कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
ब्रह्मलक्षणविचारः
क्रमप्राप्तं द्वितीयसूत्रार्थं सङ्गृह्णाति —
विचार्यस्य चेति ।
चकारोऽवधारणार्थस्सन् श्रुत्या इत्यनेन सम्बध्यते । श्रुत्यैव लक्षणमुक्तम्, न तु व्याप्त्यादिलक्षणवत् पुरुषोत्प्रेक्षितमित्यर्थः । ‘येन जातानि जीवन्ति । यत् प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति’ [तै.उ.३-१] इति वाक्यशेषः आदिपदार्थः । श्रुतौ ‘यतः’ इति यच्छब्देन ब्रह्मवल्ल्यां निरूपितं सत्यज्ञानानन्दानन्तात्मकं ब्रह्म परिगृह्यते । सर्वनाम्नः प्रकृतप्रधानपरामर्शकत्वस्वाभाव्यात् । ततश्च यच्छ्रुतिसामर्थ्यादेव ब्रह्मणस्सच्चिदानन्दस्वरूपात्मकं स्वरूपलक्षणं लभ्यते । पञ्चमी च प्रकृतित्वं हेतुत्वसामान्यं वा वक्ति । हेतुत्वसामान्यं च प्रकृतिकर्त्रुभयसाधारणमिति अविशेषादभिन्ननिमित्तोपादानत्वरूपं लक्षणं लभ्यते । इदंशब्देन प्रत्यक्षाद्युपस्थितं सर्वमुच्यते । भूतशब्दश्च पृथिव्यादिमहाभूतेषु प्राणिषु च रूढः । प्रकृते च विनिगमनाविरहेण रूढ्योरनुन्मेषात् भवन्तीतिव्युत्पत्त्या कार्यमात्रं भूतशब्देनोच्यते । जीवन्ति - स्थितिं लभन्ते । प्रयन्ति - लीयमानानि सन्ति यत् अभिसंविशन्ति - येन तादात्म्यं गच्छन्तीति यावत् । तत्-कारणं ब्रह्म, तत् विजिज्ञासस्व - विशेषेण सच्चिदानन्दैकरसपूर्णप्रत्यग्रूपेण ज्ञातुं-साक्षात्कर्तुम् इच्छ । इच्छामात्रेणोक्तसाक्षात्कारालाभात् सन्प्रत्ययेन विचारो लक्ष्यते । उक्तलक्षणमुखेन ब्रह्म विचारय इत्यर्थः । अत्र यतो भूतानि जायन्ते तत् ब्रह्म, येन जीवन्ति तत् ब्रह्म, यदभिसंविशन्ति तत् ब्रह्म, इति श्रुतिपाठे सति जगज्जन्मकारणत्वं तत्स्थितिकारणत्वं तल्लयकारणत्वं च प्रत्येकमेव श्रुत्या ब्रह्मलक्षणमुक्तं स्यात् । न तु तथा पाठोऽस्ति ।
अतो जन्मादित्रितयकारणत्वं श्रुत्या लक्षणमुक्तमिति प्रतिभाति, तदाक्षिपति —
जगज्जन्मस्थितिलयेष्विति ।
निर्धारणार्था सप्तमी ।
‘यतो भूतानि जायन्ते’ इत्युपक्रम्य ‘तद्ब्रह्म’ इति श्रुत्या लक्ष्ये ब्रह्मणि कारणत्वस्य सत्त्वप्रतिपादनात् नासम्भवः, ‘तद्ब्रह्म’ इत्येकवचनेन लक्ष्यब्रह्मव्यक्तेरेकत्वावगमात् नाव्याप्त्यवकाशः, इति दोषद्वयाभावं सिद्धं कृत्वा अतिव्याप्तिरपि नास्तीत्याह —
अनन्यगामित्वादिति ।
ब्रह्मान्यगामित्वाभावादित्यर्थः । ननु प्रधानेऽतिव्याप्तिः, तस्य साङ्ख्यैरुपादानत्वाभ्युपगमेन उपादानतया जगज्जन्महेतुत्वस्य आधारतया स्थितिहेतुत्वस्य लयाधारतया लयहेतुत्वस्य च तत्रापि सत्वादिति चेत् । न - तत्तत्कर्तृत्वस्यापि लक्षणे विशेषणत्वेन विविक्षिततया जडे प्रधाने तदयोगात् । न च - तत्तत्कर्तृत्वमेव प्रत्येकं लक्षणमस्तु किं तदुपादानत्वरूपविशेष्येणेति वाच्यम् । अदृष्टद्वारा जगज्जन्मादिकर्तरि जीवे अतिव्याप्तिवारकत्वात्, परिच्छिन्नजीवस्य तदुपादानत्वायोगात् । न च साक्षात् जगज्जन्मकर्तृत्वं नियन्तृतया जगत्स्थितिहेतुत्वं सञ्जिहीर्षया जगत्संहर्तृत्वं च लक्षणमिति विवक्षायां जीवेऽतिव्याप्यभावात् उपादानत्वरूपं विशेष्यं व्यर्थमेवेति वाच्यम् । तर्ह्युपादानत्वमपि पृथगेव लक्षणमस्तु । मायाया ब्रह्मोपादानताघटकमात्रत्वेन पृथगुपादानत्वाभावात् प्रधानादिकारणान्तरस्य च अप्रामाणिकत्वेन अतिव्याप्त्यभावात् इति भावः ।
प्रत्येकं लक्षणत्वसम्भवमङ्गीकरोति —
सत्यमिति ।
तर्हि श्रुत्या त्रितयकारणत्वं कथं लक्षणमुक्तमित्याशङ्क्य श्रुतेरपि प्रत्येकलक्षण एव तात्पर्यं, मेलनस्य प्रयोजनाभावात् इत्याशयेनाह —
लक्षणत्रयमेवेदमिति ।
इदं - जगत्कारणत्वं जन्मादीनां मध्ये एकैकनिरूपितं परस्परनिरपेक्षं सत् लक्षणत्रयमेव श्रुत्यभिमतं, न तु त्रितयनिरूपितकारणत्वरूपमेकं लक्षणं इत्यर्थः । त्रयपदमनेकपरं न तु त्रित्वनियमपरम्, ततोऽप्याधिक्यस्य शङ्कावसरे दर्शितत्वात् इति बोध्यम् ।
जगत्संहर्तृत्वादेः प्रत्येकं ब्रह्मलक्षणत्वे सूत्रकारादिसम्मतिमाह —
अत एवेति ।
अत्र आदिपदेन अन्तर्याम्यधिकरण (ब्र.सू.१२-५/१८) जगद्वाचित्वाधिकरणयोः (ब्र.सू.१-४-५/१६) सङ्ग्रहः । अयमर्थः कठवल्ल्यां पठ्यते - ‘यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः’ (क.उ.२—२५) इति । अत्र ब्रह्मक्षत्रयोः प्रयुक्त ओदनशब्दस्तावत् न मुख्यः, किं तु गौणः । लोके च ओदनशब्दमुख्यार्थस्य अदनीयत्वप्रसिद्धेः अदनीयत्वेन गुणेन तयोरोदनशब्दः प्रवर्तते । तथा च यस्य ब्रह्मक्षत्रे ओदनवददनीये इत्युक्तौ यच्छब्दार्थस्यात्तृत्वं प्रतीयते । अनेनैवाभिप्रायेणोक्तं सूत्रे अत्तेति । ओदनपदवाच्यार्थस्यादनीयत्वं द्विविधमस्ति - भुजीक्रियाकर्मत्वात्मकभोज्यत्वरूपमेकं, विनाश्यत्वरूपमपरम् । परं तु भोज्यत्वगुणः प्रसिद्धः, न तु विनाश्यत्वगुणः । गौणप्रयोगे च प्रसिद्धगुण एव गृह्यते । यथा अग्निर्माणवक इत्यत्र अग्निगतशुचित्वादिगुण एवोपादीयते प्रसिद्धत्वात्, न तु तद्गतोऽपि विनाश्यत्वादिगुणः । एवं प्रकृतेऽपि लोकप्रसिद्धिबलात् भोज्यत्वगुण एवौदानशब्दात् प्रतीयते । अस्ति च ब्रह्मक्षत्रयोरपि स्त्रीपिण्डरूपयोर्भोज्यत्वं पुमांसं प्रति । ब्रह्मक्षत्रयोश्च भोज्यत्वप्रतीतौ सत्यां तत्प्रतिसम्बन्धिनि यच्छब्दार्थे पूर्वं प्रतीतमत्तृत्वं भोक्तृत्वरूपं जीवलिङ्गं पर्यवस्यति । यदा तु ओदनपदस्य मृत्यूपसेचनपदसन्निधानात् ब्रह्मक्षत्रयोः विनाश्यत्वगुणः स्वीक्रियते न तु भोज्यत्वगुणः, स्त्रीपिण्डरूपब्रह्मक्षत्रकर्मकभुजिक्रियायां मृत्योरुपसेचनत्वासम्भवेन ‘मृत्युर्यस्योपसेचनम्’ इत्यंशस्यानन्वयप्रसङ्गात्, ब्रह्मक्षत्रयोर्विनाशने तु मृत्योः सहायत्वरूपमुपसेचनत्वमस्तीति न तदनन्वयप्रसक्तिः, तदा तत्प्रतिसम्बन्धिनि यच्छब्दार्थे पूर्वं प्रतीतमत्तृत्वं संहर्तृत्वरूपं पर्यवस्यति । विनाश्यत्वगुणग्रहणपक्षे त्वयं विशेषो लभ्यते - लोके हि दध्यादिरूपमुपसेचनं स्वमिश्रितान्नादिनाशे साधनं दृष्टमिति मृत्यूपसेचनपदयोगबलात् समृत्युकस्य चराचरात्मकस्य जगतो विनाशनं प्रतीयते । तदनुसारात् ब्रह्मक्षत्रपदयोरजहल्लक्षणया कृत्स्नजगत्परत्वं च प्रतीयते । तत्प्रतिसम्बन्धिन्यपि यच्छब्दार्थे कृत्स्नजगत्संहर्तृत्वरूपं ब्रह्मलिङ्गं भाति । एवं स्थिते प्रथमं अदनीयत्वगुणयोगात् प्रतीतः अत्ता किं जीवः उत परमात्मा इति संशयः । तत्र पूर्वपक्षः — जीव एव, लोकप्रसिद्ध्यनुसारेण अत्तृत्वस्य भोक्तृत्वरूपताप्रतीतेः, न परमात्मा, ‘अनश्नन्’ इति वचनेन तस्य भोक्तृत्वनिषेधात् इति । सिद्धान्तस्तु — अत्ता परमात्मा । कुतः ? चराचरग्रहणात् । मृत्यूपसेचनपदानुरोधेन पूर्वोक्तरीत्या अत्तृत्वस्य चराचरात्मकसकलजगत्संहर्तृत्वरूपत्वप्रतीतेः । न च परमात्मनोऽन्यस्य जगत्संहर्तृत्वं सम्भवति । न च लोकप्रसिद्धिबलादत्तृत्वं भोक्तृत्वरूपं भातीत्युक्तमिति वाच्यम् । तत्प्रसिद्ध्यपेक्षया वाक्यशेषाधीनविनाश्यत्वगुणप्रसिद्धेः शीघ्रतरत्वेन बलवत्त्वात् । अतोऽत्ता पर एवेति निर्णयः । स संहर्ता परमेश्वरो यत्र निर्विशेषे भेदकल्पनया वर्तते तं निर्विशेषं परमात्मानं इत्था - इत्थं को वेद - न कोऽपि इति तस्य दुर्विज्ञेयत्वं उदाहृतमन्त्रचतुर्थपादेन विवक्षितमिति बोध्यम् । ‘अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्’ [ब्र.सू.१-२-१८] । ‘य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति’ [बृ.उ. ३-७-१] इत्युपक्रम्य ‘यः पृथिव्यां तिष्ठन्, योऽप्सु तिष्ठन्’ [बृ.उ.३-७-३] इत्यादिना कांश्चित् पर्यायानुक्त्वा ‘इत्यधिदैवतं’ इत्युपसंहृत्य पुनः ‘यः सर्वेषु भूतेषु तिष्ठन्’ ‘यः सर्वेषु लोकेषु’ ‘यः सर्वेषु वेदेषु’ ‘यः सर्वेषु यज्ञेषु’ इत्यादयः केचन पर्यायाः काण्वमाध्यन्दिनपाठभेदेनाम्नाताः । तत्र अधिदैवादिषु देवभूतलोकवेदयज्ञादिषु श्रुतोऽन्तर्यामी परमात्मा, कुतः ? तद्धर्मव्यपदेशात्, तद्धर्मस्य - परमात्मधर्मस्य अविशेषेण सर्वस्थितिकर्तृत्वरूपसर्वनियन्तृत्वस्य ‘येन जातानि जीवन्ति’ इति श्रुतिसिद्धस्य वाक्योपक्रमे ‘य इमं च लोकम्’ इत्यादिना व्यपदेशात्, न जीवादिः अन्तर्यामी, तस्य उक्तधर्मासम्भवात् - इति सूत्रार्थः । ‘जगद्वाचित्वात्’ [ब्र.सू.१-४-१६] । कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे बालाकिं ब्राह्मणं प्रति अजातशत्रोर्वचनं श्रूयते — ‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत् कर्म स वै वेदितव्यः पुरुषः’ [कौ.उ.४-१९] इति । अत्र वेदितव्यत्वेन श्रुतः पुरुषः जीवः परो वेति संशये जीव इति पूर्वपक्षः । पुरुषपदस्य जीवे रूढत्वात् । ‘कर्महैव तदूचतुः’ ‘पुण्यो वै पुण्येन कर्मणा भवति’ [बृ.उ.३-२-१३] इत्यादौ वेदे, लोके च ‘पुण्यकर्माऽयं यतस्सुखी वर्तते’ इत्यादौ, कर्मपदस्य धर्मादौ प्रयोगदर्शनेन तत्र रूढत्वाञ्च । ऊचतुः आर्तभागयाज्ञवल्क्यावित्यर्थः । कर्मसम्बन्धी पुरुषो जीव एव, न परमात्मा । तस्य धर्माद्यभावात् । न च ‘एतेषां पुरुषाणां कर्ता’ इति वाक्येन वेदितव्यपुरुषस्य प्रकृतादित्यचन्द्रादिपुरुषकर्तृत्वमुच्यमानं जीवे कथं सम्भवतीति वाच्यम् । भोगोपकरणभूतानादित्यादिपुरुषान् प्रति भोक्तुर्जीवस्य अदृष्टद्वारा कर्तृत्वोपपत्तेः । अत एव ‘यस्य वैतत् कर्म’ इति वाक्यं सङ्गतम्, अदृष्टद्वारा प्रकृतपुरुषकर्तृत्वोपपादकत्वात्, इत्येवं प्राप्ते सिद्धान्तः - कर्मशब्दस्य न धर्मादौ रूढिः । ‘चलनात्मकं कर्म’ इति प्रसिद्ध्यनुरोधेन परिस्पन्दे तस्य रूढत्वात् । कथं तर्हि धर्मादौ तत्प्रयोगनिर्वाहः । विहितप्रतिषिद्धरूपदेहादिपरिस्पन्दजन्ये धर्मादौ लक्षणया प्रयोगोपपत्तेः । न च देवताध्यानादिरूपमनोमात्रव्यापारजन्ये धर्मादौ परिस्पन्दजन्यत्वाभावेन लक्षणया प्रयोगायोगे सति परिस्पन्द इव धर्मादावपि रूढिरपरिहार्येति वाच्यम् । तर्हि प्रकृते विनिगमनाविरहेण रूढ्योरनुन्मेषे सति क्रियत इति कर्म इति व्युत्पत्त्या कर्मपदं कार्यमात्रमाह । एतत्पदमपि प्रत्यक्षाद्युपस्थितवस्तुमात्रमाह । प्रकृतस्य तत्परामर्शयोग्यस्य कस्यचिदभावात् । तथा च एतत् — कृत्स्नं जगत् यस्य कर्म - कार्यं इत्यर्थलाभेन वेदितव्यपुरुषस्याशेषजगदुत्पत्तिकर्तृत्वं सिद्ध्यति । तञ्च ब्रह्मलिङ्गम् । आदित्यादिपुरुषकर्तृत्वमपि न मुख्यं जीवस्य सम्भवति । ‘एतेषां पुरुषाणां कर्ता’ इत्यत्र मुख्यकर्तृग्रहणसम्भवे गौणकर्तृग्रहणायोगात् । न च अशेषजगत्कर्तृत्वोक्तौ तत एवादित्यादिकर्तृत्वस्यापि लाभात् पृथक्तदुक्तिर्व्यर्थेति वाच्यम् । मन्त्रार्थवादादिष्वादित्यचन्द्रादिपुरुषाणां महामहिमसङ्कीर्तनेन तेषु सञ्जातपरब्रह्मत्वभ्रान्तिनिवर्तकत्वेन पृथगुक्तिसाफल्यात् । पुरुषपदस्यापि न जीवे रूढिः । ‘पूरणात् पुरुषः’ इति कॢप्तयोगेनैव कृत्स्नजगद्व्यापिनि ब्रह्मणीव कृत्स्नशरीरव्यापिनि जीवेऽपि प्रयोगोपपत्त्या तत्र रूढेरकल्पनात्, तत्कल्पनेऽपि योगवत् रूढेरपि जीवब्रह्मसाधारणचेतनमात्रे कल्पनोपपत्तेश्च, न पुरुषश्रुतिः जीवपक्षपातिनी । श्रुतिपाठे क्वचित् पुरुषपदाश्रवणाञ्च । तथाचायं सूत्रार्थः - वेदितव्यः पुरुषः परमात्मा, कृत्स्नजगत्कर्तृत्वात् । न च हेत्वसिद्धिः । कर्मपदस्य जगद्वाचित्वात् । तस्मात् वेदितव्यः पुरुषः परमात्मेति सिद्धम् । एवं च सर्वसंहर्तृत्वादिकमित्यत्र आदिपदेन अन्तर्याम्यधिकरणोक्तं सर्वनियन्तृत्वरूपसर्वस्थितिकर्तृत्वं जगद्वाचित्वाधिकरणोक्तं सर्वजगदुत्पत्तिकर्तृत्वं च गृह्यते ।
ननु ‘यतः’ इत्यादिश्रुत्या जीवव्यावृत्तेश्वरस्य तत्पदवाच्यस्य ब्रह्मणो लक्षणमुक्तमिति तात्पर्यवर्णनमयुक्तम्, ‘तद्विजिज्ञासस्व तद्ब्रह्म’ इतिवाक्यशेषानुसारेण श्रुतेः वाक्यार्थभूताद्वितीयजिज्ञास्यब्रह्मलक्षणप्रतिपादकत्वस्यैवावगमात्, इत्याशङ्क्य श्रुतेस्तथाभूतब्रह्मलक्षणपरत्वमुपगच्छतां मतमाह —
अन्ये त्विति ।
चेतनाचेतनात्मककृत्स्नभूतोपादानत्वप्रतिपत्तिर्हि ब्रह्मणोऽद्वितीयत्वबोधहेतुः । न च चेतनानां नित्यत्वात् कथं तदुपादानत्वं ब्रह्मण इति वाच्यम् । तेषां स्वरूपेण नित्यत्वेऽपि शरीरद्वयविशिष्टतया कार्यत्वोपगमात् । न चैवमपि ब्रह्मापेक्षया द्वितीयस्य तत्कार्यजगत एव विद्यमानत्वात् कथं तदुपादानत्वमद्वितीयत्वप्रत्यायकमिति वाच्यम् । कार्यस्य हि उपादानमेव वास्तवं स्वरूपं, न तु तदतिरिक्तं वास्तवं स्वरूपमस्ति, नामरूपात्मकजगद्रूपं तु मिथ्याभूतमिति आरम्भणाद्यधिकरणेषु व्यवस्थापितत्वात् ।
अतस्सर्वोपादानत्वं, सर्वस्य वास्तवं स्वरूपं ब्रह्मैवेति बोधनद्वारा ब्रह्मणो वास्तवाद्वितीयत्वबोधहेतुर्भवति, अद्वितीयब्रह्मबोधश्च मुक्तिहेतुः, इति मुक्तिप्रयोजकब्रह्माद्वितीयत्वबोधहेतुभूतोपादानत्वप्रत्यायनार्थं ‘यत् प्रयन्त्यभिसंविशन्ति’ इतिश्रुतिभागेन ब्रह्मणि सर्वभूतलयो दर्शित इत्याह —
उपादानत्वेति ।
ननु घटाद्युपादाने मृदादौ घटादिलयाधारत्ववत् [घट] जन्मादिकारणत्वस्यापि सत्त्वेन तद्बलादपि उपादानत्वप्रत्ययः स्यादिति, नेत्याह —
जन्मकारणत्वस्येति ।
निमित्तं कुलालदण्डचक्रादि ।
तर्हि श्रुतौ जन्मादिकारणत्वप्रतिपादनं व्यर्थम्, लयमात्रप्रतिपादनादेवेष्टसिद्धेरिति, नेत्याह —
अस्त्विति ।
घटजन्मन्युपादानमृदतिरिक्तकुलालवत् जगज्जन्मन्यपि उपादानब्रह्मापेक्षया अन्यत् कर्तृरूपं निमित्तं भविष्यतीति भ्रमव्यवच्छेदाय तस्यैव - ब्रह्मण एव श्रुतौ जगज्जननकर्तृत्वमुक्तम्, तथा राज्यस्थेम्नि पालनरूपे पालनीयप्रजाद्युपादानातिरिक्तराजवत् जगतस्स्थितौ जगदुपादानब्रह्मापेक्षया अन्यत् निमित्तं नियन्तृतया स्थितिहेतुभूतं भविष्यतीति शङ्काव्यवच्छेदाय तस्यैव ब्रह्मणो जगज्जीवननियामकत्वं श्रुत्या उक्तम्, इत्यर्थः ।
तथा चेति ।
जगज्जननजीवननियामकत्वाभ्यां जगदुपादानब्रह्मण एव तन्निमित्तत्वप्रतीतौ सिद्धायामित्यर्थः । इदं श्रुत्युक्तं लक्षणमेकं सदेव अभिन्ननिमित्तोपादानत्वे पर्यवस्यत् अद्वितीयं ब्रह्म उपलक्षयति - ब्रह्मव्यतिरिक्तवस्त्वस्तित्वशङ्कानिराकरणद्वारेण ज्ञापयति, न तु प्रत्येकं लक्षणं सत् इत्यर्थः । निमित्तं च तदुपादानं चेति निमित्तोपादानम् । अभिन्नं च तन्निमित्तोपादानं चेति पुनः कर्मधारयः । आद्यकर्मधारयादेव निमित्तोपादानयोरभेदे सिद्धेऽपि पुनरभिन्नपदं, कर्मधारयावगताभेदः ऐक्यलक्षण एव, न नीलोत्पलादौ गुणगुणिनोरिव तादात्म्यरूपः - इति ज्ञापनार्थमिति बोध्यम् ।
ननु, यत इति पञ्चमीश्रुत्या सर्वभूतलयाधारत्वलिङ्गेन च निश्चितं ब्रह्मण उपादानत्वं प्रधानस्येव परिणामित्वरूपं वा परमाणूनाभिवारम्भकत्वरूपं वा रज्ज्वादेरारोपितसर्पाद्युपादानस्येव जगद्रूपविवर्ताधिष्ठानत्वरूपं वा वाच्यम् । तत्र नाद्यः - ब्रह्मणः कूटस्थत्वात् । परिणामवादे हि परिणामपरिणामिनोः वास्तवाभेदस्वीकारेण ब्रह्मणः परिणामित्वे परिणामजन्मादयोऽपि ब्रह्मणि प्रसज्येरन् । तथा च जन्ममरणादिविकारशून्यत्वलक्षणं श्रुतिसिद्धकूटस्थत्वं तस्य भज्येत । ततश्च कूटस्थत्वात् तस्य परिणामित्वं न सम्भवति । न द्वितीयः — अद्वितीयत्वाद्ब्रह्मणः, ब्रह्मणः सद्वितीयत्वे हि परमाणुद्वयसंयोगवदसमवायिकारणलाभसम्भवात् आरम्भकत्वं भवेत्, इत्याशयेनाह —
ब्रह्मणश्चेति ।
तृतीयप्रकारः परिशिष्यत इत्याह —
किंत्वित्यादिना ।
ननु ब्रह्मतद्विवर्तप्रपञ्चयोरभेदः सिद्धान्ते उपेयते, आरम्भवादे तु आरभ्यमारम्भकादत्यन्तभिन्नमुपेयते, इति आरभ्यविवर्तयोः भेदः स्पष्टः ।
सिद्धान्त इव परिणामवादेऽपि साङ्ख्याद्यभिमते परिणामपरिणामिनोरभेदाभ्युपगमात् विवर्तपरिणामयोर्भेदः कथमवगन्तव्य इत्याशङ्क्य लक्षणभेदादित्याह —
वस्तुन इति ।
वस्तुनः - उपादानत्वाभिमतस्य, अन्यथा - पूर्वरूपापेक्षया रूपान्तरेण, भावः - भवनं अवस्थानं अन्यथाभावः, अवस्थाविशेष इति यावत् । तत्समसत्ताकः - तेन वस्तुना समा सत्ता यस्य अन्यथाभावस्य स तथा । तथा च उपादानत्वाभिमतवस्तुसत्तासमानसत्ताकत्वे सति तदवस्थाविशेषरूपत्वं तत्परिणामत्वमिति परिणामलक्षणं पर्यवस्यति । तत्र विवर्तवारणाय सत्यन्तम् । घटस्य तन्तुपरिणामत्ववारणाय विशेष्यम् ।
विवर्तलक्षणमाह —
तदिति ।
वस्तुनः तदसमसत्ताकोऽन्यथाभावो विवर्त इति सम्बन्धः । उपादानत्वाभिमतवस्तुसत्ताविषमसत्ताकत्वे सति तदवस्थाविशेषरूपत्वं तद्विवर्तत्वमिति विवर्तलक्षणम् । उपादानत्वाभिमतमृद्वस्तुसत्ताविषमसत्ताकत्वं चैतन्यस्याप्यस्तीति तस्य मृद्वस्तुविवर्तत्ववारणाय विशेष्यम् । परिणामवारणाय सत्यन्तम् । ब्रह्मचैतन्यस्य पारमार्थिकी सत्ता, घटादिप्रपञ्चस्य व्यावहारिकी सत्ता, शुक्तिरजतादेः प्रातिभासिकी सत्ता इति सत्तात्रैविध्याङ्गीकारमते लक्षणभेद उक्तः ।
ब्रह्मणि घटादौ शुक्तिरजतादौ च सर्वत्र ब्रह्मस्वरूपभूता एकैव सत्ता न तदतिरिक्तेति मतसाधारण्येन लक्षणान्तरमाह —
कारणसलक्षण इति ।
उपादानत्वाभिमतवस्तुसलक्षणत्वे सति तदवस्थाविशेषत्वं तत्परिणामत्वमिति परिणामलक्षणम् । अत्र सालक्षण्यं जडत्वरूपं बोध्यम् । परिणामपरिणामिनोः जडत्वनियमान्न क्वाप्यव्याप्तिशङ्का । मृद्वस्तुनो घटपरिणामत्ववारणाय विशेष्यम् । प्रपञ्चस्य संवित्परिणामत्ववारणाय सत्यन्तम् ।
विवर्तलक्षणमाह —
तदिति ।
उपादानत्वाभिमतवस्तुविलक्षणत्वे सति तदवस्थाविशेषत्वं तद्विवर्तत्वं इति विवर्तलक्षणम् । अत्र चित्त्वजडत्वरूपं वैलक्षण्यं विवक्षितम् । वियदादिप्रपञ्चवत् शुक्तिरजतादेरपि तत्तदवच्छिन्नचैतन्ये एवाध्यासाङ्गीकारात् जडमात्रे चैतन्यविवर्ते तद्विलक्षणत्वमस्तीति लक्षणसङ्गतिः । उपादानत्वाभिमतजडविलक्षणे चैतन्ये जडविवर्तत्ववारणाय विशेष्यम् । मृत्परिणामे घटादौ मृद्विवर्तत्ववारणाय सत्यन्तम् ।
प्रकारान्तरेण विवर्तपरिणामयोः लक्षणमाह —
कारणाभिन्नमिति ।
कारणत्वाभिमतवस्त्वभिन्नत्वे सति तत्कार्यत्वं तत्परिणामत्वम् । वियदादौ ब्रह्मकार्यत्वमस्ति तत्परिणामत्वं तु नास्तीति तद्वारणाय सत्यन्तम् । ब्रह्मप्रपञ्चयोरारोपिताभेदसत्त्वेऽपि लक्षणे विवक्षितस्य धर्मिद्वयसमानस्वभावाभेदस्याभावान्नातिव्याप्तिः । परिणामवादे मृदोऽपि घटाद्यभिन्नत्वमस्तीति तस्याः घटादिपरिणामत्ववारणाय विशेष्यम् ।
तदभेदमिति ।
वस्तुतः तदभेदं विनैवेत्यर्थः । व्यतिरेको भेदः । अस्मिन् लक्षणे कार्यत्वमविवक्षितम् । अनाद्यविद्यादेरपि विवर्तत्वाङ्गीकारात् । यद्वा कार्यरूपस्यैव विवर्तस्येदं लक्षणम् । तथा च उपादानत्वाभिमतवस्तुनस्सकाशाद्वस्तुतो भेदाभेदाभ्यां दुर्निरूपत्वे सति कार्यत्वं कार्यरूपविवर्तलक्षणम् । अत्राविद्यां प्रति उपादानत्वाभिमतचैतन्याद्वस्तुतो भेदाभेदाभ्यां निरूपयितुमशक्यायामविद्यायामतिव्याप्तिवारणाय विशेष्यम् । आरम्भवादे उपादानादभेदेन दुर्निरूपकार्ये अतिव्याप्तिवारणाय भेदेत्युक्तम् । परिणामवादे उपादानात् भेदेन दुर्निरूपकार्ये अतिव्याप्तिवारणायाभेदेत्युक्तम् । सिद्धान्ते कार्यकारणयोरभेदोपगमादसम्भववारणाय वस्तुत इत्युक्तम् । ननु कार्यकारणयोः वास्तवौ भेदाभेदौ कथं दुर्निरूपाविति । उच्यते — तत्र तयोः भेदस्तावत् दुर्निरूपः । निम्नोन्नतत्वादियुक्तमृद्वस्तुव्यतिरेकेण घटानुपलम्भात् संयोगप्रति कर्तृत्वानुपपत्तेश्च । पूर्वसिद्धस्यैव कर्तृत्वदर्शनात् । उत्पत्तिक्षणे उपादानेन सह कार्यस्य सम्बन्धानुपपत्तेश्च । पूर्वसिद्धयोरेव हि पश्चात् सम्बन्धसम्भवः । अन्यथा शशशृङ्गादेरपि कारणसम्बन्धस्य दुर्वारत्वात् । कारकव्यापारात् पूर्वं कार्यस्य तुच्छवैलक्षण्यानङ्गीकारे तद्वदेव पश्चादात्मलाभासम्भवस्य दुर्वारत्वाच्च । सिद्धे च प्राक् कार्यस्य सत्त्वे प्राक्काले कार्यकारणयोर्भेदे मानाभावादभेदसिद्धौ पश्चादपि तयोरभेद एव स्वीकर्तव्य इति कार्यकारणाभेदवादिनः साङ्ख्यादयः । तद्भेदवादिनः तार्किकादयस्तु वदन्ति — कार्यकारणयोरभेदो न सम्भवति । तद्भावविरोधात् । न हि तस्यैव तत्कार्यत्वं तत्कारणत्वं च सम्भवति । अर्थक्रियाभेदभावप्रसङ्गाच्च । न हि जलाहरणाद्यर्थक्रिया मृद्वस्तुनस्सम्भवति । घटोत्पत्तेः प्रागपि तत्प्रसङ्गात् । नापि मृदोऽर्थक्रिया घटस्य सम्भवति । मृद्वत् घटस्यापि घटोत्पादकत्वप्रसङ्गात् । कार्यस्य कारकव्यापारात् पूर्वं सत्त्वे च कारकव्यापारवैयर्थ्यप्रसङ्गात्, तदा मृद्वदेवोपलम्भप्रसङ्गाच्च । तदुक्तं पञ्चदश्यां — ‘स घटो न मृदो भिन्नो वियोगे सत्यनीक्षणात् । नाप्यभिन्नः पुरा पिण्डदशायामनवेक्षणात्’ ॥ [१३—३५] इति । वियोगे सति - मृदस्सकाशात् बुद्ध्या विवेचने क्रियमाणे इत्यर्थः । एवं कार्यकारणयोः भेदवादिभिरभेदवादिभिश्च दर्शितैः परस्परं प्रतिक्षेप्तुमशक्यैः न्यायैः कार्यस्य कारणात् भेदाभेदाभ्यां प्रागुत्पत्तेः सत्त्वासत्त्वाभ्यां च दुर्निरूपत्वात् तस्य अनृतत्त्वं सिद्धम् । कारणं तु कार्योत्पत्तेः पूर्वकाले कार्यकाले कार्यनाशकाले चानुवर्तमानं कार्यात् भेदेन सत्त्वेन च निरूपयितुं शक्यत्वात् सत्यमेव कार्यापेक्षया । एवं मृदादेरवान्तरकारणस्य तत्तत्कार्यापेक्षया सत्यत्वे सिद्धेऽपि परमार्थसत्यत्वं नोपेयते । श्रुत्या ब्रह्मव्यतिरिक्तस्य सर्वस्यैव बाधितत्वात् । ब्रह्मणस्तु परमार्थसत्यत्वं सर्वात्मना बाधशून्यत्वात् अभ्युपगम्यते । अत एव जगत्कारणस्य सत्यत्वे मृदादिसत्यत्वं जगतो मिथ्यात्वे च मृदादिकार्यस्य घटादेरनृतत्वं च दृष्टान्तत्वेन श्रुत्या उपादीयते । तदुक्तं पञ्चदश्याम् — ‘एवं मायामयत्वेन विकारस्यानृतात्मताम् । विकाराधारमृद्वस्तुसत्यत्वं चाब्रवीच्छ्रुतिः’ ॥ [१३—३८] इति । श्लोके दृष्टान्तत्वेनेति शेषः, विकारानृतत्वादौ पूर्वोक्तन्यायकलापः एवंशब्दार्थः । उक्तं च भामतीनिबन्धने ‘तदनेन प्रमाणेन विकारजातस्यानिर्वाच्यतया सिद्धमनृतत्वं कारणस्य निर्वाच्यतया सिद्धं सत्यत्वं च ‘मृत्तिकेत्येव सत्यम्’ इत्यादिना प्रबन्धेन दृष्टान्ततयाऽनुवदति श्रुतिः’ [२—१-१४] इति । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इति श्रुतिरित्यर्थः । विकारः - घटादिः वाचा - घटशरावादिरस्तीत्यादिशब्देन आरभ्यते व्यवह्रियत इत्यारम्भणम् । वाचा व्यवह्रियत एव न वस्तुतोऽस्ति विकारः तस्य दुर्निरूपत्वादिति भावः । कथं तर्हि मृद्वस्तुनः सकाशात् घटादिः जातः इति कार्यकारणयोर्भेदव्यवहारः, इत्यत आह - नामधेयम् । भेदव्यवहारो नाममात्रं - अर्थशून्यम् । यथा ‘राहोश्शिरः’ ‘पुरुषस्य चैतन्यम्’ इति व्यवहारः । विकारवत् भेदोऽप्यनिर्वचनीय इति भावः ।
किं तर्हि सत्यं, तत्राह —
मृत्तिकेति ।
मृत्तिका इत्यनेन - मृत्तिकात्वेन रूपेण घटशरावादिविकारेषु प्रतीयमानं कारणरूपं वस्तु सत्यम् । विकारसत्यत्वमेवकारेण व्यवच्छिद्यते । तत् सिद्धं दुर्वचत्वं कारणात् भेदाभेदाभ्यां कार्यस्येति ।