अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

केवलसाक्षिभास्यानां स्मरणोपपत्तिनिरूपणम्

ननु सिद्धान्ते संस्का­र­स्या­नु­भ­व­ना­श­रू­प­त्वो­प­ग­मेन संस्कारार्थं साक्षिचैतन्यस्य अह­ङ्का­रा­दि­गो­च­र­वृ­त्त्य­पेक्षा अस्त्येवेति शङ्कते —
नन्वेवमिति ।
अहं­का­रा­दि­सा­क्षिणो वृत्त्य­न­पे­क्षत्वे सतीत्यर्थः । अनुसन्धानं स्मृतिः ।

तदाधानेति ।
संस्का­रो­त्पा­द­ने­त्यर्थः ।

तदाधानासम्भवे हेतुमाह —
ज्ञान­सू­क्ष्मा­व­स्था­रू­प­स्ये­त्या­दिना ।

ननु यदि साक्षि­चै­त­न्य­स्थि­ति­द­शायां तत्सू­क्ष्मा­व­स्था­रू­प­सं­स्का­रो­त्प­त्त्य­योगः तर्हि तन्नाशदशायां तदु­त्प­त्ति­रस्तु, नेत्याह —
नित्येनेति ।
तथा च अह­ङ्का­रा­द्य­व­च्छि­न्न­सा­क्षि­चै­त­न्य­स्या­ना­वृ­त­त्वेन तदभिभवार्थं वृत्त्य­न­पे­क्ष­णेऽपि संस्कारार्थं तद­पे­क्षा­स­त्त्वात् ‘केव­ल­सा­क्षि­भा­स्य­त्व­म­ह­ङ्का­रा­दी­नाम्’ इति सिद्धा­न्त­व्या­कोप इति भावः ।

अह­ङ्का­रा­दि­गो­च­र­वृत्तिं विनैव संस्का­रो­प­प­त्तेर्न सिद्धान्तविरोध इति समाधत्ते —
अत्र केचिदाहुरिति ।
स्वप­द­द्व­य­म­ह­ङ्का­र­प­रम् ।

स्वसं­सृ­ष्टे­ने­त्या­दिना भास्यत इत्यन्तेन ग्रन्थेन अहङ्कारस्य यथा अह­ङ्का­रा­व­च्छि­न्न­सा­क्षि­भा­स्यत्वं तथा घट­प­टा­दि­वि­ष­य­गो­च­र­वृ­त्त्य­व­च्छि­न्न­सा­क्षि­भा­स्य­त्व­म­प्य­स्तीति दर्शितं भवति । ततः किं, तत्राह-
तस्येति ।
घटा­दि­गो­च­र­वृ­त्त्य­व­च्छि­न्न­सा­क्षि­चै­त­न्य­स्या­नि­त्य­त्वात् तेन यथा घटादौ विषये संस्काराधानं सम्भवति तथा तेनैव वृत्त्य­व­च्छि­न्न­सा­क्षि­चै­त­न्येन अहङ्कारादावपि संस्काराधानं सम्भवतीति नाह­ङ्का­रा­दि­गो­च­र­वृ­त्त्य­पे­क्षेति भावः । ननु - अह­ङ्का­र­व्य­ति­रि­क्तेषु घटादिषु सर्वत्र स्वाका­र­वृ­त्त्य­व­च्छि­न्न­चै­त­न्ये­नैव घटा­दि­गो­च­र­सं­स्का­रा­धा­न­द­र्श­नात् ‘स्वगो­च­र­वृ­त्त्यैव स्वगो­च­र­सं­स्का­रा­धा­नम्’ इति नियमोऽवसीयते ।

तथा च अहङ्कारमात्र एव कथ­म­न्य­गो­च­र­वृत्त्या तदाधानं इत्याशङ्क्याह —
ने हीति ।
तथानियमे मानाभावात् अप्रयोजकत्वाच्च इति भावः ।

नियमाभ्युपगमे बाधकमाह —
तथासतीति ।

ननु ज्ञान­रू­प­वृ­त्ते­स्सं­स्का­रा­दि­ला­भाय वृत्ति­गो­च­र­वृ­त्त्य­न्त­र­म­प्यस्तु, नेत्याह —
अन­व­स्था­प­त्त्येति ।
घटा­दि­गो­च­र­वृ­त्ति­स्म­र­ण­सि­द्ध्यर्थं तद्गो­च­र­वृ­त्त्य­न्त­रो­प­गमे द्विती­य­वृ­त्ति­स्म­र­णाय तृतीयाऽपि तद्गो­च­र­वृ­त्ति­र्व­क्तव्या स्यात् । एवं तत्त­द्वृ­त्ति­गो­च­र­वृ­त्त्य­भ्यु­प­ग­मा­पत्त्या वृत्त्यनवस्था प्रसज्येत । न च द्विती­य­तृ­ती­या­दि­वृ­त्तीनां मध्ये कासांचित् अज्ञातानामेव नाशा­भ्यु­प­ग­म­स­म्भ­वात् नान­व­स्था­प्र­स­क्ति­रिति वाच्यम् । उत्पन्नाया वृत्तेः अव­श्य­ज्ञा­त­व्य­त्वात् । अन्यथा सत्यामेव घटा­द्या­का­र­वृत्तौ कदाचित् ‘मयेदं ज्ञायते न वा’ इति घटादिवृत्ति नाशानन्तरं ‘मयेदं ज्ञातं न वा’ इति वा संशयप्रसङ्गात् । तस्मा­द्वृ­त्ते­र­व­श्य­ज्ञा­त­व्यत्वं वृत्ते­र्वृ­त्त्यैव वेद्यत्वपक्षे प्राप­ये­दे­वा­न­व­स्थाम् । अनेनैव न्यायेन निब­न्ध­ने­ष्व­नु­व्य­व­सायो निरस्तः । ततश्च स्वगो­च­र­वृ­त्त्यैव स्वगो­च­र­सं­स्का­रा­धा­न­नि­यमो नास्ति, वृत्ति­ष्व­स­म्भ­वा­दि­त्यर्थः ।

नन्व­न्य­गो­च­र­वृत्त्या अन्य­गो­च­र­सं­का­रा­धा­नो­प­गमे घटगोचरवृत्त्या पटादावपि तदाधानप्रसङ्ग इति शङ्कते —
किं त्विति ।

अति­प्र­स­ङ्ग­प­रि­हा­राय प्रयोजकमाह —
यद्वृत्तीति ।
यद्व­स्तु­गो­च­र­वृ­त्त्य­व­च्छि­न्न­चै­तन्ये यावन्तः पदार्थाः प्रकाशन्ते तद्व­स्तु­गो­च­र­वृत्त्या तावत्सु पदार्थेषु संस्काराधानमिति नियमः । घट­गो­च­र­वृ­त्त्य­व­च्छि­न्न­चै­तन्ये च पटा­दे­र­प्र­का­श­नात् नातिप्रसङ्गः । न तु स्वगो­च­र­वृ­त्त्यै­व­स्व­गो­च­र­सं­स्का­रा­धा­न­मिति नियमः इत्येवकारार्थः । ननु घटा­दि­वृ­त्त्य­व­च्छि­न्न­चै­तन्ये घटादिप्रकाशनं निर्विवादम् । तत्र चैतन्ये अहङ्कारस्यापि प्रकाशनं घटा­दि­वि­ष­य­वृ­त्त्या­का­र­प­रि­ण­त­स्वा­व­च्छि­न्ने­नापि साक्षिणा भास्यते इति पूर्वग्रन्थे दर्शितम् । तथा च घटादिवृत्त्या अहङ्कारेऽपि संस्का­रा­धा­न­मस्तु । तथापि घटादि ज्ञानरूपाया वृत्तेः स्वाव­च्छि­न्न­चै­तन्ये प्रकाशनस्य असिद्धत्वात् तस्या­स्स्व­गो­च­र­सं­स्का­र­ज­न­कत्वं न स्यात् । तथा सुख­दुः­खे­च्छा­द्वे­षा­दी­ना­म­ह­ङ्का­र­ध­र्माणां घटा­दि­वृ­त्त्य­व­च्छि­न्न­चै­तन्ये प्रका­श­न­प्र­स­क्त्य­भा­वात् तया तेषु संस्काराधानं न स्यात् । न च-सुखा­दि­रू­प­वृ­त्तिषु घटादिवृत्त्या संस्का­रा­ना­धा­नेऽपि सुखः­दुः­खा­दि­गो­च­रा­न्तः­क­र­ण­वृ­त्ति­भि­रेव तासु तदाधानमस्तु, ज्ञानरूपासु घटादिवृत्तिषु तदाधानार्थं वृत्त्यन्तरोपगम इव अन­व­स्था­प्र­स­क्त्य­भा­वा­दि­ति-वा­च्यम् । सुखदुःखादिगोचरा वृत्ति­र­भ्यु­प­ग­म्य­माना किं ज्ञानरूपा, किं वा इच्छा­दि­वृ­त्ति­वत् क्रियारूपा । नाद्यः — तदु­त्पा­द­क­का­र­णा­भा­वात्, मनसः करणताया निर­सि­ष्य­मा­ण­त्वात् । न द्वितीयः — तस्या अपि वृत्तेः संस्काराधानाय तद्गो­च­र­वृ­त्त्य­न्त­रो­प­गमे सैवानवस्था प्राप्नोति ।

तस्मात् ज्ञानरूपासु घटादिवृत्तिषु ज्ञानभिन्नासु सुख­दुः­खा­दि­रू­प­वृ­त्तिषु च कथं संस्काराधानं इत्याशङ्क्याह —
एवं चेति ।
उक्तनियमे सतीत्यर्थः । अन्तःकरणे या या वृत्तयः उत्पद्यन्ते ज्ञानरूपाः, तद्भिन्ना वा, ताःसर्वा अपि स्वस्वा­व­च्छि­न्न­नि­त्य­चै­त­न्य­भास्या एव । तथा च चैतन्यस्य नित्यत्वेऽपि तद्भास्यतया तदवच्छेदकतया चोत्प­द्य­मा­ना­ना­म­ह­ङ्का­र­ध­र्मा­णा­म­नि­त्य­तया तद्ध­र्म­वि­शि­ष्टस्य तत्तदवभासकस्य चैतन्यस्य नाशरूपः तद्ध­र्म­गो­च­र­स्सं­स्का­र­स्सं­भ­व­तीति न ज्ञानसुखादिषु संस्का­रा­नु­प­प­त्ति­रिति भावः । दृष्टान्ते स्वपदं विष्फुलिङ्गपरम् । घटस्य एकस्य आकार इवाकारो यस्याः सा घटैकाकारा, सा चासौ धीश्च, तस्यां स्थिता चित् - चिदाभासः — घटा­का­र­वृ­त्ति­प्र­ति­बि­म्ब­रूपं घटज्ञानमिति यावत् । घटमेव-न घटस्य ज्ञाततामपि इत्येवकारार्थः । ज्ञातता नाम ज्ञानविषयत्वं - विषयतासम्बन्धेन विषयनिष्ठं ज्ञानमित्यर्थः । तच्च ज्ञानं विषयस्य विशेषणम्, ज्ञातो घट इत्यनुभवादिति भावः । ननु — अनयोः पक्षयोः ज्ञाने­च्छा­दि­भा­स­क­चै­त­न्यस्य नित्यत्वात् कथं ज्ञानेच्छादिषु संस्कारः । न च पूर्वोक्तरीत्या ज्ञाने­च्छा­दि­वृ­त्तीनां स्वस्वा­व­च्छि­न्न­सा­क्षि­चै­त­न्य­प्र­का­श्य­त्व­मा­दाय अन्योरपि पक्षयोः संस्काराधानमिति वाच्यम् । घटा­दि­गो­च­र­वृ­त्ति­प्र­ति­बि­म्ब­रू­प­ज्ञा­नस्य ज्ञात­ता­श­ब्दि­तस्य तद्वृ­त्त्य­न­व­च्छि­न्न­वि­ष­या­धि­ष्ठा­न­ब्र­ह्म­चै­त­न्य­भा­स्य­त्वो­क्ति­वि­रो­धात् । तथा द्वितीयपक्षे ज्ञाने­च्छा­दि­वृ­त्ती­ना­म­न­व­च्छि­न्न­सा­क्षि­भा­स्य­त्वो­क्ति­वि­रो­ध­प्र­स­ङ्गात् ।

अतः कथं तयोः पक्ष­यो­स्त­दा­धा­नम् - अत आह —
तयोरपीति ।
विष­या­व­च्छि­न्न­ब्र­ह्म­चै­त­न्यस्य ज्ञात­ता­व­भा­स­क­त्व­मते तत् ब्रह्मचैतन्यं ज्ञाततायाः अप­रो­क्ष­ज्ञा­न­रू­प­मे­वो­पे­यते । ‘ज्ञातोऽयं घटः’ इति ज्ञातताया अप­रो­क्ष­त्वा­नु­भ­वात् । अन­व­च्छि­न्न­शु­द्ध­चै­त­न्य­म­पी­च्छा­ज्ञा­दी­ना­म­प­रो­क्ष­ज्ञा­न­रू­प­मे­वो­पे­यते । इच्छा­दि­वृ­त्ती­ना­म­प्य­प­रो­क्ष­त्वा­नु­भ­वात् । तथा च अप­रो­क्ष­ज्ञा­न­रू­प­द्वि­वि­ध­चै­त­न्यस्य स्ववि­ष­य­भू­तै­र्ज्ञा­ने­च्छा­दि­भि­स्सं­स­र्गोऽ­व­श्यं­भावी । अपरोक्षज्ञानस्य स्वता­दा­त्म्या­प­न्न­वि­ष­या­नु­भ­व­रू­प­त्व­नि­य­मात् । ततश्च स्ववि­ष­य­भू­त­ज्ञा­ने­च्छा­दि­ना­श­स­मये ज्ञाना­दि­वि­शि­ष्ट­रू­पेण द्विवि­ध­चै­त­न्य­स्यापि नाश­ल­क्ष­ण­सं­स्का­रो­प­प­त्ति­रि­त्यर्थः । तयोरपीति सप्तमी ।

चैतन्यस्येति ।
द्विविधस्येति शेषः । तत्पदं ज्ञाने­च्छा­दि­रू­प­वृ­त्ति­प­रम् । यदि च स्वगो­च­र­वृ­त्त्यैव स्वसं­स्का­रा­धा­न­म­वश्यं वाच्यं तदापि नानुपपत्तिः । अवि­द्या­वृ­त्ति­भि­र­ह­ङ्का­र­त­द्ध­र्म­गो­च­राभिः अहङ्कारादिषु संस्का­रा­धा­न­स­म्भ­वात् । न च वृत्ति­गो­च­र­वृ­त्त्यु­प­गमे प्रागु­क्ता­न­व­स्था­प्र­स­क्ति­रिति वाच्यम् । अवि­द्या­वृ­त्ती­ना­म­नु­भ­वा­यो­ग्य­त्वेन तासु ज्ञानाय संस्काराय वा ज्ञाने­च्छा­द्य­नु­भ­व­काले अवि­द्या­वृ­त्त्य­न्त­रा­नु­प­ग­मात् । न च अवि­द्या­वृ­त्ती­ना­म­कॢ­प्त­सं­स्का­र­ज­न­क­त्व­क­ल्पने गौरवमिति वाच्यम् ।

सुषुप्तौ तासां तज्जनकत्वस्य कॢप्तत्वात् - इत्याशयेन मतान्तरमाह —
अन्ये त्विति ।
उत्थि­त­स्या­वि­द्या­द्य­नु­स­न्धा­न­सि­द्धये सुषुप्तौ कल्पितां अवि­द्या­दि­गो­च­रा­म­वि­द्या­दि­वृ­त्ति­मिव अह­मा­का­रा­म­वि­द्या­वृ­त्ति­म­ङ्गी­कृ­त्येति वाक्यं योजनीयम् । यथाश्रुते सुषुप्तौ यद­वि­द्या­द्य­नु­स­न्धानं तत्सिद्धये इति भ्रान्ति­स्स्यात् सन्निधानात्, तथा सुषुप्तौ कल्पिताया एव वृत्तेः अह­मा­का­र­त्व­म­ङ्गी­कृ­त­मिति भ्रान्ति­स्स्यात् इति बोध्यम् । अवि­द्या­दी­त्या­दि­पदं सुखसुषुप्त्योः संग्रहार्थम् । ‘सुखमहमस्वाप्सं न किञ्चिदवेदिषं’ इति सुषु­प्ति­का­ली­नानां सुख­सु­षु­प्त्य­वि­द्यानां उत्था­ना­न­न्त­र­म­नु­स­न्धा­न­द­र्श­नात् तत्का­ली­ना­वि­द्या­द्य­नु­भ­वस्य नित्य­सा­क्षि­रू­प­तया तस्या­वि­द्या­वृ­त्ति­रू­पा­व­च्छे­द­का­क­ल्पने संस्कारासंभवेन उक्ता­नु­स­न्धा­ना­भा­व­प्र­स­ङ्गात् । नन्व­ज्ञा­ना­ह­ङ्का­रा­दि­गो­च­रा­वि­द्या­वृ­त्त्यु­प­गमे तेषां केव­ल­सा­क्षि­वे­द्य­त्व­सि­द्धा­न्त­व्या­कोप इति चेत्, न - अवि­द्या­वृ­त्तीनां कॢप्त­ज्ञा­न­क­र­ण­ज­न्य­त्वा­भा­वेन ज्ञाना­त्म­क­वृ­त्ति­त्वा­भा­वात्, ज्ञाना­त्म­क­वृ­त्त्य­नु­प­हि­त­सा­क्षिण एव केव­ल­सा­क्षि­श­ब्दा­र्थ­त्वा­ङ्गी­का­रात् इति भावः । अहमर्थग्रहणं तद्ध­र्मा­णा­म­प्यु­प­ल­क्ष­णम्, तुल्यन्यायतया बाधकाभावेन च तद्धर्मेष्वपि अवि­द्या­वृ­त्ति­भि­स्सं­स्का­र­स्यो­प­पा­दि­त­त्वात् इति ध्येयम् ।

ननु - अस्मिन् पक्षे अन्य­ज्ञा­न­धा­रा­का­ली­ना­ह­म­र्था­दिषु अह­म­र्था­दि­गो­च­रा­वि­द्या­वृ­त्त्य­स­म्भ­वेन संस्काराधानं न स्यात्, धाराकाले अवि­द्या­वृ­त्त्य­ङ्गी­कारे युगपत् वृत्ति­द्व­य­प्र­स­ङ्गात् - इति शङ्कामनूद्य दृष्टान्तेन परिहरति —
न चास्मिन् पक्ष इति ।
अवि­द्या­वृ­त्तिभिः संस्का­रा­धा­न­पक्षे इत्यर्थः ।
अव­च्छे­द­क­भे­दे­नेति ।
‘शिरसि मे वेदना, पादे मे सुखं’ इत्य­नु­भ­व­द­र्श­ना­दिति भावः ।

वृत्तिद्वयेति ।
अन्य­ज्ञा­न­धा­रा­का­लेऽपि अन्य­व­स्तु­गो­च­रा­न्तः­क­र­ण­वृत्तेः अह­म­र्थ­गो­च­रा­वि­द्या­वृ­त्तेश्च युगपत् प्रमातरि अवच्छेदकभेदेन सम्भवो न विरुद्ध्यते इत्यर्थः ।

सन्तानेति ।
नन्व­न्य­ज्ञा­न­धा­रा­काले एकै­वा­वि­द्या­वृ­त्ति­रिति वक्तुं शक्यते, तदा तन्नानात्वे माना­भा­वा­ल्ला­ध­वाच्च - इति चेत्, सत्यम् । तथा­प्य­न्तः­क­र­ण­वृ­त्ति­स­न्त­ति­रू­प­त्वा­द्धा­रायाः तत्का­ली­ना­वि­द्या­वृ­त्ते­रपि सन्ततिरूपत्वं सम्भवतीति सम्भावनामात्रेण तथोक्तम् ।

अत एवाह —
सन्ता­न­स­म्भ­वा­दिति ।
अहमर्थांशे अन्तः­क­र­ण­वृ­त्त्यैव संस्काराधानं सम्भवतीति न तदं­शेऽ­प्य­वि­द्या­वृत्तिः कल्पनीया । अन्तः­क­र­ण­वृ­त्ति­स­म्भवे तत्कल्पनायोगात् । न च - अन्य­ज्ञा­न­धा­रा­काले अह­म­र्थ­गो­च­रा­न्तः­क­र­ण­वृ­त्तिर्न सम्भवति, सुख­दुः­ख­यौ­ग­प­द्य­वत् ज्ञान­द्व­य­यौ­ग­प­द्या­यो­गा­दिति - वाच्यम् ।

संस्का­रा­र्था­हं­वृ­त्ते­र्ज्ञा­न­रू­प­त्वा­नु­प­ग­मात् - इति मतमाह —
अपरे त्विति ।

तर्हि सा वृत्तिः घटादिवृत्तिवत् ज्ञानरूपापि स्यात्, तथा च ज्ञाना­त्म­क­वृ­त्त्यु­प­हि­त­सा­क्षि­वे­द्य­त्वा­पत्त्या अहमर्थस्य केव­ल­सा­क्षि­भा­स्य­त्व­सि­द्धा­न्त­हानिः - इत्याशयेन शङ्कते —
किं त्विति ।

परिहरति —
उपासनादीति ।
इच्छा­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् । अनुसन्धानम् - अनुभवः ।

क्वचिदपीति ।
वृत्तिज्ञानं प्रत्यु­पा­दा­न­भू­तस्य अन्तःकरणस्य अह­मा­का­र­वृ­त्ते­स्स­का­शा­द­न्यत्र क्वचिदपि वृत्तौ कर­ण­त्वा­कॢ­प्ते­रि­त्यर्थः ।

तर्हीति ।
‘योऽहं स्वप्ने साक्षात् भगवन्तं श्रीकृ­ष्ण­म­न्व­भूवं सोऽहमिदानीं तं स्मरामि’ इति प्रत्यभिज्ञा अहमर्थांशे ज्ञानं न स्यात् ज्ञान­क­र­णा­ज­न्य­त्वा­दि­त्यर्थः ।

इष्टापत्त्या परिहरति —
नेति ।

तर्हि प्रत्यभिज्ञानं तत्तांशेऽपि ज्ञानं न स्यात्, एकस्यां प्रत्यभिज्ञायां ज्ञान­त्व­त­द­भा­व­यो­र्वि­रो­धे­ना­यो­गा­दिति, अत आह —
तस्या इति ।
प्रत्यभिज्ञाया इत्यर्थः ।

अंशभेदेनेति ।
विष­यै­क­दे­शोऽ­त्रांशः, स च प्रागेव दर्शितः - अहमंश इति तत्तांश इति च ।

परोक्षत्वेति ।
पर्वतो वह्नि­मा­नि­त्य­नु­मितेः सिद्धान्ते वह्न्यंशे परोक्षत्वं सन्नि­कृ­ष्ट­प­र्व­तांशे त्वप­रो­क्ष­त्व­मु­पे­यते ।

मतद्वयसम्मतं दृष्टान्तमाह —
प्रमात्वेति ।
पूर्वो­प­द­र्शि­त­प्र­त्य­भि­ज्ञाया अहमर्थांशेऽपि ज्ञानत्वमुपेयम् । अन्यथा हि प्रत्य­भि­ज्ञा­प्रा­मा­ण्येन अन्तः - कर­णो­प­हि­त­चै­त­न्य­रू­पस्य जीवस्याहमर्थस्य स्थायित्वसाधनं सूत्र­भा­ष्य­यो­र्द्द­श्य­मानं विरुद्ध्येत । तथा च सूत्रम् — ‘अनुस्मृतेश्च’ [ब्र.सू. २— २-२५] इति । अनुस्मृतिः प्रत्यभिज्ञा । तथा च तत्सूत्रस्थं भाष्यं ‘य एवाहं पूर्वे­द्यु­र­द्राक्षं स एवाहमद्य स्मरामि’ इति ।

तथा च प्रत्यभिज्ञाया अहमंशे ज्ञान­त्वा­भा­वा­भि­धानं अयुक्तं - इति मन्यमानानां मतमाह —
इतरे त्विति ।

अनुभवादिति ।
अह­म­र्थ­गो­च­र­वृत्तौ ज्ञान­त्वा­नु­भ­वा­दि­त्यर्थः ।

मनस इति ।
अत एव वियत्पादे भाष्यं ‘बुद्धेः कर­ण­त्वा­भ्यु­प­ग­मात्’ इति । अत एव च अहङ्कारधर्माणां ज्ञानसुखादीनां केव­ल­सा­क्षि­भा­स्य­त्वेऽपि अहमर्थरूपस्य मनः प्रति असाधारणविषयस्य सत्त्वात् तस्ये­न्द्रि­यत्वं प्राणपादे चक्षुरादेरिव भाष्यकारैरेव व्यवस्थापितमिति मन्तव्यम् । केव­ल­सा­क्षि­भा­स्य­त्व­सि­द्धा­न्तोऽपि अत एव अह­म­र्थ­व्य­ति­रि­क्त­ज्ञा­न­सु­खा­दि­मा­त्र­वि­षयः इत्यपि मन्तव्यम् । ननु मनस इन्द्रि­य­त्व­पक्षे रूपादौ चक्षुरादेरिव तस्य अहमर्थे प्रमाणत्वं वाच्यम् । तच्च न सम्भवति । अहमर्थस्य अना­वृ­त­सा­क्षि­चै­त­न्येऽ­ध्य­स्तस्य अज्ञातत्वाभावेन मनसः अज्ञा­त­ज्ञा­प­क­त्वा­भा­वा­दिति चेत्, न - तद्वति तत्प्र­का­र­का­नु­भ­वत्वं अबा­धि­ता­नु­भा­वत्वं वा प्रमात्वं इतिमतानुरोधेन अहमाकारज्ञानस्य प्रमात्वोपपत्तौ तत्करणस्य मनसोऽपि चक्षुरादेरिव प्रमा­ण­त्व­स­म्भ­वा­दिति भावः ।

ननु तर्हि अप­रो­क्ष­वृ­त्ती­ना­मा­व­र­णा­भि­भा­व­क­त्व­नि­य­म­स्या­ह­मा­का­रा­प­रो­क्ष­वृत्तौ व्यभिचार इत्याशङ्क्य, नियमस्य सङ्कोचं दर्शयति —
एवंसतीति ।
अह­मा­का­रा­प­रो­क्ष­वृ­त्त्यु­प­गमे सतीत्यर्थः ।