कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
द्वितीयपरिच्छेदस्य अविरोधाध्यायेन प्रथमपरिच्छेदेन च सङ्गतिसूचनपूर्वकं मिथ्यात्वश्रुतीनां प्रत्यक्षबाधनिरूपणम्
प्रत्यक्षविरोधे श्रुतियुक्तीनामेव बाधो न्याय्य इति मन्यमान आक्षिपति —
ननु नेति ।
‘घटस्सन्’ इत्यादिना घटादिसत्त्वग्राहिप्रत्यक्षेण सह प्रपञ्चमिथ्यात्वप्रत्यायकश्रुतियुक्तीनां विरोधसत्त्वादित्यर्थः ।
श्रुत्यादिगम्यमिथ्यात्वविरुद्धं सत्त्वं प्रत्यक्षग्राह्यमेव न भवति, अतस्तद्विरोधशङ्कैव निरालम्बनेति पञ्चभिर्मतैः प्रतिपादयति —
अत्राहुरित्यादिना ।
प्रत्यक्षं घटादि न गृह्णाति तस्य-घटादेः सत्त्वं वा न गृह्णाति चेत्, तर्हि निर्विषयं तत् प्रसज्येतेति शङ्कते —
किंन्त्विति ।
उत्तरम् —
अधिष्ठानेति ।
सन्मात्रमिति ।
सद्रूपं ब्रह्मैव प्रत्यक्षप्रमेयमित्यर्थः ।
एवंस्थिते न केवलं प्रत्यक्षविरोधाभावः, किं तु लाभोऽप्यस्तीत्याह —
तथा चेति ।
घटादेरैन्द्रियकत्ववादी शङ्कते —
तथासतीति ।
तस्य सन्मात्रविषयकत्वे सतीत्यर्थः ।
इन्द्रियेति ।
न च सन्मात्रप्रत्यक्ष एव इन्द्रियान्वयाद्यनुविधानोपपत्तेः ‘प्रत्यक्षस्य घटादिविषयकत्वाभावे तदनुविधानं न स्यात् इत्येतदभिप्रायकं विशेषणमयुक्तमिति वाच्यम् । स्वप्रकाशस्य सन्मात्रस्य प्रकाशाय इन्द्रियापेक्षानुपपत्तेरिति भावः । अत्र आक्षेप्ता किं सिद्धान्त्येकदेशी, किं वा भेदवादी ।
आद्ये तत्सम्मतदृष्टान्तेन सन्मात्रस्य प्रत्यक्षप्रमेयत्वमाह —
यथेति ।
तत्रैवेति ।
अधिष्ठानग्रहण एवेत्यर्थः ।
भ्रान्त्येति ।
साक्षिरूपयेत्यर्थः ।
सन्मात्रस्येति ।
तस्य स्वप्रकाशत्वेऽप्यावृतत्वात् आवरणनिवर्तकवृत्त्युत्पत्तये इन्द्रियापेक्षेति भावः ।
घटादीति ।
घटादेस्तद्भेदरूपस्य च वस्तुनः प्रतिभासो भ्रान्त्या - ऐन्द्रियकवृत्त्यभिव्यक्तसन्मात्ररूपसाक्षिचैतन्यलक्षणया इत्यभ्युपगमादित्यर्थः । एतेन सत्सदित्येव प्रत्यक्षं स्यादित्याक्षेप्ता भेदवाद्यपि निरस्तः । सिद्धान्तिना घटादौ तत्सत्त्वे च प्रत्यक्षस्य प्रामाण्यानङ्गीकारेऽपि घटादेः प्रत्यक्षज्ञाने साक्षिरूपे भानाङ्गीकारात् ।
भेदवादी शङ्कते —
नन्विति ।
शुक्तिरजतादेर्बाधदर्शनात् युक्तं तस्य भ्रान्त्या प्रतिभासाङ्गीकरणम्, (तथा) घटादिद्वैतस्य बाधादर्शनात् तस्य भ्रान्तिमात्रसिद्धत्वमनुपपन्नमित्यर्थः । किं श्रौतबाधादर्शनं विवक्षितं, किं वा प्रत्यक्षबाधादर्शनं, यौक्तिकबाधादर्शनं वा ।
आद्यमसिद्धम्, दृश्यमात्रस्य ब्रह्मणि ‘नेह नानास्ति’ इत्यादिश्रुत्या बाधदर्शनात्-इत्याशयेनाह —
नेति ।
द्वितीयमङ्गीकरोति —
बाधादर्शनेऽपीति ।
तृतीयमप्यसिद्ध्या दूषयति देशकालेति ।
घटादीति । घटादेस्तद्धर्मिकभेदरूपस्य च वस्तुन इत्यर्थः ।
प्रत्यक्षायोग्यत्वमेव दर्शयितुं प्रथमं सम्मतमर्थं दर्शयति —
इन्द्रियेति ।
तत्रेतिपदव्याख्या —
घटादिभेद इति ।
घटादिधर्मिकभेदे इत्यर्थः ।
सर्वतो भिन्न एव प्रतीयत इत्ययुक्तम्, इन्द्रियसन्निकृष्टे स्थाण्वादौ क्वचित् पुरुषादिप्रतियोगिकभेदस्याप्रतीतेः, प्रतीतौ वा संशयाभावापत्तेः, अत आह —
यत्रापीति ।
ततः किं, तत्राह —
भेदस्य चेति ।
प्रतियोगिसहोपलम्भनियमवत इति ।
ससम्बन्धिकपदार्थप्रत्यक्षे यावत्सम्बन्धिविषयकत्वस्य यावत्सम्बन्धिप्रत्यक्षजन्यतायाश्च संयोगादिप्रत्यक्षे कॢप्तत्वात् भेदप्रत्यक्षेऽपि यावत्प्रतियोगिविषयकत्वं यावत्प्रतियोगिप्रत्यक्षजन्यत्वं च वाच्यम्; भेदप्रत्यक्षस्यापि ससम्बन्धिकपदार्थप्रत्यक्षत्वात् । तथा च यावन्तः प्रतियोगिनः तावतां प्रतियोगिनां प्रत्यक्षासम्भवेन कॢप्तसामग्र्यभावात् न भेदः प्रत्यक्षप्रमायोग्य इति तस्य भ्रान्तिमात्रसिद्धत्वं युक्तम् । सिद्धान्ते तु भेदप्रत्यक्षस्य नित्यसाक्षिरूपत्वात् न कारणापेक्षेति भावः ।
सहोपलम्भनियममात्रस्य भेदसत्यत्वमते कथञ्चित् उद्धारं शङ्कते —
भेदज्ञानमिति ।
संस्कारापेक्षणादिति ।
तज्जन्यत्वसम्भवादित्यर्थः । भेदज्ञाने हि प्रतियोगिनां प्रतियोगितावच्छेदकरूपेणैव भानं परैरुपेयते । तेन रूपेण सकलप्रतियोगिगोचरपूर्वानुभवासम्भवेन संस्कारासम्भवात् असन्निकृष्टप्रतियोग्यंशे स्मृतिरूपत्वमपि न सम्भवति ।
तदभ्युपगम्याप्याह सिद्धान्ती —
न तथापीति ।
कनकाचलादिपदार्थानां सन्निकृष्टघटनिष्ठभेदप्रतियोगित्वेन पूर्वमननुभूतत्वादिति भावः ।
वैशिष्ट्यांशे पूर्वानुभवं शङ्कते —
कनकाचल इति ।
एवमितरपदार्थेष्वपि अनुमानं द्रष्टव्यमिति भावः ।
आत्माश्रयापत्तेरिति ।
भेदज्ञानस्य भेदज्ञानाधीनत्वे न किञ्चित् भेदज्ञानं सिद्ध्येदिति भावः ।
अप्रवृत्त्येति ।
तथा च पक्षाद्यभेदज्ञानस्य अनुमितिप्रतिबन्धकतया तद्विघटकपक्षादिभेदज्ञानमावश्यकमिति भावः ।
तर्हीति ।
प्रतियोगिवैशिष्ट्यांशज्ञानम्य स्मृतिरूपत्वासम्भवे सतीत्यर्थः ।
तदेकेति ।
तत्पदं प्रतियोगिपरम् । नियमेन प्रतियोगिज्ञाने विषयस्येत्यर्थः । वित्तिपदं प्रत्यक्षपरम्, भेदपदजन्यभेदज्ञानस्य प्रतियोगिविषयकत्वादर्शनादिति बोध्यम् ।
भ्रमैकविषयत्वादिति ।
अधिष्ठानस्यापि भ्रमविषयत्वात् कल्पितत्वप्रसङ्गवारणाय एकपदम् । अधिष्ठानस्य च सम्यग्दर्शनं प्रत्यपि विषयत्वात् भ्रान्त्येकविषयत्वमसिद्धम् । तथा च प्रत्यक्षं सद्वस्तुन्येव प्रमाणं सत् श्रुत्यनुकूलमित्यर्थः ।
अस्तु वा घटादेश्चाक्षुषत्वाद्यनुभवानुरोधेन चक्षुरादिगम्यत्वं, तथापि प्रपञ्चमिथ्यात्वसाधकश्रुतियुक्तीनां न प्रत्यक्षविरोधः, प्रत्यक्षस्यापि घटादौ पृथक्सत्त्वग्राहित्वाभावात् इत्याह —
न्यायसुधाकृतस्त्वाहुरिति ।
सन् घट इत्यादिः घटादेःसत्त्वप्रतिभासः अधिष्ठानसत्तासम्बन्धविषयक एव, अतो न विरोध इत्यर्थः ।
घटादौ प्रतीयमानसत्त्वस्य अधिष्ठानगतत्वस्वीकारेऽतिप्रसङ्गं शङ्कते —
एवमिति ।
नीलो घट इत्यादिः घटादौ नैल्यप्रतिभासोऽप्यधिष्ठाननैल्यसम्बन्धगोचरः किं न स्यादित्यर्थः । तथा च ब्रह्म रूपवत् स्यादिति भावः ।
नैल्यादेः सत्तावैषम्येण परिहरति —
नेति ।
श्रुत्येति ।
सदेवेत्यादिश्रुत्येत्यर्थः ।
अविरोधादिति ।
रज्ज्वादेस्सर्पाद्युपादानत्ववत् कूटस्थब्रह्मणोऽप्युपादानत्वाविरोधादित्यर्थः ।
सर्वसम्मतमिति ।
सर्वैरेव स्वीकर्तव्यमित्यर्थः । न तु यथाश्रुतम्, वैशेषिकादिभिरनङ्गीकारात् ।
तदन्विति ।
तत्पदमधिष्ठानसत्तापरम् ।
तस्येति ।
जगदधिष्ठानभूतब्रह्मण इत्यर्थः ।
घटादावेवेति ।
न ब्रह्मणि तत् कल्पयितुं शक्यम्, श्रुतिविरोधादिति भावः । प्रत्यक्षस्य घटादौ पृथक्सत्त्वग्राहित्वेऽपि तस्य प्रमाणाभासत्वात् न तेन श्रुतेर्बाधशङ्कावकाश इत्याह संक्षेपशारीरकाचार्यास्त्विति ।
पराग्विषयस्येति ।
जडमात्रविषयकस्येत्यर्थः ।
तत्त्वेति ।
अनधिगतत्त्वे सत्यबाधितं-तत्त्वं, तदावेदकं-तद्बोधकं, तत्त्वं प्रमाणलक्षणमिति बहुवादिसम्मतम् । तच्च प्रत्यक्षस्य नास्तीति प्रमाणाभासरूपं प्रत्यक्षमिति भावः ।
घटादेरिति ।
तस्य अबाधितत्वे सत्यप्यज्ञातत्वं नास्तीत्यभिप्रायः । अन्यथा तदभावादपि प्रत्यक्षस्य प्रमाणाभासत्वप्रतिपादनसम्भवे अज्ञातत्वाभावमात्रप्रतिपादनायोगात् । अतो बाधितत्वाभावमुपेत्य तस्याभासत्वप्रतिपादनमिह विवक्षितमिति बोध्यम् । कृत्यं-कार्यं-फलमिति यावत् ।
स्वप्रकाशात्मन एव प्रमेयत्वे श्रुतिमपि प्रमाणयति —
अत एवेति ।
अज्ञातत्वादेवेत्यर्थः ।
ननु ‘द्रष्टव्यः’ इति श्रुतिरात्मदर्शनं विधत्ते, नेत्याह —
न हीति ।
अगोचरत्वादिति ।
पुरुषयत्नसाध्यक्रियाया एव विधियोग्यत्वादिति भावः ।
विधिप्रत्ययस्य गतिं पृच्छति —
किं त्विति ।
अर्हार्थस्तव्यप्रत्यय इत्याह —
आत्मेति ।
प्रत्यक्षविषयजडस्याज्ञातत्वमुपेत्य जडबोधकप्रत्यक्षस्य श्रुतितुल्यप्रमाणत्वस्वीकारेऽपि प्रत्यक्षग्राह्यघटादिसत्त्वस्य मिथ्यात्वाविरुद्धत्वात् न मिथ्यात्वबोधकश्रुत्यादीनां प्रत्यक्षविरोधशङ्केत्याह —
केचित्त्विति ।
प्रत्यक्षग्राह्यं सत्त्वं सत्ताजातिरूपं वा, तत्तद्देशकालसम्बन्धरूप वा, घटादिस्वरूपं वा पर्यवस्यतीति सम्बन्धः ।
जातिरूपत्वे मानमाह —
अनुगतेति ।
‘सन् घटः, सन् पटः’ इत्यादिरूपेत्यर्थः ।
द्वितीये मानमाह —
इहेति ।
‘इह इदानीं घटोऽस्ति’ इति प्रतीतिर्घटे प्रतीयमानदेशकालसम्बन्धमेव सत्तारूपतया विषयीकरोतीति भावः ।
तृतीये मानमाह —
नास्ति घट इतीति ।
घटो नास्तीति घटास्तितानिषेधत्वेन रूपेण घटस्वरूपनिषेधस्यैवानुभवात् घटास्तित्वं घटस्वरूपं पर्यवस्यतीत्यर्थः ।
ततः किं, तत्राह —
तच्चेति ।
न हीति ।
तुच्छविलक्षणप्रपञ्चस्वरूपाङ्गीकारादिति भावः । ‘घटादेः स्वरूपं वा नाभ्युपगम्यते’ इति न हीति सम्बन्धः । तथा ‘तस्य देशकालसम्बन्धो वा नाभ्युपगम्यते’ इति न हीति सम्बन्धः ‘तत्र जात्यादिकं वा नाभ्युपगम्यते’ इति न हीति सम्बन्धः । एतत् सर्वं जगन्मिथ्यात्ववादिना अभ्युपगम्यत एव विरोधाभावात् इति भावः ।
तर्हि कीदृशं सत्त्वं मिथ्यात्वविरोधि यत्त्वया नाभ्युपेयते जगति इति पृच्छति —
किंत्विति ।
उत्तरं —
तेषामिति ।
घटादीनामित्यर्थः । किं तु तेषामबाध्यत्वं नाभ्युपगम्यत इति सम्बन्धः ।
मिथ्यात्वम्य बाध्यत्वरूपत्वात् तद्विरुद्धं सत्त्वमबाध्यत्वरूपमेव चेत्, तर्हीदमेव सत्त्वं प्रत्यक्षविषयोऽस्तु तथा च प्रत्यक्षविरोधशङ्का स्यादेव — इत्याशयवतीं शङ्कामुद्भाव्य निराचष्टे —
न चेत्यादिना ।
अस्येति ।
जगत इत्यर्थः ।
अबाध्यत्वरूपमेव सत्त्वं प्रत्यक्षविषयः - इत्युपेत्यापि प्रत्यक्षविरोधाभावमाह —
अन्ये त्विति ।
अबाध्यत्वरूपसत्त्वस्य प्रत्यक्षग्राह्यत्वेऽपि न मिथ्यात्वश्रुतिविरोधः इति सम्बन्धः ।
कालत्रयाबाध्यत्वरूपं सत्त्वं मिथ्यात्वविरोधि, तच्च ब्रह्मण एव, प्रपञ्चस्य तु यावत्तत्त्वज्ञानमबाध्यत्वरूपं सत्त्वम्, एतच्च न मिथ्यात्वविरोधीति न प्रत्यक्षविरोधः - इति वक्तुं प्रपञ्चब्रह्मणोस्सत्त्ववैलक्षण्ये प्रमाणमाह —
प्राणा इति ।
प्राणग्रहणं कृत्स्नप्रपञ्चोपलक्षणार्थम् । एषः - परमात्मा तेषां सत्यं - तानपेक्ष्य सत्य इत्यर्थः । तथा च श्रुतौ प्रपञ्चस्य सत्यत्वं निकृष्टं ब्रह्मणस्सत्यत्वमुत्कृष्टमित्युक्तं भवति ।
तत्र प्राणपदेन प्रपञ्चोपलक्षणे नियामकमाह —
प्रधानभूतेति ।
सूत्रात्मरूपस्य प्राणस्य जगद्विधारकत्वात् प्राधान्यं द्रष्टव्यम् । न चोपलक्षणे मानाभावश्शङ्कनीयः । ब्रह्मस्वरूपप्रतिपादनपरे वाक्ये प्रपञ्चैकदेशभूतप्राणग्रहणे प्रयोजनाभावात्, कृत्स्नोपलक्षणे तु, सत्यत्वेनप्रसिद्धप्रपञ्चाधिष्ठानतया ब्रह्मैव परमार्थसत्यं न तु प्रपञ्चः तस्य श्रुतिबाधितत्वेन परमार्थसत्यत्वायोगादिति ब्रह्मप्रमितिरूपप्रयोजनसत्त्वादिति भावः ।
ततः किं, तत्राह —
सत्यत्वे चेति ।
राजेति ।
राजत्वं पालकत्वरूपं नियन्तृत्वम् । तच्च पाल्यदेशसापेक्षम् । तथा च ‘विष्णुशर्मा राजराजः’ इति प्रयोगे विष्णुशर्मण इतरराजापेक्षया उत्कर्षः प्रतीयते, इतरेषां च निकर्षः । तौ च पालनस्य भूयोदेशविषयकत्वाल्पदेशविषयकत्वरूपौ । मन्मथस्तावन्नारायणपुत्रस्सुन्दर इति प्रसिद्धिः पुराणेषु । तथा च अतिसुन्दरोऽयमितितात्पर्येण मन्मथमन्मथः श्रीराम इति प्रयोगो दृश्यते । तत्र सौन्दर्यं नाम उत्कृष्टरूपादिमत्त्वम्, अतिसौन्दर्यं ततोऽप्युत्कृष्टरूपादिमत्त्वमिति बोध्यम् ।
असम्भवादिति ।
नियन्तृत्वसौन्दर्यादिविलक्षणे बाधाभावरूपे सत्त्वे भूयोविषयत्वाल्पविषयत्वरूपोत्कर्षापकर्षयोर्जातिविशेषरूपयोश्चासम्भवादित्यर्थः । ननु — अबाधितत्वरूपेऽपि सत्त्वे प्रकारान्तरेण उत्कर्षापकर्षौ सम्भवत एव । तथा हि — प्रपञ्चब्रह्मणोः कालत्रयाबाध्यत्वरूपे सत्त्वे समानेऽपि ब्रह्मगतं सत्त्वं श्रुतिगम्यत्वादुत्कृष्टं इतरत्तु लौकिकप्रमाणगम्यत्वात् निकृष्टमिति श्रुत्यर्थोपपादनसम्भवात् ।
तथा च मिथ्यात्वविरुद्धसत्त्वग्राहिलौकिकप्रमाणविरोधशङ्का स्यादेवेति, नेत्याह —
विधान्तरेणेति ।
‘प्राणा वै सत्यं’ इति श्रुतौ सत्यशब्दः प्रपञ्चस्य यदि कालत्रयाबाध्यत्वरूपं सत्यत्वं प्रतिपादयेत्, तदा निखिलप्रपञ्चस्य ब्रह्मज्ञानबाध्यत्वप्रतिपादकश्रुत्यन्तरेण सह ‘प्राणा वै सत्यं’ इति श्रुतेर्विरोधः स्यात् । न च अविरोधेन श्रुतिद्वयप्रामाण्यसम्भवे विरोधेन प्रामाण्यं हातव्यम् । तस्माच्छ्रुत्युक्तसत्त्वोकर्षापकर्षयोः कालत्रयाबाध्यत्वादावेव पर्यवसानं वाच्यं नान्यत्रेत्यर्थः । एवं ‘अत्राहुः’ इत्यादिना प्रपञ्चमिथ्यात्वसाधकश्रुतियुक्तीनां प्रत्यक्षं विरोधि न भवतीति प्रतिपादितम् ।