अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

विद्यार्थकर्मसु अधिकारिविचारः

एवं विविदिषाद्वारा विद्यायां कर्मणां विनियोगं निरूप्य तेषु त्रैव­र्णि­का­ना­म­धि­कार इति निरूपणार्थं आक्षेपव्याजेन प्रसङ्गं दर्शयति —
नन्वित्यादिना ।

एवमपीति ।
‘तत्प्रा­प्ति­हे­तु­र्वि­ज्ञानं कर्म चोक्तं महामुने’ इति ज्ञान­क­र्म­स­मु­च्च­य­प्र­ति­पा­द­क­स्म­र­णस्य, विवि­दि­षा­वा­क्या­वि­रो­धेन ‘ज्ञानं साक्षात् ब्रह्म­प्रा­प्ति­सा­धनं कर्म च विद्याद्वारा तत्प्रा­प्ति­सा­धनं’ इति क्रम­स­मु­च्च­य­प­र­तया निर्वा­हेऽ­पी­त्यर्थः । अत्र अवधारणेन संसि­द्धि­श­ब्दि­त­मुक्तिं प्रति कर्मा­ति­रि­क्तो­पा­य­नि­षे­धात् जन­का­द्य­नु­ष्ठि­त­क­र्मणो मुक्तिं प्रति साक्षादेवोपयोगः प्रतीयते, स च विवि­दि­षा­वा­क्य­वि­रुद्ध इति समुच्चयस्मरणवत् अस्य स्मरणस्य निर्वाहो न सिद्ध्य­ती­त्यर्थः ।

अस्यापि विवि­दि­षा­वा­क्या­वि­रुद्धं सिद्धा­न्त्य­भि­म­त­म­र्थ­मा­शङ्क्य निषेधति —
न च तस्येति ।

विद्यार्थेति ।
अस्मिन् स्मरणे संसिद्धिपदं विद्यापरम् । तथा च शुद्धिद्वारा कर्मणैव विद्यां प्राप्ता इति स्मरणार्थ इति भावः ।

तस्य स्मरणस्य विद्या­र्थ­क­र्मा­नु­ष्ठा­न­प­रत्वं न चेत्यत्र हेतुमाह —
विविदिषावाक्य इति ।

अत इति ।
विवि­दि­षा­वा­क्य­बोध्ये विद्या­सा­ध­न­क­र्मणि त्रैव­र्णि­का­ना­म­न­धि­का­रा­दि­त्यर्थः ।

उपलक्षणत्वादिति ।
तथा च भाष्यं — ब्राह्म­ण­ग्र­ह­ण­मु­प­ल­क्ष­णार्थं, अविशिष्टो ह्यधि­का­र­स्त्र­याणां वर्णानाम्’ [बृ.उ. ४-४] इति । तथा च विद्यार्थकर्मसु जन­का­दी­ना­म­प्य­धि­का­र­स­त्त्वात् ‘कर्मणैव हि’ इति स्मरणं विद्या­र्थ­क­र्मा­नु­ष्ठा­न­प­र­मे­वेति न तद्बलात् ‘तमेव विदि­त्वाऽ­ति­मृ­त्यु­मेति नान्यः पन्थाः’ इत्या­दि­श्रु­ति­वि­रुद्धः साक्षादेव कर्मणां मुक्त्युपयोगो वक्तव्य इति भावः ।

अत्रभवन्त इति ।
पूज्या इत्यर्थः ।

आत्मबोधन इति ।
आत्म­बो­ध­सा­ध­न­य­ज्ञा­दि­क­र्म­णी­त्यर्थः, विद्या­र्थ­क­र्मा­धि­का­र­स्यैव प्रकृतत्वात् इति मन्तव्यम् ।

ननु - विविदिषावाक्ये ब्राह्मणपदस्य त्रैव­र्णि­को­प­ल­क्ष­णत्वे सिद्धे त्रयाणां वर्णानामविशेषेण विद्या­र्थ­क­र्म­स्व­धि­का­र­स्सि­द्ध्यति, तत्र सर्वे­षा­म­वि­शि­ष्टा­धि­का­रत्वे सिद्धे तदनुरोधेन ब्राह्म­ण­ग्र­ह­ण­स्यो­प­ल­क्ष­णत्वं सिद्ध्यतीति पर­स्प­रा­श्र­य­त्व­प्र­सङ्गः - इति चेत्, न — ब्राह्म­ण­ग्र­ह­णस्य द्विजो­प­ल­क्ष­ण­त्व­म­नु­प­जी­व्यैव सर्वेषां द्विजानां विद्या­र्थ­क­र्म­स्व­धि­का­र­सिद्धेः वार्तिकवचने विवक्षितत्वात् । ननु विविदिषावाक्ये ब्राह्मणग्रहणेन ब्राह्मणस्यैव विद्या­र्थ­क­र्म­स्व­धि­कारे प्रतीयमाने कथं वर्ण­त्र­य­सा­धा­र­णा­धि­का­र­स्सि­द्ध्ये­दिति चेत्, तत्र वक्तव्यं — किं ब्राह्मणपदस्य यज्ञादिविधौ उद्दे­श्य­वि­शे­ष­ण­स­म­र्प­क­तया ब्राह्म­ण­मा­त्रा­धि­का­र­प्रा­प­कत्वं, किं वा विधे­य­क­र्तृ­स­म­र्प­क­तया तन्मा­त्रा­धि­का­र­प्रा­प­कत्वं, तदु­भ­य­स­म­र्प­क­त्वा­भा­वेऽपि स्वस­न्नि­धि­मा­त्रेण वा तन्मा­त्रा­धि­का­र­प्रा­प­क­त्वम् ? गत्यन्तराभावात् । तत्र नाद्य इत्याह —
न हीति ।
यज्ञादीनां विद्यालक्षणफले विनियोगपरे विधौ विद्या­का­म­स्या­धि­का­र­स्सिद्ध एव । तथा च ब्राह्म­ण्य­वि­शि­ष्टस्य विद्या­का­म­स्या­धि­कारो विवक्षित इति स्वीकृत्य ब्राह्मणपदस्य अधि­का­रि­वि­शे­ष­ण­स­म­र्प­कत्वं वक्तुं न शक्यते । विधे­य­य­ज्ञा­दि­नि­रू­पि­तो­द्दे­श्य­ताया विद्याकाममात्रे पर्यवसानसम्भवेन ब्राह्म­ण्य­रू­प­वि­शे­ष­ण­स्या­ना­का­ङ्क्षि­त­तया विद्याकामं प्रति विशे­ष­ण­त्वे­ना­न्व­या­यो­गात्, विशि­ष्ट­स्यो­द्दे­श्य­त्व­क­ल्पने गौरवाच्च, विद्या­का­म­ब्रा­ह्म­ण्ययोः प्रत्ये­क­मु­द्दे­श्यत्वे च वाक्य­भे­द­प्र­स­ङ्गा­त्-वि­द्या­कामो यज्ञा­दी­न­नु­ति­ष्ठेत्, ब्राह्मणो यज्ञा­दी­न­नु­ति­ष्ठे­दिति - इति भावः ।

द्वितीयं सदृ­ष्टा­न्त­मा­शङ्क्य निराकरोति —
नापीति ।
स्वारा­ज्य­का­म­वाक्ये राजपदस्य पूर्वोक्तरीत्या स्वाराज्यकामं प्रति विशे­ष­ण­त्वा­यो­गात् कर्तृविधायकत्वं स्वीकृत्य राजसूये राज्ञ­स्स­त­स्स्वा­रा­ज्य­का­म­स्या­धि­कारः साधित इत्यर्थः । राज्ञोऽ­र्था­द­धि­का­रि­को­टि­नि­वे­श­व­दिति सम्बन्धः ।

अर्था­दि­ति­प­दो­क्ता­म­र्था­पत्तिं स्फुटयति —
राजकर्तृकेति ।

इहेति ।
विविदिषावाक्ये इत्यर्थः ।

विधेयस्येति ।
‘विद्याकामो ब्राह्म­ण­क­र्तृ­क­य­ज्ञा­दी­न­नु­ति­ष्ठेत्’ इत्ये­वं­वि­धे­य­स्ये­त्यर्थः ।

अर्थादिति ।
ब्राह्म­ण­क­र्तृ­क­य­ज्ञा­दे­र­ब्रा­ह्म­णेन सम्पा­द­यि­तु­म­श­क्य­त्वा­दि­त्यर्थः ।

‘अर्था­द­धि­का­रि­को­टि­नि­वेश इत्यपि न युज्यते’ इत्यत्र दृष्टा­न्त­वै­ष­म्य­म­भि­प्रेत्य हेतुमाह —
सर्व­था­पी­त्या­दिना ।
यज्ञा­दी­ना­मा­श्र­म­क­र्म­त्व­पक्षे विद्या­स­ह­का­रि­त्व­पक्षे च याव­ज्जी­वा­दि­वा­क्येषु येऽग्नि­हो­त्रा­दयो धर्मा विहिताः त एवानुष्ठेयाः । कुतः । श्रुति­स्मृ­ति­रू­पो­भ­य­लि­ङ्गात् । श्रुति­स्ता­व­द्वि­वि­दि­षा­वा­क्य­ग­त­य­ज्ञा­दि­श्रु­ति­रेव । तया प्रसि­द्ध­य­ज्ञा­दीनां प्रसि­द्ध­दा­ना­दीनां च प्रत्य­भि­ज्ञा­य­मा­न­त्वात्, अपू­र्व­य­ज्ञा­दि­वि­धा­य­कत्वे प्रत्य­भि­ज्ञा­वि­रो­धात्, प्रसि­द्ध­य­ज्ञा­द्य­नु­वा­देन फल­स­म्ब­न्ध­मा­त्र­बो­धने लाघवाच्च, यज्ञादीनां सुब­न्त­य­ज्ञा­दि­प­दो­पा­त्त­त्वेन अत्र विधे­य­त्वा­प्र­ती­तेश्च । स्मृतिश्च ‘अनाश्रितः कर्मफलम्’ इत्याद्या प्रसि­द्ध­य­ज्ञा­दी­ना­मेव फलाभिसन्धिं विना अनुष्ठितानां विद्याहेतुत्वं दर्शयति — इति सूत्रार्थः ।

अन्यत्रेति ।
विवि­दि­षा­वा­क्या­द­न्यत्र कर्मकाण्डे इत्यर्थः ।

उभयविधानादिति ।
राजसूयवाक्ये तु कर्त्रा­दि­गु­ण­वि­शि­ष्टस्य अपूर्वकर्मण एव विध्युपगमात् न वाक्य­भे­द­प्र­स­क्ति­रिति तत्र राजपदस्य कर्तृ­रू­प­गु­ण­वि­धा­य­कत्वं युक्तमिति भावः ।

तृतीयमपि सदृ­ष्टा­न्त­मा­शङ्क्य निराकरोति —
नापीति ।

राज्ञ इति ।
राज्ञः कर्तृतया विधे­य­त्वा­भा­वेऽपि राज्ञ एव राज­सू­या­धि­का­र­स्सि­द्ध्यति, राजपदसन्निधानेन स्वारा­ज्य­का­म­प­दस्य क्षत्रि­य­प­र­त्वा­व­ग­मात्, अन्यथा राज­प­द­वै­य­र्थ्य­प्र­स­ङ्गात् - इति तात्पर्येण येषां मते राज्ञः कर्तृतया विधि­र्ना­भ्यु­प­ग­म्यते, तेषां पक्षे इत्यर्थः ।

‘ब्राह्म­णा­धि­का­र­प­र्य­व­सा­नम्’ इत्यपि नोपपद्यते - इत्यत्र हेतुमाह —
अन्यत्रेति ।
कर्मकाण्डे इत्यर्थः ।

इहापीति ।
विवि­दि­षा­वा­क्येऽ­पी­त्यर्थः ।

त्रैव­र्णि­का­धि­का­रा­त्म­वि­द्येति ।
ब्राह्मणस्येव क्षत्रि­य­वै­श्य­यो­रपि विद्या­या­म­र्थि­त्व­ल­क्ष­णा­धि­का­रा­वि­शे­षात् शूद्रस्येव विद्या­र्थ­य­ज्ञा­दिषु तयोः प्रति­षे­धा­भा­वाच्च इत्यर्थः ।

युक्ततयेति ।
अधि­का­रि­णा­म­स­ङ्को­चस्य विधि­ग­ता­नु­ष्ठा­प­क­त्व­ल­क्ष­ण­प्रा­मा­ण्यो­प­पा­द­क­त्वा­दिति भावः ।

अन्य­त्र­कॢ­प्त­त्वा­द्यु­प­प­त्ति­त्र­य­प्रा­प्त­स्यापि क्षत्रि­य­वै­श्य­यो­र­धि­का­रस्य ब्राह्म­ण­प­द­म­प­वा­द­क­मि­त्या­श­ङ्क्याह —
विधि­सं­स­र्ग­ही­नेति ।
उद्दे­श्य­स­म­र्प­क­तया विधेयसमर्पकतया वा विधि­वा­क्या­र्था­न्व­य­बो­धा­नु­प­यो­गी­त्यर्थः । राजसूयवाक्ये तु राजसूयस्य अत्रैव विधेयत्वेन त्रैव­र्णि­का­धि­का­र­त्वे­ना­न्य­त्रा­कॢ­प्त­त्वात् युक्तं विधि­सं­स­र्ग­ही­न­रा­ज­प­द­स­म­भि­व्या­हा­र­मा­त्रात् राजकर्तृनियम इति भावः । ननूक्तन्यायेन ब्राह्म­ण­प­दा­भा­वेऽपि क्षत्रि­य­वै­श्य­यो­रिव ब्राह्मणस्यापि विद्या­र्थ­क­र्म­स्व­धि­का­र­सिद्धेः ब्राह्मणग्रहणं व्यर्थमेव स्यादिति चेत्, न — विद्यार्थकर्मसु ब्राह्मणस्य मुख्या­धि­का­र­ज्ञा­प­ना­र्थ­तो­प­प­त्ते­र्वै­य­र्थ्या­न­व­का­शा­दिति भावः ।

ब्राह्म­ण­ग्र­ह­ण­स्यो­प­ल­क्ष­ण­त्व­प­क्षेऽ­ति­प्र­सङ्गं शङ्कते —
नन्विति ।
अविधेयायां हि विद्यायामधिकारो नाम विद्या­र्थि­त्व­मा­त्रम्, तच्च शूद्रस्यापि सम्भवतीति क्षत्रियादेरिव तस्यापि विद्या­र्थ­क­र्म­स्व­धि­कारो दुर्निवार इत्यर्थः । शूद्रस्य श्रुत्यु­क्त­स­गु­ण­ब्र­ह्म­वि­द्यासु निर्गु­ण­ब्र­ह्म­वि­द्या­सा­ध­न­वे­दा­न्त­श्र­व­णा­दिषु चाधिकारमाशङ्क्य नास्त्यधिकार इति निर्णी­त­म­प­शू­द्रा­धि­क­रणे । तस्याधिकाराभावे च भाष्ये हेतुरुपन्यस्तो वेदा­ध्य­य­ना­भा­वा­दिति । ‘शूद्रस्य वेदो­च्चा­र­ण­श्र­व­ण­धा­र­णानां निषेधेन वेदा­ध्य­य­ना­भा­वेऽपि वेदा­र्थ­भू­तो­पा­स­ना­द्य­नु­ष्ठानं किं न स्यात्’ इत्याशङ्क्य, ‘अध्ययनविधिना वेद­ज­न्य­वे­दा­र्थ­ज्ञा­नस्य वेदा­र्था­नु­ष्ठा­नेषु नियमितत्वात् अध्ययनशून्यस्य तदभावात् न सगु­ण­नि­र्गु­ण­वि­द्या­नु­ष्ठा­ने­ष्व­धि­कारः’ इत्युक्तम् । तथा च तुल्यतया विद्या­र्थ­क­र्म­स्व­प्य­धि­कारो नास्तीत्यर्थः ।

ननु ‘शूद्रस्य वेदो­क्त­य­ज्ञा­दि­ष्व­धि­का­रा­भा­वेऽपि वक्ष्यमाणरीत्या तस्य विद्या­सा­ध­न­क­र्मणां सम्भवात् विद्याकामनया शूद्रस्यापि तेषामनुष्ठानं सम्भ­व­ती­त्या­शङ्क्य, तस्य विद्याकामनैव न सम्भवतीत्याह —
न शूद्रायेति ।
मतिं - शास्त्रा­र्थ­ज्ञानं, विद्यायाः महिमा - निर­ति­श­या­न­न्द­रू­प­ब्र­ह्म­प्रा­प्ति­सा­ध­न­त्वम् ।

‘शूद्रस्यापि विद्या­र्थ­क­र्मा­धि­का­र­प्र­सङ्गः’ इत्यत्र इष्टा­प­त्ति­रि­त्याह —
अन्ये त्विति ।
कण्ठत उक्त­स्स­र्व­व­र्णा­धि­कारो यस्मिन् तादृ­श­वि­द्या­दि­जपे स तथोक्तः । श्रीम­त्प­ञ्चा­क्ष­र­मेव मन्त्रराजविद्या । आदिपदं च आग­मि­क­पौ­रा­णि­क­म­न्त्रा­न्त­र­स­ङ्ग्र­हा­र्थम् । तथा च ब्रह्मो­त्त­र­खण्डे — ‘किं तस्य बहुभिर्मन्त्रैः किं तीर्थैः किं तपोऽध्वरैः । यस्यो­न्न­म­श्शि­वा­येति मन्त्रो हृदयगोचरः । मन्त्रा­धि­रा­ज­राजो यःस­र्व­वे­दा­न्त­शे­खरः । सर्वज्ञाननिधानं च सोऽयं शैवषडक्षरः ॥ प्रणवेन विना मन्त्रः सोऽयं पञ्चाक्षरः स्मृतः । स्त्रीभि­श्शू­द्रैश्च सङ्की­र्णै­र्ध्या­यते मुक्ति­का­ङ्क्षिभिः ॥’ इति । पाक­य­ज्ञा­दी­त्या­दि­पदं द्विज­शु­श्रू­षा­ना­म­की­र्त­न­ती­र्थ­स्ना­ना­दि­स­ङ्ग्र­हा­र्थम् । ननु — विविदिषावाक्ये शूद्र­सा­धा­र­ण­व­र्ण­ध­र्मा­णा­मु­प­ल­क्ष­णेऽपि यज्ञा­दी­ना­मे­क­वा­क्यो­पा­दा­नात् तेषां समुच्चयस्य विद्यासाधनत्वं भाति, यज्ञा­दि­स­मु­च्च­यश्च शूद्रे बाधित इति कथं तस्य विद्या­र्थ­क­र्मा­धि­कारः, इत्याशङ्क्य हेत्वसिद्ध्या दूषयति — वेदानुवचनेनेति । ‘वेदानुवचनेन विविदिषन्ति’ ‘यज्ञेन विविदिषन्ति’ इत्यादिरूपेण प्रत्येकं साध­न­त्व­प्र­ती­तेर्न समुच्चयापेक्षा । तद्विवक्षायां हि ‘वेदा­नु­व­च­न­य­ज्ञ­दा­न­त­पो­भि­र्वि­वि­दि­षन्ति’ इति वाक्यं स्यात् । पृथ­क्क­र­ण­वि­भ­क्ति­श्र­व­णेऽपि ‘वेदानुवचनेन च यज्ञेन च दानेन च तपसा च’ इति प्रतिपदार्थं चकारयुक्तं वा वाक्यं स्यात् ‘यदग्नये च प्रजापतये च’ इत्यादिवदिति भावः ।

यत्तु - आपाततोऽपि विद्या­म­हि­मा­व­ग­त्यु­पा­या­स­म्भ­वेन विद्या­या­म­र्थि­त्व­ल­क्ष­णा­धि­का­रा­नु­प­प­त्ति­रिति, तदनूद्य निराकरोति —
न च शूद्रस्येति ।

श्रावयेदिति ।
ब्राह्मण इति शेषः ।

यदा क्षत्रियादीन् श्रावयेत् तदा विशेषमाह —
कृत्वेति ।
पुरा­णा­दि­भि­स्सा­ध­न­भू­तै­र­व­गतं विद्या­मा­हात्म्यं येन शूद्रेण स तथा, तस्येत्यर्थः ।

मतिनिषेधवचनस्य सङ्कोचं दर्शयति —
न शूद्रायेति ।

अन्यथेति ।
शास्त्रा­र्थ­ज्ञा­न­मा­त्र­दा­न­नि­षे­ध­प­रत्वे इत्यर्थः ।

शूद्रस्य स्वतः पुरा­णा­दि­प­ठ­न­नि­षे­धात् अन्येभ्योऽपि पुरा­णा­दि­श्र­व­णा­भावे स्वधर्मावगतिः न सम्भवतीत्यर्थः ।

इष्टा­प­त्ति­मा­श­ङ्क्याह —
शूद्रश्चतुर्थो वर्ण इत्यादिना ।
जातिः जन्म, उप­न­य­ना­ख्य­द्वि­ती­य­ज­न्म­शून्य इत्यर्थः ।

प्रक्षालनमेवेति ।
न त्वपां प्राशनं अङ्ग­स्प­र्श­ना­दिकं च-इत्ये­व­का­रार्थः ।

उत्तरेषामिति ।
द्विजा­ना­मि­त्यर्थः । ‘न शूद्राय मतिं दद्यात्’ इति स्मृतेः शास्त्रा­र्थ­ज्ञा­न­मा­त्र­दा­न­नि­षे­ध­प­र­त्वेऽपि ‘वृद्धौ च मातापितरौ भार्या साध्वी सुतश्शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥’ [मनु. ११-१०] इत्या­दि­व­च­न­द­र्श­नेन ये ब्राह्मणाः उक्त­ल­क्ष­ण­मा­त्रा­दि­सं­र­क्ष­णो­प­यो­ग्य­र्थ­ला­भाय शूद्रान् प्रति पुराणादिपठने प्रवर्तन्ते तेभ्यो विद्या­मा­हा­त्म्य­स्व­ध­र्म­यो­र­व­ग­ति­स­म्भ­वात् न काप्य­नु­प­प­त्ति­रिति मन्तव्यम् ।

न चैवमिति ।
शूद्रस्यापि विद्या­र्थ­क­र्मा­धि­का­र­स्वी­कारे इत्यर्थः ।

निर्विषयत्वमिति ।
तदधिकरणस्य शूद्रा­धि­का­र­नि­षे­ध­प­र­त्वा­दिति भावः ।

सत्यं तदधिकरणं शूदा­धि­का­र­नि­षे­ध­परं, किं तु विद्या­र्थ­क­र्मा­धि­का­र­नि­षे­ध­परं न भवति, वेदा­न्त­श्र­व­णा­द्य­धि­का­र­नि­षे­ध­प­र­त्वा­त्तस्य - इति परिहरति —
तस्य न शूद्र इत्यादिना ।

वेदा­न्त­श्र­व­ण­स­गु­णो­पा­स­नेषु अधिकाराभावे हेतुगर्भं विशेषणमाह —
गुरूपसदनाख्येति ।

शूद्रस्य संस्का­र­शू­न्यत्वे मानमाह —
न शूद्र इति ।

पातकमिति ।
अभ­क्ष्य­भ­क्ष­णा­दि­कृ­त­मि­त्यर्थः । संस्कारो द्विविधः — अध्य­य­ना­ङ्गो­प­न­य­न­ल­क्षणः, विद्या­ङ्गो­प­न­य­न­ल­क्ष­णश्च ।

द्विविधमपि संस्कारं निषेधति —
न च संस्कारमर्हतीति ।
शिष्यत्वेन स्वीकृत्य समीपे स्थापनरूपं विद्याङ्गोपनयनं आचार्यकर्तृकं, तच्च शिष्य­क­र्तृ­क­गु­रू­प­स­द­न­पू­र्व­क­त्वात् गुरू­प­स­द­ना­ख्ये­त्यु­क्तम् । गुरूपसदनं च ‘तद्वि­ज्ञा­नार्थं स गुरु­मे­वा­भि­ग­च्छेत्’ [मु.उ. १-२-१२] इत्यादिना विद्याङ्गत्वेन विहितम् । तथा ‘तं होपनिन्ये’ इत्यादिश्रुत्या विद्या­ङ्ग­त्वे­नो­प­न­यनं च प्रतीयत इति भावः । तं - विद्यार्थिनं गुरु­रु­प­नी­त­वा­निति श्रुत्यर्थः ।

ननु - श्रुत्यु­क्त­स­गु­णो­पा­स­ने­ष्विव निर्गु­ण­वि­द्या­सा­ध­न­वे­दा­न्त­श्र­व­णा­दि­ष्विव च निर्गु­ण­वि­द्या­या­म­प्य­धि­का­र­नि­षे­ध­प­र­म­प­शू­द्रा­धि­क­रणं किं न स्यात्, विनिगमकाभावात् । तथा च निर्गु­ण­वि­द्या­या­म­धि­का­रा­भावे तत्साधनकर्मसु शूद्रस्याधिकारो न सिद्ध्येत्, इत्यत आह —
निर्गु­ण­वि­द्या­या­मिति ।
ब्रह्म­वि­द्या­ल­क्ष­णस्य विषयस्य सौन्दर्यं मुक्तिं साधनत्वम्, तज्ज्ञा­न­प्र­यु­क्तस्य विद्या­या­म­र्थि­त्व­ल­क्ष­णा­धि­का­रस्य तदधिकरणन्यायेन निषे­द्धु­म­श­क्य­त्वा­दि­त्यर्थः ।

ननु - शूद्रस्य विद्या­या­म­र्थि­त्व­ल­क्ष­णा­धि­का­र­स­त्त्वेऽपि तद­ति­रि­क्त­स्या­धी­त­वे­द­त्वा­दि­रू­प­वि­शे­ष­णा­न्त­र­स्या­भा­वात् कथं तस्याधिकारो विद्यायां, इत्यत आह —
अविधेयायामिति ।
चशब्दः शङ्कानिरासार्थः ।

तदतिरिक्तेति ।
अर्थि­त्वा­ति­रि­क्ते­त्यर्थः । स्वर्गानुभववत् ब्रह्मा­न­न्दा­नु­भ­व­रू­पाया निर्गु­ण­वि­द्यायाः फल­रू­प­त्वा­द­वि­धे­य­त्वम् । फल­स्या­वि­धे­य­त्वात् । तथा च यथा स्वर्गानुभवादौ फले तद­र्थि­त्व­मा­त्र­म­धि­कारः, तथा निर्गु­ण­वि­द्या­या­मपि तद­र्थि­त्व­मा­त्र­मे­वा­धि­कारः, स च निषेद्धुमशक्यः, विधे­ये­ष्वे­वो­पा­स­ना­दिषु पूर्वो­क्ता­धि­का­रि­वि­शे­ष­णा­न्त­रा­पेक्षा शास्त्रे निरूपितेति विषमो दृष्टान्त इति भावः ।

असम्भव इति ।
अप­शू­द्रा­धि­क­र­ण­न्या­येन तदसम्भवे सतीत्यर्थः । तस्य वेदा­न्त­श्र­व­णा­भा­वेऽपि ब्रह्मा­त्मै­क्य­प­र­पु­रा­णा­दि­श्र­वणे अधिकारस्य भाष्ये दर्शितत्वात् शूद्रस्यापि सम्भवति विद्यो­त्प­त्ति­रि­त्यर्थः । भाष्ये तुश­ब्दोऽ­व­धा­र­णार्थः । ‘श्रावयेच्चतुरो वर्णान्’ इतिवचनेन शूद्रस्य पुरा­णा­दि­श्र­व­णा­भ्य­नु­ज्ञा­नेऽपि मन­न­नि­दि­ध्या­स­न­यो­र­भ्य­नु­ज्ञा­ना­भा­वात् न मननाद्यनुष्ठानं तस्य सिद्ध्यति । न च मननादेः श्रवणाङ्गत्वात् न पृथ­ग­भ्य­नु­ज्ञा­ना­पे­क्षेति वाच्यम् । प्रया­ज­द­र्श­पू­र्ण­मा­सा­दे­रिव प्रकृते शेष­शे­षि­भा­व­बो­ध­क­प्र­मा­णा­भा­वेन श्रव­णा­दि­ष्व­ङ्गा­ङ्गि­भा­व­व्य­व­हा­रस्य गौणत्वात् ।

तथा च शूद्र­स्या­द्वै­त­प­र­पु­रा­णा­दि­भा­ग­श्र­वणे कृतेऽपि विद्यो­द­या­स­म्भ­वात् विद्या­र्थ­क­र्मा­नु­ष्ठा­न­वै­यर्थ्यं तदवस्थमेव - इत्यस्वरसादाह —
विद्यो­त्प­त्ति­यो­ग्येति ।
यदा ‘इति­हा­स­पु­रा­णाभ्यां वेदं समुपबृंहयेत्’ [म. भा. १-१-२६७] इतिवचनात् इति­हा­सा­दि­ग­त­ब्र­ह्मा­त्मै­क्य­प­र­भा­गस्य वेदा­न्त­श्र­व­ण­ज­नि­त­वे­दा­न्ता­र्थ­ज्ञा­नो­प­का­र­क­त्व­मा­त्र­मेव, न तु वेदा­न्त­श्र­व­ण­म­न­पेक्ष्य स्वातन्त्र्येण ब्रह्मा­त्मै­क्य­ज्ञा­न­ज­न­कत्वं - इति निश्चीयते । तथासत्येव तद्व­च­न­पू­र्वार्धं सङ्गच्छते — ‘बिभे­त्य­ल्प­श्रु­ता­द्वेदो मामयं प्रतरेदिति’ इति । अयमर्थः — अल्पं वेदमात्रं श्रुतं — विचारितं येन पुरुषेण सोऽल्पश्रुतः । तस्मात् पुरुषात् तेन श्रुतो वेदो बिभेति ।

कथं बिभेति, तत्राह —
मामिति ।
अयं - अल्पश्रुतः पुरुषः मां-श्रुतं वेदं प्रतरेत् - मद्विचाररूपायां मीमांसायां न्याया­भा­स­त्वा­दि­श­ङ्कया माम­प्य­र्था­न्त­र­परं सम्भावयेत् । इतिशब्दो हेत्वर्थः । एवं प्रता­र­ण­स­म्भ­वा­द्धेतोः इति­हा­स­पु­रा­णाभ्यां वेदं समु­प­बृं­ह­ये­त्-इ­ति­हा­स-पु­रा­ण­व­चनैः मीमां­सा­नु­सा­रिभिः तस्या दृढ­न्या­य­त्व­नि­श्च­य­सं­पा­द­न­द्वारा मीमां­सा­नि­र्णी­तार्थ एव वेदं स्थापयेत् इति । तथा च शूद्रस्य वेदा­न्त­श्र­व­ण­र­हि­तस्य वेदा­न्ता­र्थो­प­बृं­ह­ण­रू­प­ब्र­ह्मा­त्मै­क्य­प­रे­ति­हा­सा­दि­श्र­वणे प्रवृत्तावपि नास्ति विद्योदयः । ‘श्रावयेच्चतुरो वर्णान्’ इति वचनमपि शूद्रस्य अद्वै­त­प­र­पु­रा­णा­दि­श्र­व­णांशे अदृ­ष्टा­र्थ­म­भ्य­नु­ज्ञा­प­रम् । अप­शू­द्रा­धि­क­र­ण­भा­ष्येऽपि शूद्रस्य अद्वै­त­पु­रा­णा­दि­श्र­व­णा­धि­का­र­व­र्णनं, बिभे­त्य­ल्प­श्रु­ता­दि­ति­व­चनं नास्तीतिकृत्वा कृतमिति, न भाष्यविरोधोऽपि ।
तथा च वेदा­न्त­श्र­व­णै­क­साध्या विद्या तदभावे शूद्रस्य न सिद्ध्ये­दे­व-इ­त्य­स्व­र-सा­दाह —
विद्यो­त्प­त्ति­यो­ग्येति ।

मुक्त्यर्थमिति ।
सगु­ण­ब्र­ह्मो­पा­स­न­मिति शेषः ।

विद्यो­त्प­त्त्य­र्थ­त्व­मिति ।
शूद्रस्य ‘मद­नु­ष्ठि­त­ध­र्माणां विद्यो­त्प­त्त्य­र्थत्वं भविष्यति’ इति निश्चयेन तद­नु­ष्ठा­न­स­म्भ­वा­दि­त्यर्थः ।

तस्मादिति ।
शूद्रस्य विद्या­र्थ­क­र्मा­नु­ष्ठाने बाध­का­भा­वा­दि­त्यर्थः ।

विद्या­धि­का­रि­मा­त्रेति ।
न तु ब्राह्मणपदस्य ब्राह्म­ण­मा­त्र­प­रत्वं न वा त्रैव­र्णि­क­मा­त्र­प­र­त्व­मिति मात्रशब्दार्थः । ब्राह्मणपदस्य द्विजो­प­ल­क्ष­णत्वे वार्तिकवचने यो हेतुरुक्तः ‘त्रया­णा­मा­त्म­बो­ध­सा­ध­न­क­र्म­स्व­धि­का­रा­वि­शे­षात्’ इति, तस्य हेतोः शूद्र­सा­धा­र­ण­त्वा­दिति भावः ।