अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

प्रतिबिम्बस्य बिम्बभेदाभेदाभ्यां मिथ्यात्वसत्यत्वविचारः

नन्वेवमिति ।
आपरोक्ष्याय रज­ता­भा­सो­त्प­त्त्यु­प­गमे इत्यर्थः ।

प्रतिबिम्बस्य बिम्बा­भि­न्न­त्वेऽपि प्रति­बि­म्बा­प­रोक्ष्यं सम्भवतीति न सा स्वीकार्येत्यत आह —
स्वकीय इति ।

मुख इति ।
प्रति­बि­म्ब­त्वे­नो­पेत इति शेषः ।

नासादीति ।
तदंशे सन्नि­क­र्ष­स­म्भ­वा­दि­त्यर्थः । यदि बिम्ब­प्र­ति­बि­म्ब­यो­र­भेदे प्रति­बि­म्बा­प­रोक्ष्यं स्वमु­ख­प्र­ति­बि­म्ब­स्थले न सम्भवति, तर्हि प्रतिबिम्बो बिम्बात् भिन्नो मिथ्याभूत एवास्तु का हानि­र­द्वै­त­वा­दिनः —

इति शङ्कते —
न चेति ।

तस्य हानिं पूर्ववादी दर्शयति —
ब्रह्म­प्र­ति­बि­म्बेति ।
जीवो ब्रह्म­ण­स्स­का­शात् स्वरूपतो भिद्यते, ब्रह्म­प्र­ति­बि­म्ब­त्वात्, सामान्यव्याप्तौ मुख­प्र­ति­बि­म्ब­वत् । ततश्च जीवो मिथ्या, ब्रह्म­भि­न्न­त्वात्, घटादिवदित्यर्थः ।

बिम्ब­प्र­ति­बि­म्ब­योः­लोके भेदाभावात् नोक्तदोष इति परिहरति —
अत्र विवरणेति ।
ननु — दर्पणे मुख­स्या­प्य­ध्यासो न कल्पनीयो गौर­वा­दि­त्य­यु­क्तम्, पतिबिम्बमुखे ‘दर्पणे मुखं’ इति दर्प­ण­स्थ­त्वा­नु­भा­वात्, ग्रीवास्थमुखस्य दप­ण­स्थ­त्वा­यो­गात्, तथा प्रति­बि­म्ब­मु­खस्य ग्रीवास्थमुखं प्रत्या­भि­मु­ख्या­नु­भ­वात्, मुख­प्र­ति­मु­ख­यो­र­भे­द­पक्षे तस्येव तदा­भि­मु­ख्या­यो­गात्, तयोर्भेदस्यैव स्फुटमनुभवाच्च ।

तस्मा­द­नु­भ­व­त्र­या­नु­रो­धे­नो­पा­धा­व­नि­र्व­च­नी­य­प्र­ति­बि­म्बा­ध्यास उपेयः, गौरवं च प्रामा­णि­क­त्वान्न दोषावहं - इत्याशङ्क्य तद­नु­भ­व­त्र­य­स्या­न्य­था­सि­द्धि­माह —
ग्रीवास्थ एवेति ।
धर्मि­क­ल्प­ना­पे­क्षया बहुधर्मकल्पनमपि लघ्वेवेति भावः ।

ननु प्रतिबिम्बस्य बाधदर्शनात् मिथ्या­त्व­मि­त्या­शङ्क्य हेत्वसिद्धिमाह —
दर्पण इति ।
मात्रपदं प्रति­बि­म्ब­स्व­रू­प­बा­धा­भा­वा­र्थ­कम् । बाधादित्यनन्तरं दर्प­ण­स्थ­त्व­रू­प­सं­स­र्गस्य मिथ्यात्वं प्रतिबिम्बस्य सत्त्वञ्चेति शेषः ।

विपक्षे दोषमाह —
मिथ्या­व­स्त्व­न्त­रत्व इति ।
नन्वेवं भूतले घटो नास्तीत्यत्रापि घटसंसर्गाभाव एव प्रतीयेतेति चेत्, न - इष्टापत्तेः । ननु तर्हि भूतले घटाभावो न सिद्ध्येदिति चेत्, न — x‘घटाभाववत् भूतलं’ इति प्रतीत्या तत्सम्भवादिति भावः ।

बिम्ब­प्र­ति­बि­म्ब­यो­र्भे­द­मा­त्र­क­ल्प­नायां स्वरू­पा­भे­द­प्र­त्य­भि­ज्ञा­न­म­प्य­नु­कू­ल­यति —
दर्पणे ममेति ।
लाघ­व­स­मु­च्च­या­र्थ­श्च­कारः ।

यद्वा प्रतिबिम्बस्य सत्यत्वे बिम्बाभिन्नत्वं हेतुमभिप्रेत्य तत्र मानमाह —
दर्पणे ममेति ।
चकारो बाधा­भा­व­स­मु­च्च­यार्थः । तथा च प्रतिबिम्बस्य न मिथ्यात्वं बाधाभावात् बिम्बा­भि­न्न­त्वा­च्चे­त्यर्थः । एवं लोके प्रतिबिम्बस्य बिम्बा­भि­न्न­त्व­स­त्य­त्वयोः प्रसाधनेन ब्रह्म­प्र­ति­बि­म्ब­जी­वस्य ब्रह्म­भि­न्न­त्व­मि­थ्या­त्व­प्र­सङ्गो निरस्तः ।

यत्तु तयोरभेदपक्षे ग्रीवास्थमुखस्य नय­न­गो­ल­का­दि­प्र­दे­शेषु स्वच­क्षु­स्स­न्नि­क­र्षा­भा­वेन प्रतिबिम्बस्य साकल्येन प्रत्यक्षत्वं न सम्भ­व­ती­त्युक्तं, तदनूद्य निराकरोति —
न चेत्यादिना ।

अधिष्ठानस्येति ।
[बिम्ब­त्व­प्र­ति­बि­म्बत्व] प्रत्य­ङ्मु­ख­त्व­द­र्प­ण­स्थ­त्व­बि­म्ब­भे­दानां कल्प­ना­धि­ष्ठा­न­स्ये­त्यर्थः ।
असम्भवो न चेत्यत्र हेतुमाह —
उपाधिप्रतिहतेति ।
नयनरश्मयः चक्षुर्गोलकात् बहिर्निर्गत्य दर्पणाद्युपाधिं प्राप्य तेन प्रतिहताः पुनः परावृत्य ग्रीवा­स्थ­मु­ख­त­द­व­य­वैः­सं­सृ­ज्यन्ते । ततश्च अभि­मु­ख­पु­रु­षा­न्त­र­मु­ख­सा­क्षा­त्का­र­वत् साकल्येन स्वग्री­वा­स्थ­मु­ख­सा­क्षा­त्कारः सम्भवति । न च परा­वृ­त्त­न­य­न­र­श्मीनां गोलकद्वारा अन्तः­प्र­वे­श­स्यै­वा­न्यत्र कॢप्तत्वादत्र तथाकल्पनं गौरवग्रस्तमिति वाच्यम् । प्रति­बि­म्बो­त्प­त्ति­वा­दि­नापि चक्षु­स्स­न्नि­कृ­ष्ट­स्यैव बिम्बतायाः वक्तव्यत्वेन उक्तनियमस्य तेनापि स्वीकार्यत्वात् । अत­स्स­म्प्र­ति­प­न्न­त्वात् गौरवं न दोषायेति भावः ।

ननु - प्रति­बि­म्बा­ध्या­स­वा­दिना सन्निकृष्टस्यैव बिम्बत्वं नाङ्गीक्रियते, अतो ग्रीवास्थमुखस्य बिम्ब­त्व­नि­र्वा­हाय स्वच­क्षु­स्स­न्नि­क­र्षा­पे­क्षा­भा­वात् नायं निय­म­स्ते­ना­द­र्तव्य इति, अत आह —
तन्नि­य­मा­न­भ्यु­प­गम इति ।
बिम्ब­स­न्नि­क­र्षस्य चाक्षु­ष­प्र­ति­बि­म्बा­ध्या­सा­हे­तुत्वे व्यवहितस्यापि चाक्षु­ष­प्र­ति­बि­म्ब­प्र­सङ्गः, किमनेन विशेषणेन, यस्य कस्यापि प्रति­बि­म्बा­पत्त्या परमाणोर्वायोश्च तत्प्र­सा­ङ्गा­दि­त्यर्थः ।

प्रति­बि­म्बा­ध्यासे बिम्ब­स­न्नि­क­र्षस्य हेतुत्वं विनैव उक्तातिप्रसङ्गं परिहरति प्रति­बि­म्बा­ध्या­स­वादी —
न चाव्यवहितेति ।
तथा च कुड्या­दि­व्य­व­हि­त­मु­खादेः परमाणोर्वायोश्च न चाक्षु­ष­प्र­ति­बि­म्बा­प­त्ति­रिति भावः । द्रव्यचाक्षुषं प्रति द्रव्य­ग­त­म­ह­त्त्वो­द्भू­त­रू­पयोः कारणत्वं कॢप्तम् । तथा कुड्या­दे­स्स­न्नि­क­र्ष­वि­घ­ट­न­द्वारा बाह्य­व­स्तु­गो­च­र­प्र­त्य­क्ष­प्र­ति­ब­न्ध­कत्वं कॢप्तम् । तथा च बिम्ब­प्र­ति­बि­म्ब­यो­र­भे­द­पेक्षे बिम्ब­चा­क्षु­ष­स्यैव प्रति­बि­म्ब­चा­क्षु­ष­त्वात् बिम्ब­भू­त­मु­खा­दि­ग­तयोः स्थूल­त्वो­द्भू­त­रू­पयोः कॢप्त­चा­क्षु­ष­प्र­त्य­क्षा­द­न्यत्र कारणत्वं न कल्पनीयमिति लाघवम् । शुक्तिरजतादिवत् साक्षि­भा­स्य­प्र­ति­बि­म्बा­ध्या­सो­त्प­त्ति­पक्षे तु बिम्ब­स­न्नि­क­र्षस्य प्रति­बि­म्बा­ध्या­स­हे­तु­त्वा­नु­प­ग­मेन वायु­प­र­मा­ण्वो­श्चा­क्षु­ष­प्र­ति­बि­म्ब­वा­र­णाय बिम्ब­भू­त­द्र­व्य­ग­त­यो­र्म­ह­त्त्वो­द्भू­त­रू­पयोः स्वाश्र­य­गो­च­र­चा­क्षुष इव स्वाश्र­य­द्र­व्य­रू­प­बि­म्ब­हे­तु­क­प्र­ति­बि­म्बा­ध्या­सो­त्प­त्ता­वपि हेतुत्वं कल्पनीयमिति गौरवम् । तथा बिम्ब­प्र­ति­बि­म्बा­भे­द­पक्षे नयनरश्मीनां परावृत्य बिम्ब­स­म्ब­न्धा­भ्यु­प­ग­मेन प्रति­बि­म्ब­भ्र­म­स्थ­लेऽपि बिम्ब­स­न्नि­क­र्षस्य हेतु­त्व­स­त्त्वात् घटादिचाक्षुष इव प्रति­बि­म्ब­चा­क्षु­षेऽपि कुड्या­दे­स्स­न्नि­क­र्ष­वि­घ­ट­न­द्वा­रैव प्रतिबन्धकत्वं न त्वन्य­त्रा­कॢप्तं साक्षा­त्प्र­ति­ब­न्ध­कत्वं कल्प्यमिति लाघवम् ।

प्रति­बि­म्बा­ध्या­स­पक्षे तु बिम्ब­स­न्नि­क­र्षस्य हेतु­त्वा­न­भ्यु­प­ग­मेन कुड्या­दे­स्स­न्नि­क­र्ष­वि­घ­ट­क­त्वस्य कॢप्तस्य प्रति­बि­म्ब­भ्र­म­स्थले वक्तुमशक्यतया प्रति­बि­म्बा­ध्यासं प्रति साक्षादेव प्रतिबन्धकत्वं व्यवहितस्य प्रति­बि­म्ब­वा­र­णाय कल्पनीयमिति गौरवंइत्याशयेन दूषयति —
बिम्बस्थौल्येति ।

विधान्तरेणेति ।
स्वाश्र­य­भू­त­बि­म्ब­द्वारा प्रति­बि­म्बा­ध्या­सो­त्प­त्ता­वु­प­यो­ग­क­ल्प­ना­नु­प­प­त्ते­रि­त्यर्थः ।

इहेति ।
प्रति­बि­म्ब­भ्र­म­स्थल इत्यर्थः ।

न केवलं अकॢ­प्त­क­ल्प­ना­गौ­रवं दोषः, दोषान्तरमपि प्रसज्यत इत्याह —
तथैवेति ।
सन्निकर्षविघटनं विनैवेत्यर्थः । तथा च उक्त­गौ­र­वा­दि­दो­ष­प­रि­हा­राय परावृत्येतिनियम उपेयो बिम्ब­स­न्नि­क­र्षाय इति भावः ।

चाक्षु­ष­प्र­ति­बि­म्ब­भ्र­म­स्थले बिम्ब­स­न्नि­क­र्षस्य त्वयापि वाच्यत्वात् परा­वृ­त्ये­ति­नि­यमो नाप्रयोजक इत्याह —
दर्पणेमिथ्येति ।

कारणत्रयेति ।
दोष­स­म्प्र­यो­ग­सं­स्का­र­रू­प­का­र­ण­त्र­ये­त्यर्थः । स्वमुखस्य स्वच­क्षु­स्स­न्नि­क­र्षा­नु­प­गमे दर्प­णा­दा­वा­रो­प्य­प्र­ति­मु­ख­स­जा­ती­य­स्व­मु­ख­सा­क्षा­त्का­रस्य कदाप्यसम्भवेन अध्या­स­का­र­ण­भू­त­स्या­रो­प्य­स­जा­ती­य­गो­च­र­पू­र्वा­नु­भ­व­ज­न्य­सं­स्का­र­स्या­ला­भात् प्रति­बि­म्ब­रू­पा­ध्या­स­स्यो­त्प­त्तिर्न स्यात् । अतः स्वमुखस्य स्वच­क्षु­स्स­न्नि­क­र्ष­ला­भाय उक्तनियम आदर्तव्य इति भावः ।

तावतेति ।
नासा­दि­प्र­दे­शा­व­च्छि­न्न­पू­र्वा­नु­भ­व­मा­त्रे­णे­त्यर्थः ।

इदमपि क्वचि­द्दु­र्ल­भ­मि­त्याह —
तटाकेति ।

अदृष्टचरेति ।
कदा­प्य­दृ­ष्टे­त्यर्थः ।

एवं चेति ।
उक्त­प्र­का­रे­णे­त्यर्थः ।

उक्त­नि­य­म­स्या­ति­प्र­सङ्गं परिहरति —
फलबलादिति ।
दर्पणादौ प्रति­बि­म्ब­भ्र­म­द­र्श­न­ल­क्ष­ण­फ­ला­नु­रो­धा­दि­त्यर्थः ।

एव­का­र­व्य­व­च्छे­द्य­माह —
न शिलादीति ।
शिलादौ प्रति­बि­म्बा­द­र्श­ना­दिति भावः ।

ननु अस्व­च्छ­ता­म्रादेः प्रति­बि­म्ब­ग्रा­हि­त्वेन शिला­दि­वै­ल­क्ष­ण्य­स­त्त्वा­त्त­त्प्र­ति­ह­तानां दर्प­णा­दि­प्र­ति­ह­ता­ना­मिव नयनरश्मीनां साकल्येन मुखा­दि­ग्रा­ह­कत्वं स्यात्, अत आह —
मलिनोपाधीति ।
संस्थानविशेषो नयनगोलकादिः ।

फल­ब­ला­नु­सा­रि­प­दा­र्थ­स्व­भा­व­क­ल्प­नेन दोषान्तराण्यपि निरस्तानीत्याह —
साक्षा­दि­त्या­दिना ।

साक्षात्तदिति ।
साक्षा­त्सू­र्या­व­लो­कन इत्यर्थः । ननु प्रति­बि­म्बो­पा­धि­भू­त­ज­लेन प्रतिहतानां नयनरश्मीनां बिम्ब­दे­श­प्रा­प्त्यु­प­गमे जला­न्त­र्ग­त­सि­क­ता­दि­प्र­त्यक्षं न स्यात्, सन्नि­क­र्षा­भा­वात् —

इति दूषणमपि निरस्तमित्याह —
जलाद्युपाधीति ।
ननु उपा­धि­प्र­ति­ह­तानां बिम्ब­दे­श­प्रा­प्त्यु­प­गमे पृष्ठ­भा­ग­व्य­व­हि­त­प­दा­र्थ­स्यापि प्रति­बि­म्ब­प्र­सङ्ग इति चेत्, नायं दोषः —

फलबलेन शरीरावयवानां सन्नि­क­र्ष­वि­घ­ट­क­त्व­क­ल्प­नात्, इत्यभिप्रेत्याह —
इत्या­दि­क­ल्प­ना­दिति ।
नयनरश्मीनां परावृत्य बिम्बग्राहित्वं सुरे­श्व­रा­चा­र्यै­रक्तं — x‘दर्पणाभिहता दृष्टिः परावृत्य स्वमाननम् । व्याप्नु­व­न्त्या­भि­मु­ख्येन व्यत्यस्तं दर्शयेन्मुखम् ॥’ [१-४-६१८] इति । बिम्ब­प्र­ति­बि­म्ब­यो­र्भे­द­प­क्ष­नि­रा­क­र­ण­पू­र्वकं तदभेदपक्षो निरूपितः ।

इदानीं तयो­र­भे­द­प­क्ष­नि­रा­क­र­ण­पू­र्वकं भेदपक्षं निरूपयति —
अद्वै­त­वि­द्या­कृ­त­स्त्विति ।

त्रिविधेति ।
पार­मा­र्थि­क­व्या­व­हा­रि­क­प्रा­ति­भा­सि­क­भे­देन जीवस्त्रिविध इति पक्षः प्रथमपरिच्छेदे निरूपित इति बोध्यम् ।

एवमिति ।
वक्ष्य­मा­ण­प्र­का­रे­णे­त्यर्थः ।

चैत्रेति ।
चैत्रो यदा दर्पणे स्वमुखं पश्यति, तदा पार्श्व­स्थै­श्चै­त्र­ग्री­वायां बिम्बभूतं मुखं दर्पणे चैत्र­मु­ख­प्र­ति­बिम्बं च परस्परं भिन्नत्वेन परस्परं सदृशत्वेन च अस­न्दि­ग्धा­वि­प­र्य­स्त­म­नु­भू­यते इत्यर्थः ।

स्वेति ।
स्वहस्तगतात् सत्यरजतात् भिन्नत्वेन तत्सदृशत्वेन च अनुभूयमानं शुक्तिरजतं यथा तद्भिन्नं मिथ्या च तद्वदित्यर्थः ।

अभे­द­ज्ञा­न­म­सि­द्ध­मि­त्याह —
स्पष्टेति ।
उदा­हृ­त­र­ज­त­यो­र­भे­द­ज्ञा­ना­द­र्श­ना­दिति भावः । आदिपदं प्राङ्मु­ख­त्व­ग्री­वा­स्थ­त्व­द­र्प­ण­स्थ­त्व­स्वा­त­न्त्र्य­पा­र­त­न्त्र्या­दि­स­ङ्ग्र­हा­र्थम् ।

तर्हि सर्वा­नु­भ­व­सि­द्ध­स्या­भे­द­व्य­प­दे­शस्य का गतिः, ज्ञान­पू­र्व­क­त्वा­द्व्य­प­दे­श­स्य­इ­त्या­शङ्क्य नायमभेदव्यपदेश इत्याह —
दर्पणे ममेति ।
स्फुटभेदज्ञाने सति अभे­द­व्य­प­दे­शा­यो­गा­दिति भावः । ननु — x‘दर्पणे मम मुखं भाति, मम मुखं मलिनं भाति, मम मुखं दीर्घं भाति, मुखं ग्रीवास्थमेव न दर्पणादौ’ इत्य­भे­दा­नु­भ­वा­ना­मपि स्फुटानां भूयसां सत्त्वात् अभेदव्यपदेशो मुख्यः । अभे­दा­नु­भ­व­वि­रो­धेन भेदा­नु­भ­व­स्यै­वा­स­म्भ­वात् भेद­व्य­प­दे­श­मा­त्र­म­व­शि­ष्यते ।

तच्च बिम्ब­प्र­ति­बि­म्ब­यो­र्व­स्तु­गत्या भेदाभावेऽपि कल्पि­त­भे­द­स­त्त्वा­दु­प­प­द्यते इति विप­री­त्य­मा­शङ्क्य निषेधति —
न चेत्यादिना ।

प्रति­बि­म्ब­गो­च­र­प्र­वृ­त्त्या­दि­द­र्शनं तस्य बिम्बात् भेदं विना न सिद्ध्यतीति विनिगमकमाह —
बालानामिति ।
बालाः खलु जलाशयादौ भयङ्करं प्रतिबिम्बं दृष्ट्वा तं विहाय पलायन्ते, सौम्यं प्रीतिकरं प्रतिबिम्बं दृष्ट्वा तमु­पा­दा­तु­मि­च्छन्ति प्रतिबिम्बदेशं गच्छन्ति चेति सर्वा­नु­भ­व­सि­द्धम् । तदुक्तं कर्णा­मृ­ता­चार्यैः — x‘रत्नस्थले जानुचरः कुमारः सङ्क्रा­न्त­मा­त्मी­य­मु­खा­र­वि­न्दम् । आदा­तु­का­म­स्त­द­ला­भ­खे­दा­द्वि­लोक्य धात्रीवदनं रुरोद ॥’ इति । कुमारः — श्रीकृ­ष्ण­रू­प­श्शिशुः अति­नि­र्म­ल­र­त्न­म­य­वे­दि­कायां जानुभ्यां सञ्चरन् तत्र सङ्क्रान्तं - प्रतिबिम्बितं विविधैः कुण्ड­ला­दि­भू­ष­णै­र्भू­षितं निस्सी­म­सौ­न्द­र्यो­पेतं गोपीजनमनोहरं ब्रह्मादिभिरपि सदा स्पृहणीयं स्वकी­य­मु­खा­र­विन्दं उपलभ्य लोकसिद्धां बाल­चे­ष्टा­म­नु­व­र्त­मानः तदादानेच्छया चिरकालं हस्तव्यापारं कृत्वाऽपि यदा तन्न लब्धवान् तदा तदलाभखेदेन धात्र्या मुखं दृष्ट्वा ‘त्वया इदं गृहीत्वा मह्यं देयं’ इत्यभिसन्धिमान् मुक्तकण्ठतया रोदनं कृतवानित्यर्थः ।

अभे­द­ज्ञा­न­स्या­प्य­र्थ­क्रि­या­प­र्य­न्तत्वं समा­न­मि­त्या­शङ्क्य निषेधति —
न चेत्यादिना ।
यदि बिम्ब­प्र­ति­बि­म्ब­यो­र्व­स्तुतो भेद एव, तदा परीक्षकाणां तद्भेदनिर्णय आवश्यक इति तेषां स्वमु­ख­ग­त­वि­शे­ष­नि­र्ण­याय दर्पणाद्यादानं न स्यात्, तेषामपि तद्दर्शनात् अभे­द­नि­श्च­य­स्तेषां वाच्य इत्यर्थः ।

तेषां प्रवृ­त्ते­र­न्य­था­सि­द्धि­माह —
भेदेऽपीति ।
बिम्ब­प्र­ति­बि­म्बयोः स्वरूपतो भेदे सत्यपीत्यर्थः । परीक्षकत्वादेव तेषा­मु­क्तो­प­प­त्ति­भि­र्भे­द­नि­श्च­य­वत्त्वं निय­म­वि­शे­ष­ज्ञा­न­वत्त्वं च सम्भवतीति भावः । ननु - बालानां प्रति­बि­म्ब­गो­च­र­हा­ना­दि­क्रि­यापि बिम्ब­स्यो­पा­धि­स्थ­त्व­भ्र­मा­देव सम्भवतीति अन्य­था­सि­द्धि­स्त­त्रापि तुल्या । तथा च बिम्ब­प्र­ति­बि­म्ब­यो­र्भे­दा­भे­दा­नु­भ­वानां भेदा­भे­द­प्र­यु­क्ता­र्थ­क्रि­याणां च तुल्यत्वे सति अभेदस्य स्वाभा­वि­क­त्व­क­ल्प­न­मेव युक्तम् । लाघवात्, बिम्ब­प्र­ति­बि­म्ब­भा­वा­प­न्न­त­या­श्रु­ति­सि­द्ध­जी­व­ब्र­ह्मा­भे­द­प्र­ति­प­त्त्यु­प­यो­गि­तया लौकि­क­बि­म्ब­प्र­ति­बि­म्बा­भे­द­क­ल्प­नस्य अभे­द­श्रु­त्यु­पो­द्ब­लि­त­त्वाच्च, प्रति­बि­म्ब­जी­व­स्यैव ब्रह्मा­भे­द­स­म्भवे तद­ति­रि­क्त­पा­र­मा­र्थि­का­व­च्छि­न्न­जी­व­क­ल्प­नायाः गौर­व­ग्र­स्त­त्वाच्च, ‘यथाह्ययं ज्योतिरात्मा विवस्वान्’ इत्या­दि­म­न्त्रस्य तयोरभेदपक्ष एव स्वारस्याच्च । तत्र हि — यथा विवस्वदादेः बहुषूपाधिषु प्रति­बि­म्ब­त­त्व­प्र­युक्तं नानात्वं स्वत एकत्वं, तथा चैतन्यस्य बहुषूपाधिषु प्रति­बि­म्ब­त­त्व­प्र­युक्तं नानात्वं स्वत एक­त्व­मि­ति-प्र­ति­पा­द्यते । तच्च बिम्ब­प्र­ति­बि­म्ब­यो­र्भे­द­पक्षे न सम्भवति । तत्पक्षे हि बिम्ब­चै­त­न्य­स्यै­कत्वं प्रतिबिम्बानां नानात्वमिति पर्यवसानेन एक­स्यै­वौ­पा­धि­क­ना­ना­त्व­प­र्य­व­सा­ना­स­म्भ­वात् । तस्मा­च्चै­त­न्य­प्र­ति­बि­म्बा­ङ्गी­का­र­पक्षे लोके चैत्र­प्र­ति­बि­म्ब­स्थले च बिम्ब­प्र­ति­बि­म्ब­यो­र­भे­द­पक्ष एव विवरणाद्यभिमतः श्रेयान् इति चेत्, सत्यम् । सूक्ष्मदृष्ट्या एवमेव । अत एव भाम­ती­नि­ब­न्ध­ना­दिषु जीव­ब्र­ह्म­णो­र­भे­देऽपि लौकि­क­बि­म्ब­प्र­ति­बि­म्ब­यो­रिव कल्पि­त­भे­द­स­त्त्वा­द्ध­र्म­व्य­वस्था इति सार्वत्रिको व्यवहारः । श्रीवि­द्या­र­ण्य­गु­रु­प्र­भृ­ति­भिस्तु मन्दाधिकारिणां तत्त्वे बुद्ध्यारोहाय प्रति­बि­म्बो­त्प­त्ति­प्र­क्रिया उपपादिता । मन्दाधिकारिणां हि, यथा ‘कर्तृ­त्व­भो­क्तृ­त्वा­दि­सं­सा­रा­श्र­य­श्चि­दा­भासो मिथ्याभूतः, स चात्मा न भवति, आत्मा त्वस­ङ्ग­चै­त­न्य­रूपो न संसाराश्रयः’ इति प्रक्रियया तत्त्वं बुद्धावारोहति, न तथा ‘आत्मनो ब्रह्म­प्र­ति­बि­म्बस्य स्वतस्सिद्धं ब्रह्मत्वम्, अन्तः­क­र­ण­ता­दा­त्म्यात् संसाराश्रयत्वं’ इति प्रक्रियया तत्त्वं बुद्धावारोहति, लोके विरु­द्ध­ध­र्मा­सा­ङ्क­र्यस्य धर्मिभेदस्थल इव धर्म्यभेदस्थले स्फुटत्वाभावात् । अयं च तेषामभिप्रायः कूटस्थदीपे ‘यया यया भवेत् पुंसां’ इति वार्ति­क­व­च­नो­दा­ह­र­णेन स्पष्टः । तच्च वचनं आदावेवोदाहृत्य व्याख्यातमिति संक्षेपः ।

प्रतिबिम्बस्थले दर्प­ण­स्थ­त्वा­दि­रू­प­सं­स­र्ग­मा­त्र­बा­ध­मु­क्त­म­नूद्य प्रतिबन्द्या प्रति­बि­म्ब­स्व­रू­प­बाधं साधयति —
यत्त्वित्यादिना ।

आपत्तेरिति ।
तथा च शुक्ति­र­ज­त­स्या­नि­र्व­च­नी­यत्वं सिद्धान्ताभिमतं न स्यादिति भावः ।

अत्र यद्यपि तादा­त्म्य­मा­त्रस्य बाध्यत्वेऽपि रज­त­स्या­नि­र्व­च­नी­य­स्यो­त्प­त्ति­र­नि­वार्या, देशा­न्त­र­स्थ­र­ज­ता­दे­स्सं­वि­द­भि­न्न­त्वा­भा­वेन पुरो­व­र्त्य­भि­न्न­त­या­प्र­त्य­क्ष­त्वा­नु­प­पत्तिः इत्युक्तत्वात्; तथापि शुक्तिरजतस्य बाधोऽ­प्यु­प­पा­द­यितुं शक्यत इति मत्वा बिम्ब­प्र­ति­बि­म्बा­भे­द­वादी शङ्कते —
यदि चेति ।

संसर्गितयेति ।
आधेयतयेत्यर्थः ।

प्रामा­णि­क­त्वा­दिति ।
बाधकप्रमाणस्य शुक्तिरजत इव प्रतिबिम्बेऽपि सत्त्वेन अध्या­स­क­ल्प­ना­गौ­र­वस्य तन्मू­ल­क­त्वा­वि­शे­षा­दि­त्यर्थः ।

अभेदपक्षे स्वमु­ख­ग­त­न­य­न­गो­ल­का­दि­प्र­ति­बि­म्ब­स्या­प­रो­क्ष्या­स­म्भ­वाच्च तद­ध्या­स­क­ल्प­ना­गौ­रवं प्रामा­णि­क­मि­त्याह —
स्वनेत्रेति ।

पूर्वो­क्तो­पा­य­म­नूद्य निराकरोति —
नयनरश्मीनामिति ।

किरणसमूहमिति ।
सूर्य­कि­र­ण­स­मू­ह­मि­त्यर्थः । ननु — अत्र जलस्य प्रतिघातकत्वं न कल्प्यते, किं तु जला­न्त­र्ग­त­सि­क­ता­दी­नाम्, अतो न निता­न्त­मृ­दु­त्वम् । यथा सूर्या­दि­कि­र­णानां स्वत­स्तृ­णा­दि­दा­ह­क­त्वा­भा­वेऽपि सूर्य­का­न्त­म­णि­प्र­ति­ह­तानां तद्दाहकत्वं, तथा नयनकिरणानां स्वत­स्सू­र्य­कि­र­ण­प्र­ति­घा­त­क­त्वा­भा­वेऽपि प्रति­बि­म्बो­पा­धि­प्र­ति­ह­तानां तद्विजये साम­र्थ्या­ति­श­य­क­ल्पना उपपद्यते । तथा च नोक्तदोषः —

इत्यस्वरसादाह —
कथं चेति ।
कथं च आप्यायनं न स्यादिति सम्बन्धः । अमृतमिव शीतलं यत् तस्य - चन्द्र­प्र­ति­बि­म्बस्य बिम्बं तत्स­न्नि­क­र्षा­वि­शेषे इत्यर्थः । आप्यायनम् - औष्ण्यशान्तिः । यदा पुमानधोमुखः सन् जलाशयादौ चन्द्र­म­ण्ड­ल­प्र­ति­बिम्बं नैरन्तर्येण पश्यति तदा लोच­न­यो­श्शै­त्या­भि­व्य­क्त्या­दि­कं­स्यात्, बिम्ब­प्र­ति­बि­म्ब­यो­र­भे­देन प्रति­बि­म्ब­स­न्नि­क­र्ष­स्यैव बिम्ब­स­न्नि­क­र्ष­त्वा­दि­त्यर्थः ।

ननु लोच­न­यो­श्शै­त्या­भि­व्य­क्ति­श्च­न्द्र­स­न्नि­क­र्षा­दि­कृता न भवति, किं तु तयो­श्च­न्द्र­कि­र­ण­सं­स­र्ग­स­न्त­ति­कृता, तथा च अधोमुखस्य लोच­न­यो­स्त­द­भा­वात् चन्द्र­स­न्नि­क­र्ष­त­द्द­र्श­न­स­त्त्वेऽपि न शैत्या­भि­व्य­क्त्या­दि­प्र­सक्तिः - इत्यस्वरसादाह —
कथं च जलेति ।
कथं च न प्रति­ह­न्ये­र­न्निति सम्बन्धः । प्रति­ह­न्ये­र­न्ने­वे­त्यर्थः ।

ततः किं, तत्राह —
तत्प्रतिहत्येति ।
नयनगोलकादिभिः कथं न संसृज्येरन्निति सम्बन्धः ।

ततोऽपि किं, तत्राह —
तत्संसर्गे वेति ।
शिलादिदर्शनकाले शिलादिना प्रतिहता नयनरश्मयः स्वमु­ख­ग­त­न­य­न­गो­ल­का­दि­भि­स्सं­सृ­ष्टा­श्चेत् संसृष्टं नयनगोलकादिकं कथं न साक्षा­त्का­र­येयुः । साक्षा­त्का­र­ये­यु­रे­वे­त्यर्थः ।

ननु दोषबलात् संसृष्टमपि न साक्षा­त्का­र­येयुः, अतो नोक्तदोषः, इत्यत आह —
दोषेणापि हीति ।

दृश्यत इति ।
शुक्ति­र­ज­ता­दि­भ्र­म­स्थ­ले­ष्विति शेषः । तथा च शिला­दि­स­न्नि­क­र्ष­काले मुख­त्वा­दि­सा­मा­न्य­रू­पेण वा स्वमु­ख­सा­क्षा­त्का­र­प्र­सङ्ग इति भावः । वस्तुतस्तु - अन­न्य­था­सि­द्ध­फ­ल­ब­लात् स्वच्छद्रव्यस्य तत्संसृष्टस्य वा प्रति­वि­म्बो­द­य­यो­ग्य­स्यैव प्रति­घा­त­क­त्व­मु­पे­यते, अतो नोक्तदोष इति बोध्यम् ।

एवं बिम्ब­प्र­ति­बि­म्बा­भे­द­पक्षे दृष्ट­वि­रो­ध­बा­हुल्यं आपाततो दर्शयित्वा प्रति­बि­म्बा­ध्या­सो­त्प­त्ति­प­क्ष­मु­प­पा­द­यति —
प्रति­मु­खा­ध्या­स­पक्षे त्विति ।
कारणत्वं प्रतिबन्धकत्वं च कल्पनीयमिति सम्बन्धः ।

स्वाश्रयेति ।
मह­त्त्वो­द्भू­त­रू­पा­श्र­य­द्र­व्य­गो­च­र­चा­क्षु­ष­त्वा­व­च्छिन्नं प्रति घटादिचाक्षुषे कॢप्त­यो­रि­त्यर्थः । द्वितीयस्वपदमपि स्थौल्यो­द्भू­त­रू­प­प­रम् ।

अध्यासेऽपीति ।
बिम्ब­भू­त­मु­खा­दि­चा­क्षुष इव स्वाश्र­य­मु­खा­देर्यः प्रति­बि­म्ब­रू­पोऽ­ध्यासः तदु­त्प­त्ता­व­पी­त्यर्थः ।

यदुक्तं प्रति­बि­म्बा­ध्यासं प्रति कुड्या­दे­स्सा­क्षा­त्प्र­ति­ब­न्ध­क­त्व­स्वी­कारे अन्यत्रापि तथात्वापत्त्या सन्नि­क­र्ष­मा­त्र­वि­लो­प­प्र­सङ्ग इति, तन्न - सन्नि­क­र्ष­हे­तु­त्व­ग्रा­ह­क­प्र­मा­णा­नु­रो­धेन सन्नि­क­र्ष­वि­घ­ट­न­द्वा­रैव तस्य प्रत्य­क्ष­प्र­ति­ब­न्ध­क­त्वा­भ्यु­प­ग­मात् - इत्याशयेन सन्निकर्षस्य हेतु­त्व­ग्रा­ह­क­प्र­माणं सूचयति —
त्वगिन्द्रियेति ।
त्वगिन्द्रियस्य विषयं प्राप्तस्यैव विष­य­प्र­त्य­क्ष­का­रि­त्व­द­र्श­नात् तद्दृष्टान्तेन नयनादेरपि प्राप्य­का­रि­त्व­म­व­ग­त­मि­त्यर्थः । व्यवहितेति छेदः ।

व्यव­हि­त­प्र­ति­बि­म्बेति ।
कुड्या­दि­व्य­व­हि­तस्य मुखादेः प्रति­बि­म्बा­ध्यासे साक्षा­त्प्र­ति­ब­न्ध­कत्वं कल्पनीयम्, अन्यथा प्रति­बि­म्बो­त्प­त्ति­पक्षे बिम्ब­स­न्नि­क­र्षस्य हेतुत्वानुपगमेन व्यवहितस्यापि प्रति­बि­म्ब­प्र­स­ङ्गस्य प्राग्द­र्शि­त­त्वा­दि­त्यर्थः । तत्र कल्पने को विरोध इति सम्बन्धः । तस्मिन् कल्पने इत्यर्थः ।

अव्य­व­हि­त­त्व­स्थू­ल­त्वो­द्भू­त­रू­पाणां मुखा­दि­प्र­ति­बि­म्बा­ध्या­सो­प­यो­ग­क­ल्प­नस्य प्रयोजनमाह —
एतेनेति ।
आदिपदं स्थौल्य­स­ङ्ग्र­हा­र्थम् ।

उक्तेति ।
व्यव­हि­ता­दि­प्र­ति­बि­म्ब­प्र­सङ्ग इत्यर्थः ।

प्रस­ङ्ग­प्र­का­रा­न­भिज्ञः पृच्छति —
कथमिति ।

तमाह —
साक्षादिति ।
गग­न­स्थ­सू­र्या­व­लो­कने चक्षुर्विक्षेपः कॢप्तः, तं विनेत्यर्थः । अव­न­त­मौ­लि­ना-अ­धो­मु­खेन ।

तिर्यगिति ।
स्वाभिमुखे दर्पणे स्वप्र­ति­बि­म्ब­ग्र­ह­ण­काले स्वपा­र्श्व­स्थि­त­पु­रु­ष­प्र­ति­बि­म्ब­ग्र­ह­ण­म­प्यस्ति । प्रति­बि­म्बा­भा­व­काले स्वपा­र्श्व­स्थि­त­पु­रु­ष­ग्र­ह­णाय स्वच­क्षु­ष­स्ति­र्य­ग्वि­क्षे­पोऽस्ति । ऋजुचक्षुषा स्वाभि­मु­ख­पु­रु­ष­स्येव स्वपा­र्श्व­स्थि­त­पु­रु­षस्य ग्रहणादर्शनात् । तथा च स्वाभिमुखे दर्पणे स्वपा­र्श्व­स्थि­त­पु­रु­ष­प्र­ति­बि­म्ब­ग्र­ह­णाय चक्षु­ष­स्ति­र्य­ग्वि­क्षेपं विना दर्प­ण­प्र­ति­ह­तानां स्वपा­र्श्व­स्थि­त­पु­रु­ष­ग्रा­ह­क­त्व­वत् इत्यर्थः ।

वदनेति ।
वदनसाचीकरणं नाम चक्षुषा स्वपृ­ष्ठ­भा­ग­व्य­व­हि­त­प­दा­र्थ­ग्र­ह­णा­नु­कूलो वदनव्यापारः ।

प्रति­नि­वृ­त्ति­नि­य­म­मिति ।
नय­न­गो­ल­का­भि­मु­ख­वि­ष­य­प्र­ति­ह­तानां पुनर्गोलकद्वारा शरी­रा­न्तः­प्र­वे­श­नि­य­म­मि­त्यर्थः । ननु - प्रति­नि­वृ­त्ति­नि­य­मा­भा­व­प­क्षेऽपि बिम्ब­स­न्नि­क­र्ष­वि­घ­ट­क­व्य­व­धा­ना­भा­वा­पे­क्षाऽस्ति ।

अव­न­त­मौ­लि­न­य­न­र­श्मीनां सूर्य­प्रा­प्ति­स्थले, ऋजुचक्षुषा दर्पणे विलोक्यमाने दर्प­ण­प्र­ति­ह­तानां पार्श्व­स्थ­पु­रु­ष­प्रा­प्ति­स्थले च, सन्नि­क­र्ष­वि­घ­ट­का­भा­वात् तत्प्रा­प्तिः­स­म्भ­वति ।

प्रकृते च शरीरतदवयवानां व्यवधायकानां सत्त्वात् दर्प­ण­प्र­ति­ह­तानां न पृष्ठ­भा­ग­व्य­व­हि­त­व­स्तु­प्रा­प्तिः---इ­त्य­स्व­र­सा­दाह —
तथेति ।
उपा­धि­प्र­ति­ह­त­न­य­न­र­श्मीनां प्रति­नि­वृ­त्ति­नि­य­मा­भा­व­पक्षे पृष्ठ­भा­ग­व्य­व­हि­तस्य प्रति­बि­म्बा­प­त्ति­वत् नीरू­प­वा­य्वा­दे­रपि चाक्षु­ष­प्र­ति­बि­म्बा­प­त्ति­रिति दूष­णा­न्त­र­स­मु­च्च­यार्थः तथाशब्दः ।

ननु - नीरूपस्यापि वाय्वादेः दर्प­णा­द्यु­पा­धि­ग­त­रू­पो­प­धा­नेन चाक्षु­ष­प्र­ति­बि­म्ब­भ्र­म­वि­ष­यत्वं दुर्वा­र­मि­त्य­नु­प­प­न्नम्, द्रव्यस्य चाक्षु­ष­प्र­ति­बि­म्ब­भ्रमे बिम्बगतस्य महत्त्ववत् उद्भूतरूपस्यापि कारणत्वात् - इत्याशङ्क्य, द्रव्य­गो­च­र­चा­क्षु­ष­प्र­ति­बि­म्ब­भ्रमे बिम्ब­ग­त­रू­प­स्या­नु­प­यो­गात् नैवमित्याह —
मलिनेति ।
मलिनदर्पणे गौरमुखस्य प्रतिबिम्बे सति प्रतिबिम्बं श्यामतया गृह्यते, न गौरतया । तथा च तत्र (गौरमुखे) आरोप्येणैव श्यामरूपेण उपहितस्य गौरमुखस्य चाक्षुषत्वं निर्वा­ह्य­मि­त्यर्थः ।

आरोप्यरूपेणैव क्वचि­द्द्र­व्यस्य चाक्षुषत्वे दृष्टान्तमाह —
पीतशङ्खेति ।
कवि­ता­र्कि­क­म­तो­प­पा­द­ना­व­सरे शङ्खस्य आरो­प्य­पी­त­रू­प­वि­शि­ष्ट­त­यैव भ्रमस्थले चाक्षुषत्वं नान्य­थे­त्यु­क्त­मिति भावः । वस्तुतस्तु - द्रव्यचाक्षुषे द्रव्य­ग­त­मे­वो­द्भू­त­रूपं कारणमिति न नीरूपद्रव्यस्य चाक्षु­ष­प्र­ति­बि­म्ब­भ्र­म­वि­ष­यत्वं प्रसज्ज्यते । मलिनदर्पणे गौर­मु­ख­प्र­ति­बि­म्ब­भ्र­म­स्थले पीत­श­ङ्खा­दि­भ्र­म­स्थले च ‘श्यामं मुखं, पीतश्शङ्खः’ इत्या­दि­भ्र­म­प्रा­ची­न­ध­र्मि­ज्ञा­नेऽ­ध्या­स­का­र­ण­भूते गौर­शु­क्ला­दि­रू­पस्य कारणतया उप­यो­गा­भा­वा­सिद्धेः, द्रव्यचाक्षुषे रूप­वि­ष­य­क­त्व­नि­य­मा­भा­वस्य कवि­ता­र्कि­क­ग्र­न्थ­व्या­ख्या­ना­व­सरे दर्शितत्वेन पीत­श­ङ्ख­भ्र­म­स­म्भ­वाच्च - इति बोध्यम् ।

आरो­प्य­रू­प­वि­शि­ष्ट­त­यैव चाक्षुषत्वे उदाहरणान्तरमाह —
स्वत इति ।
सम्प्र­ति­प­त्ते­रि­त्या­पा­ततः । गगनस्य चाक्षु­ष­वृ­त्ति­वि­ष­यत्वं कवि­ता­र्कि­क­मा­त्र­स­म्मतं, न तु पूर्वा­चा­र्य­स­म्म­तम् । आचार्याणां मते तु गग­न­व्या­पि­सौ­रा­लो­का­दि­गो­च­र­चा­क्षु­ष­वृत्त्या आलो­का­द्य­व­च्छि­न्न­चै­त­न्या­भि­व्य­क्ति­काले आलो­का­द्य­नु­ग­त­ग­ग­ना­व­च्छि­न्न­चै­त­न्य­स्या­प्य­भि­व्यक्तिं स्वीकृत्य अभिव्यक्ते गगनावच्छिन्ने साक्षिणि नैल्या­द्य­ध्या­सा­भ्यु­प­ग­मेन नैल्या­दि­वि­शि­ष्ट­ग­ग­नस्य साक्षि­मा­त्र­भा­स्य­त्वा­दिति ध्येयम् ।

तस्मादिति ।
दृष्ट­वि­रो­ध­रू­प­बा­ध­का­भा­वात् साध­क­स­त्त्वा­च्चेति भावः ।

श्रेयानिति ।
मन्दा­धि­का­रि­णः­प्रति इति वस्तुगतिः ।

उपा­धि­प्र­ति­ह­तानां बिम्ब­प्रा­प्त्य­नु­प­गमे अध्य­स्य­मा­न­मु­ख­स­जा­ती­य­गो­च­र­पू­र्वा­नु­भ­वा­स­म्भ­वात् अध्या­स­का­र­ण­सं­स्का­रा­नु­प­पत्तिः इत्युक्तमनूद्य निराकरोति —
न च तत्रापीति ।
प्रति­बि­म्बा­ध्या­स­पक्षे स्वसं­स्का­र­दौ­र्ध­ट्य­मपि न चेत्यर्थः ।

अदृष्टचरेति ।
कदा­प्य­न­नु­भू­ते­त्यर्थः । ननु मुख­सा­मा­न्या­नु­भ­व­ज­न्य­सं­स्का­रस्य प्रति­मु­खा­ध्या­स­हे­तुत्वे चैत्र­मु­ख­द­र्प­णयोः सान्निध्ये सति यस्य कस्यापि मुख­स्या­ध्या­स­प्र­सङ्गः स्वप्नवदेव, न तु निय­मे­ना­भि­मु­ख­मु­खा­ध्यासः —

इत्याशङ्क्य व्यवस्थामाह —
इयांस्तु भेद इति ।
स्वप्न­प्र­ति­बि­म्बा­ध्या­स­यो­रिति शेषः ।

आदौ त्रिवि­ध­जी­व­वा­दि­ना­मिति विशेषणेन सूचितं परि­हा­र­मा­वि­ष्क­रोति —
प्रति­बि­म्ब­जी­व­स्येति ।
मुक्ति­भा­क्त्वं-ब्र­ह्मा­भेदः ।

प्रतिबिम्बस्य मिथ्या­त्व­दा­र्ढ्याय तत्सत्यत्वमतं दूषयितुमनुभाषते —
यत्त्विति ।
ननु वृक्षा­दि­च्छा­यायाः नैल्यदर्शनात् प्रतिबिम्बेषु प्रायेण नैल्यादर्शनेन छाया­वै­ल­क्ष­ण्य­स­त्त्वात् प्रतिबिम्बस्य छाया­रू­प­त्व­म­नु­प­पन्नं — इति शङ्का­नि­रा­क­र­णार्थं विशेषपदम् । तथा च बिम्बभिन्नोऽपि मुखा­द्या­भा­स­श्शु­क्ति­र­ज­ता­दि­वत् प्रातिभासिको न भवति, किं तु बिम्बवत् सत्यः, छाया­वि­शे­ष­रू­प­त्वा­भ्यु­प­ग­मा­त्तस्य इत्यर्थः ।

छायाया नील­रू­प­त्त्व­नि­य­मात् तद्विशेषरूपत्वं प्रतिबिम्बस्य न सम्भवतीति छाया­स्व­रू­प­क­थ­न­पू­र्वकं दूषयति —
तन्नेति ।
शरीरादेश्छाया नाम तम एव, नान्यदिति प्रसि­द्ध­मि­त्यर्थः । किय­द्दे­श­व्या­पि­न्या­लोके शरी­र­त­द­व­य­वै­र्नि­रुद्धे सतीति सम्बन्धः ।

न चेति ।
मौक्ति­क­स्फ­टि­का­दि­प्र­ति­बि­म्बस्य सितरूपवतः तद्वि­रु­द्ध­त­मो­रू­प­च्छा­यात्वं न युक्तं, तथा माणि­क्य­क­न­का­दि­प्र­ति­बि­म्बस्य लोहि­त­पी­त­रू­पा­दि­मतः तद्वि­रु­द्ध­त­मो­रू­प­च्छा­यात्वं न युक्तमिति विभज्य योजनीयम् । तपनादेश्छायैव नास्तीति तत्प्र­ति­बि­म्बस्य छाया­रू­प­त्व­म­नु­प­प­न्न­मे­वे­त्यर्थः ।

तमोवदिति ।
यथा तमसो द्रव्यस्य कॢप्त­द्र­व्या­न­न्त­र्भावे सिद्धान्ते दशमद्रव्यत्वं कल्पितं तद्वदित्यर्थः । प्रथमे कथं सत्यतानिर्वाह इति सम्बन्धः ।

यद्येकमपि दर्पणं विशालं स्यात् तदा अने­क­प्र­ति­बि­म्बा­ना­म­स­ङ्की­र्ण­तया तत्रावस्थानं सम्भवेदिति शङ्कावारणायाह —
अल्पेति ।

अल्प­प­रि­मा­णा­ना­मपि दर्प­णा­ना­म­ने­कत्वे सति एकैकस्मिन् दर्पणे एकैकं प्रति­बि­म्ब­म­स­ङ्की­र्ण­त­याऽ­व­ति­ष्ठेत, तदपि नास्तीत्याह —
एकस्मिन्निति ।

एक­स्मि­न्न­ल्प­प­रि­मा­णेऽपि दर्पणे क्रमेण अने­क­प्र­ति­बि­म्बा­ना­म­स­ङ्की­र्णता स्यात्, तदपि नास्तीत्याह —
युगपदिति ।
प्रतिबिम्बस्य मिथ्यात्वे तु नायं दोषो भवति । स्वप्नदशायां स्वल्पेऽपि शरी­र­स्या­न्त­रा­काशे रथ­ग­जा­दि­प­दा­र्थानां तदु­चि­त­वै­शा­ल्यस्य चाध्यासवत् अल्पपरिमाणेऽपि दर्पणे पर­स्प­र­म­स­ङ्की­र्ण­तया अने­क­प्र­ति­बि­म्बानां तदु­चि­त­वै­शा­ल्यस्य चाध्या­स­स­म्भ­वा­दिति भावः । कथं च द्रव्या­न्त­र­स्यो­त्प­त्ति­रिति सम्बन्धः । सत्यस्येति शेषः ।

सामग्र्यभावाच्च न तस्योत्पत्तिः सम्भवतीत्याह —
किं चेति ।

दर्पणस्य यो वर्णः स एव प्रति­बि­म्ब­स्या­पीति नियमसत्त्वे तद्वर्णयुक्तं किञ्चित्कारणं दर्पणे सम्भाव्येत, न त्वेतदस्ति, दर्प­ण­रू­प­वि­ल­क्ष­ण­ना­ना­रू­प­वतां प्रति­बि­म्बा­ना­म­नु­भ­वा­त्-इ­त्याह —
अनेकेति ।

सित­पी­त­र­क्ता­द्य­ने­क­व­र्ण­यु­क्तानां बिम्बानामेव कारणत्वमस्तु, नेत्याह —
दर्पणमध्ये स्थितमिति ।
तेषां निमि­त्त­त्वेऽ­प्यु­पा­दा­नत्वं न सम्भवति, प्रति­बि­म्बो­त्प­त्ति­देशे तेषा­म­भा­वा­दि­त्यर्थः ।

तादृशमिति ।
सित­पी­त­र­क्ता­द्य­ने­क­व­र्ण­युक्तं कारणं प्रति­बि­म्बो­द­य­काले नियमेन नास्ति, अनु­प­ल­म्भा­दि­त्यर्थः । प्रतिबिम्बं हि दर्पणस्यान्तः दर्पणस्य पृष्ठभागे दर्प­ण­स­न्नि­हि­त­म­नु­भू­यते, न तु दर्प­ण­ग­त­रू­प­प­रि­मा­णा­दि­व­द्द­र्प­ण­स्यो­प­रि­भागे । तत­स्त­त्का­र­णे­नापि तत्रैव भवितव्यमिति मत्वा दर्पणमध्ये स्थितं तत्स­न्नि­हि­त­मि­त्यु­क्तम् । मध्य­श­ब्दोऽ­न्त­र­र्थकः । प्रति­बि­म्ब­स्व­रू­प­मात्रं सत्यं तत्र प्रती­य­मा­न­ध­र्मास्तु कल्पिता एवेति —

तत्स­त्य­त्वेऽ­भि­नि­वि­श­मा­न­श्श­ङ्कते —
यद्युच्येतेति ।
वस्तुगत्या उपाधिमध्ये विश्रा­न्ति­यो­ग्या­न्येव प्रति­बि­म्बा­न्यु­त्प­द्यन्ते, तेषु महापरिमाणादिकं भ्रान्त्या भासत इत्यर्थः ।

कल्प्यमिति ।
नीवारावयवेषु व्रीह्यवयवा यथा मीमांसकैः कल्प्यन्ते, तद्वत् दर्प­णा­व­य­व­सं­सृष्टाः प्रति­बि­म्बा­व­यवाः कल्प्या इत्यर्थः ।

प्रतिबन्दीमाह —
तर्हीति ।

पूर्वो­क्त­दृ­ष्टान्तं मनसि निधाय शुक्तिरजतस्यापि कारणं कल्पयति —
तत्रापीति ।
शुक्ति­र­ज­त­स्थ­लेऽ­पी­त्यर्थः । ननु-शुक्तिरजतं सत्यमिति स्वीकारे तस्य शुक्तौ सदा सत्त्वात् शुक्ति­प्र­त्य­क्ष­काले नियमेन तदपि गृह्येत, न च गृह्यते ।

अतो न तस्य सत्यत्वं सम्भवति - इत्याशङ्कां परिहरति —
तस्येति ।

ततः किं, तत्राह —
किमिति ।

अर्ध­ज­र­ती­य­न्या­ये­नेति ।
जरती-वृद्धा, तस्याः अर्धं-मुखमात्रं कामयते नाधःकायं इत्येतद्यथा उपपत्तिशून्यम्, एवमिदमपीत्यर्थः ।

ननु प्रसि­द्ध­र­ज­त­मग्नौ क्षिप्तं द्रवीभवति, शुक्तिरजतं तु न तथेति तस्य मिथ्यात्वमेवेति मत्वा शङ्कते —
न च तथासतीति ।
तस्य सत्यत्वे सतीत्यर्थः ।

प्रतिबन्दीं समर्थयते —
अनलेति ।
यद्यप्यत्र इष्टापत्तिरेव, प्रति­बि­म्ब­स­त्य­त्व­वा­दि­मते शुक्तिरजतादेरपि सत्य­त्व­स­म्भ­वात्, तथापि प्रति­ब­न्दी­व्या­जेन शुक्तिरजतादेरपि मिथ्या­त्व­नि­रू­पणे तात्पर्यं बोध्यम् ।

प्रतिबन्द्याः परिहारं शङ्कते प्रति­बि­म्ब­स­त्य­त्व­वादी —
अथोच्येतेति ।

परिहारसाम्यमाह —
तर्हीति ।

मिथ्यैवात्रेति ।
बिम्ब­प्र­ति­बि­म्बा­भे­द­पक्षे प्रति­बि­म्ब­मि­थ्या­त्वा­नु­भवः प्रति­बि­म्ब­त्व­वि­शि­ष्ट­वे­षेण प्रतिबिम्बगोचरः न स्वरूपेणेति बोध्यम् । ननु — तर्हि शुक्ति­र­ज­त­मि­थ्या­त्वा­नु­भ­वोऽपि इद­म­र्थ­ता­दा­त्म्या­प­न्न­त­यैव रजतगोचरः न स्वरूपेणेति वक्तुं शक्यतया रज­ते­द­म­र्थ­यो­स्ता­दा­त्म्य­मात्रं कल्पितं रजतं त्वकल्पितमिति प्रसज्येत - इति चेत्, न — रजतस्य शुक्ता­व­नु­त्पत्तौ तस्य संवि­द­भि­न्न­त्वा­भा­वेन प्रत्य­क्ष­त्वा­नु­प­पत्तेः तस्य तत्रो­त्प­त्ति­र­प­रि­हार्या, तदुत्पत्तौ च अन्व­य­व्य­ति­रे­का­भ्या­म­नि­र्व­च­नी­या­ज्ञा­न­मेव कारणं नान्यदिति प्राक्प्र­ति­पा­दि­त­त्वेन तस्य मिथ्या­त्वो­प­पत्तेः, पूर्वोक्तरीत्या बिम्ब­प्र­ति­बि­म्बा­भे­द­सा­ध­क­प्र­मा­ण­स­त्त्व­व­च्छु­क्ति­र­ज­त­स­त्य­त्व­सा­ध­का­न­न्य­था­सि­द्ध­प्र­मा­णा­भा­वेन शुक्ति­र­ज­त­मि­थ्या­त्वा­नु­भ­वस्य रज­त­स्व­रू­प­गो­च­र­त्वो­प­प­त्तेश्च तस्य मिथ्यात्वमिति भावः ।

तस्मादिति ।
बिम्बभिन्नस्य सत्यत्वे माना­भा­वा­दि­त्यर्थः ।

नन्विति ।
प्रति­बि­म्बा­ध्या­स­पक्षे हि तस्यो­पा­दा­न­म­ज्ञानं निवर्तकं ज्ञानञ्च वाच्यम्, तच्च न सम्भवति । सर्वात्मना दर्प­णा­दि­रू­पा­धि­ष्ठा­न­गो­च­र­सा­क्षा­त्का­रेण दर्प­णा­द्य­व­च्छि­न्न­चै­त­न्य­नि­ष्ठा­ज्ञा­नस्य निवृत्तत्वात्, तादृ­श­सा­क्षा­त्कारे सत्ये­वा­नु­व­र्त­मा­नस्य प्रति­बि­म्बा­ध्या­सस्य तन्नि­व­र्त्य­त्वा­यो­गा­त्त­न्नि­व­र्त­क­ज्ञा­ना­न्त­रा­नु­प­ल­म्भाच्च । ज्ञानै­क­नि­व­र्त्यत्वं विना तस्य मिथ्या­त्वा­नु­प­पत्तेः । तस्मात् तन्मि­थ्या­त्व­वा­दोऽ­प्य­स­ङ्गत इत्या­क्षे­पा­भि­प्रायः । यथा शुक्तिरजते शुक्त्यज्ञानस्य तत्का­र­ण­स्या­न्व­य­व्य­ति­रे­क­सि­द्धस्य पूर्वं निरूपणं कृतं, तथा प्रति­बि­म्बा­ध्यासे दर्पणाद्यज्ञाने सति प्रति­बि­म्बा­ध्यासः तदभावे तदभावः इत्य­न्व­य­व्य­ति­रे­क­शा­लि­न­स्त­त्का­र­ण­स्या­ज्ञा­नस्य कस्य­चि­द­नि­रू­प­णात् तन्नि­व­र्त­क­ज्ञा­नस्य चानि­रू­प­णा­दि­त्य­क्ष­रार्थः ।

परिहरति —
अत्रकेचिदिति ।

आक्षे­पा­भि­प्रा­य­म­नु­व­दति —
यद्यपीति ।

सर्वात्मनेति ।
शुक्तौ रजताध्यासात् पूर्वं इदन्त्वात्मना साक्षा­त्का­र­स­त्त्वेऽपि शुक्ति­त्वा­दि­वि­शे­षा­त्मना साक्षात्कारो नास्तीति तत्र अधि­ष्ठा­न­वि­शे­षां­शा­व­र­ण­म­ज्ञा­न­मु­पा­दानं लभ्यते । प्रकृते तु चक्षु­स्स­न्नि­कृष्टे दर्पणे प्रति­बि­म्बा­ध्या­सात् पूर्वं इदन्त्वात्मनेव दर्प­ण­त्वा­दि­वि­शे­षा­त्म­नाऽपि साक्षा­त्का­र­स­त्त्वेन सर्वा­त्म­नाऽ­धि­ष्ठा­न­सा­क्षा­त्का­रोऽस्ति । तथा च तेन अधि­ष्ठा­न­वि­शे­षा­व­र­ण­स्या­ज्ञा­नस्य निवृत्तत्वान्न तदुपादानं सम्भवतीत्येतत् युक्त­मे­वे­त्यर्थः । अपिरवधारणे ।

निवर्तकमिति ।
प्रति­बि­म्बा­ध्या­स­स्येति शेषः ।

कथं तर्ह्यु­पा­दा­ना­दि­लाभः, तत्राह —
तथापीति ।

तदेवेति ।
अधि­ष्ठा­ना­ज्ञा­न­मे­वे­त्यर्थः । सर्वा­त्म­नाऽ­धि­ष्ठा­न­सा­क्षा­त्का­रे­णाऽपि अज्ञा­नै­क­दे­श­स्यैव निवृत्तिः न तु कार्त्स्न्ये­नेति फलबलात् कल्प्यत इति भावः ।

निवर्तकज्ञानं च निरूपयति —
बिम्बेति ।
बिम्बो­पा­ध्यो­स्स­न्नि­धि­नि­वृ­त्ति­स­ह­कृतं ‘दर्पणे मुखं नास्ति’ इति ज्ञानमेव प्रति­बि­म्बा­ध्या­सस्य निव­र्त­क­मि­त्यर्थः । दर्प­णा­द्य­व­च्छि­न्न­चै­तन्ये दर्प­णा­द्यु­पा­दा­न­भूतं मूला­ज्ञा­न­मे­क­मस्ति ।

दर्प­णा­दि­ज्ञा­न­नि­व­र्त्य­म­व­स्था­रू­पा­ज्ञा­न­म­प्य­प­र­मस्ति ।

तत्र मूलाज्ञानस्यैव दर्प­णा­द्यु­पा­दा­न­त्व­वत् प्रति­बि­म्बा­ध्या­सो­पा­दा­न­त्व­म­पीति परिहारान्तरमाह —
अन्ये त्विति ।

ननु पूर्व­म­तो­क्त­रीत्या शुक्तिरजतादेरिव प्रति­बि­म्बा­ध्या­स­स्या­प्य­व­स्था­ज्ञा­न­प­रि­णा­म­त्व­स­म्भवे किं मूलाज्ञानस्य तत्कल्पनयेति, नेत्याह —
ज्ञान­स्ये­त्या­दिना ।
ज्ञान­स्या­व­र­ण­मा­त्र­नि­व­र्त­कत्वं किं स्वाभाविकं किं वा विक्षे­प­श­क्त्यं­श­नि­वृ­त्ति­प्र­ति­ब­न्ध­क­स­त्त्व­प्र­यु­क्तम् ।

नाद्य इत्यत्र हेतुमाह —
ब्रह्म­ज्ञा­ने­नेति ।

तस्येति ।
द्विवि­ध­स्या­प्य­ज्ञा­नस्य निवर्तकाभावेन विक्षे­प­श­क्ति­स­ह­कृ­तस्य विदे­ह­कै­व­ल्येऽ­प्य­नु­वृ­त्ति­प्र­स­ङ्गा­दि­त्यर्थः ।

द्वितीयमनुवदति —
न चेति ।

तदिति ।
आव­र­ण­मा­त्र­नि­व­र्त­क­त्व­मि­त्यर्थः ।

विक्षे­प­श­क्ति­म­द­ज्ञा­नां­श­नि­वृ­त्ति­प्र­ति­ब­न्ध­क­प्रा­र­ब्ध­नाशे सति ब्रह्म­ज्ञा­न­सं­स्का­र­वि­शि­ष्ट­चै­त­न्य­मा­त्रा­देव विक्षे­पां­श­नि­वृ­त्ति­स­म्भ­वात् न पूर्वोक्तदोष इति मत्वा दोषमाह —
बिम्बो­पा­धि­स­न्नि­धा­नात् प्रागिति ।
बिम्बो­पा­ध्यो­रा­भि­मु­ख्य­ल­क्ष­ण­स­न्नि­धा­नात् पूर्वक्षण एवेत्यर्थः । बिम्ब­प्र­ति­बि­म्बा­भे­द­पक्षे प्रति­बि­म्बो­त्प­त्त्य­भा­वेऽपि चैत्रस्य मुखे बिम्बभूते बिम्ब­त्व­प्र­ति­बि­म्ब­त्व­द­र्प­ण­स्थ­त्वा­दे­र­नि­र्व­च­नी­य­स्यो­त्प­त्त्यु­प­ग­मेन तस्य चैत्र­मु­खा­व­च्छि­न्न­चै­त­न्य­नि­ष्ठा­व­स्था­ज्ञा­न­मेव कारणं वाच्यम् । तच्च चैत्रमुखे बिम्ब­द­र्प­णा­भि­मु­ख्यात् प्राक् विष्णुमित्रेण निरीक्ष्यमाणे सति तदा प्रति­ब­न्ध­का­भा­वा­च्चै­त्र­मु­ख­गो­च­रेण विष्णु­मि­त्री­य­सा­क्षा­त्का­रेण विक्षेपशक्त्या सह निवर्तते, उत्तरक्षण एव चैत्रमुखस्य दर्पणाभिमुख्ये सति विष्णुमित्रस्य दर्पणे चैत्रस्य मुखमिति प्रतिबिम्बभ्रमो भवति ।

तत्र चैत्रमुखे दर्प­ण­स्थ­त्वा­दे­रु­त्प­त्तिर्न स्यात्, उपा­दा­ना­भा­वा­दि­त्याह —
बिम्ब इति ।
दर्पणसंसर्गो दर्पणस्थत्वम् । आदिपदं प्रत्य­ङ्मु­ख­त्वा­दि­स­ङ्ग्र­हा­र्थम् । तथा च संसर्गाद्यभावे प्रत्य­क्ष­तोऽ­व­ग­म्य­मान इति सम्बन्धः । ‘चैत्रमुखे दर्प­ण­स्थ­त्वा­दिकं नास्ति’ इत्यवगतिप्रकारो बोध्यः ।

दर्पणे प्रति­बि­म्बा­ध्या­सो­त्प­त्ति­पक्षे अवगतिप्रकारमाह —
दर्पण इति ।
प्रति­बि­म्बा­ध्या­स­पक्षे संसर्गितया प्रति­मु­ख­स्यै­वा­ध्या­सो­प­ग­मात् ‘दर्पणे चैत्रमुखं नास्ति’ इत्यनेन प्रकारेण दर्पणे चैत्रमुखाभावे प्रत्य­क्ष­तोऽ­व­ग­म्य­माने इत्यर्थः । एवं मत­भे­दे­ना­धि­ष्ठा­न­भे­द­त­त्सा­क्षा­त्का­रा­का­र­भे­दयोः प्रदर्शनार्थमेव चैत्रमुखे दर्पणे च पृथक् सप्तमीनिर्देशः कृतः । मत­भे­द­ज्ञा­प­ना­र्थश्च वाकारः ।

तत्काल इति ।
अधिष्ठानभूते चैत्रमुखे दर्पणे च विक्षे­प­श­क्त्या­स­हा­ज्ञा­न­नि­व­र्त­क­सा­क्षा­त्का­रो­त्प­त्ति­द्वि­ती­य­क्षणे इत्यर्थः ।

तयोरिति ।

चैत्र­मु­ख­द­र्प­णयोः सन्निधाने सति अधि­ष्ठा­न­सा­क्षा­त्का­र­वतो विष्णुमित्रस्य ‘दर्पणे चैत्रमुखं, इति यः प्रतिबिम्बभ्रमो भवति तस्या­भा­व­प्र­स­ङ्गात् इत्यत्र हेतुमाह —
उपादानाभावेनेति ।

तत्र हेतुमाह —
विक्षे­प­श­क्त्यं­श­स्यापि निवृ­त्त्य­व­श्यं­भा­वे­नेति ।

अत इति ।
अवस्थाज्ञानस्य प्रति­बि­म्बा­ध्यासे कार­ण­त्वा­यो­गा­दि­त्यर्थः । ननु - अस्मिन् पक्षेऽपि बिम्बो­पा­धि­स­न्नि­धा­नात् पूर्व­क्ष­णो­त्प­न्न­चै­त्र­मु­खा­दि­सा­क्षा­त्का­रेण चैत्र­मु­खा­द्य­व­च्छि­न्न­चै­त­न्या­वा­र­क­मू­ला­ज्ञा­न­स्यापि निवृ­त्त­त्वा­दु­पा­दा­ना­ज्ञा­ना­भा­व­दो­ष­स्तुल्यः ।

तेन तदनिवृत्तौ च चैत्र­मु­खा­द्य­न­व­भा­स­प्र­सङ्गः, यत्कि­ञ्चि­दा­व­र­णस्य सत्त्वा­त्-इ­त्या­श­ङ्क्याह —
न चात्रापीति ।
ब्रह्म­ज्ञा­न­स्यैव मूला­ज्ञा­न­नि­व­र्त­कत्वं, जड­वि­ष­य­क­वृ­त्ति­रू­पा­णा­म­न्तः­क­र­ण­प­रि­णा­मानां तु स्वस्व­वि­ष­य­चै­त­न्य­स्थ­मू­ला­ज्ञा­नस्य योऽयमावरणांशः तद­भि­भा­व­क­त्व­मात्रं याव­द्वि­ष­य­स्फु­र­ण­म­ङ्गी­क्रि­यते, न त्वव­स्था­ज्ञा­न­वि­क्षे­पां­श­नि­व­र्त­क­त्व­वत् मूला­ज्ञा­न­वि­क्षे­पां­श­नि­व­र्त­क­त्व­म­पी­त्यर्थः ।

अन्यथेति ।
विष­य­चै­त­न्य­स्थस्य मूलाज्ञानस्य विषयज्ञानेन निवृत्तौ दर्पणादीनां व्यावहारिकाणां विक्षे­प­श­ब्दि­त­का­र्याणां नाशप्रसङ्गः, उपा­दा­न­ना­शा­दि­त्यर्थः । प्राति­भा­सि­क­वि­क्षे­पा­णा­भि­वे­त्य­पि­श­ब्दार्थः ।

ननु मूला­ज्ञा­न­का­र्यस्य दर्प­णा­दे­र्व्या­व­हा­रि­क­त्व­द­र्श­नात् प्रति­बि­म्बा­ध्या­स­स्यापि तत्कार्यत्वे तदा­प­त्ति­रि­त्या­शङ्क्य निराकरोति —
न चेत्यादिना ।

मूला­ज्ञा­न­का­र्यत्वं व्याव­हा­रि­क­त्व­प्र­यो­जकं न भवति, अनाद्यविद्यादौ तदभावेऽपि व्याव­हा­रि­क­त्व­स­त्त्वात्, किं त्वन्यदेव तत्प्र­यो­ज­क­मि­त्याह —
अवि­द्या­ति­रि­क्तेति ।
अनाद्यविद्यादौ अवि­द्या­ज­न्य­त्वा­भा­वेऽपि तद­ति­रि­क्त­दो­षा­ज­न्य­त्व­स­त्त्वात् नाव्या­प्ति­रित्ति भावः ।

प्रति­बि­म्बा­ध्या­सस्य मूला­ज्ञा­न­का­र्य­स्यापि न व्याव­हा­रि­क­त्वम्, तत्प्र­यो­ज­का­भा­वा­दि­त्याह —
प्रकृते चेति ।
प्रति­बि­म्बा­ध्यासे इत्यर्थः ।

न चैवंसतीति ।
प्रति­बि­म्बा­ध्या­सस्य मूला­ज्ञा­न­का­र्यत्वे सतीत्यर्थः ।

तन्मूलेति ।
शुक्ति­र­ज­ता­दि­मू­ला­वि­द्या­नि­व­र्त­क­शु­क्त्या­दि­सा­क्षा­त्का­र­स्यैव रज­ता­द्य­ध्या­स­नि­व­र्त­क­त्व­द­र्श­ना­दिति भावः ।

विरोधाभावादिति ।
मूलाज्ञानं ब्रह्मविषयकं प्रति­बि­म्बा­ध्या­सा­धि­ष्ठा­न­भू­त­द­र्प­णा­दि­ज्ञानं तु दर्प­णा­द्य­व­च्छि­न्न­चै­त­न्य­वि­ष­य­क­मिति तयोः­स­मा­न­वि­ष­य­क­त्वस्य विरो­ध­प्र­यो­ज­क­स्या­भा­वेन विरोधाभावात् अधि­ष्ठा­न­या­था­त्म्य­ज्ञा­नस्य ब्रह्मा­ज्ञा­ना­नि­व­र्त­क­त्वेऽ­पी­त्यर्थः । तत्पदं ब्रह्मा­ज्ञा­न­प­रम् ।

विरो­धि­वि­ष­य­क­त­येति ।
दर्प­णे­मु­खं­ना­स्ती­त्या­दि­रू­प­स्या­धि­ष्ठा­न­या­था­त्म्य­ज्ञा­नस्य प्रति­बि­म्बा­ध्या­सा­भा­व­वि­ष­य­क­त­ये­त्यर्थः । ननु — प्रति­बि­म्बा­ध्या­स­स्या­व­स्था­ज्ञा­नो­पा­दा­न­क­त्व­पक्षे बिम्बो­पा­धि­स­न्नि­धि­नि­वृ­त्ति­स­ह­कृ­ता­धि­ष्ठा­न­ज्ञा­नस्य तदु­पा­दा­ना­ज्ञा­न­नि­व­र्त­कत्वं लभ्यते । तथा च ‘ज्ञान­म­ज्ञा­न­स्यैव निवर्तकम्, अज्ञानकार्यस्य तु उपा­दा­ना­ज्ञा­न­नि­वृत्त्या निवृत्तिः’ इति पञ्च­पा­दि­का­का­रोक्तं सङ्गच्छते —

इत्याशङ्क्याह —
अवस्थाज्ञानेति ।

तस्येति ।
अव­स्था­ज्ञा­न­स्ये­त्यर्थः ।

प्राचीनेति ।
प्रति­बि­म्बा­ध्या­सा­त्प्रा­ची­ने­ना­धि­ष्ठा­न­ज्ञा­ने­न­द­र्प­णे­मु­खं­ना­स्ती­त्या­द्या­का­रेण निवर्तिता आवरणशक्तिः यस्या­व­स्था­ज्ञा­नस्य तत्तथा, तस्येत्यर्थः । अज्ञानविषयत्वं अज्ञा­ना­वृ­त­त्वम्, आवरणनाशे च दर्प­णा­द्य­व­च्छि­न्न­चै­त­न्यस्य अव­स्थाऽ­ज्ञा­न­वि­ष­य­त्वा­भा­वात् अधि­ष्ठा­न­ज्ञा­नस्य अव­स्था­ज्ञा­न­स­मा­न­वि­ष­य­कत्वं विरोधप्रयोजकं भग्नमित्यर्थः । प्रतिबन्धकपदं बिम्बो­पा­ध्यो­स्स­न्नि­धि­प­रम् । तस्य निव­र्त­यि­तु­म­श­क्य­तया इति सम्बन्धः ।

तन्निवर्त्येति ।
तत्प­द­म­धि­ष्ठा­न­ज्ञा­न­प­रम् । अव­स्था­ज्ञा­नो­पा­दा­न­त्व­प­क्षेऽपि प्रति­बि­म्बा­ध्या­स­मा­त्र­स्यैव तन्नि­व­र्त्य­त्व­स्यो­पे­य­त्वा­दिति सम्बन्धः । तथा च पञ्च­पा­दि­का­वि­रोधः प्रति­बि­म्बा­ध्या­स­स्या­व­स्था­ज्ञा­नो­पा­दा­न­क­त्व­प­क्षेऽपि तुल्य इति भावः ।

तदविरुद्धं प्रकारमाह —
अथवेति ।
स्वपदं प्रति­बि­म्बा­ध्या­स­प­रम् ।

निवर्त्य एवेति ।
बिम्बो­पा­ध्यो­स्स­न्नि­धि­वि­ग­म­काले प्रति­बि­म्बा­ध्या­सस्य सूक्ष्मा­व­स्था­ल­क्ष­ण­नाशे सत्यपि बाधरूपा निवृत्तिस्तदा नास्ति, सा तु ब्रह्म­ज्ञा­ना­धी­नैव, तस्यैव तदु­पा­दा­न­मू­ला­ज्ञा­न­नि­व­र्त­क­त्वा­दिति भावः ।

ननु ब्रह्म­ज्ञा­न­बा­ध्यस्य घटादेरिव तद्बा­ध्य­स्या­स्यापि व्याव­हा­रि­क­त्वा­प­त्ति­रिति, नेत्याह —
व्याव­हा­रि­क­त्वा­प­त्ति­स्त्विति ।
तुशब्दोऽवधारणे । प्रत्युक्तैवेति सम्बन्धः । बिम्बो­पा­धि­स­न्नि­धि­र्दोषः ।