कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
केवलसाक्षिभास्यानां स्मरणोपपत्तिनिरूपणम्
ननु सिद्धान्ते संस्कारस्यानुभवनाशरूपत्वोपगमेन संस्कारार्थं साक्षिचैतन्यस्य अहङ्कारादिगोचरवृत्त्यपेक्षा अस्त्येवेति शङ्कते —
नन्वेवमिति ।
अहंकारादिसाक्षिणो वृत्त्यनपेक्षत्वे सतीत्यर्थः । अनुसन्धानं स्मृतिः ।
तदाधानेति ।
संस्कारोत्पादनेत्यर्थः ।
तदाधानासम्भवे हेतुमाह —
ज्ञानसूक्ष्मावस्थारूपस्येत्यादिना ।
ननु यदि साक्षिचैतन्यस्थितिदशायां तत्सूक्ष्मावस्थारूपसंस्कारोत्पत्त्ययोगः तर्हि तन्नाशदशायां तदुत्पत्तिरस्तु, नेत्याह —
नित्येनेति ।
तथा च अहङ्काराद्यवच्छिन्नसाक्षिचैतन्यस्यानावृतत्वेन तदभिभवार्थं वृत्त्यनपेक्षणेऽपि संस्कारार्थं तदपेक्षासत्त्वात् ‘केवलसाक्षिभास्यत्वमहङ्कारादीनाम्’ इति सिद्धान्तव्याकोप इति भावः ।
अहङ्कारादिगोचरवृत्तिं विनैव संस्कारोपपत्तेर्न सिद्धान्तविरोध इति समाधत्ते —
अत्र केचिदाहुरिति ।
स्वपदद्वयमहङ्कारपरम् ।
स्वसंसृष्टेनेत्यादिना भास्यत इत्यन्तेन ग्रन्थेन अहङ्कारस्य यथा अहङ्कारावच्छिन्नसाक्षिभास्यत्वं तथा घटपटादिविषयगोचरवृत्त्यवच्छिन्नसाक्षिभास्यत्वमप्यस्तीति दर्शितं भवति । ततः किं, तत्राह-
तस्येति ।
घटादिगोचरवृत्त्यवच्छिन्नसाक्षिचैतन्यस्यानित्यत्वात् तेन यथा घटादौ विषये संस्काराधानं सम्भवति तथा तेनैव वृत्त्यवच्छिन्नसाक्षिचैतन्येन अहङ्कारादावपि संस्काराधानं सम्भवतीति नाहङ्कारादिगोचरवृत्त्यपेक्षेति भावः । ननु - अहङ्कारव्यतिरिक्तेषु घटादिषु सर्वत्र स्वाकारवृत्त्यवच्छिन्नचैतन्येनैव घटादिगोचरसंस्काराधानदर्शनात् ‘स्वगोचरवृत्त्यैव स्वगोचरसंस्काराधानम्’ इति नियमोऽवसीयते ।
तथा च अहङ्कारमात्र एव कथमन्यगोचरवृत्त्या तदाधानं इत्याशङ्क्याह —
ने हीति ।
तथानियमे मानाभावात् अप्रयोजकत्वाच्च इति भावः ।
नियमाभ्युपगमे बाधकमाह —
तथासतीति ।
ननु ज्ञानरूपवृत्तेस्संस्कारादिलाभाय वृत्तिगोचरवृत्त्यन्तरमप्यस्तु, नेत्याह —
अनवस्थापत्त्येति ।
घटादिगोचरवृत्तिस्मरणसिद्ध्यर्थं तद्गोचरवृत्त्यन्तरोपगमे द्वितीयवृत्तिस्मरणाय तृतीयाऽपि तद्गोचरवृत्तिर्वक्तव्या स्यात् । एवं तत्तद्वृत्तिगोचरवृत्त्यभ्युपगमापत्त्या वृत्त्यनवस्था प्रसज्येत । न च द्वितीयतृतीयादिवृत्तीनां मध्ये कासांचित् अज्ञातानामेव नाशाभ्युपगमसम्भवात् नानवस्थाप्रसक्तिरिति वाच्यम् । उत्पन्नाया वृत्तेः अवश्यज्ञातव्यत्वात् । अन्यथा सत्यामेव घटाद्याकारवृत्तौ कदाचित् ‘मयेदं ज्ञायते न वा’ इति घटादिवृत्ति नाशानन्तरं ‘मयेदं ज्ञातं न वा’ इति वा संशयप्रसङ्गात् । तस्माद्वृत्तेरवश्यज्ञातव्यत्वं वृत्तेर्वृत्त्यैव वेद्यत्वपक्षे प्रापयेदेवानवस्थाम् । अनेनैव न्यायेन निबन्धनेष्वनुव्यवसायो निरस्तः । ततश्च स्वगोचरवृत्त्यैव स्वगोचरसंस्काराधाननियमो नास्ति, वृत्तिष्वसम्भवादित्यर्थः ।
नन्वन्यगोचरवृत्त्या अन्यगोचरसंकाराधानोपगमे घटगोचरवृत्त्या पटादावपि तदाधानप्रसङ्ग इति शङ्कते —
किं त्विति ।
अतिप्रसङ्गपरिहाराय प्रयोजकमाह —
यद्वृत्तीति ।
यद्वस्तुगोचरवृत्त्यवच्छिन्नचैतन्ये यावन्तः पदार्थाः प्रकाशन्ते तद्वस्तुगोचरवृत्त्या तावत्सु पदार्थेषु संस्काराधानमिति नियमः । घटगोचरवृत्त्यवच्छिन्नचैतन्ये च पटादेरप्रकाशनात् नातिप्रसङ्गः । न तु स्वगोचरवृत्त्यैवस्वगोचरसंस्काराधानमिति नियमः इत्येवकारार्थः । ननु घटादिवृत्त्यवच्छिन्नचैतन्ये घटादिप्रकाशनं निर्विवादम् । तत्र चैतन्ये अहङ्कारस्यापि प्रकाशनं घटादिविषयवृत्त्याकारपरिणतस्वावच्छिन्नेनापि साक्षिणा भास्यते इति पूर्वग्रन्थे दर्शितम् । तथा च घटादिवृत्त्या अहङ्कारेऽपि संस्काराधानमस्तु । तथापि घटादि ज्ञानरूपाया वृत्तेः स्वावच्छिन्नचैतन्ये प्रकाशनस्य असिद्धत्वात् तस्यास्स्वगोचरसंस्कारजनकत्वं न स्यात् । तथा सुखदुःखेच्छाद्वेषादीनामहङ्कारधर्माणां घटादिवृत्त्यवच्छिन्नचैतन्ये प्रकाशनप्रसक्त्यभावात् तया तेषु संस्काराधानं न स्यात् । न च-सुखादिरूपवृत्तिषु घटादिवृत्त्या संस्कारानाधानेऽपि सुखःदुःखादिगोचरान्तःकरणवृत्तिभिरेव तासु तदाधानमस्तु, ज्ञानरूपासु घटादिवृत्तिषु तदाधानार्थं वृत्त्यन्तरोपगम इव अनवस्थाप्रसक्त्यभावादिति-वाच्यम् । सुखदुःखादिगोचरा वृत्तिरभ्युपगम्यमाना किं ज्ञानरूपा, किं वा इच्छादिवृत्तिवत् क्रियारूपा । नाद्यः — तदुत्पादककारणाभावात्, मनसः करणताया निरसिष्यमाणत्वात् । न द्वितीयः — तस्या अपि वृत्तेः संस्काराधानाय तद्गोचरवृत्त्यन्तरोपगमे सैवानवस्था प्राप्नोति ।
तस्मात् ज्ञानरूपासु घटादिवृत्तिषु ज्ञानभिन्नासु सुखदुःखादिरूपवृत्तिषु च कथं संस्काराधानं इत्याशङ्क्याह —
एवं चेति ।
उक्तनियमे सतीत्यर्थः । अन्तःकरणे या या वृत्तयः उत्पद्यन्ते ज्ञानरूपाः, तद्भिन्ना वा, ताःसर्वा अपि स्वस्वावच्छिन्ननित्यचैतन्यभास्या एव । तथा च चैतन्यस्य नित्यत्वेऽपि तद्भास्यतया तदवच्छेदकतया चोत्पद्यमानानामहङ्कारधर्माणामनित्यतया तद्धर्मविशिष्टस्य तत्तदवभासकस्य चैतन्यस्य नाशरूपः तद्धर्मगोचरस्संस्कारस्संभवतीति न ज्ञानसुखादिषु संस्कारानुपपत्तिरिति भावः । दृष्टान्ते स्वपदं विष्फुलिङ्गपरम् । घटस्य एकस्य आकार इवाकारो यस्याः सा घटैकाकारा, सा चासौ धीश्च, तस्यां स्थिता चित् - चिदाभासः — घटाकारवृत्तिप्रतिबिम्बरूपं घटज्ञानमिति यावत् । घटमेव-न घटस्य ज्ञाततामपि इत्येवकारार्थः । ज्ञातता नाम ज्ञानविषयत्वं - विषयतासम्बन्धेन विषयनिष्ठं ज्ञानमित्यर्थः । तच्च ज्ञानं विषयस्य विशेषणम्, ज्ञातो घट इत्यनुभवादिति भावः । ननु — अनयोः पक्षयोः ज्ञानेच्छादिभासकचैतन्यस्य नित्यत्वात् कथं ज्ञानेच्छादिषु संस्कारः । न च पूर्वोक्तरीत्या ज्ञानेच्छादिवृत्तीनां स्वस्वावच्छिन्नसाक्षिचैतन्यप्रकाश्यत्वमादाय अन्योरपि पक्षयोः संस्काराधानमिति वाच्यम् । घटादिगोचरवृत्तिप्रतिबिम्बरूपज्ञानस्य ज्ञातताशब्दितस्य तद्वृत्त्यनवच्छिन्नविषयाधिष्ठानब्रह्मचैतन्यभास्यत्वोक्तिविरोधात् । तथा द्वितीयपक्षे ज्ञानेच्छादिवृत्तीनामनवच्छिन्नसाक्षिभास्यत्वोक्तिविरोधप्रसङ्गात् ।
अतः कथं तयोः पक्षयोस्तदाधानम् - अत आह —
तयोरपीति ।
विषयावच्छिन्नब्रह्मचैतन्यस्य ज्ञाततावभासकत्वमते तत् ब्रह्मचैतन्यं ज्ञाततायाः अपरोक्षज्ञानरूपमेवोपेयते । ‘ज्ञातोऽयं घटः’ इति ज्ञातताया अपरोक्षत्वानुभवात् । अनवच्छिन्नशुद्धचैतन्यमपीच्छाज्ञादीनामपरोक्षज्ञानरूपमेवोपेयते । इच्छादिवृत्तीनामप्यपरोक्षत्वानुभवात् । तथा च अपरोक्षज्ञानरूपद्विविधचैतन्यस्य स्वविषयभूतैर्ज्ञानेच्छादिभिस्संसर्गोऽवश्यंभावी । अपरोक्षज्ञानस्य स्वतादात्म्यापन्नविषयानुभवरूपत्वनियमात् । ततश्च स्वविषयभूतज्ञानेच्छादिनाशसमये ज्ञानादिविशिष्टरूपेण द्विविधचैतन्यस्यापि नाशलक्षणसंस्कारोपपत्तिरित्यर्थः । तयोरपीति सप्तमी ।
चैतन्यस्येति ।
द्विविधस्येति शेषः । तत्पदं ज्ञानेच्छादिरूपवृत्तिपरम् । यदि च स्वगोचरवृत्त्यैव स्वसंस्काराधानमवश्यं वाच्यं तदापि नानुपपत्तिः । अविद्यावृत्तिभिरहङ्कारतद्धर्मगोचराभिः अहङ्कारादिषु संस्काराधानसम्भवात् । न च वृत्तिगोचरवृत्त्युपगमे प्रागुक्तानवस्थाप्रसक्तिरिति वाच्यम् । अविद्यावृत्तीनामनुभवायोग्यत्वेन तासु ज्ञानाय संस्काराय वा ज्ञानेच्छाद्यनुभवकाले अविद्यावृत्त्यन्तरानुपगमात् । न च अविद्यावृत्तीनामकॢप्तसंस्कारजनकत्वकल्पने गौरवमिति वाच्यम् ।
सुषुप्तौ तासां तज्जनकत्वस्य कॢप्तत्वात् - इत्याशयेन मतान्तरमाह —
अन्ये त्विति ।
उत्थितस्याविद्याद्यनुसन्धानसिद्धये सुषुप्तौ कल्पितां अविद्यादिगोचरामविद्यादिवृत्तिमिव अहमाकारामविद्यावृत्तिमङ्गीकृत्येति वाक्यं योजनीयम् । यथाश्रुते सुषुप्तौ यदविद्याद्यनुसन्धानं तत्सिद्धये इति भ्रान्तिस्स्यात् सन्निधानात्, तथा सुषुप्तौ कल्पिताया एव वृत्तेः अहमाकारत्वमङ्गीकृतमिति भ्रान्तिस्स्यात् इति बोध्यम् । अविद्यादीत्यादिपदं सुखसुषुप्त्योः संग्रहार्थम् । ‘सुखमहमस्वाप्सं न किञ्चिदवेदिषं’ इति सुषुप्तिकालीनानां सुखसुषुप्त्यविद्यानां उत्थानानन्तरमनुसन्धानदर्शनात् तत्कालीनाविद्याद्यनुभवस्य नित्यसाक्षिरूपतया तस्याविद्यावृत्तिरूपावच्छेदकाकल्पने संस्कारासंभवेन उक्तानुसन्धानाभावप्रसङ्गात् । नन्वज्ञानाहङ्कारादिगोचराविद्यावृत्त्युपगमे तेषां केवलसाक्षिवेद्यत्वसिद्धान्तव्याकोप इति चेत्, न - अविद्यावृत्तीनां कॢप्तज्ञानकरणजन्यत्वाभावेन ज्ञानात्मकवृत्तित्वाभावात्, ज्ञानात्मकवृत्त्यनुपहितसाक्षिण एव केवलसाक्षिशब्दार्थत्वाङ्गीकारात् इति भावः । अहमर्थग्रहणं तद्धर्माणामप्युपलक्षणम्, तुल्यन्यायतया बाधकाभावेन च तद्धर्मेष्वपि अविद्यावृत्तिभिस्संस्कारस्योपपादितत्वात् इति ध्येयम् ।
ननु - अस्मिन् पक्षे अन्यज्ञानधाराकालीनाहमर्थादिषु अहमर्थादिगोचराविद्यावृत्त्यसम्भवेन संस्काराधानं न स्यात्, धाराकाले अविद्यावृत्त्यङ्गीकारे युगपत् वृत्तिद्वयप्रसङ्गात् - इति शङ्कामनूद्य दृष्टान्तेन परिहरति —
न चास्मिन् पक्ष इति ।
अविद्यावृत्तिभिः संस्काराधानपक्षे इत्यर्थः ।
अवच्छेदकभेदेनेति ।
‘शिरसि मे वेदना, पादे मे सुखं’ इत्यनुभवदर्शनादिति भावः ।
वृत्तिद्वयेति ।
अन्यज्ञानधाराकालेऽपि अन्यवस्तुगोचरान्तःकरणवृत्तेः अहमर्थगोचराविद्यावृत्तेश्च युगपत् प्रमातरि अवच्छेदकभेदेन सम्भवो न विरुद्ध्यते इत्यर्थः ।
सन्तानेति ।
नन्वन्यज्ञानधाराकाले एकैवाविद्यावृत्तिरिति वक्तुं शक्यते, तदा तन्नानात्वे मानाभावाल्लाधवाच्च - इति चेत्, सत्यम् । तथाप्यन्तःकरणवृत्तिसन्ततिरूपत्वाद्धारायाः तत्कालीनाविद्यावृत्तेरपि सन्ततिरूपत्वं सम्भवतीति सम्भावनामात्रेण तथोक्तम् ।
अत एवाह —
सन्तानसम्भवादिति ।
अहमर्थांशे अन्तःकरणवृत्त्यैव संस्काराधानं सम्भवतीति न तदंशेऽप्यविद्यावृत्तिः कल्पनीया । अन्तःकरणवृत्तिसम्भवे तत्कल्पनायोगात् । न च - अन्यज्ञानधाराकाले अहमर्थगोचरान्तःकरणवृत्तिर्न सम्भवति, सुखदुःखयौगपद्यवत् ज्ञानद्वययौगपद्यायोगादिति - वाच्यम् ।
संस्कारार्थाहंवृत्तेर्ज्ञानरूपत्वानुपगमात् - इति मतमाह —
अपरे त्विति ।
तर्हि सा वृत्तिः घटादिवृत्तिवत् ज्ञानरूपापि स्यात्, तथा च ज्ञानात्मकवृत्त्युपहितसाक्षिवेद्यत्वापत्त्या अहमर्थस्य केवलसाक्षिभास्यत्वसिद्धान्तहानिः - इत्याशयेन शङ्कते —
किं त्विति ।
परिहरति —
उपासनादीति ।
इच्छादिसङ्ग्रहार्थमादिपदम् । अनुसन्धानम् - अनुभवः ।
क्वचिदपीति ।
वृत्तिज्ञानं प्रत्युपादानभूतस्य अन्तःकरणस्य अहमाकारवृत्तेस्सकाशादन्यत्र क्वचिदपि वृत्तौ करणत्वाकॢप्तेरित्यर्थः ।
तर्हीति ।
‘योऽहं स्वप्ने साक्षात् भगवन्तं श्रीकृष्णमन्वभूवं सोऽहमिदानीं तं स्मरामि’ इति प्रत्यभिज्ञा अहमर्थांशे ज्ञानं न स्यात् ज्ञानकरणाजन्यत्वादित्यर्थः ।
इष्टापत्त्या परिहरति —
नेति ।
तर्हि प्रत्यभिज्ञानं तत्तांशेऽपि ज्ञानं न स्यात्, एकस्यां प्रत्यभिज्ञायां ज्ञानत्वतदभावयोर्विरोधेनायोगादिति, अत आह —
तस्या इति ।
प्रत्यभिज्ञाया इत्यर्थः ।
अंशभेदेनेति ।
विषयैकदेशोऽत्रांशः, स च प्रागेव दर्शितः - अहमंश इति तत्तांश इति च ।
परोक्षत्वेति ।
पर्वतो वह्निमानित्यनुमितेः सिद्धान्ते वह्न्यंशे परोक्षत्वं सन्निकृष्टपर्वतांशे त्वपरोक्षत्वमुपेयते ।
मतद्वयसम्मतं दृष्टान्तमाह —
प्रमात्वेति ।
पूर्वोपदर्शितप्रत्यभिज्ञाया अहमर्थांशेऽपि ज्ञानत्वमुपेयम् । अन्यथा हि प्रत्यभिज्ञाप्रामाण्येन अन्तः - करणोपहितचैतन्यरूपस्य जीवस्याहमर्थस्य स्थायित्वसाधनं सूत्रभाष्ययोर्द्दश्यमानं विरुद्ध्येत । तथा च सूत्रम् — ‘अनुस्मृतेश्च’ [ब्र.सू. २— २-२५] इति । अनुस्मृतिः प्रत्यभिज्ञा । तथा च तत्सूत्रस्थं भाष्यं ‘य एवाहं पूर्वेद्युरद्राक्षं स एवाहमद्य स्मरामि’ इति ।
तथा च प्रत्यभिज्ञाया अहमंशे ज्ञानत्वाभावाभिधानं अयुक्तं - इति मन्यमानानां मतमाह —
इतरे त्विति ।
अनुभवादिति ।
अहमर्थगोचरवृत्तौ ज्ञानत्वानुभवादित्यर्थः ।
मनस इति ।
अत एव वियत्पादे भाष्यं ‘बुद्धेः करणत्वाभ्युपगमात्’ इति । अत एव च अहङ्कारधर्माणां ज्ञानसुखादीनां केवलसाक्षिभास्यत्वेऽपि अहमर्थरूपस्य मनः प्रति असाधारणविषयस्य सत्त्वात् तस्येन्द्रियत्वं प्राणपादे चक्षुरादेरिव भाष्यकारैरेव व्यवस्थापितमिति मन्तव्यम् । केवलसाक्षिभास्यत्वसिद्धान्तोऽपि अत एव अहमर्थव्यतिरिक्तज्ञानसुखादिमात्रविषयः इत्यपि मन्तव्यम् । ननु मनस इन्द्रियत्वपक्षे रूपादौ चक्षुरादेरिव तस्य अहमर्थे प्रमाणत्वं वाच्यम् । तच्च न सम्भवति । अहमर्थस्य अनावृतसाक्षिचैतन्येऽध्यस्तस्य अज्ञातत्वाभावेन मनसः अज्ञातज्ञापकत्वाभावादिति चेत्, न - तद्वति तत्प्रकारकानुभवत्वं अबाधितानुभावत्वं वा प्रमात्वं इतिमतानुरोधेन अहमाकारज्ञानस्य प्रमात्वोपपत्तौ तत्करणस्य मनसोऽपि चक्षुरादेरिव प्रमाणत्वसम्भवादिति भावः ।
ननु तर्हि अपरोक्षवृत्तीनामावरणाभिभावकत्वनियमस्याहमाकारापरोक्षवृत्तौ व्यभिचार इत्याशङ्क्य, नियमस्य सङ्कोचं दर्शयति —
एवंसतीति ।
अहमाकारापरोक्षवृत्त्युपगमे सतीत्यर्थः ।