कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
प्रपञ्चमिथ्यात्वस्य मिथ्यात्वनिरूपणम्
प्रकारान्तरेण प्रपञ्चस्य सत्यत्वं शङ्कते —
नन्विति ।
वक्तव्यमिति ।
सिद्धान्तिनेति शेषः ।
ननु मिथ्याभूतस्यापि मिथ्यात्वस्य स्वाश्रये प्रपञ्चे स्वविरोधिसत्यत्वप्रतिक्षेपकत्वात् तस्य सत्यत्वक्षतिरपरिहार्येत्याशङ्कां सिद्धान्तिसम्मतदृष्टान्तेन परिहरति —
मिथ्याभूतमिति ।
सप्रपञ्चत्वम् — प्रपञ्चतादात्म्यम्, निष्प्रपञ्चत्वं च प्रपञ्चात्यन्ताभाववत्त्वम्, तच्च वास्तवम् । व्यावहारिकप्रपञ्चात्यन्ताभावस्य ब्रह्मणि परमार्थत्वाभ्युपगमात् । अतः सप्रपञ्चत्वनिष्प्रपञ्चत्वयोर्यथा एकत्राविरोधः, तथा मिथ्यात्वसत्यत्वयोरप्यविरोध इति भावः ।
मिथ्यात्वधर्मो मिथ्याभूत इति पक्षमेव परिगृह्य समाधत्ते —
अत्रोक्तमिति ।
समानस्वभावमिति ।
समानसत्ताकमित्यर्थः । वियदादिप्रपञ्चश्च व्यावहारिकसत्ताक इति भावः ।
ननु - आरोपितघटत्वादेः आरोपाधिष्ठानभूते स्वाश्रये स्वविरुद्धाघटत्वादिप्रतिक्षेपकत्वादर्शनात् सत्यमेव घटत्वादि स्वाश्रये स्वविरुद्धधर्मप्रतिक्षेपकत्वेन कल्पनीयमिति कथं मिथ्याभूतं मिथ्यात्वं स्वधर्मिणि प्रपञ्चे सत्यत्वप्रतिक्षेपकं भवेत् - इत्याशङ्क्याह —
धर्मस्येति ।
घटत्वादौ परमतरीत्या पारमार्थिकत्वरूपं सत्यत्वमस्ति ।
तथा धर्मिसमानसत्ताकत्वं मतद्वयसम्मतमस्ति ।
तथा च घटत्वादिधर्मस्य स्वाभाविकाश्रये स्वविरुद्धधर्मप्रतिक्षेपकत्वे प्रयोजकाकाङ्क्षायां सम्प्रतिपन्नमेव प्रयोजकं कल्पनीयं न विप्रतिपन्नमित्यर्थः ।
दृष्टान्तं विघटयति —
ब्रह्मण इति ।
न धर्मीति ।
ब्रह्मणः पारमार्थिकत्वात् सप्रपञ्चत्वस्य च व्यावहारिकत्वादिति भावः । ननु — प्रपञ्चगतमिथ्यात्वस्य मिथ्यात्वपक्षे तत् व्यावहारिकमेव वाच्यम्, ब्रह्मज्ञानैकनिवर्त्यस्य मिथ्यात्वधर्मस्य प्रातिभासिकत्वपारमार्थिकत्वयोरयोगात् । तस्य व्यावहारिकत्वे तु प्रपञ्चगतं सत्यत्वं पारमार्थिकं सिद्ध्यति । तस्यापि ‘सन् घटः’ इत्यादिप्रत्यक्षसिद्धस्य यावत्तत्त्वज्ञानमनुवर्तमानस्य प्रातिभासिकत्वायोगात्, व्यावहारिकमिथ्यात्वधर्मवति प्रपञ्चे तत्सत्यत्वस्य व्यावहारिकत्वायोगाच्च । तथा च प्रपञ्चगतस्य सत्यत्वधर्मस्य पारमार्थिकत्वसिद्धौ धर्मिणः प्रपञ्चस्यापि पारमार्थिकत्वमनिवार्यमिति ब्रह्माद्वैतक्षतिः —
इति कस्यचिच्चोद्यं वक्ष्यमाणहेतुना निरस्तमित्याह —
अत एवेति ।
नियमादिति ।
मिथ्यात्वधर्मस्य धर्मिसमानसत्ताकत्वप्रयुक्तं व्यावहारिकत्वमुपेत्य, मिथ्यात्वधर्मिणि प्रपञ्चे सत्यत्वपर्यवसायिनः प्रपञ्चसत्यत्वे पारमार्थिकत्वापादानस्य विरोधेनासम्भवादित्यर्थः । न च प्रपञ्चे पारमार्थिकस्य सत्यत्वस्याभावे प्रातिभासिकव्यावहारिकसत्यत्वयोरपि प्राङ्निरस्तत्वात्तत्र सत्त्वानुभवविरोध इति वाच्यम् । व्यावहारिकस्यैव सत्त्वस्य प्रपञ्चे स्वीकारेणानुभवविरोधाभावात् । न च मिथ्यात्वसत्यत्वयोर्व्यावहारिकत्वेन समानसत्ताकयोरेकत्र विरोध इति वाच्यम् । मिथ्यात्वाविरुद्धस्य यावतत्त्वज्ञानं बाधरहितस्वरूपत्वलक्षणसत्त्वस्य प्रत्यक्षादिविषयस्य असकृदुक्तत्वादिति भावः ।
‘सर्वत्र ब्रह्मसत्तैव प्रतीयते न तदतिरेकेण व्यावहारिकं प्रातिभासिकं वा सत्त्वमस्ति’ इति मते ‘धर्मिसमसत्त्वं तन्त्रम्’ इतिसमाधानं न सम्भवतीति मत्वा समाधानान्तरमाह —
अथवेति ।
धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि स्वाश्रयसाक्षात्कारानिवर्त्यत्वं प्रयोजकं कल्प्यते, संप्रतिपन्नत्वात् । न तु पारमार्थिकत्वम्, तस्यास्माकमसम्प्रतिपत्तेरिति भावः । यो धर्मो यस्य धर्मिणो धर्मिगोचरसाक्षात्कारानिवर्त्यः स धर्मः तत्र धर्मिणि - इत्यक्षरार्थः ।
उक्तप्रयोजके हेत्वन्तरमाह —
शुक्ताविति ।
तत्पदं शुक्तिपरम् ।
अशुक्तित्वविरोधीति ।
अशुक्तित्वस्य प्रतिक्षेपकमित्यर्थः ।
तत्रैवेति ।
शुक्तावेव रजततादात्म्यरूपो धर्मो वर्तते, स च स्वविरुद्धस्य अरजतत्वस्य-रजतभिन्नत्वस्य शुक्तिगतस्य विरोधी-प्रतिक्षेपको न भवति - इत्यत्र हेतुगर्भं विशेषणं —
तन्निवर्त्यमिति ।
शुक्तिसाक्षात्कारनिवर्त्यमित्यर्थः ।
एवं चेति ।
स्वाश्रयसाक्षात्कारानिवर्त्यधर्मस्य स्वाश्रये स्वविरुद्धधर्मस्थितिविरोधित्वे प्रमाणेन निश्चिते सतीत्यर्थः ।
अनिवर्त्यमिति ।
यथा शुक्तिसाक्षात्कारे सति शुक्तितादात्म्यं न निवर्तते, तथा घटादिरूपप्रपञ्चसाक्षात्कारे सति श्रुतिन्यायसिद्धं मिथ्यात्वं न निवर्तत इत्यर्थः ।
चोद्यान्तरमपि वक्ष्यमाणहेतुना निरस्तमित्याह —
एतेनेति ।
शब्दगम्यस्य ब्रह्मणःसत्यत्वे शब्दनिष्ठयोग्यतायास्सत्यत्वं वक्तव्यमित्यत्र हेतुमाह —
योग्यतासमानसत्ताकस्यैवेति ।
वाक्यार्थवाक्यनिष्ठयोग्यतयोस्समानसत्ताकत्वनियमं साधयति —
प्रातिभासिकयोग्यतावतेति ।
व्यावहारिकार्थस्य सिद्ध्यभावेनेति सम्बन्धः ।
शब्दगम्यस्य ब्रह्मणः सत्यत्वे ब्रह्मगोचरशाब्दज्ञाननिष्ठस्य प्रामाण्यस्य सत्यत्वं वक्तव्यमित्यत्र हेतुमाह —
अर्थाबाधरूपेति ।
तथा च वेदान्तार्थस्य ब्रह्मणःसत्यत्वसंरक्षणाय तद्धीप्रामाण्यस्य सत्यत्वं वक्तव्यमिति भावः ।
ननु ब्रह्मव्यतिरिक्तस्य निरुक्तयोग्यतादेः सत्यत्वसिद्धावपि पूर्ववाद्यभिमतं निखिलद्वैतसत्यत्वं कथं सिद्ध्यति, तत्राह —
तथाचेति ।
द्वैतावश्यम्भाव इति ।
अद्वैतभङ्गावश्यम्भाव इत्यर्थः । वेदान्तशब्दनिष्ठयोग्यतायास्सत्यत्वं किं तस्याश्शाब्दबोधरूपार्थक्रियाकारित्वसिद्ध्यर्थमपेक्ष्यते, किं वा ब्रह्मणस्सत्यत्वसिद्ध्यर्थम् ।
नाद्य इत्याह —
व्यावहारिकस्येति ।
प्रपञ्चस्येति शेषः । योग्यताया इति पञ्चमी । सत्यस्य ब्रह्मणः सिद्धिः-शाब्दबोधः ।
द्वितीये योग्यतायास्सत्यत्वाभावेऽपि ब्रह्मणस्तत् सिद्ध्यतीत्याह —
ब्रह्मपरे इति ।
अत्र आदिपदं सत्पदादिसङ्ग्रहार्थम् ।
तर्ह्यग्निहोत्रादिधर्मस्यापि सत्यादिपदात् सत्यत्वसिद्धिस्स्यादिति, नेत्याह —
अग्निहोत्रादीति ।
ननु ‘यो वै स धर्मः सत्यं वै तत्’ [बृ.उ.१-४-१४] इति धर्मेऽपि सत्यपदं श्रुतौ प्रयुक्तमस्ति, तत्राह —
तत्सत्त्वेऽपीति ।
तदसिद्धिरिति ।
‘यो वै स धर्मः’ इति वाक्यस्याग्निहोत्रादौ परमार्थत्वप्रतिपादने तात्पर्यलिङ्गानामभावेन अतत्परस्य तस्य तत्परत्वेन प्रबलया अद्वैतश्रुत्या बाधात् धर्मस्य न ब्रह्मवत् परमार्थत्वसिद्धिरित्यर्थः । श्रुतावग्निहोत्रादेरवगत्यवस्थत्वेन सत्यत्वं अनुष्ठीयमानावस्थत्वेन धर्मत्वं च विवक्षित्वा ‘यो वै स धर्मः सत्यं वै तत्’ इति सत्यधर्मयोरभेद उक्त इति मन्तव्यम् ।
व्यावहारिकयोग्यतावता वेदान्तवाक्येन सत्यस्य ब्रह्मणः सिद्धौ फलितमाह —
शब्दार्थयोग्यतयोरिति ।
ब्रह्मणः सत्यत्वेऽपि तज्ज्ञाननिष्ठप्रामाण्यस्य न सत्यत्वं सिद्ध्यति, तस्य ब्रह्ममात्रत्वाभावात् —
इत्याह —
घटज्ञानेति ।
तदतिरिक्तेति ।
ब्रह्मत्ववतिब्रह्मत्वप्रकारकानुभवत्वरूपतत्प्रामाण्यस्यापि ब्रह्मातिरिक्तब्रह्मत्ववैशिष्ट्यघटितत्वेनेत्यर्थः । यदि च ब्रह्मज्ञानगतं प्रामाण्यं अबाधितार्थानुभवत्वरूपम्, तच्च विवक्षितविवेकेन बाधायोग्यविषयस्वरूपमात्रं पर्यवस्यति, तन्मात्रपर्यवसितप्रामाण्यस्य च अखण्डार्थपरवेदान्तेषु ब्रह्ममात्रत्वमेव न तदतिरिक्तघटितत्वमिति ब्रह्मज्ञानप्रामाण्यस्य सत्यत्वं सम्भवतीत्युच्यते, तर्हि ब्रह्मगोचरशाब्दधीप्रामाण्यस्य सत्यत्वेऽपि न तवेष्टसिद्धिः, तस्य ब्रह्ममात्रत्वेन ब्रह्मातिरिक्तसत्यवस्त्वसिद्धेः इति भावः ।
तस्मादिति ।
विरोधाभावादित्यर्थः । प्रपञ्चस्य मिथ्यात्वपक्षे प्रत्यक्षादिविरोधाभावो निरूपितः ।