कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
प्रतिबिम्बस्य बिम्बभेदाभेदाभ्यां मिथ्यात्वसत्यत्वविचारः
नन्वेवमिति ।
आपरोक्ष्याय रजताभासोत्पत्त्युपगमे इत्यर्थः ।
प्रतिबिम्बस्य बिम्बाभिन्नत्वेऽपि प्रतिबिम्बापरोक्ष्यं सम्भवतीति न सा स्वीकार्येत्यत आह —
स्वकीय इति ।
मुख इति ।
प्रतिबिम्बत्वेनोपेत इति शेषः ।
नासादीति ।
तदंशे सन्निकर्षसम्भवादित्यर्थः । यदि बिम्बप्रतिबिम्बयोरभेदे प्रतिबिम्बापरोक्ष्यं स्वमुखप्रतिबिम्बस्थले न सम्भवति, तर्हि प्रतिबिम्बो बिम्बात् भिन्नो मिथ्याभूत एवास्तु का हानिरद्वैतवादिनः —
इति शङ्कते —
न चेति ।
तस्य हानिं पूर्ववादी दर्शयति —
ब्रह्मप्रतिबिम्बेति ।
जीवो ब्रह्मणस्सकाशात् स्वरूपतो भिद्यते, ब्रह्मप्रतिबिम्बत्वात्, सामान्यव्याप्तौ मुखप्रतिबिम्बवत् । ततश्च जीवो मिथ्या, ब्रह्मभिन्नत्वात्, घटादिवदित्यर्थः ।
बिम्बप्रतिबिम्बयोःलोके भेदाभावात् नोक्तदोष इति परिहरति —
अत्र विवरणेति ।
ननु — दर्पणे मुखस्याप्यध्यासो न कल्पनीयो गौरवादित्ययुक्तम्, पतिबिम्बमुखे ‘दर्पणे मुखं’ इति दर्पणस्थत्वानुभावात्, ग्रीवास्थमुखस्य दपणस्थत्वायोगात्, तथा प्रतिबिम्बमुखस्य ग्रीवास्थमुखं प्रत्याभिमुख्यानुभवात्, मुखप्रतिमुखयोरभेदपक्षे तस्येव तदाभिमुख्यायोगात्, तयोर्भेदस्यैव स्फुटमनुभवाच्च ।
तस्मादनुभवत्रयानुरोधेनोपाधावनिर्वचनीयप्रतिबिम्बाध्यास उपेयः, गौरवं च प्रामाणिकत्वान्न दोषावहं - इत्याशङ्क्य तदनुभवत्रयस्यान्यथासिद्धिमाह —
ग्रीवास्थ एवेति ।
धर्मिकल्पनापेक्षया बहुधर्मकल्पनमपि लघ्वेवेति भावः ।
ननु प्रतिबिम्बस्य बाधदर्शनात् मिथ्यात्वमित्याशङ्क्य हेत्वसिद्धिमाह —
दर्पण इति ।
मात्रपदं प्रतिबिम्बस्वरूपबाधाभावार्थकम् । बाधादित्यनन्तरं दर्पणस्थत्वरूपसंसर्गस्य मिथ्यात्वं प्रतिबिम्बस्य सत्त्वञ्चेति शेषः ।
विपक्षे दोषमाह —
मिथ्यावस्त्वन्तरत्व इति ।
नन्वेवं भूतले घटो नास्तीत्यत्रापि घटसंसर्गाभाव एव प्रतीयेतेति चेत्, न - इष्टापत्तेः । ननु तर्हि भूतले घटाभावो न सिद्ध्येदिति चेत्, न — x‘घटाभाववत् भूतलं’ इति प्रतीत्या तत्सम्भवादिति भावः ।
बिम्बप्रतिबिम्बयोर्भेदमात्रकल्पनायां स्वरूपाभेदप्रत्यभिज्ञानमप्यनुकूलयति —
दर्पणे ममेति ।
लाघवसमुच्चयार्थश्चकारः ।
यद्वा प्रतिबिम्बस्य सत्यत्वे बिम्बाभिन्नत्वं हेतुमभिप्रेत्य तत्र मानमाह —
दर्पणे ममेति ।
चकारो बाधाभावसमुच्चयार्थः । तथा च प्रतिबिम्बस्य न मिथ्यात्वं बाधाभावात् बिम्बाभिन्नत्वाच्चेत्यर्थः । एवं लोके प्रतिबिम्बस्य बिम्बाभिन्नत्वसत्यत्वयोः प्रसाधनेन ब्रह्मप्रतिबिम्बजीवस्य ब्रह्मभिन्नत्वमिथ्यात्वप्रसङ्गो निरस्तः ।
यत्तु तयोरभेदपक्षे ग्रीवास्थमुखस्य नयनगोलकादिप्रदेशेषु स्वचक्षुस्सन्निकर्षाभावेन प्रतिबिम्बस्य साकल्येन प्रत्यक्षत्वं न सम्भवतीत्युक्तं, तदनूद्य निराकरोति —
न चेत्यादिना ।
अधिष्ठानस्येति ।
[बिम्बत्वप्रतिबिम्बत्व] प्रत्यङ्मुखत्वदर्पणस्थत्वबिम्बभेदानां कल्पनाधिष्ठानस्येत्यर्थः ।
असम्भवो न चेत्यत्र हेतुमाह —
उपाधिप्रतिहतेति ।
नयनरश्मयः चक्षुर्गोलकात् बहिर्निर्गत्य दर्पणाद्युपाधिं प्राप्य तेन प्रतिहताः पुनः परावृत्य ग्रीवास्थमुखतदवयवैःसंसृज्यन्ते । ततश्च अभिमुखपुरुषान्तरमुखसाक्षात्कारवत् साकल्येन स्वग्रीवास्थमुखसाक्षात्कारः सम्भवति । न च परावृत्तनयनरश्मीनां गोलकद्वारा अन्तःप्रवेशस्यैवान्यत्र कॢप्तत्वादत्र तथाकल्पनं गौरवग्रस्तमिति वाच्यम् । प्रतिबिम्बोत्पत्तिवादिनापि चक्षुस्सन्निकृष्टस्यैव बिम्बतायाः वक्तव्यत्वेन उक्तनियमस्य तेनापि स्वीकार्यत्वात् । अतस्सम्प्रतिपन्नत्वात् गौरवं न दोषायेति भावः ।
ननु - प्रतिबिम्बाध्यासवादिना सन्निकृष्टस्यैव बिम्बत्वं नाङ्गीक्रियते, अतो ग्रीवास्थमुखस्य बिम्बत्वनिर्वाहाय स्वचक्षुस्सन्निकर्षापेक्षाभावात् नायं नियमस्तेनादर्तव्य इति, अत आह —
तन्नियमानभ्युपगम इति ।
बिम्बसन्निकर्षस्य चाक्षुषप्रतिबिम्बाध्यासाहेतुत्वे व्यवहितस्यापि चाक्षुषप्रतिबिम्बप्रसङ्गः, किमनेन विशेषणेन, यस्य कस्यापि प्रतिबिम्बापत्त्या परमाणोर्वायोश्च तत्प्रसाङ्गादित्यर्थः ।
प्रतिबिम्बाध्यासे बिम्बसन्निकर्षस्य हेतुत्वं विनैव उक्तातिप्रसङ्गं परिहरति प्रतिबिम्बाध्यासवादी —
न चाव्यवहितेति ।
तथा च कुड्यादिव्यवहितमुखादेः परमाणोर्वायोश्च न चाक्षुषप्रतिबिम्बापत्तिरिति भावः । द्रव्यचाक्षुषं प्रति द्रव्यगतमहत्त्वोद्भूतरूपयोः कारणत्वं कॢप्तम् । तथा कुड्यादेस्सन्निकर्षविघटनद्वारा बाह्यवस्तुगोचरप्रत्यक्षप्रतिबन्धकत्वं कॢप्तम् । तथा च बिम्बप्रतिबिम्बयोरभेदपेक्षे बिम्बचाक्षुषस्यैव प्रतिबिम्बचाक्षुषत्वात् बिम्बभूतमुखादिगतयोः स्थूलत्वोद्भूतरूपयोः कॢप्तचाक्षुषप्रत्यक्षादन्यत्र कारणत्वं न कल्पनीयमिति लाघवम् । शुक्तिरजतादिवत् साक्षिभास्यप्रतिबिम्बाध्यासोत्पत्तिपक्षे तु बिम्बसन्निकर्षस्य प्रतिबिम्बाध्यासहेतुत्वानुपगमेन वायुपरमाण्वोश्चाक्षुषप्रतिबिम्बवारणाय बिम्बभूतद्रव्यगतयोर्महत्त्वोद्भूतरूपयोः स्वाश्रयगोचरचाक्षुष इव स्वाश्रयद्रव्यरूपबिम्बहेतुकप्रतिबिम्बाध्यासोत्पत्तावपि हेतुत्वं कल्पनीयमिति गौरवम् । तथा बिम्बप्रतिबिम्बाभेदपक्षे नयनरश्मीनां परावृत्य बिम्बसम्बन्धाभ्युपगमेन प्रतिबिम्बभ्रमस्थलेऽपि बिम्बसन्निकर्षस्य हेतुत्वसत्त्वात् घटादिचाक्षुष इव प्रतिबिम्बचाक्षुषेऽपि कुड्यादेस्सन्निकर्षविघटनद्वारैव प्रतिबन्धकत्वं न त्वन्यत्राकॢप्तं साक्षात्प्रतिबन्धकत्वं कल्प्यमिति लाघवम् ।
प्रतिबिम्बाध्यासपक्षे तु बिम्बसन्निकर्षस्य हेतुत्वानभ्युपगमेन कुड्यादेस्सन्निकर्षविघटकत्वस्य कॢप्तस्य प्रतिबिम्बभ्रमस्थले वक्तुमशक्यतया प्रतिबिम्बाध्यासं प्रति साक्षादेव प्रतिबन्धकत्वं व्यवहितस्य प्रतिबिम्बवारणाय कल्पनीयमिति गौरवंइत्याशयेन दूषयति —
बिम्बस्थौल्येति ।
विधान्तरेणेति ।
स्वाश्रयभूतबिम्बद्वारा प्रतिबिम्बाध्यासोत्पत्तावुपयोगकल्पनानुपपत्तेरित्यर्थः ।
इहेति ।
प्रतिबिम्बभ्रमस्थल इत्यर्थः ।
न केवलं अकॢप्तकल्पनागौरवं दोषः, दोषान्तरमपि प्रसज्यत इत्याह —
तथैवेति ।
सन्निकर्षविघटनं विनैवेत्यर्थः । तथा च उक्तगौरवादिदोषपरिहाराय परावृत्येतिनियम उपेयो बिम्बसन्निकर्षाय इति भावः ।
चाक्षुषप्रतिबिम्बभ्रमस्थले बिम्बसन्निकर्षस्य त्वयापि वाच्यत्वात् परावृत्येतिनियमो नाप्रयोजक इत्याह —
दर्पणेमिथ्येति ।
कारणत्रयेति ।
दोषसम्प्रयोगसंस्काररूपकारणत्रयेत्यर्थः । स्वमुखस्य स्वचक्षुस्सन्निकर्षानुपगमे दर्पणादावारोप्यप्रतिमुखसजातीयस्वमुखसाक्षात्कारस्य कदाप्यसम्भवेन अध्यासकारणभूतस्यारोप्यसजातीयगोचरपूर्वानुभवजन्यसंस्कारस्यालाभात् प्रतिबिम्बरूपाध्यासस्योत्पत्तिर्न स्यात् । अतः स्वमुखस्य स्वचक्षुस्सन्निकर्षलाभाय उक्तनियम आदर्तव्य इति भावः ।
तावतेति ।
नासादिप्रदेशावच्छिन्नपूर्वानुभवमात्रेणेत्यर्थः ।
इदमपि क्वचिद्दुर्लभमित्याह —
तटाकेति ।
अदृष्टचरेति ।
कदाप्यदृष्टेत्यर्थः ।
एवं चेति ।
उक्तप्रकारेणेत्यर्थः ।
उक्तनियमस्यातिप्रसङ्गं परिहरति —
फलबलादिति ।
दर्पणादौ प्रतिबिम्बभ्रमदर्शनलक्षणफलानुरोधादित्यर्थः ।
एवकारव्यवच्छेद्यमाह —
न शिलादीति ।
शिलादौ प्रतिबिम्बादर्शनादिति भावः ।
ननु अस्वच्छताम्रादेः प्रतिबिम्बग्राहित्वेन शिलादिवैलक्षण्यसत्त्वात्तत्प्रतिहतानां दर्पणादिप्रतिहतानामिव नयनरश्मीनां साकल्येन मुखादिग्राहकत्वं स्यात्, अत आह —
मलिनोपाधीति ।
संस्थानविशेषो नयनगोलकादिः ।
फलबलानुसारिपदार्थस्वभावकल्पनेन दोषान्तराण्यपि निरस्तानीत्याह —
साक्षादित्यादिना ।
साक्षात्तदिति ।
साक्षात्सूर्यावलोकन इत्यर्थः । ननु प्रतिबिम्बोपाधिभूतजलेन प्रतिहतानां नयनरश्मीनां बिम्बदेशप्राप्त्युपगमे जलान्तर्गतसिकतादिप्रत्यक्षं न स्यात्, सन्निकर्षाभावात् —
इति दूषणमपि निरस्तमित्याह —
जलाद्युपाधीति ।
ननु उपाधिप्रतिहतानां बिम्बदेशप्राप्त्युपगमे पृष्ठभागव्यवहितपदार्थस्यापि प्रतिबिम्बप्रसङ्ग इति चेत्, नायं दोषः —
फलबलेन शरीरावयवानां सन्निकर्षविघटकत्वकल्पनात्, इत्यभिप्रेत्याह —
इत्यादिकल्पनादिति ।
नयनरश्मीनां परावृत्य बिम्बग्राहित्वं सुरेश्वराचार्यैरक्तं — x‘दर्पणाभिहता दृष्टिः परावृत्य स्वमाननम् । व्याप्नुवन्त्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम् ॥’ [१-४-६१८] इति । बिम्बप्रतिबिम्बयोर्भेदपक्षनिराकरणपूर्वकं तदभेदपक्षो निरूपितः ।
इदानीं तयोरभेदपक्षनिराकरणपूर्वकं भेदपक्षं निरूपयति —
अद्वैतविद्याकृतस्त्विति ।
त्रिविधेति ।
पारमार्थिकव्यावहारिकप्रातिभासिकभेदेन जीवस्त्रिविध इति पक्षः प्रथमपरिच्छेदे निरूपित इति बोध्यम् ।
एवमिति ।
वक्ष्यमाणप्रकारेणेत्यर्थः ।
चैत्रेति ।
चैत्रो यदा दर्पणे स्वमुखं पश्यति, तदा पार्श्वस्थैश्चैत्रग्रीवायां बिम्बभूतं मुखं दर्पणे चैत्रमुखप्रतिबिम्बं च परस्परं भिन्नत्वेन परस्परं सदृशत्वेन च असन्दिग्धाविपर्यस्तमनुभूयते इत्यर्थः ।
स्वेति ।
स्वहस्तगतात् सत्यरजतात् भिन्नत्वेन तत्सदृशत्वेन च अनुभूयमानं शुक्तिरजतं यथा तद्भिन्नं मिथ्या च तद्वदित्यर्थः ।
अभेदज्ञानमसिद्धमित्याह —
स्पष्टेति ।
उदाहृतरजतयोरभेदज्ञानादर्शनादिति भावः । आदिपदं प्राङ्मुखत्वग्रीवास्थत्वदर्पणस्थत्वस्वातन्त्र्यपारतन्त्र्यादिसङ्ग्रहार्थम् ।
तर्हि सर्वानुभवसिद्धस्याभेदव्यपदेशस्य का गतिः, ज्ञानपूर्वकत्वाद्व्यपदेशस्यइत्याशङ्क्य नायमभेदव्यपदेश इत्याह —
दर्पणे ममेति ।
स्फुटभेदज्ञाने सति अभेदव्यपदेशायोगादिति भावः । ननु — x‘दर्पणे मम मुखं भाति, मम मुखं मलिनं भाति, मम मुखं दीर्घं भाति, मुखं ग्रीवास्थमेव न दर्पणादौ’ इत्यभेदानुभवानामपि स्फुटानां भूयसां सत्त्वात् अभेदव्यपदेशो मुख्यः । अभेदानुभवविरोधेन भेदानुभवस्यैवासम्भवात् भेदव्यपदेशमात्रमवशिष्यते ।
तच्च बिम्बप्रतिबिम्बयोर्वस्तुगत्या भेदाभावेऽपि कल्पितभेदसत्त्वादुपपद्यते इति विपरीत्यमाशङ्क्य निषेधति —
न चेत्यादिना ।
प्रतिबिम्बगोचरप्रवृत्त्यादिदर्शनं तस्य बिम्बात् भेदं विना न सिद्ध्यतीति विनिगमकमाह —
बालानामिति ।
बालाः खलु जलाशयादौ भयङ्करं प्रतिबिम्बं दृष्ट्वा तं विहाय पलायन्ते, सौम्यं प्रीतिकरं प्रतिबिम्बं दृष्ट्वा तमुपादातुमिच्छन्ति प्रतिबिम्बदेशं गच्छन्ति चेति सर्वानुभवसिद्धम् । तदुक्तं कर्णामृताचार्यैः — x‘रत्नस्थले जानुचरः कुमारः सङ्क्रान्तमात्मीयमुखारविन्दम् । आदातुकामस्तदलाभखेदाद्विलोक्य धात्रीवदनं रुरोद ॥’ इति । कुमारः — श्रीकृष्णरूपश्शिशुः अतिनिर्मलरत्नमयवेदिकायां जानुभ्यां सञ्चरन् तत्र सङ्क्रान्तं - प्रतिबिम्बितं विविधैः कुण्डलादिभूषणैर्भूषितं निस्सीमसौन्दर्योपेतं गोपीजनमनोहरं ब्रह्मादिभिरपि सदा स्पृहणीयं स्वकीयमुखारविन्दं उपलभ्य लोकसिद्धां बालचेष्टामनुवर्तमानः तदादानेच्छया चिरकालं हस्तव्यापारं कृत्वाऽपि यदा तन्न लब्धवान् तदा तदलाभखेदेन धात्र्या मुखं दृष्ट्वा ‘त्वया इदं गृहीत्वा मह्यं देयं’ इत्यभिसन्धिमान् मुक्तकण्ठतया रोदनं कृतवानित्यर्थः ।
अभेदज्ञानस्याप्यर्थक्रियापर्यन्तत्वं समानमित्याशङ्क्य निषेधति —
न चेत्यादिना ।
यदि बिम्बप्रतिबिम्बयोर्वस्तुतो भेद एव, तदा परीक्षकाणां तद्भेदनिर्णय आवश्यक इति तेषां स्वमुखगतविशेषनिर्णयाय दर्पणाद्यादानं न स्यात्, तेषामपि तद्दर्शनात् अभेदनिश्चयस्तेषां वाच्य इत्यर्थः ।
तेषां प्रवृत्तेरन्यथासिद्धिमाह —
भेदेऽपीति ।
बिम्बप्रतिबिम्बयोः स्वरूपतो भेदे सत्यपीत्यर्थः । परीक्षकत्वादेव तेषामुक्तोपपत्तिभिर्भेदनिश्चयवत्त्वं नियमविशेषज्ञानवत्त्वं च सम्भवतीति भावः । ननु - बालानां प्रतिबिम्बगोचरहानादिक्रियापि बिम्बस्योपाधिस्थत्वभ्रमादेव सम्भवतीति अन्यथासिद्धिस्तत्रापि तुल्या । तथा च बिम्बप्रतिबिम्बयोर्भेदाभेदानुभवानां भेदाभेदप्रयुक्तार्थक्रियाणां च तुल्यत्वे सति अभेदस्य स्वाभाविकत्वकल्पनमेव युक्तम् । लाघवात्, बिम्बप्रतिबिम्बभावापन्नतयाश्रुतिसिद्धजीवब्रह्माभेदप्रतिपत्त्युपयोगितया लौकिकबिम्बप्रतिबिम्बाभेदकल्पनस्य अभेदश्रुत्युपोद्बलितत्वाच्च, प्रतिबिम्बजीवस्यैव ब्रह्माभेदसम्भवे तदतिरिक्तपारमार्थिकावच्छिन्नजीवकल्पनायाः गौरवग्रस्तत्वाच्च, ‘यथाह्ययं ज्योतिरात्मा विवस्वान्’ इत्यादिमन्त्रस्य तयोरभेदपक्ष एव स्वारस्याच्च । तत्र हि — यथा विवस्वदादेः बहुषूपाधिषु प्रतिबिम्बतत्वप्रयुक्तं नानात्वं स्वत एकत्वं, तथा चैतन्यस्य बहुषूपाधिषु प्रतिबिम्बतत्वप्रयुक्तं नानात्वं स्वत एकत्वमिति-प्रतिपाद्यते । तच्च बिम्बप्रतिबिम्बयोर्भेदपक्षे न सम्भवति । तत्पक्षे हि बिम्बचैतन्यस्यैकत्वं प्रतिबिम्बानां नानात्वमिति पर्यवसानेन एकस्यैवौपाधिकनानात्वपर्यवसानासम्भवात् । तस्माच्चैतन्यप्रतिबिम्बाङ्गीकारपक्षे लोके चैत्रप्रतिबिम्बस्थले च बिम्बप्रतिबिम्बयोरभेदपक्ष एव विवरणाद्यभिमतः श्रेयान् इति चेत्, सत्यम् । सूक्ष्मदृष्ट्या एवमेव । अत एव भामतीनिबन्धनादिषु जीवब्रह्मणोरभेदेऽपि लौकिकबिम्बप्रतिबिम्बयोरिव कल्पितभेदसत्त्वाद्धर्मव्यवस्था इति सार्वत्रिको व्यवहारः । श्रीविद्यारण्यगुरुप्रभृतिभिस्तु मन्दाधिकारिणां तत्त्वे बुद्ध्यारोहाय प्रतिबिम्बोत्पत्तिप्रक्रिया उपपादिता । मन्दाधिकारिणां हि, यथा ‘कर्तृत्वभोक्तृत्वादिसंसाराश्रयश्चिदाभासो मिथ्याभूतः, स चात्मा न भवति, आत्मा त्वसङ्गचैतन्यरूपो न संसाराश्रयः’ इति प्रक्रियया तत्त्वं बुद्धावारोहति, न तथा ‘आत्मनो ब्रह्मप्रतिबिम्बस्य स्वतस्सिद्धं ब्रह्मत्वम्, अन्तःकरणतादात्म्यात् संसाराश्रयत्वं’ इति प्रक्रियया तत्त्वं बुद्धावारोहति, लोके विरुद्धधर्मासाङ्कर्यस्य धर्मिभेदस्थल इव धर्म्यभेदस्थले स्फुटत्वाभावात् । अयं च तेषामभिप्रायः कूटस्थदीपे ‘यया यया भवेत् पुंसां’ इति वार्तिकवचनोदाहरणेन स्पष्टः । तच्च वचनं आदावेवोदाहृत्य व्याख्यातमिति संक्षेपः ।
प्रतिबिम्बस्थले दर्पणस्थत्वादिरूपसंसर्गमात्रबाधमुक्तमनूद्य प्रतिबन्द्या प्रतिबिम्बस्वरूपबाधं साधयति —
यत्त्वित्यादिना ।
आपत्तेरिति ।
तथा च शुक्तिरजतस्यानिर्वचनीयत्वं सिद्धान्ताभिमतं न स्यादिति भावः ।
अत्र यद्यपि तादात्म्यमात्रस्य बाध्यत्वेऽपि रजतस्यानिर्वचनीयस्योत्पत्तिरनिवार्या, देशान्तरस्थरजतादेस्संविदभिन्नत्वाभावेन पुरोवर्त्यभिन्नतयाप्रत्यक्षत्वानुपपत्तिः इत्युक्तत्वात्; तथापि शुक्तिरजतस्य बाधोऽप्युपपादयितुं शक्यत इति मत्वा बिम्बप्रतिबिम्बाभेदवादी शङ्कते —
यदि चेति ।
संसर्गितयेति ।
आधेयतयेत्यर्थः ।
प्रामाणिकत्वादिति ।
बाधकप्रमाणस्य शुक्तिरजत इव प्रतिबिम्बेऽपि सत्त्वेन अध्यासकल्पनागौरवस्य तन्मूलकत्वाविशेषादित्यर्थः ।
अभेदपक्षे स्वमुखगतनयनगोलकादिप्रतिबिम्बस्यापरोक्ष्यासम्भवाच्च तदध्यासकल्पनागौरवं प्रामाणिकमित्याह —
स्वनेत्रेति ।
पूर्वोक्तोपायमनूद्य निराकरोति —
नयनरश्मीनामिति ।
किरणसमूहमिति ।
सूर्यकिरणसमूहमित्यर्थः । ननु — अत्र जलस्य प्रतिघातकत्वं न कल्प्यते, किं तु जलान्तर्गतसिकतादीनाम्, अतो न नितान्तमृदुत्वम् । यथा सूर्यादिकिरणानां स्वतस्तृणादिदाहकत्वाभावेऽपि सूर्यकान्तमणिप्रतिहतानां तद्दाहकत्वं, तथा नयनकिरणानां स्वतस्सूर्यकिरणप्रतिघातकत्वाभावेऽपि प्रतिबिम्बोपाधिप्रतिहतानां तद्विजये सामर्थ्यातिशयकल्पना उपपद्यते । तथा च नोक्तदोषः —
इत्यस्वरसादाह —
कथं चेति ।
कथं च आप्यायनं न स्यादिति सम्बन्धः । अमृतमिव शीतलं यत् तस्य - चन्द्रप्रतिबिम्बस्य बिम्बं तत्सन्निकर्षाविशेषे इत्यर्थः । आप्यायनम् - औष्ण्यशान्तिः । यदा पुमानधोमुखः सन् जलाशयादौ चन्द्रमण्डलप्रतिबिम्बं नैरन्तर्येण पश्यति तदा लोचनयोश्शैत्याभिव्यक्त्यादिकंस्यात्, बिम्बप्रतिबिम्बयोरभेदेन प्रतिबिम्बसन्निकर्षस्यैव बिम्बसन्निकर्षत्वादित्यर्थः ।
ननु लोचनयोश्शैत्याभिव्यक्तिश्चन्द्रसन्निकर्षादिकृता न भवति, किं तु तयोश्चन्द्रकिरणसंसर्गसन्ततिकृता, तथा च अधोमुखस्य लोचनयोस्तदभावात् चन्द्रसन्निकर्षतद्दर्शनसत्त्वेऽपि न शैत्याभिव्यक्त्यादिप्रसक्तिः - इत्यस्वरसादाह —
कथं च जलेति ।
कथं च न प्रतिहन्येरन्निति सम्बन्धः । प्रतिहन्येरन्नेवेत्यर्थः ।
ततः किं, तत्राह —
तत्प्रतिहत्येति ।
नयनगोलकादिभिः कथं न संसृज्येरन्निति सम्बन्धः ।
ततोऽपि किं, तत्राह —
तत्संसर्गे वेति ।
शिलादिदर्शनकाले शिलादिना प्रतिहता नयनरश्मयः स्वमुखगतनयनगोलकादिभिस्संसृष्टाश्चेत् संसृष्टं नयनगोलकादिकं कथं न साक्षात्कारयेयुः । साक्षात्कारयेयुरेवेत्यर्थः ।
ननु दोषबलात् संसृष्टमपि न साक्षात्कारयेयुः, अतो नोक्तदोषः, इत्यत आह —
दोषेणापि हीति ।
दृश्यत इति ।
शुक्तिरजतादिभ्रमस्थलेष्विति शेषः । तथा च शिलादिसन्निकर्षकाले मुखत्वादिसामान्यरूपेण वा स्वमुखसाक्षात्कारप्रसङ्ग इति भावः । वस्तुतस्तु - अनन्यथासिद्धफलबलात् स्वच्छद्रव्यस्य तत्संसृष्टस्य वा प्रतिविम्बोदययोग्यस्यैव प्रतिघातकत्वमुपेयते, अतो नोक्तदोष इति बोध्यम् ।
एवं बिम्बप्रतिबिम्बाभेदपक्षे दृष्टविरोधबाहुल्यं आपाततो दर्शयित्वा प्रतिबिम्बाध्यासोत्पत्तिपक्षमुपपादयति —
प्रतिमुखाध्यासपक्षे त्विति ।
कारणत्वं प्रतिबन्धकत्वं च कल्पनीयमिति सम्बन्धः ।
स्वाश्रयेति ।
महत्त्वोद्भूतरूपाश्रयद्रव्यगोचरचाक्षुषत्वावच्छिन्नं प्रति घटादिचाक्षुषे कॢप्तयोरित्यर्थः । द्वितीयस्वपदमपि स्थौल्योद्भूतरूपपरम् ।
अध्यासेऽपीति ।
बिम्बभूतमुखादिचाक्षुष इव स्वाश्रयमुखादेर्यः प्रतिबिम्बरूपोऽध्यासः तदुत्पत्तावपीत्यर्थः ।
यदुक्तं प्रतिबिम्बाध्यासं प्रति कुड्यादेस्साक्षात्प्रतिबन्धकत्वस्वीकारे अन्यत्रापि तथात्वापत्त्या सन्निकर्षमात्रविलोपप्रसङ्ग इति, तन्न - सन्निकर्षहेतुत्वग्राहकप्रमाणानुरोधेन सन्निकर्षविघटनद्वारैव तस्य प्रत्यक्षप्रतिबन्धकत्वाभ्युपगमात् - इत्याशयेन सन्निकर्षस्य हेतुत्वग्राहकप्रमाणं सूचयति —
त्वगिन्द्रियेति ।
त्वगिन्द्रियस्य विषयं प्राप्तस्यैव विषयप्रत्यक्षकारित्वदर्शनात् तद्दृष्टान्तेन नयनादेरपि प्राप्यकारित्वमवगतमित्यर्थः । व्यवहितेति छेदः ।
व्यवहितप्रतिबिम्बेति ।
कुड्यादिव्यवहितस्य मुखादेः प्रतिबिम्बाध्यासे साक्षात्प्रतिबन्धकत्वं कल्पनीयम्, अन्यथा प्रतिबिम्बोत्पत्तिपक्षे बिम्बसन्निकर्षस्य हेतुत्वानुपगमेन व्यवहितस्यापि प्रतिबिम्बप्रसङ्गस्य प्राग्दर्शितत्वादित्यर्थः । तत्र कल्पने को विरोध इति सम्बन्धः । तस्मिन् कल्पने इत्यर्थः ।
अव्यवहितत्वस्थूलत्वोद्भूतरूपाणां मुखादिप्रतिबिम्बाध्यासोपयोगकल्पनस्य प्रयोजनमाह —
एतेनेति ।
आदिपदं स्थौल्यसङ्ग्रहार्थम् ।
उक्तेति ।
व्यवहितादिप्रतिबिम्बप्रसङ्ग इत्यर्थः ।
प्रसङ्गप्रकारानभिज्ञः पृच्छति —
कथमिति ।
तमाह —
साक्षादिति ।
गगनस्थसूर्यावलोकने चक्षुर्विक्षेपः कॢप्तः, तं विनेत्यर्थः । अवनतमौलिना-अधोमुखेन ।
तिर्यगिति ।
स्वाभिमुखे दर्पणे स्वप्रतिबिम्बग्रहणकाले स्वपार्श्वस्थितपुरुषप्रतिबिम्बग्रहणमप्यस्ति । प्रतिबिम्बाभावकाले स्वपार्श्वस्थितपुरुषग्रहणाय स्वचक्षुषस्तिर्यग्विक्षेपोऽस्ति । ऋजुचक्षुषा स्वाभिमुखपुरुषस्येव स्वपार्श्वस्थितपुरुषस्य ग्रहणादर्शनात् । तथा च स्वाभिमुखे दर्पणे स्वपार्श्वस्थितपुरुषप्रतिबिम्बग्रहणाय चक्षुषस्तिर्यग्विक्षेपं विना दर्पणप्रतिहतानां स्वपार्श्वस्थितपुरुषग्राहकत्ववत् इत्यर्थः ।
वदनेति ।
वदनसाचीकरणं नाम चक्षुषा स्वपृष्ठभागव्यवहितपदार्थग्रहणानुकूलो वदनव्यापारः ।
प्रतिनिवृत्तिनियममिति ।
नयनगोलकाभिमुखविषयप्रतिहतानां पुनर्गोलकद्वारा शरीरान्तःप्रवेशनियममित्यर्थः । ननु - प्रतिनिवृत्तिनियमाभावपक्षेऽपि बिम्बसन्निकर्षविघटकव्यवधानाभावापेक्षाऽस्ति ।
अवनतमौलिनयनरश्मीनां सूर्यप्राप्तिस्थले, ऋजुचक्षुषा दर्पणे विलोक्यमाने दर्पणप्रतिहतानां पार्श्वस्थपुरुषप्राप्तिस्थले च, सन्निकर्षविघटकाभावात् तत्प्राप्तिःसम्भवति ।
प्रकृते च शरीरतदवयवानां व्यवधायकानां सत्त्वात् दर्पणप्रतिहतानां न पृष्ठभागव्यवहितवस्तुप्राप्तिः---इत्यस्वरसादाह —
तथेति ।
उपाधिप्रतिहतनयनरश्मीनां प्रतिनिवृत्तिनियमाभावपक्षे पृष्ठभागव्यवहितस्य प्रतिबिम्बापत्तिवत् नीरूपवाय्वादेरपि चाक्षुषप्रतिबिम्बापत्तिरिति दूषणान्तरसमुच्चयार्थः तथाशब्दः ।
ननु - नीरूपस्यापि वाय्वादेः दर्पणाद्युपाधिगतरूपोपधानेन चाक्षुषप्रतिबिम्बभ्रमविषयत्वं दुर्वारमित्यनुपपन्नम्, द्रव्यस्य चाक्षुषप्रतिबिम्बभ्रमे बिम्बगतस्य महत्त्ववत् उद्भूतरूपस्यापि कारणत्वात् - इत्याशङ्क्य, द्रव्यगोचरचाक्षुषप्रतिबिम्बभ्रमे बिम्बगतरूपस्यानुपयोगात् नैवमित्याह —
मलिनेति ।
मलिनदर्पणे गौरमुखस्य प्रतिबिम्बे सति प्रतिबिम्बं श्यामतया गृह्यते, न गौरतया । तथा च तत्र (गौरमुखे) आरोप्येणैव श्यामरूपेण उपहितस्य गौरमुखस्य चाक्षुषत्वं निर्वाह्यमित्यर्थः ।
आरोप्यरूपेणैव क्वचिद्द्रव्यस्य चाक्षुषत्वे दृष्टान्तमाह —
पीतशङ्खेति ।
कवितार्किकमतोपपादनावसरे शङ्खस्य आरोप्यपीतरूपविशिष्टतयैव भ्रमस्थले चाक्षुषत्वं नान्यथेत्युक्तमिति भावः । वस्तुतस्तु - द्रव्यचाक्षुषे द्रव्यगतमेवोद्भूतरूपं कारणमिति न नीरूपद्रव्यस्य चाक्षुषप्रतिबिम्बभ्रमविषयत्वं प्रसज्ज्यते । मलिनदर्पणे गौरमुखप्रतिबिम्बभ्रमस्थले पीतशङ्खादिभ्रमस्थले च ‘श्यामं मुखं, पीतश्शङ्खः’ इत्यादिभ्रमप्राचीनधर्मिज्ञानेऽध्यासकारणभूते गौरशुक्लादिरूपस्य कारणतया उपयोगाभावासिद्धेः, द्रव्यचाक्षुषे रूपविषयकत्वनियमाभावस्य कवितार्किकग्रन्थव्याख्यानावसरे दर्शितत्वेन पीतशङ्खभ्रमसम्भवाच्च - इति बोध्यम् ।
आरोप्यरूपविशिष्टतयैव चाक्षुषत्वे उदाहरणान्तरमाह —
स्वत इति ।
सम्प्रतिपत्तेरित्यापाततः । गगनस्य चाक्षुषवृत्तिविषयत्वं कवितार्किकमात्रसम्मतं, न तु पूर्वाचार्यसम्मतम् । आचार्याणां मते तु गगनव्यापिसौरालोकादिगोचरचाक्षुषवृत्त्या आलोकाद्यवच्छिन्नचैतन्याभिव्यक्तिकाले आलोकाद्यनुगतगगनावच्छिन्नचैतन्यस्याप्यभिव्यक्तिं स्वीकृत्य अभिव्यक्ते गगनावच्छिन्ने साक्षिणि नैल्याद्यध्यासाभ्युपगमेन नैल्यादिविशिष्टगगनस्य साक्षिमात्रभास्यत्वादिति ध्येयम् ।
तस्मादिति ।
दृष्टविरोधरूपबाधकाभावात् साधकसत्त्वाच्चेति भावः ।
श्रेयानिति ।
मन्दाधिकारिणःप्रति इति वस्तुगतिः ।
उपाधिप्रतिहतानां बिम्बप्राप्त्यनुपगमे अध्यस्यमानमुखसजातीयगोचरपूर्वानुभवासम्भवात् अध्यासकारणसंस्कारानुपपत्तिः इत्युक्तमनूद्य निराकरोति —
न च तत्रापीति ।
प्रतिबिम्बाध्यासपक्षे स्वसंस्कारदौर्धट्यमपि न चेत्यर्थः ।
अदृष्टचरेति ।
कदाप्यननुभूतेत्यर्थः । ननु मुखसामान्यानुभवजन्यसंस्कारस्य प्रतिमुखाध्यासहेतुत्वे चैत्रमुखदर्पणयोः सान्निध्ये सति यस्य कस्यापि मुखस्याध्यासप्रसङ्गः स्वप्नवदेव, न तु नियमेनाभिमुखमुखाध्यासः —
इत्याशङ्क्य व्यवस्थामाह —
इयांस्तु भेद इति ।
स्वप्नप्रतिबिम्बाध्यासयोरिति शेषः ।
आदौ त्रिविधजीववादिनामिति विशेषणेन सूचितं परिहारमाविष्करोति —
प्रतिबिम्बजीवस्येति ।
मुक्तिभाक्त्वं-ब्रह्माभेदः ।
प्रतिबिम्बस्य मिथ्यात्वदार्ढ्याय तत्सत्यत्वमतं दूषयितुमनुभाषते —
यत्त्विति ।
ननु वृक्षादिच्छायायाः नैल्यदर्शनात् प्रतिबिम्बेषु प्रायेण नैल्यादर्शनेन छायावैलक्षण्यसत्त्वात् प्रतिबिम्बस्य छायारूपत्वमनुपपन्नं — इति शङ्कानिराकरणार्थं विशेषपदम् । तथा च बिम्बभिन्नोऽपि मुखाद्याभासश्शुक्तिरजतादिवत् प्रातिभासिको न भवति, किं तु बिम्बवत् सत्यः, छायाविशेषरूपत्वाभ्युपगमात्तस्य इत्यर्थः ।
छायाया नीलरूपत्त्वनियमात् तद्विशेषरूपत्वं प्रतिबिम्बस्य न सम्भवतीति छायास्वरूपकथनपूर्वकं दूषयति —
तन्नेति ।
शरीरादेश्छाया नाम तम एव, नान्यदिति प्रसिद्धमित्यर्थः । कियद्देशव्यापिन्यालोके शरीरतदवयवैर्निरुद्धे सतीति सम्बन्धः ।
न चेति ।
मौक्तिकस्फटिकादिप्रतिबिम्बस्य सितरूपवतः तद्विरुद्धतमोरूपच्छायात्वं न युक्तं, तथा माणिक्यकनकादिप्रतिबिम्बस्य लोहितपीतरूपादिमतः तद्विरुद्धतमोरूपच्छायात्वं न युक्तमिति विभज्य योजनीयम् । तपनादेश्छायैव नास्तीति तत्प्रतिबिम्बस्य छायारूपत्वमनुपपन्नमेवेत्यर्थः ।
तमोवदिति ।
यथा तमसो द्रव्यस्य कॢप्तद्रव्यानन्तर्भावे सिद्धान्ते दशमद्रव्यत्वं कल्पितं तद्वदित्यर्थः । प्रथमे कथं सत्यतानिर्वाह इति सम्बन्धः ।
यद्येकमपि दर्पणं विशालं स्यात् तदा अनेकप्रतिबिम्बानामसङ्कीर्णतया तत्रावस्थानं सम्भवेदिति शङ्कावारणायाह —
अल्पेति ।
अल्पपरिमाणानामपि दर्पणानामनेकत्वे सति एकैकस्मिन् दर्पणे एकैकं प्रतिबिम्बमसङ्कीर्णतयाऽवतिष्ठेत, तदपि नास्तीत्याह —
एकस्मिन्निति ।
एकस्मिन्नल्पपरिमाणेऽपि दर्पणे क्रमेण अनेकप्रतिबिम्बानामसङ्कीर्णता स्यात्, तदपि नास्तीत्याह —
युगपदिति ।
प्रतिबिम्बस्य मिथ्यात्वे तु नायं दोषो भवति । स्वप्नदशायां स्वल्पेऽपि शरीरस्यान्तराकाशे रथगजादिपदार्थानां तदुचितवैशाल्यस्य चाध्यासवत् अल्पपरिमाणेऽपि दर्पणे परस्परमसङ्कीर्णतया अनेकप्रतिबिम्बानां तदुचितवैशाल्यस्य चाध्याससम्भवादिति भावः । कथं च द्रव्यान्तरस्योत्पत्तिरिति सम्बन्धः । सत्यस्येति शेषः ।
सामग्र्यभावाच्च न तस्योत्पत्तिः सम्भवतीत्याह —
किं चेति ।
दर्पणस्य यो वर्णः स एव प्रतिबिम्बस्यापीति नियमसत्त्वे तद्वर्णयुक्तं किञ्चित्कारणं दर्पणे सम्भाव्येत, न त्वेतदस्ति, दर्पणरूपविलक्षणनानारूपवतां प्रतिबिम्बानामनुभवात्-इत्याह —
अनेकेति ।
सितपीतरक्ताद्यनेकवर्णयुक्तानां बिम्बानामेव कारणत्वमस्तु, नेत्याह —
दर्पणमध्ये स्थितमिति ।
तेषां निमित्तत्वेऽप्युपादानत्वं न सम्भवति, प्रतिबिम्बोत्पत्तिदेशे तेषामभावादित्यर्थः ।
तादृशमिति ।
सितपीतरक्ताद्यनेकवर्णयुक्तं कारणं प्रतिबिम्बोदयकाले नियमेन नास्ति, अनुपलम्भादित्यर्थः । प्रतिबिम्बं हि दर्पणस्यान्तः दर्पणस्य पृष्ठभागे दर्पणसन्निहितमनुभूयते, न तु दर्पणगतरूपपरिमाणादिवद्दर्पणस्योपरिभागे । ततस्तत्कारणेनापि तत्रैव भवितव्यमिति मत्वा दर्पणमध्ये स्थितं तत्सन्निहितमित्युक्तम् । मध्यशब्दोऽन्तरर्थकः । प्रतिबिम्बस्वरूपमात्रं सत्यं तत्र प्रतीयमानधर्मास्तु कल्पिता एवेति —
तत्सत्यत्वेऽभिनिविशमानश्शङ्कते —
यद्युच्येतेति ।
वस्तुगत्या उपाधिमध्ये विश्रान्तियोग्यान्येव प्रतिबिम्बान्युत्पद्यन्ते, तेषु महापरिमाणादिकं भ्रान्त्या भासत इत्यर्थः ।
कल्प्यमिति ।
नीवारावयवेषु व्रीह्यवयवा यथा मीमांसकैः कल्प्यन्ते, तद्वत् दर्पणावयवसंसृष्टाः प्रतिबिम्बावयवाः कल्प्या इत्यर्थः ।
प्रतिबन्दीमाह —
तर्हीति ।
पूर्वोक्तदृष्टान्तं मनसि निधाय शुक्तिरजतस्यापि कारणं कल्पयति —
तत्रापीति ।
शुक्तिरजतस्थलेऽपीत्यर्थः । ननु-शुक्तिरजतं सत्यमिति स्वीकारे तस्य शुक्तौ सदा सत्त्वात् शुक्तिप्रत्यक्षकाले नियमेन तदपि गृह्येत, न च गृह्यते ।
अतो न तस्य सत्यत्वं सम्भवति - इत्याशङ्कां परिहरति —
तस्येति ।
ततः किं, तत्राह —
किमिति ।
अर्धजरतीयन्यायेनेति ।
जरती-वृद्धा, तस्याः अर्धं-मुखमात्रं कामयते नाधःकायं इत्येतद्यथा उपपत्तिशून्यम्, एवमिदमपीत्यर्थः ।
ननु प्रसिद्धरजतमग्नौ क्षिप्तं द्रवीभवति, शुक्तिरजतं तु न तथेति तस्य मिथ्यात्वमेवेति मत्वा शङ्कते —
न च तथासतीति ।
तस्य सत्यत्वे सतीत्यर्थः ।
प्रतिबन्दीं समर्थयते —
अनलेति ।
यद्यप्यत्र इष्टापत्तिरेव, प्रतिबिम्बसत्यत्ववादिमते शुक्तिरजतादेरपि सत्यत्वसम्भवात्, तथापि प्रतिबन्दीव्याजेन शुक्तिरजतादेरपि मिथ्यात्वनिरूपणे तात्पर्यं बोध्यम् ।
प्रतिबन्द्याः परिहारं शङ्कते प्रतिबिम्बसत्यत्ववादी —
अथोच्येतेति ।
परिहारसाम्यमाह —
तर्हीति ।
मिथ्यैवात्रेति ।
बिम्बप्रतिबिम्बाभेदपक्षे प्रतिबिम्बमिथ्यात्वानुभवः प्रतिबिम्बत्वविशिष्टवेषेण प्रतिबिम्बगोचरः न स्वरूपेणेति बोध्यम् । ननु — तर्हि शुक्तिरजतमिथ्यात्वानुभवोऽपि इदमर्थतादात्म्यापन्नतयैव रजतगोचरः न स्वरूपेणेति वक्तुं शक्यतया रजतेदमर्थयोस्तादात्म्यमात्रं कल्पितं रजतं त्वकल्पितमिति प्रसज्येत - इति चेत्, न — रजतस्य शुक्तावनुत्पत्तौ तस्य संविदभिन्नत्वाभावेन प्रत्यक्षत्वानुपपत्तेः तस्य तत्रोत्पत्तिरपरिहार्या, तदुत्पत्तौ च अन्वयव्यतिरेकाभ्यामनिर्वचनीयाज्ञानमेव कारणं नान्यदिति प्राक्प्रतिपादितत्वेन तस्य मिथ्यात्वोपपत्तेः, पूर्वोक्तरीत्या बिम्बप्रतिबिम्बाभेदसाधकप्रमाणसत्त्ववच्छुक्तिरजतसत्यत्वसाधकानन्यथासिद्धप्रमाणाभावेन शुक्तिरजतमिथ्यात्वानुभवस्य रजतस्वरूपगोचरत्वोपपत्तेश्च तस्य मिथ्यात्वमिति भावः ।
तस्मादिति ।
बिम्बभिन्नस्य सत्यत्वे मानाभावादित्यर्थः ।
नन्विति ।
प्रतिबिम्बाध्यासपक्षे हि तस्योपादानमज्ञानं निवर्तकं ज्ञानञ्च वाच्यम्, तच्च न सम्भवति । सर्वात्मना दर्पणादिरूपाधिष्ठानगोचरसाक्षात्कारेण दर्पणाद्यवच्छिन्नचैतन्यनिष्ठाज्ञानस्य निवृत्तत्वात्, तादृशसाक्षात्कारे सत्येवानुवर्तमानस्य प्रतिबिम्बाध्यासस्य तन्निवर्त्यत्वायोगात्तन्निवर्तकज्ञानान्तरानुपलम्भाच्च । ज्ञानैकनिवर्त्यत्वं विना तस्य मिथ्यात्वानुपपत्तेः । तस्मात् तन्मिथ्यात्ववादोऽप्यसङ्गत इत्याक्षेपाभिप्रायः । यथा शुक्तिरजते शुक्त्यज्ञानस्य तत्कारणस्यान्वयव्यतिरेकसिद्धस्य पूर्वं निरूपणं कृतं, तथा प्रतिबिम्बाध्यासे दर्पणाद्यज्ञाने सति प्रतिबिम्बाध्यासः तदभावे तदभावः इत्यन्वयव्यतिरेकशालिनस्तत्कारणस्याज्ञानस्य कस्यचिदनिरूपणात् तन्निवर्तकज्ञानस्य चानिरूपणादित्यक्षरार्थः ।
परिहरति —
अत्रकेचिदिति ।
आक्षेपाभिप्रायमनुवदति —
यद्यपीति ।
सर्वात्मनेति ।
शुक्तौ रजताध्यासात् पूर्वं इदन्त्वात्मना साक्षात्कारसत्त्वेऽपि शुक्तित्वादिविशेषात्मना साक्षात्कारो नास्तीति तत्र अधिष्ठानविशेषांशावरणमज्ञानमुपादानं लभ्यते । प्रकृते तु चक्षुस्सन्निकृष्टे दर्पणे प्रतिबिम्बाध्यासात् पूर्वं इदन्त्वात्मनेव दर्पणत्वादिविशेषात्मनाऽपि साक्षात्कारसत्त्वेन सर्वात्मनाऽधिष्ठानसाक्षात्कारोऽस्ति । तथा च तेन अधिष्ठानविशेषावरणस्याज्ञानस्य निवृत्तत्वान्न तदुपादानं सम्भवतीत्येतत् युक्तमेवेत्यर्थः । अपिरवधारणे ।
निवर्तकमिति ।
प्रतिबिम्बाध्यासस्येति शेषः ।
कथं तर्ह्युपादानादिलाभः, तत्राह —
तथापीति ।
तदेवेति ।
अधिष्ठानाज्ञानमेवेत्यर्थः । सर्वात्मनाऽधिष्ठानसाक्षात्कारेणाऽपि अज्ञानैकदेशस्यैव निवृत्तिः न तु कार्त्स्न्येनेति फलबलात् कल्प्यत इति भावः ।
निवर्तकज्ञानं च निरूपयति —
बिम्बेति ।
बिम्बोपाध्योस्सन्निधिनिवृत्तिसहकृतं ‘दर्पणे मुखं नास्ति’ इति ज्ञानमेव प्रतिबिम्बाध्यासस्य निवर्तकमित्यर्थः । दर्पणाद्यवच्छिन्नचैतन्ये दर्पणाद्युपादानभूतं मूलाज्ञानमेकमस्ति ।
दर्पणादिज्ञाननिवर्त्यमवस्थारूपाज्ञानमप्यपरमस्ति ।
तत्र मूलाज्ञानस्यैव दर्पणाद्युपादानत्ववत् प्रतिबिम्बाध्यासोपादानत्वमपीति परिहारान्तरमाह —
अन्ये त्विति ।
ननु पूर्वमतोक्तरीत्या शुक्तिरजतादेरिव प्रतिबिम्बाध्यासस्याप्यवस्थाज्ञानपरिणामत्वसम्भवे किं मूलाज्ञानस्य तत्कल्पनयेति, नेत्याह —
ज्ञानस्येत्यादिना ।
ज्ञानस्यावरणमात्रनिवर्तकत्वं किं स्वाभाविकं किं वा विक्षेपशक्त्यंशनिवृत्तिप्रतिबन्धकसत्त्वप्रयुक्तम् ।
नाद्य इत्यत्र हेतुमाह —
ब्रह्मज्ञानेनेति ।
तस्येति ।
द्विविधस्याप्यज्ञानस्य निवर्तकाभावेन विक्षेपशक्तिसहकृतस्य विदेहकैवल्येऽप्यनुवृत्तिप्रसङ्गादित्यर्थः ।
द्वितीयमनुवदति —
न चेति ।
तदिति ।
आवरणमात्रनिवर्तकत्वमित्यर्थः ।
विक्षेपशक्तिमदज्ञानांशनिवृत्तिप्रतिबन्धकप्रारब्धनाशे सति ब्रह्मज्ञानसंस्कारविशिष्टचैतन्यमात्रादेव विक्षेपांशनिवृत्तिसम्भवात् न पूर्वोक्तदोष इति मत्वा दोषमाह —
बिम्बोपाधिसन्निधानात् प्रागिति ।
बिम्बोपाध्योराभिमुख्यलक्षणसन्निधानात् पूर्वक्षण एवेत्यर्थः । बिम्बप्रतिबिम्बाभेदपक्षे प्रतिबिम्बोत्पत्त्यभावेऽपि चैत्रस्य मुखे बिम्बभूते बिम्बत्वप्रतिबिम्बत्वदर्पणस्थत्वादेरनिर्वचनीयस्योत्पत्त्युपगमेन तस्य चैत्रमुखावच्छिन्नचैतन्यनिष्ठावस्थाज्ञानमेव कारणं वाच्यम् । तच्च चैत्रमुखे बिम्बदर्पणाभिमुख्यात् प्राक् विष्णुमित्रेण निरीक्ष्यमाणे सति तदा प्रतिबन्धकाभावाच्चैत्रमुखगोचरेण विष्णुमित्रीयसाक्षात्कारेण विक्षेपशक्त्या सह निवर्तते, उत्तरक्षण एव चैत्रमुखस्य दर्पणाभिमुख्ये सति विष्णुमित्रस्य दर्पणे चैत्रस्य मुखमिति प्रतिबिम्बभ्रमो भवति ।
तत्र चैत्रमुखे दर्पणस्थत्वादेरुत्पत्तिर्न स्यात्, उपादानाभावादित्याह —
बिम्ब इति ।
दर्पणसंसर्गो दर्पणस्थत्वम् । आदिपदं प्रत्यङ्मुखत्वादिसङ्ग्रहार्थम् । तथा च संसर्गाद्यभावे प्रत्यक्षतोऽवगम्यमान इति सम्बन्धः । ‘चैत्रमुखे दर्पणस्थत्वादिकं नास्ति’ इत्यवगतिप्रकारो बोध्यः ।
दर्पणे प्रतिबिम्बाध्यासोत्पत्तिपक्षे अवगतिप्रकारमाह —
दर्पण इति ।
प्रतिबिम्बाध्यासपक्षे संसर्गितया प्रतिमुखस्यैवाध्यासोपगमात् ‘दर्पणे चैत्रमुखं नास्ति’ इत्यनेन प्रकारेण दर्पणे चैत्रमुखाभावे प्रत्यक्षतोऽवगम्यमाने इत्यर्थः । एवं मतभेदेनाधिष्ठानभेदतत्साक्षात्काराकारभेदयोः प्रदर्शनार्थमेव चैत्रमुखे दर्पणे च पृथक् सप्तमीनिर्देशः कृतः । मतभेदज्ञापनार्थश्च वाकारः ।
तत्काल इति ।
अधिष्ठानभूते चैत्रमुखे दर्पणे च विक्षेपशक्त्यासहाज्ञाननिवर्तकसाक्षात्कारोत्पत्तिद्वितीयक्षणे इत्यर्थः ।
तयोरिति ।
चैत्रमुखदर्पणयोः सन्निधाने सति अधिष्ठानसाक्षात्कारवतो विष्णुमित्रस्य ‘दर्पणे चैत्रमुखं, इति यः प्रतिबिम्बभ्रमो भवति तस्याभावप्रसङ्गात् इत्यत्र हेतुमाह —
उपादानाभावेनेति ।
तत्र हेतुमाह —
विक्षेपशक्त्यंशस्यापि निवृत्त्यवश्यंभावेनेति ।
अत इति ।
अवस्थाज्ञानस्य प्रतिबिम्बाध्यासे कारणत्वायोगादित्यर्थः । ननु - अस्मिन् पक्षेऽपि बिम्बोपाधिसन्निधानात् पूर्वक्षणोत्पन्नचैत्रमुखादिसाक्षात्कारेण चैत्रमुखाद्यवच्छिन्नचैतन्यावारकमूलाज्ञानस्यापि निवृत्तत्वादुपादानाज्ञानाभावदोषस्तुल्यः ।
तेन तदनिवृत्तौ च चैत्रमुखाद्यनवभासप्रसङ्गः, यत्किञ्चिदावरणस्य सत्त्वात्-इत्याशङ्क्याह —
न चात्रापीति ।
ब्रह्मज्ञानस्यैव मूलाज्ञाननिवर्तकत्वं, जडविषयकवृत्तिरूपाणामन्तःकरणपरिणामानां तु स्वस्वविषयचैतन्यस्थमूलाज्ञानस्य योऽयमावरणांशः तदभिभावकत्वमात्रं यावद्विषयस्फुरणमङ्गीक्रियते, न त्ववस्थाज्ञानविक्षेपांशनिवर्तकत्ववत् मूलाज्ञानविक्षेपांशनिवर्तकत्वमपीत्यर्थः ।
अन्यथेति ।
विषयचैतन्यस्थस्य मूलाज्ञानस्य विषयज्ञानेन निवृत्तौ दर्पणादीनां व्यावहारिकाणां विक्षेपशब्दितकार्याणां नाशप्रसङ्गः, उपादाननाशादित्यर्थः । प्रातिभासिकविक्षेपाणाभिवेत्यपिशब्दार्थः ।
ननु मूलाज्ञानकार्यस्य दर्पणादेर्व्यावहारिकत्वदर्शनात् प्रतिबिम्बाध्यासस्यापि तत्कार्यत्वे तदापत्तिरित्याशङ्क्य निराकरोति —
न चेत्यादिना ।
मूलाज्ञानकार्यत्वं व्यावहारिकत्वप्रयोजकं न भवति, अनाद्यविद्यादौ तदभावेऽपि व्यावहारिकत्वसत्त्वात्, किं त्वन्यदेव तत्प्रयोजकमित्याह —
अविद्यातिरिक्तेति ।
अनाद्यविद्यादौ अविद्याजन्यत्वाभावेऽपि तदतिरिक्तदोषाजन्यत्वसत्त्वात् नाव्याप्तिरित्ति भावः ।
प्रतिबिम्बाध्यासस्य मूलाज्ञानकार्यस्यापि न व्यावहारिकत्वम्, तत्प्रयोजकाभावादित्याह —
प्रकृते चेति ।
प्रतिबिम्बाध्यासे इत्यर्थः ।
न चैवंसतीति ।
प्रतिबिम्बाध्यासस्य मूलाज्ञानकार्यत्वे सतीत्यर्थः ।
तन्मूलेति ।
शुक्तिरजतादिमूलाविद्यानिवर्तकशुक्त्यादिसाक्षात्कारस्यैव रजताद्यध्यासनिवर्तकत्वदर्शनादिति भावः ।
विरोधाभावादिति ।
मूलाज्ञानं ब्रह्मविषयकं प्रतिबिम्बाध्यासाधिष्ठानभूतदर्पणादिज्ञानं तु दर्पणाद्यवच्छिन्नचैतन्यविषयकमिति तयोःसमानविषयकत्वस्य विरोधप्रयोजकस्याभावेन विरोधाभावात् अधिष्ठानयाथात्म्यज्ञानस्य ब्रह्माज्ञानानिवर्तकत्वेऽपीत्यर्थः । तत्पदं ब्रह्माज्ञानपरम् ।
विरोधिविषयकतयेति ।
दर्पणेमुखंनास्तीत्यादिरूपस्याधिष्ठानयाथात्म्यज्ञानस्य प्रतिबिम्बाध्यासाभावविषयकतयेत्यर्थः । ननु — प्रतिबिम्बाध्यासस्यावस्थाज्ञानोपादानकत्वपक्षे बिम्बोपाधिसन्निधिनिवृत्तिसहकृताधिष्ठानज्ञानस्य तदुपादानाज्ञाननिवर्तकत्वं लभ्यते । तथा च ‘ज्ञानमज्ञानस्यैव निवर्तकम्, अज्ञानकार्यस्य तु उपादानाज्ञाननिवृत्त्या निवृत्तिः’ इति पञ्चपादिकाकारोक्तं सङ्गच्छते —
इत्याशङ्क्याह —
अवस्थाज्ञानेति ।
तस्येति ।
अवस्थाज्ञानस्येत्यर्थः ।
प्राचीनेति ।
प्रतिबिम्बाध्यासात्प्राचीनेनाधिष्ठानज्ञानेनदर्पणेमुखंनास्तीत्याद्याकारेण निवर्तिता आवरणशक्तिः यस्यावस्थाज्ञानस्य तत्तथा, तस्येत्यर्थः । अज्ञानविषयत्वं अज्ञानावृतत्वम्, आवरणनाशे च दर्पणाद्यवच्छिन्नचैतन्यस्य अवस्थाऽज्ञानविषयत्वाभावात् अधिष्ठानज्ञानस्य अवस्थाज्ञानसमानविषयकत्वं विरोधप्रयोजकं भग्नमित्यर्थः । प्रतिबन्धकपदं बिम्बोपाध्योस्सन्निधिपरम् । तस्य निवर्तयितुमशक्यतया इति सम्बन्धः ।
तन्निवर्त्येति ।
तत्पदमधिष्ठानज्ञानपरम् । अवस्थाज्ञानोपादानत्वपक्षेऽपि प्रतिबिम्बाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वादिति सम्बन्धः । तथा च पञ्चपादिकाविरोधः प्रतिबिम्बाध्यासस्यावस्थाज्ञानोपादानकत्वपक्षेऽपि तुल्य इति भावः ।
तदविरुद्धं प्रकारमाह —
अथवेति ।
स्वपदं प्रतिबिम्बाध्यासपरम् ।
निवर्त्य एवेति ।
बिम्बोपाध्योस्सन्निधिविगमकाले प्रतिबिम्बाध्यासस्य सूक्ष्मावस्थालक्षणनाशे सत्यपि बाधरूपा निवृत्तिस्तदा नास्ति, सा तु ब्रह्मज्ञानाधीनैव, तस्यैव तदुपादानमूलाज्ञाननिवर्तकत्वादिति भावः ।
ननु ब्रह्मज्ञानबाध्यस्य घटादेरिव तद्बाध्यस्यास्यापि व्यावहारिकत्वापत्तिरिति, नेत्याह —
व्यावहारिकत्वापत्तिस्त्विति ।
तुशब्दोऽवधारणे । प्रत्युक्तैवेति सम्बन्धः । बिम्बोपाधिसन्निधिर्दोषः ।