम् । तथा च तटाकस्थसलिलस्य कुल्याद्वारा केदारसलिलस्य च अभे­दा­भि­व्य­क्ति­र्यथा लोके प्रसिद्धा, तथा अन्तः­क­र­णा­व­च्छि­न्न­चै­त­न्य­रू­प­जी­वस्य विष­या­व­च्छि­न्न­ब्र­ह्म­चै­त­न्यस्य च वृत्तिद्वारा अभे­दा­भि­व्य­क्ति­र्भ­वति, वृत्ते­र्वि­ष­य­दे­श­स्थत्वे सति वृत्ति­वृ­त्ति­म­तो­र­भे­देन जीवो­पा­ध्य­न्तः­क­र­ण­स्यापि विष­य­दे­श­स्थ­त्व­सि­द्धे­रि­त्यर्थः ।

एवं चेति ।
अभेदाभिव्यक्तौ सम्भा­वि­ता­या­मि­त्यर्थः। ननु — जीवचैतन्यस्य विषयावभासकत्वं न सम्भवति । तस्य विषयं प्रत्यु­पा­दा­न­त्वा­भा­वेन तादा­त्म्य­स­म्ब­न्धा­भा­वात् । न च - ब्रह्मचैतन्यमेव विष­या­व­भा­स­क­मस्तु, तस्य उपादानतया साक्षादेव तादा­त्म्य­स­म्ब­न्ध­ला­भा­दिति - वाच्यम् ।

तथा सति ‘आलोकेन घटः प्रकाशितः’ इतिवत् ‘मया घटोऽवगतः’ इति जीवचैतन्यस्यैव घट­प्र­का­श­क­त्वा­व­ग­म­वि­रो­धात्- इति मत्वा पुनश्शङ्कते अभे­दा­भि­व्य­क्ति­प्र­यो­जनं वक्तुम् —
यद्यपीति ।

विषयप्रकाशकमिति ।
इति वक्तव्यं तादा­त्म्य­स­म्ब­न्ध­ला­भात् इति शेषः । न जीव­चै­त­न्य­मि­त्ये­व­का­रार्थः । ‘तथा च मयाऽयमवगतो घटः’ इत्यनुभवविरोध इति भावः ।

परिहरति —
तथाऽपीति ।

तस्येति ।
तादा­त्म्य­स­म्ब­न्धेन विष­या­व­भा­स­क­ब्र­ह्म­चै­त­न्यस्य वृत्तिद्वारा अन्तः­क­र­णो­प­हि­त­त्व­प्राप्तौ जीवेनैकीभावात् जीवत्वं सम्पन्नमिति ब्रह्मचैतन्यस्य यत् विषयावभासकत्वं तत् जीवस्यैवेति प्राप्त्या नानुभवविरोध इत्यर्थः ।

दर्पण इवेति ।
यथा दर्पणे प्रति­बि­म्ब­द­शायां बिम्ब­प्र­ति­बि­म्ब­यो­र­भे­दा­भि­व्य­क्ति­र्नास्ति तयोस्तदा भेदानुभवात्, तथा प्रकृतेऽपि विष­या­दि­रू­प­भे­द­को­पाधौ सति सा न सम्भवतीत्यर्थः । ननु - तत्त्व­सा­क्षा­त्का­रे­णा­शे­षो­पा­धि­नि­वृत्तौ यादृ­श्य­भे­दा­भि­व्यक्तिः तादृश्यत्र न विवक्षिता । किं तु क्षीर­नी­र­यो­रे­क­पा­त्र­स्थ­यो­रिव वृत्तिद्वारा अन्तः­क­र­ण­वि­ष­य­यो­रे­क­दे­श­स्थ­त्व­प्राप्तौ तन्मा­त्र­प्र­युक्ता तद­व­च्छि­न्न­चै­त­न्य­यो­रौ­प­चा­रि­क्य­भे­दा­भि­व्यक्तिः विवक्षिता । अस्यां चाभेदाभिव्यक्तौ न व्याव­र्त­को­पा­धि­स­त्त्व­प्र­युक्तो विरोधोऽस्ति । दर्पणे मुख­प्र­ति­बि­म्ब­द­शा­या­मपि ‘मम मुखमेव दर्पणे भाति’ इति बिम्ब­प्र­ति­बि­म्ब­यो­र­भे­दा­भि­व्य­क्ति­द­र्श­नात् । अस्मि­न्म­तेऽ­पी­त्थ­मेव निर्वाहः कर्तव्यः । न ह्यन्तः­क­र­ण­त­द्वृ­त्ति­प्र­ति­बि­म्ब­यो­र­भे­दा­भि­व्य­क्ति­र्मुख्या सम्भवति । वृत्ति­वृ­त्ति­मतोः कार्य­का­र­ण­भा­वा­प­न्नयोः ऐक्यायोगेन तत्प्र­ति­बि­म्ब­यो­रै­क्या­यो­गात् ।

ऐक्ये वा ‘एवं च’ इत्यादिना प्रमा­त्रा­दी­ना­म­स्मि­न्मते साङ्क­र्या­भा­वो­प­पा­द­न­वि­रो­धात् - इत्यस्वरसादाह —
वृत्ति­कृ­ता­भे­दा­भि­व्य­क्त्येति ।

तदा तद्विषयेति ।
विष­या­व­च्छि­न्न­ब्र­ह्मणो जीवत्वप्राप्तौ तस्ये­श्व­र­त्व­नि­वृ­त्ति­र­वश्यं वाच्या । चैतन्ये एकावच्छेदेन जीव­त्वे­श्व­र­त्व­यो­र­स­म्भ­वात् । तथा च तदा जीवत्वदशायां ब्रह्म­ण­स्त­द्वि­ष­य­सं­स­र्गा­भा­वेन तद्द्रष्टृत्वं न सम्भवतीत्यर्थः । तस्येत्यनन्तरं तदेत्यनुषङ्गः । ननु - विष­या­धि­ष्ठा­न­चै­त­न्यस्य वृत्ति­सं­स­र्ग­द­शा­या­म­न्तः­क­र­णो­प­हि­त­त्व­प्र­यु­क्त­जी­व­त्व­व­द­वि­द्यो­प­हि­त­त्व­प्र­यु­क्त­मी­श्व­र­त्व­म­प्य­वि­रु­द्धम् । तथा च बिम्ब­भू­ते­श्व­रस्य तदापि सर्व­ज्ञ­त्व­म­क्ष­तम् ।

अन्यथा अन्तः­क­र­णा­द्य­धि­ष्ठा­न­चै­त­न्यस्य तदु­पा­धि­क­त्व­प्र­यु­क्त­जी­वत्वे सदा स्थिते सति बिम्ब­भू­त­ब्र­ह्मणः सदा अन्तः­क­र­णा­दि­सं­स­र्गा­भा­वेन तद्द्र­ष्टृ­त्वा­स­म्भवे सति सदा सर्व­ज्ञ­त्वा­भा­व­प्र­स­ङ्ग­दोष इहापि मते तुल्यः - इत्यस्वरसं मनसि निधाय कीद्दशी तर्हि त्वदभिमता अभे­दा­भि­व्य­क्ति­रिति पृच्छति —
किंत्विति ।

तामाह —
विष­या­वि­च्छि­न्न­मिति ।

अग्रभाग इति ।
वृत्तिर्हि हृद­य­स्था­न्तः­क­र­ण­मा­रभ्य विष­य­प­र्य­न्त­म­वि­च्छिन्ना कौस्तु­भ­म­ण्या­दि­प्र­भा­व­द्दी­र्वी­भा­व­मा­पन्ना तिष्ठति । तस्या वृत्तेः विषयसंसृष्टो भागोऽग्रभाग इति उच्यते । तत्र यो ब्रह्मणः प्रतिबिम्बः तस्य विषयप्रकाशकस्य जीवेनैकीभावः इह अभे­दा­भि­व्य­क्ति­र्वि­व­क्षिता । वृत्ति­वृ­त्ति­म­तो­स्ता­दा­त्म्य­रू­पा­भे­द­स­त्त्वेन तत्प्र­ति­बि­म्ब­यो­र­भे­दा­भि­व्य­क्ति­स­म्भ­वा­दि­त्यर्थः ।

एवं चेति ।
वृत्ति­प्र­ति­बि­म्ब­स्या­न्तः­क­र­ण­प्र­ति­बि­म्बा­द्व­स्तुतो भिन्नस्यैव सतः तद­भे­दे­ना­भि­व्य­क्तस्य विषयावभासकत्वे स्वीकृते सतीत्यर्थः ।

असङ्करोऽपीति ।
वृत्ति­वृ­त्ति­म­तो­स्ता­दा­त्म्यात् तत्प्र­ति­बि­म्ब­यो­र­भे­दा­भि­व्य­क्ति­वत् अस­ङ्क­रोऽ­प्यु­प­प­द्यते इत्यपिशब्दार्थः । मुखं दर्पणोपाधिनेव अन्तः­क­र­णे­नो­पा­धिना अवच्छिन्नं तत्प्र­ति­बि­म्ब­चै­तन्यं प्रमाता, वृत्ति­प्र­ति­बि­म्ब­चै­तन्यं तयैवावच्छिन्नं प्रमा, विषयावच्छिन्नं ब्रह्मचैतन्यं प्रमेयमिति तेषा­म­सा­ङ्क­र्य­मु­प­प­द्यते, व्याव­र्त­को­पा­धि­स­द्भा­वा­दि­त्यर्थः । अस्मिन्मते असा­ङ्क­र्य­मु­प­प­द्यत इत्युक्त्या पूर्वमते विष­या­व­च्छि­न्न­ब्र­ह्म­चै­त­न्यस्य जीव­त्व­प्रा­प्ति­स्वी­का­रात् प्रमा­तृ­प्र­मे­य­चै­त­न्य­यो­र­सा­ङ्कर्यं नोपपद्यते इति सूचितम् । वस्तुस्तु पूर्वमतेऽपि न साङ्कर्यम्, जीव­ब्र­ह्म­भे­द­को­पा­धि­स­द्भा­वस्य तत्प्रयुक्ततया सर्व­ज्ञ­त्वा­दि­व्य­व­स्था­याश्च प्राग्द­र्शि­त­त्वा­दिति मन्तव्यम् ।

शङ्कते —
न चेति ।

तस्येति ।
तस्य विष­ये­णा­ध्या­सि­क­स­म्ब­न्धा­भा­वात् इति सम्बन्धः । प्रमारूपस्य वृत्ति­प्र­ति­बि­म्बस्य विष­यो­पा­दा­न­त्वा­भा­वेन तयो­स्ता­दा­त्म्या­स­म्भ­वात् । तथा च विषयापरोक्ष्ये आध्या­सि­क­ता­दा­त्म्य­स­म्बन्धो नियामक इति सिद्धान्तविरोध इति शङ्काभिप्रायः ।

बिम्ब­प्र­ति­बि­म्ब­यो­र­भे­दा­भ्यु­प­ग­मात् बिम्बचैतन्यस्य विषयेण सह यस्ता­दा­त्म्य­स­म्बन्धः स एव प्रमा­रू­प­प्र­ति­बि­म्ब­स्या­पीति नापसिद्धान्त इति परिहरति —
विषयाधिष्ठानेति ।

तदभेदेनेति ।
प्रति­बि­म्ब­चै­त­न्यस्य बिम्बा­भे­दे­ने­त्यर्थः ।

बिम्ब­प्र­ति­बि­म्ब­यो­र­भेदे सत्यपि कल्पि­त­भे­द­स­त्त्वात् बिम्बसम्बन्धस्य प्रति­बि­म्ब­स­म्ब­न्धत्वं नास्ति इत्यस्वरसं साक्षात्पदेन सूचयन् अभेदाभिव्यक्तिं प्रकारान्तरेणाह —
अपरे त्वाहुरिति ।

भेदसद्भावेऽपीति ।
प्रति­बि­म्ब­त्व­वि­शि­ष्ट­चै­त­न्य­रू­प­जी­वने सहेति शेषः ।

तदिति ।
बिम्ब­त्व­प्र­ति­बि­म्ब­त्वा­भ्या­मु­प­ल­क्षितं शुद्धचैतन्यं, तदात्मनेत्यर्थः ।

न चैवंसतीति ।
उप­ल­क्षि­त­चै­त­न्या­त्मना अभे­दा­भि­व्य­क्त्य­ङ्गी­कारे पूर्वोक्तं दोषद्वयं नास्तीत्यर्थः । अत्रेदं चिन्त्यम् - उप­ल­क्षि­त­चै­त­न्या­त्मना एकीभावः न वास्तवाभेदः । तस्य वृत्त्य­न­पे­क्ष­त्वात् । नापि व्यावहारिकाभेदः । बिम्ब­प्र­ति­बि­म्ब­भे­दस्य व्यावहारिकत्वेन तत्स­म­स­त्ता­का­भे­दा­स­म्भ­वात् । नापि प्राति­भा­सि­का­भेदः । उपा­ध्यो­रे­क­दे­श­स्थ­त्व­मा­त्रेण बिम्ब­प्र­ति­बि­म्ब­चै­त­न्ययोः प्राति­भा­सि­का­भे­द­स­म्भ­वेन तदर्थं चैत­न्य­मा­त्रो­प­ल­क्ष­ण­वै­य­र्थ्या­दिति ।