कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
जीवन्मुक्तिसदसद्भावोपपादनम्
अविद्याया अनादित्वाविरोधेन लेशशब्दार्थं मतभेदेनाह —
आवरणेति ।
आवरणविक्षेपशक्तिद्वयवत्या अविद्यायाः वृत्तिसाक्षात्कारेण आवरणशक्तेर्नाशः, विक्षेपशक्तिमत्या अविद्यायाः प्रारब्धकर्मरूपप्रतिबन्धकक्षये सति पूर्वमेव निवृत्तावरणतया स्थितं चैतन्यं प्रतिबन्धापगमकाले नाशकं इत्यभ्युपगमात् ‘तत्त्वज्ञानेन विक्षेपशक्तिमदविद्यारूपस्याविद्यालेशस्यानिवृत्तौ तस्य पश्चात् को निवर्तकः’ इति शङ्काया अनवकाश इति बोध्यम् ।
क्षालितेति ।
तत्त्वज्ञानेन अन्तःकरणाद्युपादानभूताविद्याया निवृत्तावपि अविद्याजन्यः कश्चित् देहादिस्थितिप्रयोजको वासनाविशेष इत्यर्थः । न च उपादाननाशे कथं कार्यस्थितिरिति वाच्यम् । पटादिनाशक्षणे पटरूपादीनां परमते स्थित्यभ्युपगमवत् अस्मन्मतेऽपि तदभ्युपगमोपपत्तेः । न च समवायिकारणनाशरूपकारणप्रतीक्षया रूपादीनामुपादानाभावकालेऽपि स्थितिरुपपद्यत इति वाच्यम् । तथा सति प्रकृतेऽपि तत्त्वज्ञानजनितस्य देहाद्युपादानाविद्यानाशस्य देहादिनाशहेतोः प्रारब्धकर्मणा प्रतिबद्धतया प्रतिबन्धकरहिताविद्यानाशप्रतीक्षया देहादीनामपि स्थित्युपपत्तेः । न च प्रारब्धकर्मणः प्रतिबन्धकत्वे मानाभावः । जीवन्मुक्तिशास्त्रविद्वदनुभवादेर्मानत्वात् । (परमते च) पटतद्रूपादीनां युगपदेव नाशदर्शनेन परमते परं तथाङ्गीकारे मानाभावः । तदुक्तं श्रीविद्यारण्यगुरुभिः — x‘विना क्षोदक्षमं मानं तैर्वृथा परिकल्प्यते । श्रुतियुक्त्यनुभूतिभ्यो वदतां किं नु दुश्शकम् ॥’ [पं.द. ६-५६] इति । दुश्शकं अशक्यमित्यर्थः । क्षालिते लशुनभाण्डे अनुवृत्ता या लशुनवासना तत्तुल्य इत्यक्षरार्थः ।
तत्त्वज्ञानेन बाधिता दृढतरकार्याक्षमत्वं नीता साक्षादविद्यैव अविद्यालेश इत्याह —
दग्धेति ।
तदुक्तं — ‘कार्यक्षमं नश्यति चापरोक्ष्यात् ।’ इति ।
‘कोऽयमविद्यालेशः, यदनुवृत्त्या जीवन्मुक्ति(सिद्धि): इत्यापेक्षे इष्टापत्तिरित्याह —
सर्वज्ञेति ।
अनुवृत्त्यसम्भवादिति ।
न जीवन्मुक्तिरस्तीति शेषः ।
ननु जीवन्मुक्त्यभावे ‘तस्य तावदेव चिरं’ इत्यादिशास्त्रं जीवन्मुक्तिप्रतिपादकं अप्रमाणं स्यात्, इत्यत आह —
जीवन्मुक्तिशास्त्रमिति ।
‘श्रोतव्यादिविधिभिर्विधीयमानं श्रवणादिकं अतिप्रशस्तम्, यस्यानुष्ठानात् जीवतोऽपि मुक्तिर्लभ्यते’ इति श्रवणादिस्तावकमित्यर्थः ।
न तु स्वार्थपरमिति मात्रशब्दार्थे हेतुमाह —
शास्त्रस्येति ।
निष्फलेऽर्थे वेदतात्पर्यायोगादिति भावः ।
अत इति ।
जीवन्मुक्तौ मानाभावादित्यर्थः ।
सविलासेति ।
विलासेन वासनया च सहैव अविद्यानिवृत्तिरित्यर्थः ।
सत्यं जीवन्मुक्तिशास्त्रं श्रवणादिविध्यर्थवाद इति ।
अर्थवादत्वेऽपि सालम्बनार्थवादत्वसम्भवे निरालम्बनत्वायोगात्, लोके रज्ज्वादितत्त्वज्ञानेन सर्पाद्यध्यासस्य समूलस्य निवृत्त्यनन्तरमपि सर्पाद्यध्याससंस्कारवशात् कंचित्कालं भयकम्पाद्यनुवृत्तिदर्शनेन तत्वज्ञानस्य अविद्यादिसंस्काराविरोधित्वाच्च, मूलाविद्याद्यध्यासजनितसंस्कारवशात् जीवन्मुक्तौ नानुपपत्तिः — इति सूचयति —
इत्यपीति ।