अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

द्वितीयपरिच्छेदस्य अविरोधाध्यायेन प्रथमपरिच्छेदेन च सङ्गतिसूचनपूर्वकं मिथ्यात्वश्रुतीनां प्रत्यक्षबाधनिरूपणम्

प्रत्यक्षविरोधे श्रुति­यु­क्ती­ना­मेव बाधो न्याय्य इति मन्यमान आक्षिपति —
ननु नेति ।
‘घटस्सन्’ इत्यादिना घटा­दि­स­त्त्व­ग्रा­हि­प्र­त्य­क्षेण सह प्रप­ञ्च­मि­थ्या­त्व­प्र­त्या­य­क­श्रु­ति­यु­क्तीनां विरो­ध­स­त्त्वा­दि­त्यर्थः ।

श्रुत्या­दि­ग­म्य­मि­थ्या­त्व­वि­रुद्धं सत्त्वं प्रत्य­क्ष­ग्रा­ह्य­मेव न भवति, अत­स्त­द्वि­रो­ध­श­ङ्कैव निरालम्बनेति पञ्चभिर्मतैः प्रतिपादयति —
अत्रा­हु­रि­त्या­दिना ।

प्रत्यक्षं घटादि न गृह्णाति तस्य-घटादेः सत्त्वं वा न गृह्णाति चेत्, तर्हि निर्विषयं तत् प्रसज्येतेति शङ्कते —
किंन्त्विति ।

उत्तरम् —
अधिष्ठानेति ।

सन्मात्रमिति ।
सद्रूपं ब्रह्मैव प्रत्य­क्ष­प्र­मे­य­मि­त्यर्थः ।

एवंस्थिते न केवलं प्रत्य­क्ष­वि­रो­धा­भावः, किं तु लाभोऽ­प्य­स्ती­त्याह —
तथा चेति ।

घटा­दे­रै­न्द्रि­य­क­त्व­वादी शङ्कते —
तथासतीति ।
तस्य सन्मा­त्र­वि­ष­य­कत्वे सतीत्यर्थः ।

इन्द्रियेति ।
न च सन्मा­त्र­प्र­त्यक्ष एव इन्द्रि­या­न्व­या­द्य­नु­वि­धा­नो­प­पत्तेः ‘प्रत्यक्षस्य घटा­दि­वि­ष­य­क­त्वा­भावे तदनुविधानं न स्यात् इत्ये­त­द­भि­प्रा­यकं विशे­ष­ण­म­यु­क्त­मिति वाच्यम् । स्वप्रकाशस्य सन्मात्रस्य प्रकाशाय इन्द्रि­या­पे­क्षा­नु­प­प­त्ते­रिति भावः । अत्र आक्षेप्ता किं सिद्धा­न्त्ये­क­देशी, किं वा भेदवादी ।

आद्ये तत्स­म्म­त­दृ­ष्टा­न्तेन सन्मात्रस्य प्रत्य­क्ष­प्र­मे­य­त्व­माह —
यथेति ।

तत्रैवेति ।
अधिष्ठानग्रहण एवेत्यर्थः ।

भ्रान्त्येति ।
साक्षि­रू­प­ये­त्यर्थः ।

सन्मात्रस्येति ।
तस्य स्वप्र­का­श­त्वेऽ­प्या­वृ­त­त्वात् आव­र­ण­नि­व­र्त­क­वृ­त्त्यु­त्प­त्तये इन्द्रि­या­पे­क्षेति भावः ।

घटादीति ।
घटा­दे­स्त­द्भे­द­रू­पस्य च वस्तुनः प्रतिभासो भ्रान्त्या - ऐन्द्रि­य­क­वृ­त्त्य­भि­व्य­क्त­स­न्मा­त्र­रू­प­सा­क्षि­चै­त­न्य­ल­क्ष­णया इत्य­भ्यु­प­ग­मा­दि­त्यर्थः । एतेन सत्सदित्येव प्रत्यक्षं स्यादि­त्या­क्षेप्ता भेदवाद्यपि निरस्तः । सिद्धान्तिना घटादौ तत्सत्त्वे च प्रत्यक्षस्य प्रामा­ण्या­न­ङ्गी­का­रेऽपि घटादेः प्रत्यक्षज्ञाने साक्षिरूपे भानाङ्गीकारात् ।

भेदवादी शङ्कते —
नन्विति ।
शुक्ति­र­ज­ता­दे­र्बा­ध­द­र्श­नात् युक्तं तस्य भ्रान्त्या प्रति­भा­सा­ङ्गी­क­र­णम्, (तथा) घटादिद्वैतस्य बाधादर्शनात् तस्य भ्रान्ति­मा­त्र­सि­द्ध­त्व­म­नु­प­प­न्न­मि­त्यर्थः । किं श्रौतबाधादर्शनं विवक्षितं, किं वा प्रत्य­क्ष­बा­धा­द­र्शनं, यौक्ति­क­बा­धा­द­र्शनं वा ।

आद्यमसिद्धम्, दृश्यमात्रस्य ब्रह्मणि ‘नेह नानास्ति’ इत्यादिश्रुत्या बाध­द­र्श­ना­त्-इ­त्या­श­ये­नाह —
नेति ।

द्विती­य­म­ङ्गी­क­रोति —
बाधादर्शनेऽपीति ।

तृती­य­म­प्य­सिद्ध्या दूषयति देशकालेति ।
घटादीति । घटा­दे­स्त­द्ध­र्मि­क­भे­द­रू­पस्य च वस्तुन इत्यर्थः ।

प्रत्य­क्षा­यो­ग्य­त्व­मेव दर्शयितुं प्रथमं सम्मतमर्थं दर्शयति —
इन्द्रियेति ।

तत्रे­ति­प­द­व्याख्या —
घटादिभेद इति ।
घटादिधर्मिकभेदे इत्यर्थः ।

सर्वतो भिन्न एव प्रतीयत इत्ययुक्तम्, इन्द्रि­य­स­न्नि­कृष्टे स्थाण्वादौ क्वचित् पुरु­षा­दि­प्र­ति­यो­गि­क­भे­द­स्या­प्र­तीतेः, प्रतीतौ वा संश­या­भा­वा­पत्तेः, अत आह —
यत्रापीति ।

ततः किं, तत्राह —
भेदस्य चेति ।

प्रति­यो­गि­स­हो­प­ल­म्भ­नि­य­म­वत इति ।
सस­म्ब­न्धि­क­प­दा­र्थ­प्र­त्यक्षे याव­त्स­म्ब­न्धि­वि­ष­य­क­त्वस्य याव­त्स­म्ब­न्धि­प्र­त्य­क्ष­ज­न्य­ता­याश्च संयो­गा­दि­प्र­त्यक्षे कॢप्तत्वात् भेद­प्र­त्य­क्षेऽपि याव­त्प्र­ति­यो­गि­वि­ष­य­कत्वं याव­त्प्र­ति­यो­गि­प्र­त्य­क्ष­ज­न्यत्वं च वाच्यम्; भेद­प्र­त्य­क्ष­स्यापि सस­म्ब­न्धि­क­प­दा­र्थ­प्र­त्य­क्ष­त्वात् । तथा च यावन्तः प्रतियोगिनः तावतां प्रतियोगिनां प्रत्य­क्षा­स­म्भ­वेन कॢप्त­सा­म­ग्र्य­भा­वात् न भेदः प्रत्य­क्ष­प्र­मा­योग्य इति तस्य भ्रान्ति­मा­त्र­सि­द्धत्वं युक्तम् । सिद्धान्ते तु भेदप्रत्यक्षस्य नित्य­सा­क्षि­रू­प­त्वात् न कारणापेक्षेति भावः ।

सहो­प­ल­म्भ­नि­य­म­मा­त्रस्य भेदसत्यत्वमते कथञ्चित् उद्धारं शङ्कते —
भेदज्ञानमिति ।

संस्का­रा­पे­क्ष­णा­दिति ।
तज्ज­न्य­त्व­स­म्भ­वा­दि­त्यर्थः । भेदज्ञाने हि प्रतियोगिनां प्रति­यो­गि­ता­व­च्छे­द­क­रू­पे­णैव भानं परैरुपेयते । तेन रूपेण सक­ल­प्र­ति­यो­गि­गो­च­र­पू­र्वा­नु­भ­वा­स­म्भ­वेन संस्का­रा­स­म्भ­वात् अस­न्नि­कृ­ष्ट­प्र­ति­यो­ग्यंशे स्मृतिरूपत्वमपि न सम्भवति ।

तद­भ्यु­प­ग­म्या­प्याह सिद्धान्ती —
न तथापीति ।
कन­का­च­ला­दि­प­दा­र्थानां सन्नि­कृ­ष्ट­घ­ट­नि­ष्ठ­भे­द­प्र­ति­यो­गि­त्वेन पूर्व­म­न­नु­भू­त­त्वा­दिति भावः ।

वैशिष्ट्यांशे पूर्वानुभवं शङ्कते —
कनकाचल इति ।
एव­मि­त­र­प­दा­र्थे­ष्वपि अनुमानं द्रष्टव्यमिति भावः ।

आत्मा­श्र­या­प­त्ते­रिति ।
भेदज्ञानस्य भेद­ज्ञा­ना­धी­नत्वे न किञ्चित् भेदज्ञानं सिद्ध्येदिति भावः ।

अप्रवृत्त्येति ।
तथा च पक्षा­द्य­भे­द­ज्ञा­नस्य अनु­मि­ति­प्र­ति­ब­न्ध­क­तया तद्वि­घ­ट­क­प­क्षा­दि­भे­द­ज्ञा­न­मा­व­श्य­क­मिति भावः ।

तर्हीति ।
प्रति­यो­गि­वै­शि­ष्ट्यां­श­ज्ञा­नम्य स्मृति­रू­प­त्वा­स­म्भवे सतीत्यर्थः ।

तदेकेति ।
तत्पदं प्रतियोगिपरम् । नियमेन प्रतियोगिज्ञाने विषयस्येत्यर्थः । वित्तिपदं प्रत्यक्षपरम्, भेद­प­द­ज­न्य­भे­द­ज्ञा­नस्य प्रति­यो­गि­वि­ष­य­क­त्वा­द­र्श­ना­दिति बोध्यम् ।

भ्रमै­क­वि­ष­य­त्वा­दिति ।
अधिष्ठानस्यापि भ्रमविषयत्वात् कल्पि­त­त्व­प्र­स­ङ्ग­वा­र­णाय एकपदम् । अधिष्ठानस्य च सम्यग्दर्शनं प्रत्यपि विषयत्वात् भ्रान्त्ये­क­वि­ष­य­त्व­म­सि­द्धम् । तथा च प्रत्यक्षं सद्वस्तुन्येव प्रमाणं सत् श्रुत्य­नु­कू­ल­मि­त्यर्थः ।

अस्तु वा घटा­दे­श्चा­क्षु­ष­त्वा­द्य­नु­भ­वा­नु­रो­धेन चक्षु­रा­दि­ग­म्यत्वं, तथापि प्रप­ञ्च­मि­थ्या­त्व­सा­ध­क­श्रु­ति­यु­क्तीनां न प्रत्य­क्ष­वि­रोधः, प्रत्यक्षस्यापि घटादौ पृथ­क्स­त्त्व­ग्रा­हि­त्वा­भा­वात् इत्याह —
न्याय­सु­धा­कृ­त­स्त्वा­हु­रिति ।
सन् घट इत्यादिः घटा­देः­स­त्त्व­प्र­ति­भासः अधि­ष्ठा­न­स­त्ता­स­म्ब­न्ध­वि­ष­यक एव, अतो न विरोध इत्यर्थः ।

घटादौ प्रती­य­मा­न­स­त्त्वस्य अधि­ष्ठा­न­ग­त­त्व­स्वी­का­रेऽ­ति­प्र­सङ्गं शङ्कते —
एवमिति ।
नीलो घट इत्यादिः घटादौ नैल्य­प्र­ति­भा­सोऽ­प्य­धि­ष्ठा­न­नै­ल्य­स­म्ब­न्ध­गो­चरः किं न स्यादित्यर्थः । तथा च ब्रह्म रूपवत् स्यादिति भावः ।

नैल्यादेः सत्तावैषम्येण परिहरति —
नेति ।

श्रुत्येति ।
सदे­वे­त्या­दि­श्रु­त्ये­त्यर्थः ।

अविरोधादिति ।
रज्ज्वा­दे­स्स­र्पा­द्यु­पा­दा­न­त्व­वत् कूट­स्थ­ब्र­ह्म­णोऽ­प्यु­पा­दा­न­त्वा­वि­रो­धा­दि­त्यर्थः ।

सर्वसम्मतमिति ।
सर्वैरेव स्वीक­र्त­व्य­मि­त्यर्थः । न तु यथाश्रुतम्, वैशे­षि­का­दि­भि­र­न­ङ्गी­का­रात् ।

तदन्विति ।
तत्प­द­म­धि­ष्ठा­न­स­त्ता­प­रम् ।

तस्येति ।
जग­द­धि­ष्ठा­न­भू­त­ब्र­ह्मण इत्यर्थः ।

घटादावेवेति ।
न ब्रह्मणि तत् कल्पयितुं शक्यम्, श्रुति­वि­रो­धा­दिति भावः । प्रत्यक्षस्य घटादौ पृथ­क्स­त्त्व­ग्रा­हि­त्वेऽपि तस्य प्रमा­णा­भा­स­त्वात् न तेन श्रुते­र्बा­ध­श­ङ्का­व­काश इत्याह संक्षे­प­शा­री­र­का­चा­र्या­स्त्विति ।

पराग्विषयस्येति ।
जड­मा­त्र­वि­ष­य­क­स्ये­त्यर्थः ।

तत्त्वेति ।
अनधिगतत्त्वे सत्य­बा­धि­तं-तत्त्वं, तदा­वे­द­कं-त­द्बो­धकं, तत्त्वं प्रमाणलक्षणमिति बहुवादिसम्मतम् । तच्च प्रत्यक्षस्य नास्तीति प्रमाणाभासरूपं प्रत्यक्षमिति भावः ।

घटादेरिति ।
तस्य अबाधितत्वे सत्य­प्य­ज्ञा­तत्वं नास्ती­त्य­भि­प्रायः । अन्यथा तदभावादपि प्रत्यक्षस्य प्रमा­णा­भा­स­त्व­प्र­ति­पा­द­न­स­म्भवे अज्ञा­त­त्वा­भा­व­मा­त्र­प्र­ति­पा­द­ना­यो­गात् । अतो बाधि­त­त्वा­भा­व­मु­पेत्य तस्या­भा­स­त्व­प्र­ति­पा­द­न­मिह विवक्षितमिति बोध्यम् । कृत्यं-का­र्यं-फ­ल­मिति यावत् ।

स्वप्रकाशात्मन एव प्रमेयत्वे श्रुतिमपि प्रमाणयति —
अत एवेति ।
अज्ञा­त­त्वा­दे­वे­त्यर्थः ।

ननु ‘द्रष्टव्यः’ इति श्रुति­रा­त्म­द­र्शनं विधत्ते, नेत्याह —
न हीति ।

अगोचरत्वादिति ।
पुरु­ष­य­त्न­सा­ध्य­क्रि­याया एव विधि­यो­ग्य­त्वा­दिति भावः ।

विधिप्रत्ययस्य गतिं पृच्छति —
किं त्विति ।

अर्हा­र्थ­स्त­व्य­प्र­त्यय इत्याह —
आत्मेति ।

प्रत्य­क्ष­वि­ष­य­ज­ड­स्या­ज्ञा­त­त्व­मु­पेत्य जड­बो­ध­क­प्र­त्य­क्षस्य श्रुति­तु­ल्य­प्र­मा­ण­त्व­स्वी­का­रेऽपि प्रत्य­क्ष­ग्रा­ह्य­घ­टा­दि­स­त्त्वस्य मिथ्या­त्वा­वि­रु­द्ध­त्वात् न मिथ्या­त्व­बो­ध­क­श्रु­त्या­दीनां प्रत्य­क्ष­वि­रो­ध­श­ङ्के­त्याह —
केचित्त्विति ।
प्रत्य­क्ष­ग्राह्यं सत्त्वं सत्ताजातिरूपं वा, तत्त­द्दे­श­का­ल­स­म्ब­न्ध­रूप वा, घटादिस्वरूपं वा पर्यवस्यतीति सम्बन्धः ।

जातिरूपत्वे मानमाह —
अनुगतेति ।
‘सन् घटः, सन् पटः’ इत्या­दि­रू­पे­त्यर्थः ।

द्वितीये मानमाह —
इहेति ।
‘इह इदानीं घटोऽस्ति’ इति प्रतीतिर्घटे प्रती­य­मा­न­दे­श­का­ल­स­म्ब­न्ध­मेव सत्तारूपतया विषयीकरोतीति भावः ।

तृतीये मानमाह —
नास्ति घट इतीति ।
घटो नास्तीति घटा­स्ति­ता­नि­षे­ध­त्वेन रूपेण घट­स्व­रू­प­नि­षे­ध­स्यै­वा­नु­भ­वात् घटास्तित्वं घटस्वरूपं पर्य­व­स्य­ती­त्यर्थः ।

ततः किं, तत्राह —
तच्चेति ।

न हीति ।
तुच्छ­वि­ल­क्ष­ण­प्र­प­ञ्च­स्व­रू­पा­ङ्गी­का­रा­दिति भावः । ‘घटादेः स्वरूपं वा नाभ्युपगम्यते’ इति न हीति सम्बन्धः । तथा ‘तस्य देशकालसम्बन्धो वा नाभ्युपगम्यते’ इति न हीति सम्बन्धः ‘तत्र जात्यादिकं वा नाभ्युपगम्यते’ इति न हीति सम्बन्धः । एतत् सर्वं जग­न्मि­थ्या­त्व­वा­दिना अभ्युपगम्यत एव विरोधाभावात् इति भावः ।

तर्हि कीदृशं सत्त्वं मिथ्यात्वविरोधि यत्त्वया नाभ्युपेयते जगति इति पृच्छति —
किंत्विति ।

उत्तरं —
तेषामिति ।
घटा­दी­ना­मि­त्यर्थः । किं तु तेषामबाध्यत्वं नाभ्युपगम्यत इति सम्बन्धः ।

मिथ्यात्वम्य बाध्य­त्व­रू­प­त्वात् तद्विरुद्धं सत्त्व­म­बा­ध्य­त्व­रू­प­मेव चेत्, तर्हीदमेव सत्त्वं प्रत्य­क्ष­वि­ष­योऽस्तु तथा च प्रत्य­क्ष­वि­रो­ध­शङ्का स्यादेव — इत्याशयवतीं शङ्कामुद्भाव्य निराचष्टे —
न चेत्यादिना ।

अस्येति ।
जगत इत्यर्थः ।

अबाध्यत्वरूपमेव सत्त्वं प्रत्यक्षविषयः - इत्युपेत्यापि प्रत्य­क्ष­वि­रो­धा­भा­व­माह —
अन्ये त्विति ।
अबा­ध्य­त्व­रू­प­स­त्त्वस्य प्रत्य­क्ष­ग्रा­ह्य­त्वेऽपि न मिथ्या­त्व­श्रु­ति­वि­रोधः इति सम्बन्धः ।

काल­त्र­या­बा­ध्य­त्व­रूपं सत्त्वं मिथ्या­त्व­वि­रोधि, तच्च ब्रह्मण एव, प्रपञ्चस्य तु याव­त्त­त्त्व­ज्ञा­न­म­बा­ध्य­त्व­रूपं सत्त्वम्, एतच्च न मिथ्या­त्व­वि­रो­धीति न प्रत्यक्षविरोधः - इति वक्तुं प्रप­ञ्च­ब्र­ह्म­णो­स्स­त्त्व­वै­ल­क्षण्ये प्रमाणमाह —
प्राणा इति ।
प्राणग्रहणं कृत्स्न­प्र­प­ञ्चो­प­ल­क्ष­णा­र्थम् । एषः - परमात्मा तेषां सत्यं - तानपेक्ष्य सत्य इत्यर्थः । तथा च श्रुतौ प्रपञ्चस्य सत्यत्वं निकृष्टं ब्रह्म­ण­स्स­त्य­त्व­मु­त्कृ­ष्ट­मि­त्युक्तं भवति ।

तत्र प्राणपदेन प्रपञ्चोपलक्षणे नियामकमाह —
प्रधानभूतेति ।
सूत्रात्मरूपस्य प्राणस्य जग­द्वि­धा­र­क­त्वात् प्राधान्यं द्रष्टव्यम् । न चोपलक्षणे माना­भा­व­श्श­ङ्क­नीयः । ब्रह्म­स्व­रू­प­प्र­ति­पा­द­न­परे वाक्ये प्रप­ञ्चै­क­दे­श­भू­त­प्रा­ण­ग्र­हणे प्रयोजनाभावात्, कृत्स्नोपलक्षणे तु, सत्य­त्वे­न­प्र­सि­द्ध­प्र­प­ञ्चा­धि­ष्ठा­न­तया ब्रह्मैव परमार्थसत्यं न तु प्रपञ्चः तस्य श्रुति­बा­धि­त­त्वेन पर­मा­र्थ­स­त्य­त्वा­यो­गा­दिति ब्रह्म­प्र­मि­ति­रू­प­प्र­यो­ज­न­स­त्त्वा­दिति भावः ।

ततः किं, तत्राह —
सत्यत्वे चेति ।

राजेति ।
राजत्वं पालकत्वरूपं नियन्तृत्वम् । तच्च पाल्य­दे­श­सा­पे­क्षम् । तथा च ‘विष्णुशर्मा राजराजः’ इति प्रयोगे विष्णुशर्मण इतरराजापेक्षया उत्कर्षः प्रतीयते, इतरेषां च निकर्षः । तौ च पालनस्य भूयो­दे­श­वि­ष­य­क­त्वा­ल्प­दे­श­वि­ष­य­क­त्व­रूपौ । मन्म­थ­स्ता­व­न्ना­रा­य­ण­पु­त्र­स्सु­न्दर इति प्रसिद्धिः पुराणेषु । तथा च अति­सु­न्द­रोऽ­य­मि­ति­ता­त्प­र्येण मन्मथमन्मथः श्रीराम इति प्रयोगो दृश्यते । तत्र सौन्दर्यं नाम उत्कृ­ष्ट­रू­पा­दि­म­त्त्वम्, अतिसौन्दर्यं ततोऽ­प्यु­त्कृ­ष्ट­रू­पा­दि­म­त्त्व­मिति बोध्यम् ।

असम्भवादिति ।
निय­न्तृ­त्व­सौ­न्द­र्या­दि­वि­ल­क्षणे बाधाभावरूपे सत्त्वे भूयो­वि­ष­य­त्वा­ल्प­वि­ष­य­त्व­रू­पो­त्क­र्षा­प­क­र्ष­यो­र्जा­ति­वि­शे­ष­रू­प­यो­श्चा­स­म्भ­वा­दि­त्यर्थः । ननु — अबा­धि­त­त्व­रू­पेऽपि सत्त्वे प्रकारान्तरेण उत्कर्षापकर्षौ सम्भवत एव । तथा हि — प्रप­ञ्च­ब्र­ह्मणोः काल­त्र­या­बा­ध्य­त्व­रूपे सत्त्वे समानेऽपि ब्रह्मगतं सत्त्वं श्रुति­ग­म्य­त्वा­दु­त्कृष्टं इतरत्तु लौकि­क­प्र­मा­ण­ग­म्य­त्वात् निकृष्टमिति श्रुत्य­र्थो­प­पा­द­न­स­म्भ­वात् ।

तथा च मिथ्या­त्व­वि­रु­द्ध­स­त्त्व­ग्रा­हि­लौ­कि­क­प्र­मा­ण­वि­रो­ध­शङ्का स्यादेवेति, नेत्याह —
विधान्तरेणेति ।
‘प्राणा वै सत्यं’ इति श्रुतौ सत्यशब्दः प्रपञ्चस्य यदि काल­त्र­या­बा­ध्य­त्व­रूपं सत्यत्वं प्रतिपादयेत्, तदा निखिलप्रपञ्चस्य ब्रह्म­ज्ञा­न­बा­ध्य­त्व­प्र­ति­पा­द­क­श्रु­त्य­न्त­रेण सह ‘प्राणा वै सत्यं’ इति श्रुतेर्विरोधः स्यात् । न च अविरोधेन श्रुति­द्व­य­प्रा­मा­ण्य­स­म्भवे विरोधेन प्रामाण्यं हातव्यम् । तस्मा­च्छ्रु­त्यु­क्त­स­त्त्वो­क­र्षा­प­क­र्षयोः काल­त्र­या­बा­ध्य­त्वा­दा­वेव पर्यवसानं वाच्यं नान्य­त्रे­त्यर्थः । एवं ‘अत्राहुः’ इत्यादिना प्रप­ञ्च­मि­थ्या­त्व­सा­ध­क­श्रु­ति­यु­क्तीनां प्रत्यक्षं विरोधि न भवतीति प्रतिपादितम् ।