अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

जीवन्मुक्तिसदसद्भावोपपादनम्

अविद्याया अना­दि­त्वा­वि­रो­धेन लेशशब्दार्थं मतभेदेनाह —
आवरणेति ।
आव­र­ण­वि­क्षे­प­श­क्ति­द्व­य­वत्या अविद्यायाः वृत्ति­सा­क्षा­त्का­रेण आव­र­ण­श­क्ते­र्नाशः, विक्षे­प­श­क्ति­मत्या अविद्यायाः प्रार­ब्ध­क­र्म­रू­प­प्र­ति­ब­न्ध­क­क्षये सति पूर्वमेव निवृत्तावरणतया स्थितं चैतन्यं प्रति­ब­न्धा­प­ग­म­काले नाशकं इत्यभ्युपगमात् ‘तत्त्वज्ञानेन विक्षे­प­श­क्ति­म­द­वि­द्या­रू­प­स्या­वि­द्या­ले­श­स्या­नि­वृत्तौ तस्य पश्चात् को निवर्तकः’ इति शङ्काया अनवकाश इति बोध्यम् ।

क्षालितेति ।
तत्त्वज्ञानेन अन्तः­क­र­णा­द्यु­पा­दा­न­भू­ता­वि­द्याया निवृत्तावपि अविद्याजन्यः कश्चित् देहा­दि­स्थि­ति­प्र­यो­जको वासनाविशेष इत्यर्थः । न च उपादाननाशे कथं कार्यस्थितिरिति वाच्यम् । पटादिनाशक्षणे पटरूपादीनां परमते स्थित्य­भ्यु­प­ग­म­वत् अस्मन्मतेऽपि तद­भ्यु­प­ग­मो­प­पत्तेः । न च सम­वा­यि­का­र­ण­ना­श­रू­प­का­र­ण­प्र­ती­क्षया रूपा­दी­ना­मु­पा­दा­ना­भा­व­का­लेऽपि स्थितिरुपपद्यत इति वाच्यम् । तथा सति प्रकृतेऽपि तत्त्व­ज्ञा­न­ज­नि­तस्य देहा­द्यु­पा­दा­ना­वि­द्या­ना­शस्य देहादिनाशहेतोः प्रारब्धकर्मणा प्रतिबद्धतया प्रति­ब­न्ध­क­र­हि­ता­वि­द्या­ना­श­प्र­ती­क्षया देहादीनामपि स्थित्युपपत्तेः । न च प्रारब्धकर्मणः प्रतिबन्धकत्वे मानाभावः । जीव­न्मु­क्ति­शा­स्त्र­वि­द्व­द­नु­भ­वा­दे­र्मा­न­त्वात् । (परमते च) पटतद्रूपादीनां युगपदेव नाशदर्शनेन परमते परं तथाङ्गीकारे मानाभावः । तदुक्तं श्रीवि­द्या­र­ण्य­गु­रुभिः — x‘विना क्षोदक्षमं मानं तैर्वृथा परिकल्प्यते । श्रुति­यु­क्त्य­नु­भू­तिभ्यो वदतां किं नु दुश्शकम् ॥’ [पं.द. ६-५६] इति । दुश्शकं अशक्यमित्यर्थः । क्षालिते लशुनभाण्डे अनुवृत्ता या लशुनवासना तत्तुल्य इत्यक्षरार्थः ।

तत्त्वज्ञानेन बाधिता दृढ­त­र­का­र्या­क्ष­मत्वं नीता साक्षादविद्यैव अविद्यालेश इत्याह —
दग्धेति ।
तदुक्तं — ‘कार्यक्षमं नश्यति चापरोक्ष्यात् ।’ इति ।

‘कोऽय­म­वि­द्या­लेशः, यदनुवृत्त्या जीव­न्मु­क्ति(सिद्धि): इत्यापेक्षे इष्टा­प­त्ति­रि­त्याह —
सर्वज्ञेति ।

अनु­वृ­त्त्य­स­म्भ­वा­दिति ।
न जीव­न्मु­क्ति­र­स्तीति शेषः ।

ननु जीव­न्मु­क्त्य­भावे ‘तस्य तावदेव चिरं’ इत्यादिशास्त्रं जीव­न्मु­क्ति­प्र­ति­पा­दकं अप्रमाणं स्यात्, इत्यत आह —
जीव­न्मु­क्ति­शा­स्त्र­मिति ।
‘श्रोत­व्या­दि­वि­धि­भि­र्वि­धी­य­मानं श्रवणादिकं अतिप्रशस्तम्, यस्यानुष्ठानात् जीवतोऽपि मुक्तिर्लभ्यते’ इति श्रव­णा­दि­स्ता­व­क­मि­त्यर्थः ।

न तु स्वार्थपरमिति मात्रशब्दार्थे हेतुमाह —
शास्त्रस्येति ।
निष्फलेऽर्थे वेद­ता­त्प­र्या­यो­गा­दिति भावः ।

अत इति ।
जीवन्मुक्तौ माना­भा­वा­दि­त्यर्थः ।

सविलासेति ।
विलासेन वासनया च सहैव अवि­द्या­नि­वृ­त्ति­रि­त्यर्थः ।

सत्यं जीव­न्मु­क्ति­शास्त्रं श्रव­णा­दि­वि­ध्य­र्थ­वाद इति ।

अर्थवादत्वेऽपि साल­म्ब­ना­र्थ­वा­द­त्व­स­म्भवे निरा­ल­म्ब­न­त्वा­यो­गात्, लोके रज्ज्वा­दि­त­त्त्व­ज्ञा­नेन सर्पा­द्य­ध्या­सस्य समूलस्य निवृ­त्त्य­न­न्त­र­मपि सर्पा­द्य­ध्या­स­सं­स्का­र­व­शात् कंचित्कालं भय­क­म्पा­द्य­नु­वृ­त्ति­द­र्श­नेन तत्वज्ञानस्य अवि­द्या­दि­सं­स्का­रा­वि­रो­धि­त्वाच्च, मूला­वि­द्या­द्य­ध्या­स­ज­नि­त­सं­स्का­र­व­शात् जीवन्मुक्तौ नानुपपत्तिः — इति सूचयति —
इत्यपीति ।