कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
अभेदाभिव्यक्तिवादः
द्वितीयपक्षमाक्षिपति —
अथेति ।
केयमिति ।
अभेदाभिव्यक्त्यर्था वृत्तिरिति द्वितीयपक्षो हि जीवस्य परिच्छिन्नत्वमते इत्युक्तम् । अस्मिन् मते अन्तःकरणोपाधिकस्य जीवस्य विषयावच्छिन्नबिम्बभूतब्रह्मचैतन्यस्य च वृत्त्या अभेदाभिव्यक्तिर्न सम्भवति, अखण्डाकारवृत्तेरिव घटादिगोचरवृत्तेः उपाधिनिवर्तकत्वाभावेन भेदकोपाध्योरन्तःकरणविषययोः सतोः जीवब्रह्माभेदाभिव्यक्तेरयोगात् इत्यर्थः ।
व्यावर्तकोपाध्योः सत्त्वेऽपि तयोरेकदेशस्थत्वसम्पत्तौ तद्बलादभेदाभिव्यक्तिः सम्भवति, लोके तथा दर्शनात्, इति परिहरति —
केचिदाहुरिति ।
केदारः सस्यनिष्पत्तिस्थानम् । तथा च तटाकस्थसलिलस्य कुल्याद्वारा केदारसलिलस्य च अभेदाभिव्यक्तिर्यथा लोके प्रसिद्धा, तथा अन्तःकरणावच्छिन्नचैतन्यरूपजीवस्य विषयावच्छिन्नब्रह्मचैतन्यस्य च वृत्तिद्वारा अभेदाभिव्यक्तिर्भवति, वृत्तेर्विषयदेशस्थत्वे सति वृत्तिवृत्तिमतोरभेदेन जीवोपाध्यन्तःकरणस्यापि विषयदेशस्थत्वसिद्धेरित्यर्थः ।
एवं चेति ।
अभेदाभिव्यक्तौ सम्भावितायामित्यर्थः। ननु — जीवचैतन्यस्य विषयावभासकत्वं न सम्भवति । तस्य विषयं प्रत्युपादानत्वाभावेन तादात्म्यसम्बन्धाभावात् । न च - ब्रह्मचैतन्यमेव विषयावभासकमस्तु, तस्य उपादानतया साक्षादेव तादात्म्यसम्बन्धलाभादिति - वाच्यम् ।
तथा सति ‘आलोकेन घटः प्रकाशितः’ इतिवत् ‘मया घटोऽवगतः’ इति जीवचैतन्यस्यैव घटप्रकाशकत्वावगमविरोधात्- इति मत्वा पुनश्शङ्कते अभेदाभिव्यक्तिप्रयोजनं वक्तुम् —
यद्यपीति ।
विषयप्रकाशकमिति ।
इति वक्तव्यं तादात्म्यसम्बन्धलाभात् इति शेषः । न जीवचैतन्यमित्येवकारार्थः । ‘तथा च मयाऽयमवगतो घटः’ इत्यनुभवविरोध इति भावः ।
परिहरति —
तथाऽपीति ।
तस्येति ।
तादात्म्यसम्बन्धेन विषयावभासकब्रह्मचैतन्यस्य वृत्तिद्वारा अन्तःकरणोपहितत्वप्राप्तौ जीवेनैकीभावात् जीवत्वं सम्पन्नमिति ब्रह्मचैतन्यस्य यत् विषयावभासकत्वं तत् जीवस्यैवेति प्राप्त्या नानुभवविरोध इत्यर्थः ।
दर्पण इवेति ।
यथा दर्पणे प्रतिबिम्बदशायां बिम्बप्रतिबिम्बयोरभेदाभिव्यक्तिर्नास्ति तयोस्तदा भेदानुभवात्, तथा प्रकृतेऽपि विषयादिरूपभेदकोपाधौ सति सा न सम्भवतीत्यर्थः । ननु - तत्त्वसाक्षात्कारेणाशेषोपाधिनिवृत्तौ यादृश्यभेदाभिव्यक्तिः तादृश्यत्र न विवक्षिता । किं तु क्षीरनीरयोरेकपात्रस्थयोरिव वृत्तिद्वारा अन्तःकरणविषययोरेकदेशस्थत्वप्राप्तौ तन्मात्रप्रयुक्ता तदवच्छिन्नचैतन्ययोरौपचारिक्यभेदाभिव्यक्तिः विवक्षिता । अस्यां चाभेदाभिव्यक्तौ न व्यावर्तकोपाधिसत्त्वप्रयुक्तो विरोधोऽस्ति । दर्पणे मुखप्रतिबिम्बदशायामपि ‘मम मुखमेव दर्पणे भाति’ इति बिम्बप्रतिबिम्बयोरभेदाभिव्यक्तिदर्शनात् । अस्मिन्मतेऽपीत्थमेव निर्वाहः कर्तव्यः । न ह्यन्तःकरणतद्वृत्तिप्रतिबिम्बयोरभेदाभिव्यक्तिर्मुख्या सम्भवति । वृत्तिवृत्तिमतोः कार्यकारणभावापन्नयोः ऐक्यायोगेन तत्प्रतिबिम्बयोरैक्यायोगात् ।
ऐक्ये वा ‘एवं च’ इत्यादिना प्रमात्रादीनामस्मिन्मते साङ्कर्याभावोपपादनविरोधात् - इत्यस्वरसादाह —
वृत्तिकृताभेदाभिव्यक्त्येति ।
तदा तद्विषयेति ।
विषयावच्छिन्नब्रह्मणो जीवत्वप्राप्तौ तस्येश्वरत्वनिवृत्तिरवश्यं वाच्या । चैतन्ये एकावच्छेदेन जीवत्वेश्वरत्वयोरसम्भवात् । तथा च तदा जीवत्वदशायां ब्रह्मणस्तद्विषयसंसर्गाभावेन तद्द्रष्टृत्वं न सम्भवतीत्यर्थः । तस्येत्यनन्तरं तदेत्यनुषङ्गः । ननु - विषयाधिष्ठानचैतन्यस्य वृत्तिसंसर्गदशायामन्तःकरणोपहितत्वप्रयुक्तजीवत्ववदविद्योपहितत्वप्रयुक्तमीश्वरत्वमप्यविरुद्धम् । तथा च बिम्बभूतेश्वरस्य तदापि सर्वज्ञत्वमक्षतम् ।
अन्यथा अन्तःकरणाद्यधिष्ठानचैतन्यस्य तदुपाधिकत्वप्रयुक्तजीवत्वे सदा स्थिते सति बिम्बभूतब्रह्मणः सदा अन्तःकरणादिसंसर्गाभावेन तद्द्रष्टृत्वासम्भवे सति सदा सर्वज्ञत्वाभावप्रसङ्गदोष इहापि मते तुल्यः - इत्यस्वरसं मनसि निधाय कीद्दशी तर्हि त्वदभिमता अभेदाभिव्यक्तिरिति पृच्छति —
किंत्विति ।
तामाह —
विषयाविच्छिन्नमिति ।
अग्रभाग इति ।
वृत्तिर्हि हृदयस्थान्तःकरणमारभ्य विषयपर्यन्तमविच्छिन्ना कौस्तुभमण्यादिप्रभावद्दीर्वीभावमापन्ना तिष्ठति । तस्या वृत्तेः विषयसंसृष्टो भागोऽग्रभाग इति उच्यते । तत्र यो ब्रह्मणः प्रतिबिम्बः तस्य विषयप्रकाशकस्य जीवेनैकीभावः इह अभेदाभिव्यक्तिर्विवक्षिता । वृत्तिवृत्तिमतोस्तादात्म्यरूपाभेदसत्त्वेन तत्प्रतिबिम्बयोरभेदाभिव्यक्तिसम्भवादित्यर्थः ।
एवं चेति ।
वृत्तिप्रतिबिम्बस्यान्तःकरणप्रतिबिम्बाद्वस्तुतो भिन्नस्यैव सतः तदभेदेनाभिव्यक्तस्य विषयावभासकत्वे स्वीकृते सतीत्यर्थः ।
असङ्करोऽपीति ।
वृत्तिवृत्तिमतोस्तादात्म्यात् तत्प्रतिबिम्बयोरभेदाभिव्यक्तिवत् असङ्करोऽप्युपपद्यते इत्यपिशब्दार्थः । मुखं दर्पणोपाधिनेव अन्तःकरणेनोपाधिना अवच्छिन्नं तत्प्रतिबिम्बचैतन्यं प्रमाता, वृत्तिप्रतिबिम्बचैतन्यं तयैवावच्छिन्नं प्रमा, विषयावच्छिन्नं ब्रह्मचैतन्यं प्रमेयमिति तेषामसाङ्कर्यमुपपद्यते, व्यावर्तकोपाधिसद्भावादित्यर्थः । अस्मिन्मते असाङ्कर्यमुपपद्यत इत्युक्त्या पूर्वमते विषयावच्छिन्नब्रह्मचैतन्यस्य जीवत्वप्राप्तिस्वीकारात् प्रमातृप्रमेयचैतन्ययोरसाङ्कर्यं नोपपद्यते इति सूचितम् । वस्तुस्तु पूर्वमतेऽपि न साङ्कर्यम्, जीवब्रह्मभेदकोपाधिसद्भावस्य तत्प्रयुक्ततया सर्वज्ञत्वादिव्यवस्थायाश्च प्राग्दर्शितत्वादिति मन्तव्यम् ।
शङ्कते —
न चेति ।
तस्येति ।
तस्य विषयेणाध्यासिकसम्बन्धाभावात् इति सम्बन्धः । प्रमारूपस्य वृत्तिप्रतिबिम्बस्य विषयोपादानत्वाभावेन तयोस्तादात्म्यासम्भवात् । तथा च विषयापरोक्ष्ये आध्यासिकतादात्म्यसम्बन्धो नियामक इति सिद्धान्तविरोध इति शङ्काभिप्रायः ।
बिम्बप्रतिबिम्बयोरभेदाभ्युपगमात् बिम्बचैतन्यस्य विषयेण सह यस्तादात्म्यसम्बन्धः स एव प्रमारूपप्रतिबिम्बस्यापीति नापसिद्धान्त इति परिहरति —
विषयाधिष्ठानेति ।
तदभेदेनेति ।
प्रतिबिम्बचैतन्यस्य बिम्बाभेदेनेत्यर्थः ।
बिम्बप्रतिबिम्बयोरभेदे सत्यपि कल्पितभेदसत्त्वात् बिम्बसम्बन्धस्य प्रतिबिम्बसम्बन्धत्वं नास्ति इत्यस्वरसं साक्षात्पदेन सूचयन् अभेदाभिव्यक्तिं प्रकारान्तरेणाह —
अपरे त्वाहुरिति ।
भेदसद्भावेऽपीति ।
प्रतिबिम्बत्वविशिष्टचैतन्यरूपजीवने सहेति शेषः ।
तदिति ।
बिम्बत्वप्रतिबिम्बत्वाभ्यामुपलक्षितं शुद्धचैतन्यं, तदात्मनेत्यर्थः ।
न चैवंसतीति ।
उपलक्षितचैतन्यात्मना अभेदाभिव्यक्त्यङ्गीकारे पूर्वोक्तं दोषद्वयं नास्तीत्यर्थः । अत्रेदं चिन्त्यम् - उपलक्षितचैतन्यात्मना एकीभावः न वास्तवाभेदः । तस्य वृत्त्यनपेक्षत्वात् । नापि व्यावहारिकाभेदः । बिम्बप्रतिबिम्बभेदस्य व्यावहारिकत्वेन तत्समसत्ताकाभेदासम्भवात् । नापि प्रातिभासिकाभेदः । उपाध्योरेकदेशस्थत्वमात्रेण बिम्बप्रतिबिम्बचैतन्ययोः प्रातिभासिकाभेदसम्भवेन तदर्थं चैतन्यमात्रोपलक्षणवैयर्थ्यादिति ।