कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
विद्यार्थकर्मसु अधिकारिविचारः
एवं विविदिषाद्वारा विद्यायां कर्मणां विनियोगं निरूप्य तेषु त्रैवर्णिकानामधिकार इति निरूपणार्थं आक्षेपव्याजेन प्रसङ्गं दर्शयति —
नन्वित्यादिना ।
एवमपीति ।
‘तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने’ इति ज्ञानकर्मसमुच्चयप्रतिपादकस्मरणस्य, विविदिषावाक्याविरोधेन ‘ज्ञानं साक्षात् ब्रह्मप्राप्तिसाधनं कर्म च विद्याद्वारा तत्प्राप्तिसाधनं’ इति क्रमसमुच्चयपरतया निर्वाहेऽपीत्यर्थः । अत्र अवधारणेन संसिद्धिशब्दितमुक्तिं प्रति कर्मातिरिक्तोपायनिषेधात् जनकाद्यनुष्ठितकर्मणो मुक्तिं प्रति साक्षादेवोपयोगः प्रतीयते, स च विविदिषावाक्यविरुद्ध इति समुच्चयस्मरणवत् अस्य स्मरणस्य निर्वाहो न सिद्ध्यतीत्यर्थः ।
अस्यापि विविदिषावाक्याविरुद्धं सिद्धान्त्यभिमतमर्थमाशङ्क्य निषेधति —
न च तस्येति ।
विद्यार्थेति ।
अस्मिन् स्मरणे संसिद्धिपदं विद्यापरम् । तथा च शुद्धिद्वारा कर्मणैव विद्यां प्राप्ता इति स्मरणार्थ इति भावः ।
तस्य स्मरणस्य विद्यार्थकर्मानुष्ठानपरत्वं न चेत्यत्र हेतुमाह —
विविदिषावाक्य इति ।
अत इति ।
विविदिषावाक्यबोध्ये विद्यासाधनकर्मणि त्रैवर्णिकानामनधिकारादित्यर्थः ।
उपलक्षणत्वादिति ।
तथा च भाष्यं — ब्राह्मणग्रहणमुपलक्षणार्थं, अविशिष्टो ह्यधिकारस्त्रयाणां वर्णानाम्’ [बृ.उ. ४-४] इति । तथा च विद्यार्थकर्मसु जनकादीनामप्यधिकारसत्त्वात् ‘कर्मणैव हि’ इति स्मरणं विद्यार्थकर्मानुष्ठानपरमेवेति न तद्बलात् ‘तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्थाः’ इत्यादिश्रुतिविरुद्धः साक्षादेव कर्मणां मुक्त्युपयोगो वक्तव्य इति भावः ।
अत्रभवन्त इति ।
पूज्या इत्यर्थः ।
आत्मबोधन इति ।
आत्मबोधसाधनयज्ञादिकर्मणीत्यर्थः, विद्यार्थकर्माधिकारस्यैव प्रकृतत्वात् इति मन्तव्यम् ।
ननु - विविदिषावाक्ये ब्राह्मणपदस्य त्रैवर्णिकोपलक्षणत्वे सिद्धे त्रयाणां वर्णानामविशेषेण विद्यार्थकर्मस्वधिकारस्सिद्ध्यति, तत्र सर्वेषामविशिष्टाधिकारत्वे सिद्धे तदनुरोधेन ब्राह्मणग्रहणस्योपलक्षणत्वं सिद्ध्यतीति परस्पराश्रयत्वप्रसङ्गः - इति चेत्, न — ब्राह्मणग्रहणस्य द्विजोपलक्षणत्वमनुपजीव्यैव सर्वेषां द्विजानां विद्यार्थकर्मस्वधिकारसिद्धेः वार्तिकवचने विवक्षितत्वात् । ननु विविदिषावाक्ये ब्राह्मणग्रहणेन ब्राह्मणस्यैव विद्यार्थकर्मस्वधिकारे प्रतीयमाने कथं वर्णत्रयसाधारणाधिकारस्सिद्ध्येदिति चेत्, तत्र वक्तव्यं — किं ब्राह्मणपदस्य यज्ञादिविधौ उद्देश्यविशेषणसमर्पकतया ब्राह्मणमात्राधिकारप्रापकत्वं, किं वा विधेयकर्तृसमर्पकतया तन्मात्राधिकारप्रापकत्वं, तदुभयसमर्पकत्वाभावेऽपि स्वसन्निधिमात्रेण वा तन्मात्राधिकारप्रापकत्वम् ? गत्यन्तराभावात् । तत्र नाद्य इत्याह —
न हीति ।
यज्ञादीनां विद्यालक्षणफले विनियोगपरे विधौ विद्याकामस्याधिकारस्सिद्ध एव । तथा च ब्राह्मण्यविशिष्टस्य विद्याकामस्याधिकारो विवक्षित इति स्वीकृत्य ब्राह्मणपदस्य अधिकारिविशेषणसमर्पकत्वं वक्तुं न शक्यते । विधेययज्ञादिनिरूपितोद्देश्यताया विद्याकाममात्रे पर्यवसानसम्भवेन ब्राह्मण्यरूपविशेषणस्यानाकाङ्क्षिततया विद्याकामं प्रति विशेषणत्वेनान्वयायोगात्, विशिष्टस्योद्देश्यत्वकल्पने गौरवाच्च, विद्याकामब्राह्मण्ययोः प्रत्येकमुद्देश्यत्वे च वाक्यभेदप्रसङ्गात्-विद्याकामो यज्ञादीननुतिष्ठेत्, ब्राह्मणो यज्ञादीननुतिष्ठेदिति - इति भावः ।
द्वितीयं सदृष्टान्तमाशङ्क्य निराकरोति —
नापीति ।
स्वाराज्यकामवाक्ये राजपदस्य पूर्वोक्तरीत्या स्वाराज्यकामं प्रति विशेषणत्वायोगात् कर्तृविधायकत्वं स्वीकृत्य राजसूये राज्ञस्सतस्स्वाराज्यकामस्याधिकारः साधित इत्यर्थः । राज्ञोऽर्थादधिकारिकोटिनिवेशवदिति सम्बन्धः ।
अर्थादितिपदोक्तामर्थापत्तिं स्फुटयति —
राजकर्तृकेति ।
इहेति ।
विविदिषावाक्ये इत्यर्थः ।
विधेयस्येति ।
‘विद्याकामो ब्राह्मणकर्तृकयज्ञादीननुतिष्ठेत्’ इत्येवंविधेयस्येत्यर्थः ।
अर्थादिति ।
ब्राह्मणकर्तृकयज्ञादेरब्राह्मणेन सम्पादयितुमशक्यत्वादित्यर्थः ।
‘अर्थादधिकारिकोटिनिवेश इत्यपि न युज्यते’ इत्यत्र दृष्टान्तवैषम्यमभिप्रेत्य हेतुमाह —
सर्वथापीत्यादिना ।
यज्ञादीनामाश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे च यावज्जीवादिवाक्येषु येऽग्निहोत्रादयो धर्मा विहिताः त एवानुष्ठेयाः । कुतः । श्रुतिस्मृतिरूपोभयलिङ्गात् । श्रुतिस्तावद्विविदिषावाक्यगतयज्ञादिश्रुतिरेव । तया प्रसिद्धयज्ञादीनां प्रसिद्धदानादीनां च प्रत्यभिज्ञायमानत्वात्, अपूर्वयज्ञादिविधायकत्वे प्रत्यभिज्ञाविरोधात्, प्रसिद्धयज्ञाद्यनुवादेन फलसम्बन्धमात्रबोधने लाघवाच्च, यज्ञादीनां सुबन्तयज्ञादिपदोपात्तत्वेन अत्र विधेयत्वाप्रतीतेश्च । स्मृतिश्च ‘अनाश्रितः कर्मफलम्’ इत्याद्या प्रसिद्धयज्ञादीनामेव फलाभिसन्धिं विना अनुष्ठितानां विद्याहेतुत्वं दर्शयति — इति सूत्रार्थः ।
अन्यत्रेति ।
विविदिषावाक्यादन्यत्र कर्मकाण्डे इत्यर्थः ।
उभयविधानादिति ।
राजसूयवाक्ये तु कर्त्रादिगुणविशिष्टस्य अपूर्वकर्मण एव विध्युपगमात् न वाक्यभेदप्रसक्तिरिति तत्र राजपदस्य कर्तृरूपगुणविधायकत्वं युक्तमिति भावः ।
तृतीयमपि सदृष्टान्तमाशङ्क्य निराकरोति —
नापीति ।
राज्ञ इति ।
राज्ञः कर्तृतया विधेयत्वाभावेऽपि राज्ञ एव राजसूयाधिकारस्सिद्ध्यति, राजपदसन्निधानेन स्वाराज्यकामपदस्य क्षत्रियपरत्वावगमात्, अन्यथा राजपदवैयर्थ्यप्रसङ्गात् - इति तात्पर्येण येषां मते राज्ञः कर्तृतया विधिर्नाभ्युपगम्यते, तेषां पक्षे इत्यर्थः ।
‘ब्राह्मणाधिकारपर्यवसानम्’ इत्यपि नोपपद्यते - इत्यत्र हेतुमाह —
अन्यत्रेति ।
कर्मकाण्डे इत्यर्थः ।
इहापीति ।
विविदिषावाक्येऽपीत्यर्थः ।
त्रैवर्णिकाधिकारात्मविद्येति ।
ब्राह्मणस्येव क्षत्रियवैश्ययोरपि विद्यायामर्थित्वलक्षणाधिकाराविशेषात् शूद्रस्येव विद्यार्थयज्ञादिषु तयोः प्रतिषेधाभावाच्च इत्यर्थः ।
युक्ततयेति ।
अधिकारिणामसङ्कोचस्य विधिगतानुष्ठापकत्वलक्षणप्रामाण्योपपादकत्वादिति भावः ।
अन्यत्रकॢप्तत्वाद्युपपत्तित्रयप्राप्तस्यापि क्षत्रियवैश्ययोरधिकारस्य ब्राह्मणपदमपवादकमित्याशङ्क्याह —
विधिसंसर्गहीनेति ।
उद्देश्यसमर्पकतया विधेयसमर्पकतया वा विधिवाक्यार्थान्वयबोधानुपयोगीत्यर्थः । राजसूयवाक्ये तु राजसूयस्य अत्रैव विधेयत्वेन त्रैवर्णिकाधिकारत्वेनान्यत्राकॢप्तत्वात् युक्तं विधिसंसर्गहीनराजपदसमभिव्याहारमात्रात् राजकर्तृनियम इति भावः । ननूक्तन्यायेन ब्राह्मणपदाभावेऽपि क्षत्रियवैश्ययोरिव ब्राह्मणस्यापि विद्यार्थकर्मस्वधिकारसिद्धेः ब्राह्मणग्रहणं व्यर्थमेव स्यादिति चेत्, न — विद्यार्थकर्मसु ब्राह्मणस्य मुख्याधिकारज्ञापनार्थतोपपत्तेर्वैयर्थ्यानवकाशादिति भावः ।
ब्राह्मणग्रहणस्योपलक्षणत्वपक्षेऽतिप्रसङ्गं शङ्कते —
नन्विति ।
अविधेयायां हि विद्यायामधिकारो नाम विद्यार्थित्वमात्रम्, तच्च शूद्रस्यापि सम्भवतीति क्षत्रियादेरिव तस्यापि विद्यार्थकर्मस्वधिकारो दुर्निवार इत्यर्थः । शूद्रस्य श्रुत्युक्तसगुणब्रह्मविद्यासु निर्गुणब्रह्मविद्यासाधनवेदान्तश्रवणादिषु चाधिकारमाशङ्क्य नास्त्यधिकार इति निर्णीतमपशूद्राधिकरणे । तस्याधिकाराभावे च भाष्ये हेतुरुपन्यस्तो वेदाध्ययनाभावादिति । ‘शूद्रस्य वेदोच्चारणश्रवणधारणानां निषेधेन वेदाध्ययनाभावेऽपि वेदार्थभूतोपासनाद्यनुष्ठानं किं न स्यात्’ इत्याशङ्क्य, ‘अध्ययनविधिना वेदजन्यवेदार्थज्ञानस्य वेदार्थानुष्ठानेषु नियमितत्वात् अध्ययनशून्यस्य तदभावात् न सगुणनिर्गुणविद्यानुष्ठानेष्वधिकारः’ इत्युक्तम् । तथा च तुल्यतया विद्यार्थकर्मस्वप्यधिकारो नास्तीत्यर्थः ।
ननु ‘शूद्रस्य वेदोक्तयज्ञादिष्वधिकाराभावेऽपि वक्ष्यमाणरीत्या तस्य विद्यासाधनकर्मणां सम्भवात् विद्याकामनया शूद्रस्यापि तेषामनुष्ठानं सम्भवतीत्याशङ्क्य, तस्य विद्याकामनैव न सम्भवतीत्याह —
न शूद्रायेति ।
मतिं - शास्त्रार्थज्ञानं, विद्यायाः महिमा - निरतिशयानन्दरूपब्रह्मप्राप्तिसाधनत्वम् ।
‘शूद्रस्यापि विद्यार्थकर्माधिकारप्रसङ्गः’ इत्यत्र इष्टापत्तिरित्याह —
अन्ये त्विति ।
कण्ठत उक्तस्सर्ववर्णाधिकारो यस्मिन् तादृशविद्यादिजपे स तथोक्तः । श्रीमत्पञ्चाक्षरमेव मन्त्रराजविद्या । आदिपदं च आगमिकपौराणिकमन्त्रान्तरसङ्ग्रहार्थम् । तथा च ब्रह्मोत्तरखण्डे — ‘किं तस्य बहुभिर्मन्त्रैः किं तीर्थैः किं तपोऽध्वरैः । यस्योन्नमश्शिवायेति मन्त्रो हृदयगोचरः । मन्त्राधिराजराजो यःसर्ववेदान्तशेखरः । सर्वज्ञाननिधानं च सोऽयं शैवषडक्षरः ॥ प्रणवेन विना मन्त्रः सोऽयं पञ्चाक्षरः स्मृतः । स्त्रीभिश्शूद्रैश्च सङ्कीर्णैर्ध्यायते मुक्तिकाङ्क्षिभिः ॥’ इति । पाकयज्ञादीत्यादिपदं द्विजशुश्रूषानामकीर्तनतीर्थस्नानादिसङ्ग्रहार्थम् । ननु — विविदिषावाक्ये शूद्रसाधारणवर्णधर्माणामुपलक्षणेऽपि यज्ञादीनामेकवाक्योपादानात् तेषां समुच्चयस्य विद्यासाधनत्वं भाति, यज्ञादिसमुच्चयश्च शूद्रे बाधित इति कथं तस्य विद्यार्थकर्माधिकारः, इत्याशङ्क्य हेत्वसिद्ध्या दूषयति — वेदानुवचनेनेति । ‘वेदानुवचनेन विविदिषन्ति’ ‘यज्ञेन विविदिषन्ति’ इत्यादिरूपेण प्रत्येकं साधनत्वप्रतीतेर्न समुच्चयापेक्षा । तद्विवक्षायां हि ‘वेदानुवचनयज्ञदानतपोभिर्विविदिषन्ति’ इति वाक्यं स्यात् । पृथक्करणविभक्तिश्रवणेऽपि ‘वेदानुवचनेन च यज्ञेन च दानेन च तपसा च’ इति प्रतिपदार्थं चकारयुक्तं वा वाक्यं स्यात् ‘यदग्नये च प्रजापतये च’ इत्यादिवदिति भावः ।
यत्तु - आपाततोऽपि विद्यामहिमावगत्युपायासम्भवेन विद्यायामर्थित्वलक्षणाधिकारानुपपत्तिरिति, तदनूद्य निराकरोति —
न च शूद्रस्येति ।
श्रावयेदिति ।
ब्राह्मण इति शेषः ।
यदा क्षत्रियादीन् श्रावयेत् तदा विशेषमाह —
कृत्वेति ।
पुराणादिभिस्साधनभूतैरवगतं विद्यामाहात्म्यं येन शूद्रेण स तथा, तस्येत्यर्थः ।
मतिनिषेधवचनस्य सङ्कोचं दर्शयति —
न शूद्रायेति ।
अन्यथेति ।
शास्त्रार्थज्ञानमात्रदाननिषेधपरत्वे इत्यर्थः ।
शूद्रस्य स्वतः पुराणादिपठननिषेधात् अन्येभ्योऽपि पुराणादिश्रवणाभावे स्वधर्मावगतिः न सम्भवतीत्यर्थः ।
इष्टापत्तिमाशङ्क्याह —
शूद्रश्चतुर्थो वर्ण इत्यादिना ।
जातिः जन्म, उपनयनाख्यद्वितीयजन्मशून्य इत्यर्थः ।
प्रक्षालनमेवेति ।
न त्वपां प्राशनं अङ्गस्पर्शनादिकं च-इत्येवकारार्थः ।
उत्तरेषामिति ।
द्विजानामित्यर्थः । ‘न शूद्राय मतिं दद्यात्’ इति स्मृतेः शास्त्रार्थज्ञानमात्रदाननिषेधपरत्वेऽपि ‘वृद्धौ च मातापितरौ भार्या साध्वी सुतश्शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥’ [मनु. ११-१०] इत्यादिवचनदर्शनेन ये ब्राह्मणाः उक्तलक्षणमात्रादिसंरक्षणोपयोग्यर्थलाभाय शूद्रान् प्रति पुराणादिपठने प्रवर्तन्ते तेभ्यो विद्यामाहात्म्यस्वधर्मयोरवगतिसम्भवात् न काप्यनुपपत्तिरिति मन्तव्यम् ।
न चैवमिति ।
शूद्रस्यापि विद्यार्थकर्माधिकारस्वीकारे इत्यर्थः ।
निर्विषयत्वमिति ।
तदधिकरणस्य शूद्राधिकारनिषेधपरत्वादिति भावः ।
सत्यं तदधिकरणं शूदाधिकारनिषेधपरं, किं तु विद्यार्थकर्माधिकारनिषेधपरं न भवति, वेदान्तश्रवणाद्यधिकारनिषेधपरत्वात्तस्य - इति परिहरति —
तस्य न शूद्र इत्यादिना ।
वेदान्तश्रवणसगुणोपासनेषु अधिकाराभावे हेतुगर्भं विशेषणमाह —
गुरूपसदनाख्येति ।
शूद्रस्य संस्कारशून्यत्वे मानमाह —
न शूद्र इति ।
पातकमिति ।
अभक्ष्यभक्षणादिकृतमित्यर्थः । संस्कारो द्विविधः — अध्ययनाङ्गोपनयनलक्षणः, विद्याङ्गोपनयनलक्षणश्च ।
द्विविधमपि संस्कारं निषेधति —
न च संस्कारमर्हतीति ।
शिष्यत्वेन स्वीकृत्य समीपे स्थापनरूपं विद्याङ्गोपनयनं आचार्यकर्तृकं, तच्च शिष्यकर्तृकगुरूपसदनपूर्वकत्वात् गुरूपसदनाख्येत्युक्तम् । गुरूपसदनं च ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ [मु.उ. १-२-१२] इत्यादिना विद्याङ्गत्वेन विहितम् । तथा ‘तं होपनिन्ये’ इत्यादिश्रुत्या विद्याङ्गत्वेनोपनयनं च प्रतीयत इति भावः । तं - विद्यार्थिनं गुरुरुपनीतवानिति श्रुत्यर्थः ।
ननु - श्रुत्युक्तसगुणोपासनेष्विव निर्गुणविद्यासाधनवेदान्तश्रवणादिष्विव च निर्गुणविद्यायामप्यधिकारनिषेधपरमपशूद्राधिकरणं किं न स्यात्, विनिगमकाभावात् । तथा च निर्गुणविद्यायामधिकाराभावे तत्साधनकर्मसु शूद्रस्याधिकारो न सिद्ध्येत्, इत्यत आह —
निर्गुणविद्यायामिति ।
ब्रह्मविद्यालक्षणस्य विषयस्य सौन्दर्यं मुक्तिं साधनत्वम्, तज्ज्ञानप्रयुक्तस्य विद्यायामर्थित्वलक्षणाधिकारस्य तदधिकरणन्यायेन निषेद्धुमशक्यत्वादित्यर्थः ।
ननु - शूद्रस्य विद्यायामर्थित्वलक्षणाधिकारसत्त्वेऽपि तदतिरिक्तस्याधीतवेदत्वादिरूपविशेषणान्तरस्याभावात् कथं तस्याधिकारो विद्यायां, इत्यत आह —
अविधेयायामिति ।
चशब्दः शङ्कानिरासार्थः ।
तदतिरिक्तेति ।
अर्थित्वातिरिक्तेत्यर्थः । स्वर्गानुभववत् ब्रह्मानन्दानुभवरूपाया निर्गुणविद्यायाः फलरूपत्वादविधेयत्वम् । फलस्याविधेयत्वात् । तथा च यथा स्वर्गानुभवादौ फले तदर्थित्वमात्रमधिकारः, तथा निर्गुणविद्यायामपि तदर्थित्वमात्रमेवाधिकारः, स च निषेद्धुमशक्यः, विधेयेष्वेवोपासनादिषु पूर्वोक्ताधिकारिविशेषणान्तरापेक्षा शास्त्रे निरूपितेति विषमो दृष्टान्त इति भावः ।
असम्भव इति ।
अपशूद्राधिकरणन्यायेन तदसम्भवे सतीत्यर्थः । तस्य वेदान्तश्रवणाभावेऽपि ब्रह्मात्मैक्यपरपुराणादिश्रवणे अधिकारस्य भाष्ये दर्शितत्वात् शूद्रस्यापि सम्भवति विद्योत्पत्तिरित्यर्थः । भाष्ये तुशब्दोऽवधारणार्थः । ‘श्रावयेच्चतुरो वर्णान्’ इतिवचनेन शूद्रस्य पुराणादिश्रवणाभ्यनुज्ञानेऽपि मनननिदिध्यासनयोरभ्यनुज्ञानाभावात् न मननाद्यनुष्ठानं तस्य सिद्ध्यति । न च मननादेः श्रवणाङ्गत्वात् न पृथगभ्यनुज्ञानापेक्षेति वाच्यम् । प्रयाजदर्शपूर्णमासादेरिव प्रकृते शेषशेषिभावबोधकप्रमाणाभावेन श्रवणादिष्वङ्गाङ्गिभावव्यवहारस्य गौणत्वात् ।
तथा च शूद्रस्याद्वैतपरपुराणादिभागश्रवणे कृतेऽपि विद्योदयासम्भवात् विद्यार्थकर्मानुष्ठानवैयर्थ्यं तदवस्थमेव - इत्यस्वरसादाह —
विद्योत्पत्तियोग्येति ।
यदा ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’ [म. भा. १-१-२६७] इतिवचनात् इतिहासादिगतब्रह्मात्मैक्यपरभागस्य वेदान्तश्रवणजनितवेदान्तार्थज्ञानोपकारकत्वमात्रमेव, न तु वेदान्तश्रवणमनपेक्ष्य स्वातन्त्र्येण ब्रह्मात्मैक्यज्ञानजनकत्वं - इति निश्चीयते । तथासत्येव तद्वचनपूर्वार्धं सङ्गच्छते — ‘बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरेदिति’ इति । अयमर्थः — अल्पं वेदमात्रं श्रुतं — विचारितं येन पुरुषेण सोऽल्पश्रुतः । तस्मात् पुरुषात् तेन श्रुतो वेदो बिभेति ।
कथं बिभेति, तत्राह —
मामिति ।
अयं - अल्पश्रुतः पुरुषः मां-श्रुतं वेदं प्रतरेत् - मद्विचाररूपायां मीमांसायां न्यायाभासत्वादिशङ्कया मामप्यर्थान्तरपरं सम्भावयेत् । इतिशब्दो हेत्वर्थः । एवं प्रतारणसम्भवाद्धेतोः इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्-इतिहास-पुराणवचनैः मीमांसानुसारिभिः तस्या दृढन्यायत्वनिश्चयसंपादनद्वारा मीमांसानिर्णीतार्थ एव वेदं स्थापयेत् इति । तथा च शूद्रस्य वेदान्तश्रवणरहितस्य वेदान्तार्थोपबृंहणरूपब्रह्मात्मैक्यपरेतिहासादिश्रवणे प्रवृत्तावपि नास्ति विद्योदयः । ‘श्रावयेच्चतुरो वर्णान्’ इति वचनमपि शूद्रस्य अद्वैतपरपुराणादिश्रवणांशे अदृष्टार्थमभ्यनुज्ञापरम् । अपशूद्राधिकरणभाष्येऽपि शूद्रस्य अद्वैतपुराणादिश्रवणाधिकारवर्णनं, बिभेत्यल्पश्रुतादितिवचनं नास्तीतिकृत्वा कृतमिति, न भाष्यविरोधोऽपि ।
तथा च वेदान्तश्रवणैकसाध्या विद्या तदभावे शूद्रस्य न सिद्ध्येदेव-इत्यस्वर-सादाह —
विद्योत्पत्तियोग्येति ।
मुक्त्यर्थमिति ।
सगुणब्रह्मोपासनमिति शेषः ।
विद्योत्पत्त्यर्थत्वमिति ।
शूद्रस्य ‘मदनुष्ठितधर्माणां विद्योत्पत्त्यर्थत्वं भविष्यति’ इति निश्चयेन तदनुष्ठानसम्भवादित्यर्थः ।
तस्मादिति ।
शूद्रस्य विद्यार्थकर्मानुष्ठाने बाधकाभावादित्यर्थः ।
विद्याधिकारिमात्रेति ।
न तु ब्राह्मणपदस्य ब्राह्मणमात्रपरत्वं न वा त्रैवर्णिकमात्रपरत्वमिति मात्रशब्दार्थः । ब्राह्मणपदस्य द्विजोपलक्षणत्वे वार्तिकवचने यो हेतुरुक्तः ‘त्रयाणामात्मबोधसाधनकर्मस्वधिकाराविशेषात्’ इति, तस्य हेतोः शूद्रसाधारणत्वादिति भावः ।