अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

ब्रह्मलक्षणविचारः

क्रमप्राप्तं द्विती­य­सू­त्रार्थं सङ्गृह्णाति —
विचार्यस्य चेति ।
चका­रोऽ­व­धा­र­णा­र्थ­स्सन् श्रुत्या इत्यनेन सम्बध्यते । श्रुत्यैव लक्षणमुक्तम्, न तु व्याप्त्या­दि­ल­क्ष­ण­वत् पुरु­षो­त्प्रे­क्षि­त­मि­त्यर्थः । ‘येन जातानि जीवन्ति । यत् प्रय­न्त्य­भि­सं­वि­शन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति’ [तै.उ.३-१] इति वाक्यशेषः आदिपदार्थः । श्रुतौ ‘यतः’ इति यच्छब्देन ब्रह्मवल्ल्यां निरूपितं सत्य­ज्ञा­ना­न­न्दा­न­न्ता­त्मकं ब्रह्म परिगृह्यते । सर्वनाम्नः प्रकृ­त­प्र­धा­न­प­रा­म­र्श­क­त्व­स्वा­भा­व्यात् । ततश्च यच्छ्रु­ति­सा­म­र्थ्या­देव ब्रह्म­ण­स्स­च्चि­दा­न­न्द­स्व­रू­पा­त्मकं स्वरूपलक्षणं लभ्यते । पञ्चमी च प्रकृतित्वं हेतुत्वसामान्यं वा वक्ति । हेतुत्वसामान्यं च प्रकृ­ति­क­र्त्रु­भ­य­सा­धा­र­ण­मिति अवि­शे­षा­द­भि­न्न­नि­मि­त्तो­पा­दा­न­त्व­रूपं लक्षणं लभ्यते । इदंशब्देन प्रत्य­क्षा­द्यु­प­स्थितं सर्वमुच्यते । भूतशब्दश्च पृथि­व्या­दि­म­हा­भू­तेषु प्राणिषु च रूढः । प्रकृते च विनिगमनाविरहेण रूढ्यो­र­नु­न्मे­षात् भव­न्ती­ति­व्यु­त्पत्त्या कार्यमात्रं भूतशब्देनोच्यते । जीवन्ति - स्थितिं लभन्ते । प्रयन्ति - लीयमानानि सन्ति यत् अभिसंविशन्ति - येन तादात्म्यं गच्छन्तीति यावत् । तत्-कारणं ब्रह्म, तत् विजिज्ञासस्व - विशेषेण सच्चि­दा­न­न्दै­क­र­स­पू­र्ण­प्र­त्य­ग्रू­पेण ज्ञातुं-सा­क्षा­त्क­र्तुम् इच्छ । इच्छा­मा­त्रे­णो­क्त­सा­क्षा­त्का­रा­ला­भात् सन्प्रत्ययेन विचारो लक्ष्यते । उक्तलक्षणमुखेन ब्रह्म विचारय इत्यर्थः । अत्र यतो भूतानि जायन्ते तत् ब्रह्म, येन जीवन्ति तत् ब्रह्म, यदभिसंविशन्ति तत् ब्रह्म, इति श्रुतिपाठे सति जग­ज्ज­न्म­का­र­णत्वं तत्स्थि­ति­का­र­णत्वं तल्लयकारणत्वं च प्रत्येकमेव श्रुत्या ब्रह्म­ल­क्ष­ण­मुक्तं स्यात् । न तु तथा पाठोऽस्ति ।

अतो जन्मा­दि­त्रि­त­य­का­र­णत्वं श्रुत्या लक्षणमुक्तमिति प्रतिभाति, तदाक्षिपति —
जग­ज्ज­न्म­स्थि­ति­ल­ये­ष्विति ।
निर्धारणार्था सप्तमी ।

‘यतो भूतानि जायन्ते’ इत्युपक्रम्य ‘तद्ब्रह्म’ इति श्रुत्या लक्ष्ये ब्रह्मणि कारणत्वस्य सत्त्व­प्र­ति­पा­द­नात् नासम्भवः, ‘तद्ब्रह्म’ इत्येकवचनेन लक्ष्य­ब्र­ह्म­व्य­क्ते­रे­क­त्वा­व­ग­मात् नाव्या­प्त्य­व­काशः, इति दोषद्वयाभावं सिद्धं कृत्वा अतिव्याप्तिरपि नास्तीत्याह —
अन­न्य­गा­मि­त्वा­दिति ।
ब्रह्मा­न्य­गा­मि­त्वा­भा­वा­दि­त्यर्थः । ननु प्रधा­नेऽ­ति­व्याप्तिः, तस्य साङ्ख्यै­रु­पा­दा­न­त्वा­भ्यु­प­ग­मेन उपादानतया जग­ज्ज­न्म­हे­तु­त्वस्य आधारतया स्थिति­हे­तु­त्वस्य लयाधारतया लयहेतुत्वस्य च तत्रापि सत्वादिति चेत् । न - तत्त­त्क­र्तृ­त्व­स्यापि लक्षणे विशेषणत्वेन विविक्षिततया जडे प्रधाने तदयोगात् । न च - तत्त­त्क­र्तृ­त्व­मेव प्रत्येकं लक्षणमस्तु किं तदु­पा­दा­न­त्व­रू­प­वि­शे­ष्ये­णेति वाच्यम् । अदृष्टद्वारा जग­ज्ज­न्मा­दि­क­र्तरि जीवे अति­व्या­प्ति­वा­र­क­त्वात्, परि­च्छि­न्न­जी­वस्य तदु­पा­दा­न­त्वा­यो­गात् । न च साक्षात् जग­ज्ज­न्म­क­र्तृत्वं नियन्तृतया जग­त्स्थि­ति­हे­तुत्वं सञ्जिहीर्षया जगत्संहर्तृत्वं च लक्षणमिति विवक्षायां जीवेऽ­ति­व्या­प्य­भा­वात् उपादानत्वरूपं विशेष्यं व्यर्थमेवेति वाच्यम् । तर्ह्यु­पा­दा­न­त्व­मपि पृथगेव लक्षणमस्तु । मायाया ब्रह्मो­पा­दा­न­ता­घ­ट­क­मा­त्र­त्वेन पृथ­गु­पा­दा­न­त्वा­भा­वात् प्रधा­ना­दि­का­र­णा­न्त­रस्य च अप्रामाणिकत्वेन अति­व्या­प्त्य­भा­वात् इति भावः ।

प्रत्येकं लक्ष­ण­त्व­स­म्भ­व­म­ङ्गी­क­रोति —
सत्यमिति ।

तर्हि श्रुत्या त्रितयकारणत्वं कथं लक्ष­ण­मु­क्त­मि­त्या­शङ्क्य श्रुतेरपि प्रत्येकलक्षण एव तात्पर्यं, मेलनस्य प्रयोजनाभावात् इत्याशयेनाह —
लक्ष­ण­त्र­य­मे­वे­द­मिति ।
इदं - जगत्कारणत्वं जन्मादीनां मध्ये एकैकनिरूपितं परस्परनिरपेक्षं सत् लक्षणत्रयमेव श्रुत्यभिमतं, न तु त्रित­य­नि­रू­पि­त­का­र­ण­त्व­रू­प­मेकं लक्षणं इत्यर्थः । त्रयपदमनेकपरं न तु त्रित्व­नि­य­म­प­रम्, ततोऽ­प्या­धि­क्यस्य शङ्कावसरे दर्शितत्वात् इति बोध्यम् ।

जग­त्सं­ह­र्तृ­त्वादेः प्रत्येकं ब्रह्मलक्षणत्वे सूत्र­का­रा­दि­स­म्म­ति­माह —
अत एवेति ।
अत्र आदिपदेन अन्त­र्या­म्य­धि­क­रण (ब्र.सू.१२-५/१८) जग­द्वा­चि­त्वा­धि­क­र­णयोः (ब्र.सू.१-४-५/१६) सङ्ग्रहः । अयमर्थः कठवल्ल्यां पठ्यते - ‘यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्यु­र्य­स्यो­प­से­चनं क इत्था वेद यत्र सः’ (क.उ.२—२५) इति । अत्र ब्रह्मक्षत्रयोः प्रयुक्त ओदनशब्दस्तावत् न मुख्यः, किं तु गौणः । लोके च ओद­न­श­ब्द­मु­ख्या­र्थस्य अद­नी­य­त्व­प्र­सिद्धेः अदनीयत्वेन गुणेन तयोरोदनशब्दः प्रवर्तते । तथा च यस्य ब्रह्मक्षत्रे ओदनवददनीये इत्युक्तौ यच्छ­ब्दा­र्थ­स्या­त्तृत्वं प्रतीयते । अने­नै­वा­भि­प्रा­ये­णोक्तं सूत्रे अत्तेति । ओद­न­प­द­वा­च्या­र्थ­स्या­द­नी­यत्वं द्विविधमस्ति - भुजी­क्रि­या­क­र्म­त्वा­त्म­क­भो­ज्य­त्व­रू­प­मेकं, विना­श्य­त्व­रू­प­म­प­रम् । परं तु भोज्यत्वगुणः प्रसिद्धः, न तु विनाश्यत्वगुणः । गौणप्रयोगे च प्रसिद्धगुण एव गृह्यते । यथा अग्निर्माणवक इत्यत्र अग्नि­ग­त­शु­चि­त्वा­दि­गुण एवोपादीयते प्रसिद्धत्वात्, न तु तद्गतोऽपि विना­श्य­त्वा­दि­गुणः । एवं प्रकृतेऽपि लोक­प्र­सि­द्धि­ब­लात् भोज्यत्वगुण एवौदानशब्दात् प्रतीयते । अस्ति च ब्रह्म­क्ष­त्र­यो­रपि स्त्रीपि­ण्ड­रू­प­यो­र्भो­ज्यत्वं पुमांसं प्रति । ब्रह्म­क्ष­त्र­योश्च भोज्यत्वप्रतीतौ सत्यां तत्प्र­ति­स­म्ब­न्धिनि यच्छब्दार्थे पूर्वं प्रतीतमत्तृत्वं भोक्तृत्वरूपं जीवलिङ्गं पर्यवस्यति । यदा तु ओदनपदस्य मृत्यू­प­से­च­न­प­द­स­न्नि­धा­नात् ब्रह्मक्षत्रयोः विनाश्यत्वगुणः स्वीक्रियते न तु भोज्यत्वगुणः, स्त्रीपि­ण्ड­रू­प­ब्र­ह्म­क्ष­त्र­क­र्म­क­भु­जि­क्रि­यायां मृत्यो­रु­प­से­च­न­त्वा­स­म्भ­वेन ‘मृत्यु­र्य­स्यो­प­से­च­नम्’ इत्यं­श­स्या­न­न्व­य­प्र­स­ङ्गात्, ब्रह्म­क्ष­त्र­यो­र्वि­ना­शने तु मृत्योः सहा­य­त्व­रू­प­मु­प­से­च­न­त्व­म­स्तीति न तद­न­न्व­य­प्र­सक्तिः, तदा तत्प्र­ति­स­म्ब­न्धिनि यच्छब्दार्थे पूर्वं प्रतीतमत्तृत्वं संहर्तृत्वरूपं पर्यवस्यति । विना­श्य­त्व­गु­ण­ग्र­ह­ण­पक्षे त्वयं विशेषो लभ्यते - लोके हि दध्या­दि­रू­प­मु­प­से­चनं स्वमि­श्रि­ता­न्ना­दि­नाशे साधनं दृष्टमिति मृत्यू­प­से­च­न­प­द­यो­ग­ब­लात् समृत्युकस्य चराचरात्मकस्य जगतो विनाशनं प्रतीयते । तदनुसारात् ब्रह्म­क्ष­त्र­प­द­यो­र­ज­ह­ल्ल­क्ष­णया कृत्स्न­ज­ग­त्प­रत्वं च प्रतीयते । तत्प्र­ति­स­म्ब­न्धि­न्यपि यच्छब्दार्थे कृत्स्न­ज­ग­त्सं­ह­र्तृ­त्व­रूपं ब्रह्मलिङ्गं भाति । एवं स्थिते प्रथमं अद­नी­य­त्व­गु­ण­यो­गात् प्रतीतः अत्ता किं जीवः उत परमात्मा इति संशयः । तत्र पूर्वपक्षः — जीव एव, लोक­प्र­सि­द्ध्य­नु­सा­रेण अत्तृत्वस्य भोक्तृ­त्व­रू­प­ता­प्र­तीतेः, न परमात्मा, ‘अनश्नन्’ इति वचनेन तस्य भोक्तृ­त्व­नि­षे­धात् इति । सिद्धान्तस्तु — अत्ता परमात्मा । कुतः ? चराचरग्रहणात् । मृत्यू­प­से­च­न­प­दा­नु­रो­धेन पूर्वोक्तरीत्या अत्तृत्वस्य चरा­च­रा­त्म­क­स­क­ल­ज­ग­त्सं­ह­र्तृ­त्व­रू­प­त्व­प्र­तीतेः । न च पर­मा­त्म­नोऽ­न्यस्य जगत्संहर्तृत्वं सम्भवति । न च लोक­प्र­सि­द्धि­ब­ला­द­त्तृत्वं भोक्तृत्वरूपं भातीत्युक्तमिति वाच्यम् । तत्प्र­सि­द्ध्य­पे­क्षया वाक्य­शे­षा­धी­न­वि­ना­श्य­त्व­गु­ण­प्र­सिद्धेः शीघ्रतरत्वेन बलवत्त्वात् । अतोऽत्ता पर एवेति निर्णयः । स संहर्ता परमेश्वरो यत्र निर्विशेषे भेदकल्पनया वर्तते तं निर्विशेषं परमात्मानं इत्था - इत्थं को वेद - न कोऽपि इति तस्य दुर्विज्ञेयत्वं उदा­हृ­त­म­न्त्र­च­तु­र्थ­पा­देन विवक्षितमिति बोध्यम् । ‘अन्त­र्या­म्य­धि­दै­वा­दिषु तद्ध­र्म­व्य­प­दे­शात्’ [ब्र.सू.१-२-१८] । ‘य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति’ [बृ.उ. ३-७-१] इत्युपक्रम्य ‘यः पृथिव्यां तिष्ठन्, योऽप्सु तिष्ठन्’ [बृ.उ.३-७-३] इत्यादिना कांश्चित् पर्यायानुक्त्वा ‘इत्यधिदैवतं’ इत्युपसंहृत्य पुनः ‘यः सर्वेषु भूतेषु तिष्ठन्’ ‘यः सर्वेषु लोकेषु’ ‘यः सर्वेषु वेदेषु’ ‘यः सर्वेषु यज्ञेषु’ इत्यादयः केचन पर्यायाः काण्व­मा­ध्य­न्दि­न­पा­ठ­भे­दे­ना­म्नाताः । तत्र अधिदैवादिषु देव­भू­त­लो­क­वे­द­य­ज्ञा­दिषु श्रुतोऽ­न्त­र्यामी परमात्मा, कुतः ? तद्ध­र्म­व्य­प­दे­शात्, तद्धर्मस्य - परमात्मधर्मस्य अविशेषेण सर्व­स्थि­ति­क­र्तृ­त्व­रू­प­स­र्व­नि­य­न्तृ­त्वस्य ‘येन जातानि जीवन्ति’ इति श्रुतिसिद्धस्य वाक्योपक्रमे ‘य इमं च लोकम्’ इत्यादिना व्यपदेशात्, न जीवादिः अन्तर्यामी, तस्य उक्त­ध­र्मा­स­म्भ­वात् - इति सूत्रार्थः । ‘जग­द्वा­चि­त्वात्’ [ब्र.सू.१-४-१६] । कौषी­त­कि­ब्रा­ह्मणे बाला­क्य­जा­त­श­त्रु­सं­वादे बालाकिं ब्राह्मणं प्रति अजातशत्रोर्वचनं श्रूयते — ‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत् कर्म स वै वेदितव्यः पुरुषः’ [कौ.उ.४-१९] इति । अत्र वेदितव्यत्वेन श्रुतः पुरुषः जीवः परो वेति संशये जीव इति पूर्वपक्षः । पुरुषपदस्य जीवे रूढत्वात् । ‘कर्महैव तदूचतुः’ ‘पुण्यो वै पुण्येन कर्मणा भवति’ [बृ.उ.३-२-१३] इत्यादौ वेदे, लोके च ‘पुण्यकर्माऽयं यतस्सुखी वर्तते’ इत्यादौ, कर्मपदस्य धर्मादौ प्रयोगदर्शनेन तत्र रूढत्वाञ्च । ऊचतुः आर्त­भा­ग­या­ज्ञ­व­ल्क्या­वि­त्यर्थः । कर्मसम्बन्धी पुरुषो जीव एव, न परमात्मा । तस्य धर्माद्यभावात् । न च ‘एतेषां पुरुषाणां कर्ता’ इति वाक्येन वेदि­त­व्य­पु­रु­षस्य प्रकृ­ता­दि­त्य­च­न्द्रा­दि­पु­रु­ष­क­र्तृ­त्व­मु­च्य­मानं जीवे कथं सम्भवतीति वाच्यम् । भोगो­प­क­र­ण­भू­ता­ना­दि­त्या­दि­पु­रु­षान् प्रति भोक्तुर्जीवस्य अदृष्टद्वारा कर्तृ­त्वो­प­पत्तेः । अत एव ‘यस्य वैतत् कर्म’ इति वाक्यं सङ्गतम्, अदृष्टद्वारा प्रकृ­त­पु­रु­ष­क­र्तृ­त्वो­प­पा­द­क­त्वात्, इत्येवं प्राप्ते सिद्धान्तः - कर्मशब्दस्य न धर्मादौ रूढिः । ‘चलनात्मकं कर्म’ इति प्रसि­द्ध्य­नु­रो­धेन परिस्पन्दे तस्य रूढत्वात् । कथं तर्हि धर्मादौ तत्प्र­यो­ग­नि­र्वाहः । विहि­त­प्र­ति­षि­द्ध­रू­प­दे­हा­दि­प­रि­स्प­न्द­जन्ये धर्मादौ लक्षणया प्रयोगोपपत्तेः । न च देव­ता­ध्या­ना­दि­रू­प­म­नो­मा­त्र­व्या­पा­र­जन्ये धर्मादौ परि­स्प­न्द­ज­न्य­त्वा­भा­वेन लक्षणया प्रयोगायोगे सति परिस्पन्द इव धर्मादावपि रूढि­र­प­रि­हा­र्येति वाच्यम् । तर्हि प्रकृते विनिगमनाविरहेण रूढ्योरनुन्मेषे सति क्रियत इति कर्म इति व्युत्पत्त्या कर्मपदं कार्यमात्रमाह । एतत्पदमपि प्रत्य­क्षा­द्यु­प­स्थि­त­व­स्तु­मा­त्र­माह । प्रकृतस्य तत्प­रा­म­र्श­यो­ग्यस्य कस्यचिदभावात् । तथा च एतत् — कृत्स्नं जगत् यस्य कर्म - कार्यं इत्यर्थलाभेन वेदि­त­व्य­पु­रु­ष­स्या­शे­ष­ज­ग­दु­त्प­त्ति­क­र्तृत्वं सिद्ध्यति । तञ्च ब्रह्मलिङ्गम् । आदि­त्या­दि­पु­रु­ष­क­र्तृ­त्व­मपि न मुख्यं जीवस्य सम्भवति । ‘एतेषां पुरुषाणां कर्ता’ इत्यत्र मुख्य­क­र्तृ­ग्र­ह­ण­स­म्भवे गौण­क­र्तृ­ग्र­ह­णा­यो­गात् । न च अशे­ष­ज­ग­त्क­र्तृ­त्वोक्तौ तत एवा­दि­त्या­दि­क­र्तृ­त्व­स्यापि लाभात् पृथ­क्त­दु­क्ति­र्व्य­र्थेति वाच्यम् । मन्त्रा­र्थ­वा­दा­दि­ष्वा­दि­त्य­च­न्द्रा­दि­पु­रु­षाणां महा­म­हि­म­स­ङ्की­र्त­नेन तेषु सञ्जा­त­प­र­ब्र­ह्म­त्व­भ्रा­न्ति­नि­व­र्त­क­त्वेन पृथ­गु­क्ति­सा­फ­ल्यात् । पुरुषपदस्यापि न जीवे रूढिः । ‘पूरणात् पुरुषः’ इति कॢप्तयोगेनैव कृत्स्न­ज­ग­द्व्या­पिनि ब्रह्मणीव कृत्स्न­श­री­र­व्या­पिनि जीवेऽपि प्रयोगोपपत्त्या तत्र रूढेरकल्पनात्, तत्कल्पनेऽपि योगवत् रूढेरपि जीव­ब्र­ह्म­सा­धा­र­ण­चे­त­न­मात्रे कल्प­नो­प­प­त्तेश्च, न पुरुषश्रुतिः जीवपक्षपातिनी । श्रुतिपाठे क्वचित् पुरु­ष­प­दा­श्र­व­णाञ्च । तथाचायं सूत्रार्थः - वेदितव्यः पुरुषः परमात्मा, कृत्स्न­ज­ग­त्क­र्तृ­त्वात् । न च हेत्वसिद्धिः । कर्मपदस्य जगद्वाचित्वात् । तस्मात् वेदितव्यः पुरुषः परमात्मेति सिद्धम् । एवं च सर्व­सं­ह­र्तृ­त्वा­दि­क­मि­त्यत्र आदिपदेन अन्त­र्या­म्य­धि­क­र­णोक्तं सर्व­नि­य­न्तृ­त्व­रू­प­स­र्व­स्थि­ति­क­र्तृत्वं जग­द्वा­चि­त्वा­धि­क­र­णोक्तं सर्व­ज­ग­दु­त्प­त्ति­क­र्तृत्वं च गृह्यते ।

ननु ‘यतः’ इत्यादिश्रुत्या जीव­व्या­वृ­त्ते­श्व­रस्य तत्पदवाच्यस्य ब्रह्मणो लक्षणमुक्तमिति तात्प­र्य­व­र्ण­न­म­यु­क्तम्, ‘तद्वि­जि­ज्ञा­सस्व तद्ब्रह्म’ इति­वा­क्य­शे­षा­नु­सा­रेण श्रुतेः वाक्या­र्थ­भू­ता­द्वि­ती­य­जि­ज्ञा­स्य­ब्र­ह्म­ल­क्ष­ण­प्र­ति­पा­द­क­त्व­स्यै­वा­व­ग­मात्, इत्याशङ्क्य श्रुते­स्त­था­भू­त­ब्र­ह्म­ल­क्ष­ण­प­र­त्व­मु­प­ग­च्छतां मतमाह —
अन्ये त्विति ।
चेत­ना­चे­त­ना­त्म­क­कृ­त्स्न­भू­तो­पा­दा­न­त्व­प्र­ति­प­त्तिर्हि ब्रह्म­णोऽ­द्वि­ती­य­त्व­बो­ध­हेतुः । न च चेतनानां नित्यत्वात् कथं तदुपादानत्वं ब्रह्मण इति वाच्यम् । तेषां स्वरूपेण नित्यत्वेऽपि शरी­र­द्व­य­वि­शि­ष्ट­तया कार्यत्वोपगमात् । न चैवमपि ब्रह्मापेक्षया द्वितीयस्य तत्कार्यजगत एव विद्यमानत्वात् कथं तदु­पा­दा­न­त्व­म­द्वि­ती­य­त्व­प्र­त्या­य­क­मिति वाच्यम् । कार्यस्य हि उपादानमेव वास्तवं स्वरूपं, न तु तदतिरिक्तं वास्तवं स्वरूपमस्ति, नाम­रू­पा­त्म­क­ज­ग­द्रूपं तु मिथ्याभूतमिति आर­म्भ­णा­द्य­धि­क­र­णेषु व्यव­स्था­पि­त­त्वात् ।

अत­स्स­र्वो­पा­दा­नत्वं, सर्वस्य वास्तवं स्वरूपं ब्रह्मैवेति बोधनद्वारा ब्रह्मणो वास्त­वा­द्वि­ती­य­त्व­बो­ध­हे­तु­र्भ­वति, अद्वि­ती­य­ब्र­ह्म­बो­धश्च मुक्तिहेतुः, इति मुक्ति­प्र­यो­ज­क­ब्र­ह्मा­द्वि­ती­य­त्व­बो­ध­हे­तु­भू­तो­पा­दा­न­त्व­प्र­त्या­य­नार्थं ‘यत् प्रय­न्त्य­भि­सं­वि­शन्ति’ इतिश्रुतिभागेन ब्रह्मणि सर्वभूतलयो दर्शित इत्याह —
उपादानत्वेति ।

ननु घटाद्युपादाने मृदादौ घटा­दि­ल­या­धा­र­त्व­वत् [घट] जन्मा­दि­का­र­ण­त्व­स्यापि सत्त्वेन तद्बलादपि उपा­दा­न­त्व­प्र­त्ययः स्यादिति, नेत्याह —
जन्मकारणत्वस्येति ।
निमित्तं कुला­ल­द­ण्ड­च­क्रादि ।

तर्हि श्रुतौ जन्मा­दि­का­र­ण­त्व­प्र­ति­पा­दनं व्यर्थम्, लय­मा­त्र­प्र­ति­पा­द­ना­दे­वे­ष्ट­सि­द्धे­रिति, नेत्याह —
अस्त्विति ।
घट­ज­न्म­न्यु­पा­दा­न­मृ­द­ति­रि­क्त­कु­ला­ल­वत् जगज्जन्मन्यपि उपा­दा­न­ब्र­ह्मा­पे­क्षया अन्यत् कर्तृरूपं निमित्तं भविष्यतीति भ्रमव्यवच्छेदाय तस्यैव - ब्रह्मण एव श्रुतौ जग­ज्ज­न­न­क­र्तृ­त्व­मु­क्तम्, तथा राज्यस्थेम्नि पालनरूपे पाल­नी­य­प्र­जा­द्यु­पा­दा­ना­ति­रि­क्त­रा­ज­वत् जगतस्स्थितौ जग­दु­पा­दा­न­ब्र­ह्मा­पे­क्षया अन्यत् निमित्तं नियन्तृतया स्थितिहेतुभूतं भविष्यतीति शङ्का­व्य­व­च्छे­दाय तस्यैव ब्रह्मणो जग­ज्जी­व­न­नि­या­म­कत्वं श्रुत्या उक्तम्, इत्यर्थः ।

तथा चेति ।
जग­ज्ज­न­न­जी­व­न­नि­या­म­क­त्वाभ्यां जग­दु­पा­दा­न­ब्र­ह्मण एव तन्नि­मि­त्त­त्व­प्र­तीतौ सिद्धा­या­मि­त्यर्थः । इदं श्रुत्युक्तं लक्षणमेकं सदेव अभि­न्न­नि­मि­त्तो­पा­दा­नत्वे पर्यवस्यत् अद्वितीयं ब्रह्म उपलक्षयति - ब्रह्म­व्य­ति­रि­क्त­व­स्त्व­स्ति­त्व­श­ङ्का­नि­रा­क­र­ण­द्वा­रेण ज्ञापयति, न तु प्रत्येकं लक्षणं सत् इत्यर्थः । निमित्तं च तदुपादानं चेति निमित्तोपादानम् । अभिन्नं च तन्नि­मि­त्तो­पा­दानं चेति पुनः कर्मधारयः । आद्य­क­र्म­धा­र­या­देव निमि­त्तो­पा­दा­न­यो­र­भेदे सिद्धेऽपि पुनरभिन्नपदं, कर्म­धा­र­या­व­ग­ता­भेदः ऐक्यलक्षण एव, न नीलोत्पलादौ गुणगुणिनोरिव तादात्म्यरूपः - इति ज्ञापनार्थमिति बोध्यम् ।

ननु, यत इति पञ्चमीश्रुत्या सर्व­भू­त­ल­या­धा­र­त्व­लि­ङ्गेन च निश्चितं ब्रह्मण उपादानत्वं प्रधानस्येव परिणामित्वरूपं वा पर­मा­णू­ना­भि­वा­र­म्भ­क­त्व­रूपं वा रज्ज्वा­दे­रा­रो­पि­त­स­र्पा­द्यु­पा­दा­न­स्येव जग­द्रू­प­वि­व­र्ता­धि­ष्ठा­न­त्व­रूपं वा वाच्यम् । तत्र नाद्यः - ब्रह्मणः कूटस्थत्वात् । परिणामवादे हि परि­णा­म­प­रि­णा­मिनोः वास्त­वा­भे­द­स्वी­का­रेण ब्रह्मणः परिणामित्वे परि­णा­म­ज­न्मा­द­योऽपि ब्रह्मणि प्रसज्येरन् । तथा च जन्म­म­र­णा­दि­वि­का­र­शू­न्य­त्व­ल­क्षणं श्रुति­सि­द्ध­कू­ट­स्थत्वं तस्य भज्येत । ततश्च कूटस्थत्वात् तस्य परिणामित्वं न सम्भवति । न द्वितीयः — अद्वि­ती­य­त्वा­द्ब्र­ह्मणः, ब्रह्मणः सद्वितीयत्वे हि पर­मा­णु­द्व­य­सं­यो­ग­व­द­स­म­वा­यि­का­र­ण­ला­भ­स­म्भ­वात् आरम्भकत्वं भवेत्, इत्याशयेनाह —
ब्रह्मणश्चेति ।

तृतीयप्रकारः परिशिष्यत इत्याह —
किंत्वित्यादिना ।
ननु ब्रह्म­त­द्वि­व­र्त­प्र­प­ञ्च­यो­र­भेदः सिद्धान्ते उपेयते, आरम्भवादे तु आर­भ्य­मा­र­म्भ­का­द­त्य­न्त­भि­न्न­मु­पे­यते, इति आरभ्यविवर्तयोः भेदः स्पष्टः ।

सिद्धान्त इव परिणामवादेऽपि साङ्ख्या­द्य­भि­मते परि­णा­म­प­रि­णा­मि­नो­र­भे­दा­भ्यु­प­ग­मात् विव­र्त­प­रि­णा­म­यो­र्भेदः कथमवगन्तव्य इत्याशङ्क्य लक्ष­ण­भे­दा­दि­त्याह —
वस्तुन इति ।
वस्तुनः - उपा­दा­न­त्वा­भि­म­तस्य, अन्यथा - पूर्व­रू­पा­पे­क्षया रूपान्तरेण, भावः - भवनं अवस्थानं अन्यथाभावः, अवस्थाविशेष इति यावत् । तत्समसत्ताकः - तेन वस्तुना समा सत्ता यस्य अन्यथाभावस्य स तथा । तथा च उपा­दा­न­त्वा­भि­म­त­व­स्तु­स­त्ता­स­मा­न­स­त्ता­कत्वे सति तद­व­स्था­वि­शे­ष­रू­पत्वं तत्प­रि­णा­म­त्व­मिति परिणामलक्षणं पर्यवस्यति । तत्र विवर्तवारणाय सत्यन्तम् । घटस्य तन्तु­प­रि­णा­म­त्व­वा­र­णाय विशेष्यम् ।

विवर्तलक्षणमाह —
तदिति ।
वस्तुनः तदसमसत्ताकोऽन्यथाभावो विवर्त इति सम्बन्धः । उपा­दा­न­त्वा­भि­म­त­व­स्तु­स­त्ता­वि­ष­म­स­त्ता­कत्वे सति तद­व­स्था­वि­शे­ष­रू­पत्वं तद्वि­व­र्त­त्व­मिति विवर्तलक्षणम् । उपा­दा­न­त्वा­भि­म­त­मृ­द्व­स्तु­स­त्ता­वि­ष­म­स­त्ता­कत्वं चैत­न्य­स्या­प्य­स्तीति तस्य मृद्व­स्तु­वि­व­र्त­त्व­वा­र­णाय विशेष्यम् । परिणामवारणाय सत्यन्तम् । ब्रह्मचैतन्यस्य पारमार्थिकी सत्ता, घटादिप्रपञ्चस्य व्यावहारिकी सत्ता, शुक्तिरजतादेः प्रातिभासिकी सत्ता इति सत्ता­त्रै­वि­ध्या­ङ्गी­का­र­मते लक्षणभेद उक्तः ।

ब्रह्मणि घटादौ शुक्तिरजतादौ च सर्वत्र ब्रह्म­स्व­रू­प­भूता एकैव सत्ता न तदतिरिक्तेति मतसाधारण्येन लक्षणान्तरमाह —
कारणसलक्षण इति ।
उपा­दा­न­त्वा­भि­म­त­व­स्तु­स­ल­क्ष­णत्वे सति तद­व­स्था­वि­शे­षत्वं तत्प­रि­णा­म­त्व­मिति परिणामलक्षणम् । अत्र सालक्षण्यं जडत्वरूपं बोध्यम् । परि­णा­म­प­रि­णा­मिनोः जडत्वनियमान्न क्वाप्य­व्या­प्ति­शङ्का । मृद्वस्तुनो घट­प­रि­णा­म­त्व­वा­र­णाय विशेष्यम् । प्रपञ्चस्य संवि­त्प­रि­णा­म­त्व­वा­र­णाय सत्यन्तम् ।

विवर्तलक्षणमाह —
तदिति ।
उपा­दा­न­त्वा­भि­म­त­व­स्तु­वि­ल­क्ष­णत्वे सति तद­व­स्था­वि­शे­षत्वं तद्विवर्तत्वं इति विवर्तलक्षणम् । अत्र चित्त्व­ज­ड­त्व­रूपं वैलक्षण्यं विवक्षितम् । विय­दा­दि­प्र­प­ञ्च­वत् शुक्तिरजतादेरपि तत्त­द­व­च्छि­न्न­चै­तन्ये एवा­ध्या­सा­ङ्गी­का­रात् जडमात्रे चैतन्यविवर्ते तद्वि­ल­क्ष­ण­त्व­म­स्तीति लक्षणसङ्गतिः । उपा­दा­न­त्वा­भि­म­त­ज­ड­वि­ल­क्षणे चैतन्ये जड­वि­व­र्त­त्व­वा­र­णाय विशेष्यम् । मृत्परिणामे घटादौ मृद्वि­व­र्त­त्व­वा­र­णाय सत्यन्तम् ।

प्रकारान्तरेण विवर्तपरिणामयोः लक्षणमाह —
कारणाभिन्नमिति ।
कार­ण­त्वा­भि­म­त­व­स्त्व­भि­न्नत्वे सति तत्कार्यत्वं तत्परिणामत्वम् । वियदादौ ब्रह्म­का­र्य­त्व­मस्ति तत्परिणामत्वं तु नास्तीति तद्वारणाय सत्यन्तम् । ब्रह्म­प्र­प­ञ्च­यो­रा­रो­पि­ता­भे­द­स­त्त्वेऽपि लक्षणे विवक्षितस्य धर्मि­द्व­य­स­मा­न­स्व­भा­वा­भे­द­स्या­भा­वा­न्ना­ति­व्याप्तिः । परिणामवादे मृदोऽपि घटा­द्य­भि­न्न­त्व­म­स्तीति तस्याः घटा­दि­प­रि­णा­म­त्व­वा­र­णाय विशेष्यम् ।

तदभेदमिति ।
वस्तुतः तदभेदं विनैवेत्यर्थः । व्यतिरेको भेदः । अस्मिन् लक्षणे कार्य­त्व­म­वि­व­क्षि­तम् । अना­द्य­वि­द्या­दे­रपि विव­र्त­त्वा­ङ्गी­का­रात् । यद्वा कार्यरूपस्यैव विवर्तस्येदं लक्षणम् । तथा च उपा­दा­न­त्वा­भि­म­त­व­स्तु­न­स्स­का­शा­द्व­स्तुतो भेदाभेदाभ्यां दुर्निरूपत्वे सति कार्यत्वं कार्य­रू­प­वि­व­र्त­ल­क्ष­णम् । अत्राविद्यां प्रति उपा­दा­न­त्वा­भि­म­त­चै­त­न्या­द्व­स्तुतो भेदाभेदाभ्यां निरू­प­यि­तु­म­श­क्या­या­म­वि­द्या­या­म­ति­व्या­प्ति­वा­र­णाय विशेष्यम् । आरम्भवादे उपादानादभेदेन दुर्निरूपकार्ये अति­व्या­प्ति­वा­र­णाय भेदेत्युक्तम् । परिणामवादे उपादानात् भेदेन दुर्निरूपकार्ये अति­व्या­प्ति­वा­र­णा­या­भे­दे­त्यु­क्तम् । सिद्धान्ते कार्य­का­र­ण­यो­र­भे­दो­प­ग­मा­द­स­म्भ­व­वा­र­णाय वस्तुत इत्युक्तम् । ननु कार्यकारणयोः वास्तवौ भेदाभेदौ कथं दुर्निरूपाविति । उच्यते — तत्र तयोः भेदस्तावत् दुर्निरूपः । निम्नो­न्न­त­त्वा­दि­यु­क्त­मृ­द्व­स्तु­व्य­ति­रे­केण घटानुपलम्भात् संयोगप्रति कर्तृ­त्वा­नु­प­प­त्तेश्च । पूर्वसिद्धस्यैव कर्तृ­त्व­द­र्श­नात् । उत्पत्तिक्षणे उपादानेन सह कार्यस्य सम्ब­न्धा­नु­प­प­त्तेश्च । पूर्वसिद्धयोरेव हि पश्चात् सम्बन्धसम्भवः । अन्यथा शशशृङ्गादेरपि कारणसम्बन्धस्य दुर्वारत्वात् । कारकव्यापारात् पूर्वं कार्यस्य तुच्छ­वै­ल­क्ष­ण्या­न­ङ्गी­कारे तद्वदेव पश्चा­दा­त्म­ला­भा­स­म्भ­वस्य दुर्वारत्वाच्च । सिद्धे च प्राक् कार्यस्य सत्त्वे प्राक्काले कार्य­का­र­ण­यो­र्भेदे माना­भा­वा­द­भे­द­सिद्धौ पश्चादपि तयोरभेद एव स्वीकर्तव्य इति कार्य­का­र­णा­भे­द­वा­दिनः साङ्ख्यादयः । तद्भेदवादिनः तार्किकादयस्तु वदन्ति — कार्य­का­र­ण­यो­र­भेदो न सम्भवति । तद्भावविरोधात् । न हि तस्यैव तत्कार्यत्वं तत्कारणत्वं च सम्भवति । अर्थ­क्रि­या­भे­द­भा­व­प्र­स­ङ्गाच्च । न हि जला­ह­र­णा­द्य­र्थ­क्रिया मृद्व­स्तु­न­स्स­म्भ­वति । घटोत्पत्तेः प्रागपि तत्प्रसङ्गात् । नापि मृदोऽर्थक्रिया घटस्य सम्भवति । मृद्वत् घटस्यापि घटो­त्पा­द­क­त्व­प्र­स­ङ्गात् । कार्यस्य कारकव्यापारात् पूर्वं सत्त्वे च कार­क­व्या­पा­र­वै­य­र्थ्य­प्र­स­ङ्गात्, तदा मृद्व­दे­वो­प­ल­म्भ­प्र­स­ङ्गाच्च । तदुक्तं पञ्चदश्यां — ‘स घटो न मृदो भिन्नो वियोगे सत्यनीक्षणात् । नाप्यभिन्नः पुरा पिण्ड­द­शा­या­म­न­वे­क्ष­णात्’ ॥ [१३—३५] इति । वियोगे सति - मृदस्सकाशात् बुद्ध्या विवेचने क्रियमाणे इत्यर्थः । एवं कार्यकारणयोः भेद­वा­दि­भि­र­भे­द­वा­दि­भिश्च दर्शितैः परस्परं प्रति­क्षे­प्तु­म­शक्यैः न्यायैः कार्यस्य कारणात् भेदाभेदाभ्यां प्रागुत्पत्तेः सत्त्वा­स­त्त्वाभ्यां च दुर्निरूपत्वात् तस्य अनृतत्त्वं सिद्धम् । कारणं तु कार्योत्पत्तेः पूर्वकाले कार्यकाले कार्यनाशकाले चानुवर्तमानं कार्यात् भेदेन सत्त्वेन च निरूपयितुं शक्यत्वात् सत्यमेव कार्यापेक्षया । एवं मृदा­दे­र­वा­न्त­र­का­र­णस्य तत्त­त्का­र्या­पे­क्षया सत्यत्वे सिद्धेऽपि परमार्थसत्यत्वं नोपेयते । श्रुत्या ब्रह्म­व्य­ति­रि­क्तस्य सर्वस्यैव बाधितत्वात् । ब्रह्मणस्तु परमार्थसत्यत्वं सर्वात्मना बाधशून्यत्वात् अभ्युपगम्यते । अत एव जगत्कारणस्य सत्यत्वे मृदादिसत्यत्वं जगतो मिथ्यात्वे च मृदादिकार्यस्य घटादेरनृतत्वं च दृष्टान्तत्वेन श्रुत्या उपादीयते । तदुक्तं पञ्चदश्याम् — ‘एवं मायामयत्वेन विका­र­स्या­नृ­ता­त्म­ताम् । विका­रा­धा­र­मृ­द्व­स्तु­स­त्यत्वं चाब्र­वी­च्छ्रुतिः’ ॥ [१३—३८] इति । श्लोके दृष्टा­न्त­त्वे­नेति शेषः, विकारानृतत्वादौ पूर्वो­क्त­न्या­य­क­लापः एवंशब्दार्थः । उक्तं च भामतीनिबन्धने ‘तदनेन प्रमाणेन विका­र­जा­त­स्या­नि­र्वा­च्य­तया सिद्धमनृतत्वं कारणस्य निर्वाच्यतया सिद्धं सत्यत्वं च ‘मृत्तिकेत्येव सत्यम्’ इत्यादिना प्रबन्धेन दृष्टा­न्त­त­याऽ­नु­व­दति श्रुतिः’ [२—१-१४] इति । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इति श्रुतिरित्यर्थः । विकारः - घटादिः वाचा - घट­श­रा­वा­दि­र­स्ती­त्या­दि­श­ब्देन आरभ्यते व्यवह्रियत इत्यारम्भणम् । वाचा व्यवह्रियत एव न वस्तुतोऽस्ति विकारः तस्य दुर्नि­रू­प­त्वा­दिति भावः । कथं तर्हि मृद्वस्तुनः सकाशात् घटादिः जातः इति कार्य­का­र­ण­यो­र्भे­द­व्य­व­हारः, इत्यत आह - नामधेयम् । भेदव्यवहारो नाममात्रं - अर्थशून्यम् । यथा ‘राहोश्शिरः’ ‘पुरुषस्य चैतन्यम्’ इति व्यवहारः । विकारवत् भेदोऽ­प्य­नि­र्व­च­नीय इति भावः ।

किं तर्हि सत्यं, तत्राह —
मृत्तिकेति ।
मृत्तिका इत्यनेन - मृत्तिकात्वेन रूपेण घट­श­रा­वा­दि­वि­का­रेषु प्रतीयमानं कारणरूपं वस्तु सत्यम् । विका­र­स­त्य­त्व­मे­व­का­रेण व्यवच्छिद्यते । तत् सिद्धं दुर्वचत्वं कारणात् भेदाभेदाभ्यां कार्यस्येति ।