अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

भ्रमकारणीभूतेदमाकारवृत्तेरावरणाभिभावकत्वनिरूपणम्

उक्त­नि­य­म­म­प्या­क्षि­पति —
नन्विति ।
‘इदं रजतं’ इति भ्रमस्थले प्रथमं इदमाकारा अप­रो­क्ष­वृ­त्ति­रु­देति, पश्चात् ‘इदं रजतं’ इति भ्रमो भवति । तत्र इदमाकारायाः प्रथ­मो­त्प­न्न­वृत्तेः अज्ञा­न­नि­व­र्त­कत्वं किं नास्ति उतास्ति ।

आद्ये नियमस्य व्यभिचारमाह —
नायमपीति ।
यथा अप­रो­क्ष­वृ­त्ति­मा­त्र­म­ज्ञा­न­नि­व­र्त­क­मिति नियमो नास्ति, अहमाकारवृत्तौ व्यभिचारात्, तथा बाह्य­गो­च­रा­प­रो­क्ष­वृ­त्ति­मा­त्र­म­ज्ञा­न­नि­व­र्त­क­मिति नियमोऽपि नास्ति, इदमाकारवृत्तौ व्यभि­चा­रा­दि­त्यर्थः ।

द्वितीये बाधकमाह —
अन्यथेति ।
इद­मा­का­र­वृ­त्ते­र­ज्ञा­ना­भि­भा­व­कत्वे इत्यर्थः । इद­मा­का­र­वृ­त्ति­नि­व­र्त्या­ज्ञा­न­म­न्यत्, रज­तो­पा­दा­न­भू­ता­ज्ञा­न­म­न्यत् ।

तथा च न व्यभिचारः, न वा रज­तो­त्प­त्त्य­योगः इति परिहरति —
अत्राहुरिति ।

शुक्ति­त्वा­दि­वि­शे­षां­शा­वा­र­का­ज्ञा­न­मेव राजतोपादानं इत्यत्र मानमाह —
शुक्ति­त्वा­द्य­ज्ञान इति ।
नील­पृ­ष्ठ­त्वा­दि­क­मा­दि­प­दार्थः । रजतमेव अध्यस्यत इत्यध्यासः । प्रथमतत्पदं विशेषांशपरम् । द्विती­य­त­त्प­द­म­ध्या­स­प­रम् ।

तत्र सम्मतिमाह —
अध्यासेति ।
टीका-पञ्चपादिका । अनुभूयमानौ अन्वयव्यतिरेकौ यस्येति विग्रहः । ननु — पुरो­व­र्ति­द्र­व्यस्य शुक्ति­त्वा­दि­वि­शे­ष­रू­प­वि­शि­ष्ट­स्यैव रज­त­का­र­णा­ज्ञा­ना­वृ­त­त्वा­भ्यु­प­गमे तस्यै­वा­धि­ष्ठा­नत्वं स्यात्, न तु इदं­त्व­रू­प­वि­शि­ष्ट­स्ये­द­मं­शस्य । सवि­ला­सा­ज्ञा­न­वि­ष­य­स्यैव अधिष्ठानत्वात् ।

तथा च अधि­ष्ठा­ना­रो­प्य­यो­रे­क­ज्ञा­न­वि­ष­य­त्व­नि­य­मात् शुक्तीरजतमिति भ्रमाकारः स्यात्, न स्याच्च इदं रजतमिति प्रतीत्याकारः इद­मं­श­स्या­धि­ष्ठा­ना­त्व­भा­वात् - इत्यत आह—
अत एवेति ।
अध्या­सो­पा­दा­ना­ज्ञा­न­वि­ष­य­त्वा­दे­वे­त्यर्थः ।

शुक्त्यंश इति ।
शुक्ति­त्व­वि­शे­ष­रू­पेण पुरो­व­र्त्य­व­च्छि­न्न­चै­त­न्य­मि­त्यर्थः ।

इद­मं­श­स्या­धि­ष्ठा­न­त्वा­भाव इष्ट इत्याशयेनाह —
इदमंश इति ।

ननु तस्याधारत्वे आग­त­मे­वा­धि­ष्ठा­न­त्वम्, तयो­र्भे­दा­भा­वा­दिति - नेत्याह —
सविलासेति ।
विलासो रजतादिविक्षेपः विष­य­त्व­मा­वृ­त­त्वम् ।

अतद्रूपोऽपीति ।
तत्पदं अध्य­स्त­र­ज­ता­दि­प­रम् । तथा च अध्य­स्त­र­ज­ता­द्य­भे­द­र­हि­तोऽपि तदभिन्नत्वेन स्फुरन् इत्यर्थः । अधिष्ठानस्यैव आरो­पि­त­र­ज­त­ता­दा­त्म्यात् वस्तुगत्या इदमंशस्य अतद्रूपत्वमिति बोध्यम् । अस्मिन् मते अधि­ष्ठा­ना­रो­प्य­यो­रे­क­ज्ञा­न­वि­ष­यत्वं नास्ति, किं तु आधारारोप्ययोरेव तत् इति न भ्रमस्य शुक्त्यं­शो­ल्ले­खा­प­त्ति­रिति भावः ।

नन्व­धि­ष्ठा­ना­रो­प्ययोः आरोपे प्रकाशमानत्वस्य सम्भा­व­ना­भा­ष्य­टी­का­वि­व­र­णा­दिषु समर्थितत्वात् तद्विरोधः इत्याशङ्क्य, मतान्तरं तदविरुद्धमाह —
अपरेत्विति ।
संभि­न्न­त्वं-ता­दा­म्य­मिति यावत् ।

अज्ञानमेवेति ।
न तु विशेषांशाज्ञानं इत्येवकारार्थः । विशेषांशस्य आरोपे स्फुरणाभावेन तस्य अधि­ष्ठा­न­त्वा­स­म्भ­वा­दिति भावः । शुक्ति­त्वा­दि­रू­प­वि­शे­ष­द­र्श­नस्य अध्या­स­प्र­ति­ब­न्ध­क­त्वात् तदभावविषयौ पूर्वो­क्ता­न्व­य­व्य­ति­रेकौ इति भावः ।

नन्वि­द­मा­का­र­वृत्त्या इदमंशाज्ञानस्य निवृत्तत्वात् कथ­मि­द­मं­श­स्या­धि­ष्ठा­न­त्वम्, अत आह —
तस्य चेति ।
इद­मं­शा­ज्ञा­न­स्ये­त्यर्थः ।

ननु अज्ञा­न­स्या­व­र­णां­श­मा­त्र­नि­वृत्तिः विक्षेपशक्त्या सह अनुवृत्तिश्च क्वापि न दृष्टा, अत आह —
जलप्रतिबिम्बेति ।

प्रपञ्चेति ।
जीव­न्मु­क्त­स्या­प्य­न्तः­क­र­णा­दि­प्र­प­ञ्च­प्र­तीतेः सत्त्वादिति भावः ।

सर्वात्मनेति ।
रजतादिभ्रमस्थले हि सर्वात्मना अधि­ष्ठा­न­सा­क्षा­त्कारो नास्ति । शुक्ति­त्वा­दि­वि­शे­ष­रू­पेण शुक्ति­सा­क्षा­त्का­रा­भा­वात् । अतस्तत्र इद­मं­शा­ज्ञा­न­नि­वृ­त्ता­वपि विशे­षां­शा­ज्ञा­न­नि­वृ­त्त्य­भा­वात् तस्य अध्या­सो­पा­दा­न­त्व­प्र­स­क्ति­रस्ति । प्रति­बि­म्ब­भ्र­म­स्थले तु ‘जले वृक्षो नास्त्येव, ऊर्ध्वाग्र एवायं वृक्षः इति सर्वात्मना विशेषदर्शनस्य सत्त्वात् ‘सामा­न्यां­शा­ज्ञानं निवृत्तं विशे­षां­शा­ज्ञा­न­म­नि­वृत्तं’ इति विभागासम्भवेन विशे­षां­शा­ज्ञा­न­मु­पा­दा­न­मिति वक्तुमशक्यम् । तस्मादत्र वृक्षा­धोऽ­ग्र­त्वा­ध्या­सा­नु­रो­धेन एक­स्यै­वा­ज्ञा­नस्य आव­र­णां­श­नि­वृ­त्ता­वपि विक्षे­प­श­क्ति­म­द­ज्ञा­नां­शा­नु­वृ­त्ति­रु­पेया । तथा जीव­न्मु­क्त्य­व­स्था­या­मपि ब्रह्म­त­त्त्व­सा­क्षा­त्का­रात् आव­र[णां­श](ण)मा­त्र­नि­वृत्तिः विक्षे­प­श­क्ति­म­द­ज्ञा­नां­शा­नु­वृ­त्तिश्च वाच्या । तथा रज­ता­ध्या­स­स्थ­लेऽपि इदमंशाज्ञानस्य उपादानत्वं सम्भवतीति भावः ।

एवं बाह्य­गो­च­रा­प­रो­क्ष­वृ­त्तीनां सर्वासामेव आव­र­णा­भि­भा­व­क­त्व­नि­य­मस्य भ्रम­स्थ­ली­ये­द­मा­का­र­वृत्तौ या व्यभिचारशङ्का सा तत्रापि इद­मं­शा­ज्ञा­न­नि­व­र्त­क­त्वस्य इद­मं­शा­व­र­ण­मा­त्र­नि­व­र्त­क­त्वस्य वा सत्त्वात् इत्युपपादनेन निरस्ता । इदानीं प्रथ­म­मि­द­मा­का­र­वृ­ति­रेव भ्रमस्थले नास्ति तत्र व्यभि­चा­र­श­ङ्का­त­त्स­मा­धाने तु दूरत एव निरस्ते इत्याह —
कवितार्किकेति ।

भ्रमरूपवृत्तीति ।
पूर्वमतद्वये इदमाकारवृत्तेः सत्त्वा­त्त­द­भि­व्य­क्त­चै­त­न्य­रू­प­मेव शुक्ति­र­ज­ता­दि­ज्ञानं, न तु वृत्तिरूपम् । अस्मिन् मते तदभावात् वृत्तिरूपमेव तज्ज्ञानमिति मन्तव्यम् एतच्चाग्रे स्फुटं भविष्यति ।

धर्मि­ज्ञा­न­रू­पा­मि­द­मा­का­र­वृत्तिं निराकरोति —
तथाहीत्यादिना ।
सा किमनुभवसिद्धा, उत कार्यकल्प्या, अथवा सामग्रीकल्प्या ।

नाद्य इत्याह —
न तावदिति ।

ज्ञानद्वित्वेति ।
‘इदमित्येकं ज्ञानम्, इदं­र­ज­त­मि­ति­ज्ञा­न­म­प­रम्’ इत्य­नु­भ­वा­भा­वा­दि­त्यर्थः ।

द्वितीयं निराकरोति —
नाप्यधिष्ठानेति ।
अध्यासरूपं कार्यं स्वका­र­ण­म­धि­ष्ठा­न­गो­च­र­सा­मा­न्य­ज्ञा­न­म­न्त­रे­णा­नु­प­प­द्य­मानं सत् तत् कल्पयति, तत­श्चा­धि­ष्ठा­न­सा­मा­न्य­ज्ञा­न­रूपा इद­मा­का­र­वृ­त्ति­स्सि­ध्यति - इत्यपि न मन्तव्यम्, अधि­ष्ठा­न­सा­मा­न्य­ज्ञा­नस्य अध्यासकारणत्वे माना­भा­वा­दि­त्यर्थः ।

मानाभावोऽसिद्ध इति शङ्कते —
न चेति ।
इदमर्थस्य चक्षुरादिभिः सम्प्रयोगे सति रज­ता­दि­रू­प­स्या­ध्या­स­स्यो­त्पत्तिः नान्यथा इत्यनुभवसिद्धम् । तथा च उक्ता­न्व­य­व्य­ति­रे­का­भ्या­म­धि­ष्ठा­न­सा­मा­न्य­ज्ञा­नस्य रजताद्यध्यासं प्रति कारणत्वं सिद्ध्यति । न च उक्तान्वयादिना सम्प्र­यो­ग­स्यै­वा­ध्या­स­का­र­णत्वं सिद्ध्यति न धर्मि­ज्ञा­न­स्येति वाच्यम् । तथासति अह­ङ्का­रा­द्य­ध्यासे सम्प्र­यो­गा­स­म्भ­वेन व्यभिचारापत्तेः । अतः सम्प्र­यो­ग­स्या­ध्यासं प्रति कार­ण­त्व­ग्रा­ह­का­भ्या­मे­वा­न्व­य­व्य­ति­रे­काभ्यां शुक्ति­र­ज­ता­द्य­ध्या­स­स्थले धर्मिज्ञानस्यैव सम्प्र­यो­ग­सा­ध्यस्य कारणत्वं कल्प्यते । तथा च अधि­ष्ठा­न­सा­मा­न्य­ज्ञा­न­स्या­ध्या­स­का­र­णत्वे उक्ता­न्व­य­व्य­ति­रेकौ प्रमाणं भवत एवेति गूढाभिसन्धिः ।

अभि­स­न्धि­म­ज्ञात्वा दूषयति —
तत इति ।
उक्तान्वयादित इत्यर्थः । सम्प्र­यो­ग­मा­त्रस्य प्रमा­स्थ­ल­सा­धा­र­ण­त्वात् दुष्टेत्युक्तम् ।

धर्मि­ज्ञा­न­का­र­ण­वादी स्वाभि­स­न्धि­मा­वि­ष्क­रोति —
न च सम्प्रयोग इति ।

अधि­ष्ठा­न­सा­मा­न्य­ज्ञा­नस्य सम्प्रयोगस्येव न व्यभिचार इत्याह —
अधिष्ठानस्फुरणं त्विति ।
सम्प्र­यो­ग­वै­ल­क्ष­ण्यार्थः तुशब्दः । अधिष्ठानस्फुरणं कर्तृ । शुक्ति­र­ज­ता­द्य­ध्या­स­मिव अह­ङ्का­रा­द्य­ध्या­स­मपि व्याप्नो­ती­त्यर्थः ।

स्वत इति ।
बाह्य­चै­त­न्य­स्या­वृ­त­त्वात् वृत्तिकृतं तत्र अधि­ष्ठा­न­स्फु­र­णम्, साक्षि­चै­त­न्य­स्या­ना­वृ­त­त्वात् अह­ङ्का­रा­द्य­ध्यासे स्वप्न­प्र­प­ञ्चा­ध्यासे च तत् स्वत­स्सि­द्ध­मि­त्यर्थः ।

अधि­ष्ठा­न­सा­मा­न्य­ज्ञा­न­स्यापि व्यभिचारमाह —
तस्यापीति ।
उक्तज्ञानं तच्छब्दार्थः । घटा­द्य­ध्या­स­व्या­पि­त्वा­भा­वा­दि­त्यर्थः । तथा च धर्मिज्ञानं नाध्यासकारणमिति भावः ।

अव्या­पि­त्व­श­ब्दितं व्यभि­चा­र­मे­वो­प­पा­द­यति —
घटादीत्यादिना ।
घटा­द्य­ध्या­स­स्थले शुक्ति­र­ज­ता­ध्या­स­स्थल इव किं वृत्ति­कृ­त­म­धि­ष्ठा­न­स्फु­र­णम्, अह­ङ्का­रा­द्य­ध्या­स­स्थल इव स्वतस्सिद्धं वा ।

नाद्य इत्याह —
घटा­दि­प्र­त्य­क्षा­दिति ।
तत्पदं घटादिपरम् ।

न द्वितीय इत्याह —
स्वरूपेति ।
ननु - अधि­ष्ठा­न­प्र­का­श­मा­त्र­म­ध्यासे कारणं लाघवात्, न त्वभि­व्य­क्ता­धि­ष्ठा­न­प्र­काशः ।

तथा च ‘सन् घटः, सन् पटः’ इत्या­दि­रू­पे­ष्व­ध्या­सेषु घटा­द्य­धि­ष्ठा­नस्य सद्रूपस्य ब्रह्मणः स्वप्रकाशत्वात् अधि­ष्ठा­न­प्र­का­श­मात्रं तत्राप्यस्तीति न व्यभि­चा­रः-इ­त्या­श­ङ्क्याह —
आवृतानावृतेति ।

तदापीति ।
सम्प्र­यो­गा­त्प्रा­क्का­लेऽ­पी­त्यर्थः ।

धर्मि­ज्ञा­न­का­र­ण­वादी शङ्कते —
न चाध्याससामान्य इति ।

प्रातिभासिकेति ।
अभि­व्य­क्ता­धि­ष्ठा­न­स्फु­रणं प्राति­भा­सि­का­ध्या­से­ष्वेव कारणं आचा­र्या­णा­म­भि­प्रे­तम् । तेष्वेव दोष­स­म्प्र­यो­ग­सं­स्का­र­रू­प­का­र­ण­त्र­य­ज­न्य­ताया अध्या­स­भा­ष्य­टी­का­वि­व­र­णा­दिषु व्यव­स्था­पि­त­त्वेन सम्प्र­यो­ग­का­र­ण­ता­ग्रा­ह­क­प्र­मा­ण­ल­भ्या­धि­ष्ठा­ना­प­रो­क्ष्यस्य तेष्वेव कार­ण­त्व­सि­द्धे­रि­त्यर्थः । प्रकाशपदानन्तरं हेतु­प­द­म­नु­ष­ञ्ज­नी­यम् ।

नातिप्रसङ्ग इति ।
न सम्प्र­यो­गा­त्प्राक् रज­ता­द्य­ध्या­स­प्र­सङ्ग इत्यर्थः । रजताद्यध्यासस्य प्राति­भा­सि­क­त्वेन तद­धि­ष्ठा­ना­प­रो­क्ष्याय सम्प्र­यो­गा­धी­न­वृ­त्ते­र­पे­क्षि­त­त्वा­दिति भावः ।

औचित्यादिति ।
तथा च धर्मि­ज्ञा­न­स्या­ध्या­स­का­र­णत्वे सम्प्र­यो­ग­का­र­ण­ता­ग्रा­ह­का­न्व­यादेः प्रमाणस्य सत्त्वात् बाधकाभावाच्च तस्या­ध्या­स­का­र­ण­त्व­सिद्धौ इदमाकारा वृत्तिः सिद्धेति भावः ।

अभि­व्य­क्ता­धि­ष्ठा­न­प्र­का­शस्य प्राति­भा­सि­का­ध्या­से­ष्वपि सर्वत्र व्याप्ति­र्ना­स्तीति कवि­ता­र्कि­क­म­ता­नु­वर्ती दूषयति —
एवमपीति ।
अधि­ष्ठा­ना­प­रो­क्ष्यस्य प्राति­भा­सि­का­ध्या­स­मा­त्र­हे­तुत्वे स्वीकृ­तेऽ­पी­त्यर्थः । धर्मि­ज्ञा­न­का­र­ण­वादे हि प्रथमं इदमित्येवमाकारा वृत्तिरुदेति, तया च वृत्त्या अभिव्यक्ते शङ्ख­ज­ला­द्य­व­च्छि­न्न­चै­तन्ये पीत­नी­ल­रू­पा­दे­र­ध्यासः - इति प्रक्रिया ।

तथा च तत्र इदमाकारा वृत्तिः किं शङ्खा­दि­द्र­व्य­मात्रं विषयीकरोति, किं वा रूपविशिष्टं द्रव्यम् ? नाद्य इत्याह —
रूपानुपहितेति ।
रूपा­वि­ष­य­क­द्र­व्य­चा­क्षु­ष­वृ­त्तिर्न सम्भवति, इतरथा वाय्वादेरपि चाक्षु­ष­त्वा­पत्तेः इति भावः । द्वितीयेऽपि किं शुक्ल­रू­प­वि­शिष्टं द्रव्यं विषयीकरोति, किं वा आरो­प्य­रू­प­वि­शि­ष्टम् ? न द्वितीयः - आरो­प्य­रू­प­वि­शि­ष्ट­श­ङ्खा­दि­वृ­त्ते­रेव भ्रान्तित्वेन तस्याः धर्मि­ज्ञा­न­त्वा­भा­वात् ।

नाद्य इत्याह —
तदानीमिति ।
अध्या­सा­त्पू­र्व­काल इत्यर्थः । तदानीं शौक्ल्योपलम्भे च अध्या­सा­भा­व­प्र­स­ङ्गा­दिति भावः ।

असम्भवादिति ।
तथा च अभि­व्य­क्ता­धि­ष्ठा­न­स्फु­र­णस्य तत्रासम्भवात् व्यभिचारेण धर्मिज्ञानं नाध्यासकारणमिति भावः । ननु-अ­ध्या­सा­त्पूर्वं द्रव्य­मा­त्र­रू­पेण शङ्खा­दि­गो­च­र­चा­क्षु­ष­वृ­त्ति­रु­दे­त्येव । द्रव्य­गो­च­र­चा­क्षु­ष­वृत्तौ रूप­वि­ष­य­क­त्व­नि­य­म­स्या­प्र­यो­ज­क­त्वात् । न चैवं वाय्वादेरपि चाक्षु­ष­त्व­प्र­सङ्गः । द्रव्यचाक्षुषे द्रव्य­ग­तो­द्भू­त­रू­पस्य नियामकत्वात्, अध्यासात् पूर्वकाले द्रव्यग्रहणेऽपि शुक्तित्वादेरिव दोषबलात् सन्नि­कृ­ष्ट­स्यापि शुक्ल­रू­प­मा­त्रस्य अग्र­ह­णो­प­प­त्तेश्च । तदुक्तं भामत्यां — ‘शङ्खं च दोषा­च्छा­दि­त­शु­क्लि­मानं द्रव्य­मा­त्र­स्व­रूपं गृहीत्वा’ इति । शुक्लि­मा­शु­क्ल­रू­प­मि­त्यर्थः । अस्तु वा तत्र शुक्ल­रू­प­वि­शि­ष्ट­श­ङ्खा­दि­ग्र­ह­णम् । तथापि नाध्या­सा­नु­प­पत्तिः । दोषबलेन रूप­ग­त­शु­क्ल­त्व­जा­ति­ग्र­ह­ण­प्र­ति­ब­न्ध­मा­त्रे­णापि तदुपपत्तेः । तथा च प्राति­भा­सि­का­ध्या­सेषु अभि­व्य­क्ता­धि­ष्ठा­न­स्फु­र­णस्य व्यभिचाराभावात् धर्मिज्ञानरूपा इदमाकारवृत्तिः सिद्धा भवति । तत्सिद्धौ च तस्या­मा­व­र­ण­नि­व­र्त­क­त्व­स­द­स­द्भा­व­चिन्ता साल­म्ब­नै­वा­चा­र्याणां न निरालम्बना - इति चेत्, सत्यम् । अस्मिन्मते अयमेवास्वरसः ‘उपाध्याया मन्यन्ते’ इत्यनेन सूचितः ।

पीत­श­ङ्खा­दि­भ्र­म­स्थले वस्तुतो व्यभि­चा­रा­भा­वेऽपि तमभ्युपगम्य धर्मि­ज्ञा­न­का­र­ण­वादी शङ्कते —
न च प्राति­भा­सि­के­ष्व­पीति ।

निरुक्त इति ।
अभि­व्य­क्ता­धि­ष्ठा­न­प्र­काश इत्यर्थः ।

तथासतीति ।
पीत­श­ङ्खा­द्य­ध्या­सेषु अभि­व्य­क्ता­धि­ष्ठा­न­प्र­का­शस्य हेतुत्वानुपगमे सति इत्यर्थः । अधि­ष्ठा­ना­प­रो­क्ष्य­वत् सम्प्रयोगस्यापि पीत­श­ङ्खा­द्य­ध्या­सेषु कारणत्वानुपगमे सम्प्रयोगात् प्रागपि पीतश्शङ्ख इत्या­द्य­ध्या­स­प्र­सङ्गः, अतस्तत्परिहाराय तत्र सम्प्रयोगस्य कारणत्वमवश्यं वाच्यमित्यर्थः ।

ततः किं, तत्राह —
तस्यैवेति ।
दुष्टे­न्द्रि­य­स­म्प्र­यो­ग­स्यै­वे­त्यर्थः ।

सामान्यत इत्युक्तं सामान्यमेव दर्शयति —
प्राति­भा­सि­का­ध्या­स­मात्र इति ।
प्राति­भा­सि­का­ध्या­स­त्व­मेव दुष्टे­न्द्रि­य­सं­प्र­यो­ग­का­र्य­ता­व­च्छे­द­कम्, लाघवात्, न तु पीत­श­ङ्खा­द्य­ध्या­स­त्वम्, गौरवादित्यर्थः ।

ततोऽपि किं, तत्राह —
तत एवेति ।
सम्प्रयोगात् प्राक् पीत­श­ङ्खा­द्य­ध्या­स­प्र­स­ङ्ग­प­रि­हा­राय तत्र सामान्यतः कॢप्तात् दुष्टे­न्द्रि­य­स­म्प्र­यो­गा­दे­वे­त्यर्थः ।

कादा­चि­त्क­त्व­स्या­पीति ।
सदा रज­ता­द्य­ध्या­स­प्र­स­ङ्ग­प­रि­हा­राय अभि­व्य­क्ता­धि­ष्ठा­न­प्र­का­शस्य रज­ता­द्य­ध्या­स­का­र­णत्वं वाच्यम्, तथासति शुक्त्य­व­च्छि­न्न­चै­त­न्य­रू­प­स्या­धि­ष्ठा­न­प्र­का­शस्य आवृततया सदा तद­भि­व्य­क्ते­र­भा­वेन सदा रज­ता­द्य­ध्या­स­प्र­स­ङ्ग­प­रि­हा­रो­प­पत्तेः - इति हि धर्म­ज्ञा­न­का­र­ण­ता­वा­दि­न­स्त­वा­भि­प्रायः । स चाति­प्र­स­ङ्ग­प­रि­हारः पीत­श­ङ्खा­द्य­ध्या­स­स्थले कॢप्तात् सम्प्रयोगादेव लभ्यत इत्यर्थः ।

सामान्यत इति ।
अधि­ष्ठा­न­प्र­का­श­मात्रं अध्यासमात्रे कारणम्, अभि­व्य­क्ता­धि­ष्ठा­न­प्र­काशः प्राति­भा­सि­का­ध्यासे कारणं - इति पूर्वो­क्त­का­र्य­का­र­ण­भा­व­द्व­य­मपि न सिध्यतीत्यर्थः । ननु - ‘तस्यैव सामान्यतः प्राति­भा­सि­का­ध्या­स­मात्रे लाघवात् कारणत्वसिद्धौ’ इत्ययुक्तम्, अह­ङ्का­रा­द्य­ध्यासे साक्षिचैतन्ये स्वप्नाध्यासे च सम्प्र­यो­गा­स­म्भ­वेन व्यभिचारात् । न च अह­ङ्का­रा­द्य­ध्या­सस्य व्याव­हा­रि­क­त्व­मते तत्र व्यभिचारो न दोष इति वाच्यम् । तथापि तत्प्रा­ति­भा­सि­क­त्व­मते दोष­प­रि­हा­रा­स­म्भ­वात्, साक्षिणि स्वप्नाध्यासे प्राति­भा­सि­क­त्वस्य सम्प्रतिपन्नतया तत्र उक्तव्यभिचारस्य दृढत्वाच्च । न च - स्वप्नाध्यासे अभि­व्य­क्ता­धि­ष्ठा­न­स्फु­रणं कारणम्, अन्यथा स्वप्न­प्र­प­ञ्च­स्या­प­रो­क्ष्या­भा­व­प्र­स­ङ्गात्, बाह्य­प्रा­ति­भा­सि­का­ध्या­सेषु तु दुष्टे­न्द्रि­य­स­म्प्र­योगः कारणमिति न तस्य व्यभिचार इति - वाच्यम् । प्राति­भा­सि­का­ध्या­स­मात्रे त्वदुक्तलाघवेन अभि­व्य­क्ता­धि­ष्ठा­न­प्र­का­शस्य कार­ण­त्वौ­चि­त्यात्, बाह्याध्यासेषु सम्प्रयोगस्य अधि­ष्ठा­न­चै­त­न्या­भि­व्य­ञ्ज­क­वृ­त्त्यु­त्पा­द­क­तया चारि­ता­र्थ्य­स­म्भ­वाच्च, पीत­श­ङ्खा­द्य­ध्या­स­स्थ­लेऽपि अधि­ष्ठा­न­चै­त­न्या­भि­व्य­ञ्ज­क­वृ­त्ति­स­म्भ­वस्य दर्शितत्वाच्च - इति चेत्, सत्यम् - सूक्ष्मदृष्ट्या विचार्यमाणे एवमेव । स्थूलदृष्ट्या तु सम्प्रयोगस्य लाघवात् प्राति­भा­सि­का­ध्या­स­मात्रे कार­ण­त्व­मु­क्त­मिति मन्तव्यम् ।

शुक्ति­र­ज­ता­द्य­ध्या­सा­त्प्रा­गि­द­मा­का­र­वृ­त्ति­सि­द्धये प्रकारान्तरेण धर्मिज्ञानस्य कारणत्वं शङ्कते —
ननु सादृश्येति ।

अध्यासान्तर इति ।
पीत­श­ङ्खा­द्य­ध्यास इत्यर्थः । शङ्खादेः पीतरूपादेश्च सादृ­श्या­भा­वा­दिति भावः । तत्पदं सादृश्यपरम् । रजतादिना सह शुक्त्यादेः सादृश्यभूतो यो रूपविशेषादिः तद्वि­शि­ष्ट­ध­र्मी­त्यर्थः । स्थाण्वादौ पुरु­षा­द्य­ध्या­सा­पे­क्षि­त­मू­र्ध्व­त्वा­दिकं आदिशब्दार्थः ।

सम्प्र­यो­ग­मा­त्र­स्येति ।
सादृ­श्या­न­पे­क्षा­या­मिति मात्रशब्दार्थः । अग्निदग्धं नीलरूपवत्काष्ठं इङ्गालशब्दार्थः । ननु - अपेक्षितमपि सादृश्यं स्वरू­प­स­दे­वा­ध्या­स­का­रणं, तावता उक्ता­ति­प्र­स­ङ्ग­नि­रा­सात् । न ज्ञातं सत् कारणम् ।

तथा च न धर्मिज्ञानस्य कारणत्वसिद्धिः इति मत्वा शङ्कते —
न च सादृश्यमपीति ।
स्वरूपसतः कारणत्वे सादृ­श्य­भ्र­मा­द­ध्यासो न स्यात् । सादृ­श्य­भ्र­म­स्थले स्वरूसतः सादृश्यस्य अभावात् ।

अतः सादृश्यज्ञानं भ्रम­प्र­मा­सा­धा­र­ण­म­ध्या­स­का­रणं वाच्यमिति तद्वि­शि­ष्ट­ध­र्मि­ज्ञा­न­सि­द्धि­रिति धर्मि­ज्ञा­न­का­र­ण­वादी परिहरति —
विसदृशेऽपीति ।

तत्रोदाहरणमाह -
जलधिसलिलपूर इति ।
प्रवाहः पूरशब्दार्थः । जलस्य वस्तु­त­श्शु­क्ल­रू­प­व­त्त्वा­न्नी­ल­शि­ला­त­ल­सा­दृश्यं नास्ति । अत­स्सा­दृ­श्य­भ्र­मात् नील­शि­ला­त­ल­त्वा­रोप इति भावः । ननु-ध­र्मि­ज्ञा­न­का­र­ण­ता­प­क्षेऽपि तत्सामग्रीत्वेन दुष्टे­न्द्रि­य­सं­प्र­यो­गोऽ­वश्यं वाच्यः ।

तथा च आव­श्य­क­त्वा­द­ध्या­स­वि­शे­ष­का­र­ण­ता­व­च्छे­दकं सादृ­श्य­ज्ञा­न­सा­म­ग्री­त्व­मेव, न तु सादृ­श्य­ज्ञा­न­त्वम्, ततश्च न धर्मि­ज्ञा­न­सि­द्धिः-इ­त्या­श­येन इङ्गाले रज­ता­ध्या­स­प्र­सङ्गं विस्मृत्य शङ्कते —
न च तद्धेतोरेवेति ।
‘तद्धे­तो­रे­वास्तु तद्धेतुत्वं मध्ये किं तेन’ इति न्यायादित्यर्थः ।

धर्मिज्ञानवादी निराकरोति —
ज्ञानसामग्र्या इति ।
धर्मि­ज्ञा­न­का­र­ण­ता­मते हि धर्मिज्ञानं रज­ता­दि­रू­पा­र्थो­त्पत्तौ कारणमिष्यते । तथा च तद्धेतोरेवेति न्यायेन धर्मि­ज्ञा­न­सा­म­ग्री­भू­त­स­म्प्र­यो­गस्य कार­ण­त्व­मु­च्य­मानं रज­ता­द्य­र्थो­त्प­त्ता­वेव भवेत् । तच्च न सम्भवति, सन्निकर्षस्य ज्ञान इव विषयोत्पत्तौ कारणतायाः क्वचि­द­प्य­कॢ­प्त­त्वात् इत्यर्थः ।

तत इति ।
सादृ­श्य­ज्ञा­न­सा­म­ग्री­त्वा­पे­क्षया सादृ­श्य­ज्ञा­न­त्व­स्यैव कार­ण­ता­व­च्छे­द­कत्वे लाघवादित्यर्थः । तथा च धर्मि­ज्ञा­न­सि­द्धि­रिति भावः ।

सादृ­श्य­ज्ञा­न­स्या­ध्या­स­वि­शेषे कारणत्वाभावेऽपि व्यव­स्था­स­म्भ­वात् न धर्मि­ज्ञा­न­सि­द्धि­रिति मत्वा पुनश्शङ्कते —
न च स्वत इति ।
जलस्य मुक्ताफलस्य च नैल्येन सादृश्याभावे समानेऽपि जल एव नैल्याध्यासो दृश्यते न मुक्ताफल इति व्यवस्थायां जला­दि­व­स्तु­स्व­भाव एव हेतुः, नान्यइत्यर्थः ।

ननु पात्र­ग­त­नै­ल्य­स­न्नि­धानं जले तदध्यासे नियामकं न स्वभावः, इत्यत आह —
शुभ्रकलधौवेति ।
निर्म­ल­सौ­व­र्ण­पा­त्र­वि­शे­ष­ग­तेऽ­पी­त्यर्थः ।

नन्वेवमपि जल­ग­त­नी­ल­रू­प­व­द्द्र­व्य­सं­स­र्गा­त्त­त्रैव तदध्यास इति, नेत्याह —
स्वत­श्शु­भ्रेऽ­पीति ।
जलविशेषणमिदम् । स्वत­श्शु­भ्र­प­द­व्या­ख्यानं स्वच्छ इति पदम् ।

एवं क्वचित् स्वभा­व­स्यै­वा­ध्या­स­प्र­यो­ज­कत्वे कॢप्ते फलितमाह —
वस्तु­स्व­भा­वा­दे­वेति ।
उक्ते पीतशङ्खाध्यास इव भृङ्गारगतजले नैल्याध्यासे सादृ­श्य­ज्ञा­ना­न­पे­क्ष­त्वेऽपि पुण्ड­री­क­मु­कु­ल­त्वा­ध्यासे तदपेक्षाया अन्व­य­व्य­ति­रे­क­सि­द्ध­त्वेन तद्व­च्छु­क्ति­र­ज­ता­द्य­ध्या­सेऽपि सादृ­श्य­ज्ञा­न­भा­वा­भा­वा­भ्या­मेव व्यवस्था, न तु वस्तुस्वभावात् । अग­ति­क­ग­ति­त्वा­द्व­स्तु­स्व­भा­वा­श्र­य­णस्य ।

तथा च धर्मि­ज्ञा­न­का­र­ण­ता­सि­द्धि­र­प्र­त्यूहा - इति मत्वा दूषयति —
स्वतः पटखण्ड इति ।
पुण्डरीकस्य - कमलस्य या मुकुलत्वावस्था तस्या अन­ध्या­सेऽ­पी­त्यर्थः । तत्रैव - पटखण्ड एव । कर्तनादिना घटितः - सम्पादितः तदाकारः - पुण्ड­री­क­मु­कु­ल­त्वा­कारो यस्य पटखण्डस्य स तथा, तस्मि­न्नि­त्यर्थः ।

तदध्यासेति ।
पुण्ड­री­क­मु­कु­ल­त्वा­ध्या­से­त्यर्थः । तद­ध्या­स­स्या­नु­रो­धि­त्व­नि­श्च­यात् इति सम्बन्धः ।

अन्यथेति ।
वस्तु­स्व­भा­व­स्यैव तदध्यासकारणत्वे इत्यर्थः ।

अन्यदापीति ।
कर्तनादिना तदा­का­र­स­म्पा­द­नात् प्रागपीत्यर्थः । ‘ननु सादृ­श्य­नि­र­पे­क्षेऽ­ध्या­सा­न्तरे अकारणत्वेऽपि’ इत्यादिना सादृश्यज्ञानस्य अध्यासविशेषे कार­ण­ता­प्र­सा­ध­न­द्वारा प्राप्तं धर्मिज्ञानस्य कार­ण­त्व­मा­व­श्य­क­मिति पूर्वपक्षं कवि­ता­र्कि­क­म­ता­नु­वर्ती निराकरोति —
उच्यत इत्यादिना ।

न त्विति ।
‘पीत­त्वा­भा­व­व्या­प्य­श­ङ्ख­त्व­वा­नयं’ ‘नैल्या­भा­व­व्या­प्य­ज­ल­त्व­व­दिदं’ इत्या­दि­रू­प­वि­शे­ष­द­र्श­ना­प्र­ति­ब­ध्ये­ष्वि­त्यर्थः । उक्तविशेषदर्शने सत्यपि ‘पीतश्शङ्खः’ ‘नीलं जलं’ इत्य­ध्या­स­द­र्श­ना­दिति भावः ।

असम्भवादिति ।
वस्तु­त­स्सा­दृ­श्यस्य तत्रासम्भवात् पुण्ड­री­क­मु­कु­ल­त्व­भ्र­म­वत् सादृ­श्य­ज्ञा­ना­न­नु­रो­धि­त्वाच्च इत्यर्थः ।

ततः किं, तत्राह —
विशे­ष­द­र्श­न­प्र­ति­ब­ध्येषु चेति ।
प्रति­ब­न्ध­क­सा­मग्र्याः प्रति­ब­न्ध­क­त्वोक्तौ दाह­प्र­ति­ब­न्ध­क­म­ण्या­दि­सा­मग्र्याः दाह­प्र­ति­ब­न्ध­क­त्व­प्र­सङ्गः, तद्वारणाय ज्ञानपदम् । मण्यादेः प्रति­ब­न्ध­क­ज्ञा­न­त्वा­भा­वा­न्ना­ति­प्र­सङ्गः । ज्ञानसामग्र्याः प्रति­ब­न्ध­क­त्वोक्तौ धर्मि­ज्ञा­न­सा­म­ग्री­भू­त­स­म्प्र­यो­गस्य अध्या­स­प्र­ति­ब­न्ध­क­त्व­प्र­सङ्गः, तद्वारणाय प्रतिबन्धकेति ज्ञानविशेषणम् । धर्मिज्ञानस्य च अध्या­सा­नु­गु­ण­त्वेन प्रति­ब­न्ध­क­ज्ञा­न­त्वा­भा­वात् नोक्ता­ति­प्र­सङ्गः । तथा च पक्षे साध्या­भा­व­व­त्ता­ज्ञानं ग्राह्या­भा­वा­व­गा­हि­त्वा­द­नु­मितिं प्रति साक्षात् प्रतिबन्धकम्, तत्र साध्या­भा­व­व्या­प्य­व­त्त्व­ज्ञानं प्रति­ब­न्ध­क­ज्ञा­न­सा­म­ग्री­त्वेन अनु­मि­ति­प्र­ति­ब­न्ध­क­मिति व्यवस्था प्रसि­द्धे­त्यर्थः ।

तत एवेति ।
प्रति­ब­न्ध­क­ज्ञा­न­सा­मग्र्याः प्रति­ब­न्ध­क­त्व­स्वी­का­रा­दे­वे­त्यर्थः ।

किमिति ।
तथा च धर्मिज्ञानरूपा इदमाकारा वृत्तिर्न सिद्ध्यतीति भावः ।

सादृ­श्य­ज्ञा­न­स्या­का­र­णत्वे पूर्वो­क्ता­ति­प्र­सङ्गं परिहरति —
इङ्गालादाविति ।
इङ्गा­ल­ग­त­नै­ल्यादिः विशेषः, तदृर्शनसामग्री च चक्षु­स्सं­यु­क्ते­ङ्गा­ल­ता­दा­त्म्य­रूपा अत्रास्तीति बोध्यम् ।

नीलभागादीति ।
त्रिको­ण­भा­ग­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

तत्सत्त्वादिति ।
विशे­ष­द­र्श­न­सा­म­ग्री­स­त्त्वा­दि­त्यर्थः ।

न तदिति ।
तत्पदं रजतादिपरम् ।

ननु यदि शुक्ति­सं­प्र­यो­ग­काले रजताध्यासाभावः तर्हि संप्र­यो­गोऽ­प्य­ध्या­स­का­रणं न स्यादिति, नेत्याह —
सदृशभागमात्रेति ।

तदभावादिति ।
नैल्या­दि­द­र्श­न­सा­म­ग्र्य­भा­वा­दि­त्यर्थः ।

शङ्कते —
तदापीति ।
सदृ­श­भा­ग­मा­त्र­स­म्प्र­यो­ग­का­लेऽ­पी­त्यर्थः ।

अनध्यासप्रसङ्ग इति ।
तथा चाध्या­सा­भा­व­प्र­स­ङ्ग­प­रि­हा­राय सादृश्यज्ञानं दोष­त्वे­ना­ध्या­स­का­रणं वाच्यम्, ततश्च उक्त­दो­ष­रू­प­प्र­ति­ब­न्ध­क­स­त्त्वा­द­प्र­ति­बद्धा शुक्ति­त्व­द­र्श­न­सा­मग्री नास्ति, अतो रजताध्यास उपपद्यते इति — धर्मि­ज्ञा­न­का­र­ण­वा­दि­नोऽ­भि­सन्धिः ।

अनध्यासप्रसङ्गं परिहर्तुं उभयसम्मतमर्थं धर्मि­ज्ञा­ना­प­लापी दर्शयति —
नेत्यादिना ।

त्वयापीति ।
सादृ­श्य­ज्ञा­न­का­र­ण­ता­वा­दि­ना­पी­त्यर्थः ।

वाच्यत्वादिति ।
सदृ­श­भा­ग­मा­त्र­स­म्प्र­यो­ग­काले शुक्ति­त्व­द­र्श­न­सा­मग्र्यां चक्षु­स्सं­यु­क्त­ता­दा­त्म्य­ल­क्ष­णायां सत्यामपि अध्यासदर्शनेन तदनुरोधात् शुक्ति­त्व­रू­प­वि­शे­ष­द­र्श­न­सा­मग्र्याः प्रतिबन्धको दोषोऽवश्यं वाच्य इति तावत् सत्यम् । स च दोषो न सादृश्यज्ञानं, किं तु दूरत्वादिरेव । अतो दोषत्वेनापि न सादृ­श्य­ज्ञा­न­म­ध्या­स­का­र­ण­मिति न धर्मि­ज्ञा­न­सिद्धिः — इति तद­प­ला­पि­नोऽ­प्य­भि­सन्धिः ।

धर्मि­ज्ञा­न­का­र­ण­वादी स्वाभि­स­न्धि­मु­द्धा­ट­यन् आशङ्कते —
ममेति ।

तवेति ।
धर्मि­ज्ञा­ना­प­लापे प्रवृत्तस्य कवि­ता­र्कि­क­म­ता­नु­व­र्तिन इत्यर्थः । सादृ­श्य­ज्ञा­न­स्या­ध्या­स­का­र­णत्वं त्वदनिष्टं दूरं गतस्यापि तव प्रसज्येतेति भावः ।

धर्मि­ज्ञा­ना­प­ला­प­वा­द्यपि स्वाभि­स­न्धि­मु­द्धा­ट­यन् अनध्यासप्रसङ्गं परिहरति —
नेत्यादिना ।

तस्येति ।
सादृ­श्य­द­र्श­न­स्ये­त्यर्थः ।

तत्सामग्रीति ।
शुक्ति­त्व­द­र्श­न­सा­म­ग्री­त्यर्थः । रज­त­रा­गा­दि­दो­ष­सं­ग्र­हार्थं आदिपदम् । ननु दूरस्थस्यापि पुंसः कदाचित् शुक्तौ शुक्तिप्रमाया दर्शनेन दूरत्वस्यापि सादृ­श्य­ज्ञा­न­स्येव व्यभि­चा­र­स्तुल्यः । तथा रजतरागवतोऽपि समी­पो­प­स­र्प­णा­न­न्तरं शुक्ति­प्र­मा­द­र्श­नेन तस्यापि व्यभि­चा­र­स्तुल्यः । तथा च दूरत्वादेरपि दोषत्वं न स्यात् । यदि च क्वचिदध्यासे कदाचित् कश्चित् दोष इति रीत्या दूर­त्वा­दे­र्दो­ष­त्वे­ना­ध्या­स­का­र­णत्वं समर्थ्यते, तदा ज्वालादौ सादृ­श्य­ज्ञा­न­रू­पे­णैव दोषेण ‘सेयं दीपज्वाला’ इत्यादिभ्रमस्य सर्वा­नु­भ­व­सि­द्ध­तया तस्यापि कदा­चि­द्र­ज­ता­ध्या­सादौ दोषत्वेन कारणत्वं दुर्वारम् । सादृश्यज्ञानस्य दोषत्वं भाष्यसम्मतं च । तथा च देवताधिकरणे भाष्यं - ‘सादृश्यात् प्रत्यभिज्ञानं केशादिष्विव’ इति । तथा बौद्धाधिकरणेऽपि ‘सादृ­श्य­नि­मित्तं प्रतिसन्धानं’ इति । प्रति­स­न्धा­नं-प्र­त्य­भि­ज्ञा­नम् । तथा च सादृ­श्य­ज्ञा­न­स्य­दो­ष­त्वे­ना­ध्या­स­का­र­ण­त्व­म­त­नि­रा­क­र­ण­म­यु­क्त­मिति चेत्, सत्यम् । तथापि स्थूल­बु­द्धि­मा­श्रि­त्ये­द­मिति ध्येयम् ।

सहकार्यभावात् सामग्र्यभावमाह —
व्यञ्जकेति ।
शुक्ति­त्व­व्य­ञ्ज­के­त्यर्थः । ग्राहकपदं नील­भा­ग­व्या­पि­च­क्षु­स्स­म्प्र­यो­ग­प­रम् ।

तत्सामग्रीति ।
शुक्ति­त्व­वि­शे­ष­द­र्श­न­सा­म­ग्र्य­भा­वस्य उभाभ्यां वक्त­व्य­त्वा­दि­त्यर्थः ।

शुक्ति­र­ज­त­भ्र­म­स्थ­लो­क्त­न्यायं अन्यत्रापि योजयति —
एवमिति ।
सादृ­श्य­ज्ञा­न­रू­प­दोषं विना रजताध्यासवत् नील­शि­ला­त­ल­त्वा­ध्या­स­स्स­म्भ­व­ती­त्यर्थः । जले नील­शि­ला­त­ल­त्वा­ध्यासे हि शुक्ल­रू­पा­त्म­क­वि­शे­ष­द­र्शनं जल­रा­शि­त्वा­दि­रू­प­वि­शे­ष­द­र्शनं च प्रतिबन्धकम् । ततः शुक्ल­रू­पा­दि­द­र्श­न­सा­म­ग्र्यपि तत्र प्रतिबन्धिका । तथा च प्रति­ब­न्ध­क­ज्ञा­न­सा­म­ग्र्य­भा­वा­देव तत्र नील­शि­ला­त­ल­त्वा­रोपः, न तु प्रथमं जले नैल्या­द्य­ध्या­सेन सादृ­श्य­ज्ञा­न­स­म्पत्तौ सत्यां तद्दोषात् नील­शि­ला­त­ल­त्वा­ध्यास इत्यर्थः । ननु — जलधिसलिलपूरे शुक्ल­रू­पा­त्म­क­वि­शे­ष­द­र्श­न­सा­म­ग्र्य­भा­वोऽ­सिद्धः । नील­शि­ला­त­ल­त्वा­रो­पात् पूर्वकाले चक्षुस्संयुक्ते जले शुक्लरूपस्य तादा­त्म्या­भ्यु­प­ग­मेन चक्षु­स्सं­यु­क्त­ता­दा­त्म्य­रू­प­स­न्नि­क­र्षस्य आलोकादेश्च सत्त्वात् ।

तथा जल­रा­शि­त्वा­दि­रू­प­वि­शे­ष­द­र्श­न­सा­म­ग्र्य­भा­वोऽ­प्य­सिद्धः, जल­रा­शि­त्व­व्य­ञ्ज­क­त­र­ङ्गा­दि­प्र­त्य­क्ष­स्यापि तत्र सत्त्वात् - इत्यत आह —
नियतेति ।
जलधिसलिले दूरे नैल्याध्यासवत् समी­पो­प­स­र्प­णा­न­न्त­र­मपि तदध्यासो दृश्यते । अतस्तस्य नियतत्वम् । एतदुक्तं भवति — शुक्ल­रू­पा­त्म­क­वि­शे­ष­द­र्श­न­सा­मग्री निय­त­नी­ल­रू­पा­ध्या­स­प्र­यो­ज­क­दो­षेण प्रतिबद्धा । अतः सा अप्रतिबद्धा नास्ति । दूरत्वदोषात् जल­रा­शि­त्व­व्य­ञ्ज­क­त­र­ङ्गा­दे­र्ग्रा­ह­क­स­म­व­धानं नास्ति । तेन जल­रा­शि­त्व­रू­प­वि­शे­ष­द­र्श­न­सा­मग्री च नास्ति । तथा च द्विवि­ध­प्र­ति­ब­न्ध­क­ज्ञा­न­सा­म­ग्र्य­भा­वात् जलधिसलिले नील­शि­ला­त­ल­त्वा­ध्यास उपपद्यते इति । अत्रेदं बोध्यम् — जलधिसलिलपूरे नील­शि­ला­त­ल­त्वा­रोपे उक्तविधया विशे­ष­द­र्श­न­सा­म­ग्र्य­भा­व­स्या­पे­क्षि­त­त्वेऽपि न तावन्मात्रात् तदध्यासः । किं तु जले नील­रू­पा­द्य­ध्या­सेन नील­शि­ला­त­ल­सा­दृ­श्य­स­म्प­त्त्य­न­न्त­र­मेव तदध्यासः । तथा च दूरे नील­शि­ला­त­ल­त्वा­ध्या­स­वतां जल­धि­स­लि­ल­पू­र­स­मी­पो­प­स­र्प­णा­न­न्तरं व्यवहारः — अस्मिन् जलधिसलिलपूरे मम दूरे नैल्य­नै­श्च­ल्या­दि­सा­म्येन नील­शि­ला­त­ल­त्व­भ्रम आसीत्, इदानीं स भ्रमो निवृत्तः — इति । एवं तत्र तत्र ‘सादृश्यदोषात् मम पूर्वमन्यथाभ्रम आसीत्, इदानीं स निवृत्तः’ इति लोकव्यवहार एव सादृश्यज्ञानस्य दोष­त्वे­ना­ध्या­स­वि­शे­षेषु कारणत्वसाधको द्रष्टव्य इति ।

सदृ­श्य­ज्ञा­न­स्या­ध्या­स­का­र­ण­ता­ग्रा­ह­का­न्व­य­व्य­ति­रे­को­दा­ह­र­णा­न्त­र­म­प्य­न्य­थ­यति —
विस्तृत इति ।
परिणाहः - विस्तारः, तद्दर्शनं पुण्ड­री­क­मु­कु­ल­त्वा­ध्या­स­प्र­ति­ब­न्धकं तत्सा­म­ग्री­स­त्त्वा­दि­त्यर्थः । सादृ­श्य­ज्ञा­न­का­र­ण­ता­मते हि चक्षु­स्सं­प्र­यो­ग­स्थले चाक्षुषं सादृश्यज्ञानं धर्मिज्ञानत्वेन दोषत्वेन च रज­ता­द्य­ध्या­सो­त्पत्तौ कारणम् । त्वगि­न्द्रि­य­स­म्प्र­यो­ग­स्थले च स्पार्शनं सादृश्यज्ञानं उक्तविधया रज­ता­द्य­ध्या­सो­त्पत्तौ एव कारणम् । कवितार्किकमते तु धर्मि­ज्ञा­न­प्र­स­ङ्ग­भीत्या सादृश्यज्ञानं कुत्राप्यध्यासे कारणं नाभ्युपेयते — इति व्यवस्था ।

तथा च त्वगि­न्द्रि­ये­द­म­र्थ­स­म्प्र­यो­ग­स्थले त्वद­भि­म­ता­ध्या­स­का­र­ण­स­त्त्वात् स किं न स्यादिति शङ्कते —
नन्वेवमिति ।
सादृश्यज्ञानं विनाऽपि अध्या­स­प्र­ति­ब­न्ध­क­वि­शे­ष­द­र्श­न­सा­म­ग्र्य­भा­व­मा­त्रे­णा­ध्या­सो­प­गमे इत्यर्थः । किं तत्र रजताध्यास आपाद्यते, किं वा रजताध्यास एव आपाद्यते ।

आद्ये इष्टा­प­त्ति­रि­त्याह —
भवत्येवेति ।

द्वितीयं शङ्कते —
किं त्विति ।

तत्र विशे­ष­द­र्श­न­सा­म­ग्र्य­भा­वस्य ताम्रा­द्य­ध्या­स­सा­धा­र­ण­त्वात् रजताध्यास एव स्यात् आपादकं नास्तीति मत्वा परिहरति —
ताम्रादीति ।
रङ्ग­सु­व­र्ण­श­क­ला­दि­सं­ग्र­हा­र्थ­मा­दि­प­दम् ।

क्वचिदिति ।
कर­त­ल­स्पृ­ष्ट­लो­ह­श­क­ल­स्थ­लेऽपि क्वचिदित्यर्थः ।

गोचर इति ।
लोह­श­क­ल­रू­पे­द­मर्थः ‘किमिदं रजतं, किं वा ताम्रं, किं वा सुवर्णादि’ इति संशयविषयो भवतीत्यर्थः ।

ताम्रा­दि­व्या­व­र्त­क­वि­शे­ष­द­र्श­न­स्थले तु रजताध्यास एव भवतीत्याह —
क्वचित्त्विति ।
यस्मिन् कोशगृहादौ प्रायेण रज­त­श­क­ला­ना­मे­वा­व­स्थानं तत्र प्रविष्टस्य दैवात् अयश्शकले करतलस्पृष्टे सति तत्र रजताध्यास एव भवति । रजतकोशगृहमिति बुद्धेः तस्य सत्त्वा­दि­त्यर्थः । ननुः - क्वचित् कर­त­ल­स्पृ­ष्ट­लो­ह­श­कले रज­ता­ध्या­सा­भा­वोऽपि दृश्यते । स च तव मते न सम्भवति, विशे­ष­द­र्श­न­सा­म­ग्र्य­भा­वस्य तत्रापि सत्त्वेन रज­ता­ध्या­सा­प­त्ते­रा­व­श्य­क­त्वात् ।

मम तु सादृ­श्य­ज्ञा­न­रू­प­का­र­णा­भा­वात् स न भवतीति वक्तुं शक्यते, इत्यत आह —
क्वचित् सत्यपीति ।
समी­पो­प­स­र्प­णा­न­न्तरं सत्यपि सादृश्यज्ञाने यथा रजताध्यासाभावः तव मते उपेयते तथा मन्मतेऽपि क्वचि­द­ध्या­सा­भावो न दोषावह इत्यर्थः ।

तस्मादिति ।
कथमपि धर्मि­ज्ञा­न­स्या­ध्या­स­का­र­ण­त्वा­सिद्धेः इत्यर्थः ।

इदमाकारवृत्तिः अनुभवसिद्धा वा कार्यकल्प्या वा कारणकल्प्या वेति विकल्पत्रये प्रथमद्वितीयौ निरस्य तृतीयं निराकरोति —
नाप्य­प्र­ति­ब­द्धेति ।
इदमर्थस्य चक्षु­स्स­म्प्र­यो­ग­काले अन्यत्र व्यासङ्गे सति इद­म­र्थ­गो­च­र­ज्ञा­ना­नु­द­यात् अप्रतिबद्धेति विशेषणम् ।

यथो­क्त­स­म्प्र­यो­ग­व­शात् जायमाना वृत्तिः भ्रान्तिरूपैव जायते, न तु भ्रान्तेः प्राचीना इद­म­र्थ­मा­त्र­गो­चरा प्रमारूपा, तत्र मानाभावात् - इत्याशयेनाह —
तत इति ।

इद­म­र्था­व­च्छि­न्न­चै­तन्ये विद्यमाना रजतपरिणामिनी अविद्या दुष्टे­न्द्रि­य­स­म्प्र­यो­ग­रू­पा­द­ध्या­स­नि­मि­त्त­का­र­ण­भू­तात् क्षोभं —
कार्याभिमुख्यं प्राप्नोति ।
उत्तरक्षणे च रजतरूपेण परिणमते । दुष्टे­न्द्रि­य­सं­प्र­यो­गात् वृत्तिरपि तदैव जायते । तथा च अप्रतिबद्धात् दुष्टे­न्द्रि­य­स­म्प्र­यो­गात् भवन्ती इद­म­र्थ­गो­च­र­वृत्तिः स्वका­लो­त्प­न्न­र­ज­त­वि­शि­ष्टे­द­मर्थं विष­यी­क­रो­ती­त्यर्थः । स्वपदं वृत्तिपरम् । धर्मिज्ञानपक्षे इदमाकारवृत्तिः अविद्याक्षोभिका तदभावपक्षे धर्मि­ज्ञा­न­हे­तु­स­म्प्र­यो­गोऽ­वि­द्या­क्षो­भक इति विभाग इति स्थिते, तत्रान्त्यपक्षो न युक्तः - इद­म­र्थ­स­म्प्र­यो­गस्य इद­मा­का­र­वृ­त्ता­विव रज­त­गो­च­र­वृ­त्ता­व­हे­तु­त्वात्, ज्ञान­स­म­का­लो­त्प­न्न­र­ज­तस्य ज्ञानात् पूर्वं चक्षु­स्स­न्नि­क­र्षा­भा­वाच्च ।

तथा च रजतगोचरवृत्तौ सामग्र्यभाव एव इदं­वृ­त्ते­र्ध­र्मि­मा­त्र­गो­च­रतां व्यवस्थापयति इत्याशङ्क्याह —
तत्र चेति ।
भ्रमस्थले इत्यर्थः । प्रति­भा­स­का­ल­मात्रे विपरिवर्तनं - सत्ता यस्य तत् प्रति­भा­स­मा­त्र­वि­प­रि­वर्ति तस्मिन्, प्रती­ति­व्या­प्य­स­त्ताके इति यावत् । इद­म­र्थ­स­म्प्र­यो­गस्य रज­त­गो­च­र­वृ­त्त्यु­त्प­त्ता­वपि हेतुत्वं सम्भवति । न च अन्य­स­म्प्र­यो­गा­द­न्य­गो­च­र­वृ­त्त्यु­प­गमे घटे­न्द्रि­य­स­म्प्र­यो­गात् पट­गो­च­र­वृ­त्त्या­प­त्ति­रिति वाच्यम् ।

स्वगोचरवृत्तौ स्वस्य स्वता­दा­त्म्या­श्र­यस्य वा इन्द्रियेण सह सम्प्रयोगः कारणं इति कल्पनात्, तावता उक्ता­ति­प्र­स­ङ्ग­प­रि­हा­रो­प­पत्तेः - इत्याशयेनाह —
तत्प्राचीनेति ।
रजतप्रतिभासात् प्राचीनेत्यर्थः ।

तत्तादात्म्येति ।
रजतस्येदमर्थे कल्पितत्वात् रज­त­ता­दा­म्या­श्र­य­त्व­मि­द­म­र्थस्य, पट­ता­दा­त्म्या­श्र­यत्वं तु न घटेऽस्ति, पटस्य तत्रा­न­ध्य­स्त­त्वात् इति भावः ।

चक्षु­स्सं­प्र­यो­गा­ना­श्र­य­स्यापि रजतस्य चाक्षु­ष­वृ­त्ति­वि­ष­य­त्व­क­ल्पने हेतुमाह —
चक्षुषेति ।

धर्मिज्ञानवादी चाक्षु­ष­त्वा­नु­भ­व­स्या­न्य­था­सिद्धिं वदन् धर्मी­न्द्रि­य­स­म्प्र­यो­ग­जन्या वृत्तिः धर्मि­मा­त्र­गो­च­रे­त्या­श­येन शङ्कते —
न चेति ।

तत् रजतं इदंवृत्तिसमकालं सत् दुष्टे­न्द्रि­य­स­म्प्र­यो­ग­ज­न्य­मपि न भवतीत्यत्र हेतुमाह —
ज्ञानकारणस्येति ।
तथा च प्रातिभासिकस्य रजतस्य ऐन्द्रि­य­क­त्व­पक्षे अन्य­स­म्प्र­यो­ग­स्या­न्य­गो­च­र­वृ­त्ति­ज­न­क­त्व­मेकं कल्पनीयं, तथा ज्ञानकारणस्य सन्निकर्षस्य रज­ता­द्य­र्थो­त्पत्तौ कारणत्वमपरं कल्पनीयमिति गौरवमिति भावः ।

यदि सम्प्रयोगो न रजताद्यर्थे कारणं, तर्हि किं तत्र कारणम्, अविद्यामात्रस्य सदा सत्त्वेन रजताद्यध्यासस्य कादाचित्कत्वं प्रति तस्य प्रयो­ज­क­त्वा­नु­प­पत्तेः - इति शङ्कते —
किं त्विति ।

उत्तरमाह —
इदं­वृ­त्त्य­न­न्त­र­भा­वीति ।
इन्द्रि­य­स­म्प्र­यो­गात् इद­म­र्थ­मा­त्र­गो­चरा वृत्तिरुदेति । तया च अध्यासं प्रति निमि­त्त­का­र­ण­भू­तया क्षुब्धा सती अविद्या रजताकारेण परिणमते । रजतस्य च इद­मा­का­र­वृ­त्त्य­भि­व्यक्तं इद­म­र्था­व­च्छि­न्न­चै­त­न्य­म­धि­ष्ठा­नम् । तथा च रजतं स्वगोचरवृत्तिं विनैव चैतन्यभास्यं अह­ङ्का­रा­दि­व­दि­त्यर्थः ।‘तज्जन्यम्’ इत्यत्र ‘तदभिव्यक्ते’ इत्यत्र च तत्प­द­मि­दं­वृ­त्ति­प­रम् । तद्वृत्तेश्च कादाचित्कत्वात् रजताद्यध्यासस्य कादा­चि­त्क­त्व­मिति भावः ।

तद्भास्यमिति ।
साक्षि­भा­स्य­मि­त्यर्थः । (न च बाह्य­चै­त­न्या­व­भा­स्यस्य शुक्तिरूप्यादेः अहङ्कारादिवत् कथं साक्षि­भा­स्य­त्व­मिति वाच्यम् । स्वगो­च­र­ज्ञा­न­रू­प­वृ­त्त्य­नु­प­हि­त­चै­त­न्य­भा­स्य­स्यैव साक्षि­भा­स्य­श­ब्दा­र्थ­त्वात् ।

तथा च यथा अवि­द्या­ह­ङ्का­र­त­द्ध­र्मा­णा­म­व­भा­स­क­चै­तन्यं अविद्यादिगोचरया ज्ञाना­त्म­क­वृत्त्या उपहितं न भवति, एवं शुक्ति­र­ज­ता­दि­भा­स­क­चै­त­न्य­मपि शुक्ति­र­ज­ता­दि­गो­च­र­ज्ञा­ना­त्म­क­वृ­त्त्यु­प­हितं न भवतीति, तस्य साक्षि­भा­स्य­त्व­मु­क्त­मिति मन्तव्यम्) ननु शुक्तिरजतस्य साक्षिभास्यत्वे चाक्षु­ष­त्वा­नु­भ­व­वि­रोध इति, नेत्याह —
चाक्षु­ष­त्वा­नु­भ­व­स्त्विति ।
स्वं-शुक्ति­र­जतं, तद्भा­स­क­स्य-इ­द­मं­शा­व­च्छि­न्न­चै­त­न्यस्य अभि­व्य­ञ्जि­का­मि­दं­वृत्तिं प्रति चक्षुषो जनकत्वेन शुक्तिरजतस्य चक्षुरपेक्षा वर्तते । सा चापेक्षा परम्परयैव, स्वाधि­ष्ठा­न­गो­च­र­वृ­त्त्य­र्थ­म­पे­क्षि­त­त्वात् । न तु साक्षात्, स्वगो­च­र­वृ­त्त्यर्थं अनपेक्षितत्वात् । यथा­क­थ­ञ्चि­च्च­क्षु­र­पे­क्षा­मा­त्रेण तत्र चाक्षुषत्वानुभव उपपद्यत एव - इत्यक्षरार्थः । ननु - ‘चक्षुषा रजतं पश्यामि’ इत्यनुभवो हि रजते चाक्षु­ष­वृ­त्ति­वि­ष­य­त्व­म­व­गा­हते, न तु शुक्तिरजतगतं चाक्षु­ष­वृ­त्त्य­भि­व्य­क्त­चै­त­न्य­वि­ष­यत्वं, इति वस्तुगतिः । (तथा च) ‘परम्परया चक्षु­र­पे­क्षा­मा­त्रेण’ इति ग्रन्थेन चाक्षु­ष­त्वा­नु­भ­वस्य चाक्षु­ष­वृ­त्त्य­भि­व्य­क्त­चै­त­न्य­वि­ष­यत्वं रजतगतं विषय इति तदनुभवस्य गतिः कल्पितेति प्रतिभाति, तदयुक्तम्, शब्दवदनुभवस्य व्याख्या­ना­न­र्ह­त्वात् - इति चेत्, न - वस्तुत इद­म­र्थ­ग­त­स्ये­दं­त्वस्य तत्रा­नु­भू­य­मा­नस्य यथा शुक्तिरजते संसर्गारोपः, तथा इदमर्थगतस्य तत्रा­नु­भू­य­मा­नस्य चाक्षुषत्वस्य शुक्तिरजते संसर्गारोपः, इत्यस्यार्थस्य प्रकृते विवक्षितत्वात् । तथा च स्वस्मि­न्ना­रो­प­णीयं यत् चाक्षु­ष­वृ­त्ति­वि­ष­य­त्व­मि­द­म­र्थ­गतं तल्लाभाय शुक्तिरजतस्य चक्षुरपेक्षा वर्तते इत्ययमर्थः ‘परम्परया चक्षु­र­पे­क्षा­मा­त्रेण’ इतिग्रन्थस्य द्रष्टव्य इति न कश्चिद्दोषः ।

प्राति­भा­सि­क­र­ज­ता­दे­स्सा­क्षि­भा­स्य­त्व­मेव न त्वैन्द्रि­य­कत्वं - इति मतं दूषयति —
तथासतीति ।
अधि­ष्ठा­न­स्यै­न्द्रि­य­क­त्व­ला­भा­यै­वे­न्द्रि­या­पेक्षा, न त्वारोप्यस्य तद­र्थ­मि­न्द्रि­या­पेक्षा, इत्युपगमे सतीत्यर्थः ।

न हीति ।
इदं चापाततः, पीत­श­ङ्ख­भ्र­मा­दि­स्थ­लेऽपि अध्या­स­प्रा­ची­न­ध­र्मि­गो­च­र­चा­क्षु­ष­वृत्तेः प्रागु­प­पा­दि­त­त्वा­दिति मन्तव्यम् ।

नापि पीतिमग्रहण इति ।
चक्षुरपेक्षा इत्यनुषङ्गः ।

रूपं विना केवलशङ्खस्य चक्षु­र्ग्रा­ह्य­त्वा­यो­ग­मु­पेत्य आरोपितस्य साक्षि­भा­स्य­त्व­वादी शङ्कते —
न च पीतिमेति ।
पीतरूपमित्यर्थः । यथा शुक्तौ रजतं स्वरू­पे­णा­ध्य­स्यते, तथा शङ्खे पीतरूपं नाध्यस्यत इत्यर्थः । नयनगतं यत् पित्तं - पीत­रू­प­यु­क्त­द्र­व्य­वि­शेषः, तस्य यः पीतिमा, तस्य पित्तद्रव्य एवानुभूयमानस्य शङ्खे संसर्ग एवाध्यस्यते । यथा जपा­कु­सु­मा­दा­व­नु­भू­य­मा­नस्य लौहित्यस्य स्फटिकमण्यादौ संसर्गाध्यासः तद्वत् । न चान्य­ग­त­स्या­न्य­त्रा­रो­पा­भ्यु­प­गमे अन्य­था­ख्या­ति­प्र­सङ्ग इति वाच्यम्, अध्य­स्य­मा­न­सं­स­र्ग­स्या­नि­र्व­च­नी­य­स्यो­त्प­त्त्य­भ्यु­प­ग­मे­ना­न्य­था­ख्या­ति­वै­ल­क्ष­ण्य­स­त्त्वात् इति भावः ।

पीति­मा­नु­भ­वा­र्थ­मिति ।
शङ्खे पीत­रू­प­सं­स­र्गा­ध्या­सात् प्राचीनो यः पित्तद्रव्ये पीतरूपानुभवः तदर्थमित्यर्थः ।

तत्र - किं नयनप्रदेशगत एव पित्तद्रव्ये पीतिमानुभवः, किं वा शङ्खदेशं प्राप्य तत्रस्थे पित्तद्रव्ये पीतिमानुभवः ? आद्यं दूषयति —
तथासतीति ।
नयनगत एव पित्तद्रव्ये पीत­रू­पा­नु­भ­वा­ङ्गी­कारे इत्यर्थः ।

शङ्ख­त­त्सं­स­र्ग­यो­रिति ।
शङ्खस्य शङ्ख­पी­त­रू­प­यो­स्सं­स­र्गस्य चेत्यर्थः ।

शङ्ख­त­त्सं­स­र्ग­यो­र्भानं किं पित्त­पी­ति­म­गो­च­र­वृ­त्त्य­भि­व्य­क्तेन साक्षिणा, किं वा पीति­म­सं­सृ­ष्ट­श­ङ्ख­गो­च­र­वृ­त्त्य­भि­व्य­क्तेन साक्षिणा ? नाद्य इत्याह —
नयनप्रदेशेति ।
नय­न­प्र­दे­श­ग­त­पि­त्त­पी­ति­मा­का­र­वृत्त्या तत्प्रदेशस्थं पीति­मा­व­च्छि­न्न­चै­त­न्य­म­भि­व्य­ज्यते, तेन चाभि­व्य­क्त­चै­त­न्य­ल­क्ष­ण­सा­क्षिणा सह शङ्खस्य शङ्खे समा­रो­पि­त­पी­त­रू­प­सं­स­र्गस्य च असम्बन्धात् शङ्ख­त­त्सं­स­र्ग­यो­रा­प­रोक्ष्यं न स्यादित्यर्थः ।

न द्वितीय इत्याह —
पीतिमसंसृष्टेति ।

अन­भ्यु­प­ग­मा­च्चेति ।
साक्षि­भा­स्य­त्व­वा­दि­नेति शेषः ।

शङ्खदेशं प्राप्ते पित्तद्रव्ये पीतिमानुभव इति द्वितीयं शङ्कते —
न चेति ।

विष­य­व्या­पि­न­स्त­स्येति ।
शङ्ख­रू­प­म­धि­ष्ठानं व्याप्तस्य पित्त­द्र­व्य­स्ये­त्यर्थः । तथा च पित्त­पी­ति­मा­का­र­वृत्त्या शङ्खदेशस्थस्यैव चैत­न्य­स्या­भि­व्यक्त्या शङ्ख­त­त्सं­स­र्ग­यो­रा­प­रोक्ष्यं सम्भवतीति भावः । कुसुम्भं - रक्त­द्र­व्य­वि­शेषः । तद्व्याप्ते पटे यथा कुसुम्भे अनुभूयमानस्य रक्तरूपस्य संसर्गारोपः तथेत्यर्थः ।

नय­न­ग­त­पि­त्त­द्र­व्यस्य नयने सर्वै­र­नु­भू­य­मा­नस्य नयनरश्मिद्वारा निर्गत्य शङ्ख­व्या­पि­त्वो­प­गमे बाधकमाह —
तथासतीति ।
पित्तोपहतनयनः पुरुषो यदा शङ्खं पश्यति तदा तदितरेषामपि ‘पीतश्शङ्खः’ इत्य­नु­भ­व­प्र­स­ङ्गा­दि­त्यर्थः ।

ननु पित्तद्रव्यस्य नय­न­प्र­दे­शा­द्वि­ष­य­देशं प्रति गमनावसरे यथा पित्तोपहतनयनेन नयनदेशमारभ्य विष­य­व्या­प्ति­प­र्यन्तं पीतिमा गृह्यते तथाऽन्यैरपि नयनसमीपे मध्ये च पीतिमा गृही­त­श्चे­च्छ­ङ्ख­दे­शेऽपि ग्रहीतुं शक्यते नान्यथा, इत्यत्र दृष्टान्तमाह —
विहायसीति ।
यथा विहङ्गमः - पक्षी गगने उत्पतन् उत्पतनावसरे भूप्रदेशमारभ्य येन पुंसा गृह्यते तेनैव गगनोपरिभागे दूरं गतोऽपि गृह्यते नान्यैः, तथा प्रकृ­तेऽ­पी­त्यर्थः ।

दृष्टा­न्त­वै­ष­म्य­माह —
इतरेषामपीति ।
दृष्टान्ते हि गगनोपरिभागे दूरे विहङ्गमं पश्यन् कश्चिदन्यं प्रत्युपदिशति —‘मम चक्षुर्निकटे त्वच्च­क्षु­र्न्यस्तं चेत् त्वयापि स विहङ्गमो द्रष्टुं शक्यते’ इति । स चान्य­स्त­था­कृत्वा तं पश्यति, न तथा प्रकृते सम्भवतीत्यर्थः ।

अस्तु वा अनु­भू­य­मा­ना­रो­प­स्थले कथ­ञ्चि­च्च­क्षु­र­पेक्षा, स्मर्य­मा­ण­नै­ल्या­द्य­ध्या­स­स्थ­लेषु तु तदपेक्षा सर्वात्मना वक्तु­म­श­क्ये­त्याह —
एवमपीति ।
जलाधारभूभागे वा जल­मि­श्रि­त­द्र­व्य­वि­शेषे वा यदि नीलरूपमस्ति तदा तत्रै­वा­नु­भू­य­मा­न­नै­ल्यस्य जले अध्यास इति शङ्का भवेत्, तन्निवृत्तये सिक­ता­म­य­त­ल­स्या­ति­ध­व­लत्वं नदीजलस्य चाच्छत्वं विशेषणमुपात्तम् । अच्छ­त्वं-नि­र्म­लत्वं, निशि-रात्रौ । चन्द्रि­का­या­मि­त्य­स्यापि पूर्वोक्तमेव प्रयोजनं द्रष्टव्यम् । दुष्प­रि­ह­र­त्वा­च्चेति अत्र - पीत­श­ङ्ख­ज­ल­नै­ल्या­द्य­ध्या­सेषु आरो­प्य­पी­ति­म­नै­ल्या­दि­सं­सृ­ष्टा­धि­ष्ठा­न­गो­च­र­चा­क्षु­ष­वृ­त्त्य­नु­प­ग­मेऽपि चक्षुरनुपयोगो न दुष्परिहरः, शङ्खा­दि­ध­र्मि­मा­त्र­गो­च­र­चा­क्षु­ष­वृ­त्ति­स­म्भ­वस्य प्राग्द­र्शि­त­त्वा­दिति मन्तव्यम् ।

आरो­प्य­स्ये­न्द्रि­य­ज­न्य­वृ­त्ति­वि­ष­यत्वे सम्मतिमाह —
अनास्वादितेति ।
अस्मिन् जन्मनि अनास्वादितः रस­ने­न्द्रि­ये­णा­न­नु­भूतः तिक्तरसो येन बालेन स तथा, तस्येत्यर्थः । मधुरे - स्तन्यादौ तिक्त­ता­व­भा­सः-ति­क्त­ता­सा­क्षा­त्कारः । स च जन्मा­न्त­री­य­ति­क्त­र­सा­नु­भ­व­ज­न्य­सं­स्का­र­जन्यः । आरोपे आरो­प्य­स­जा­ती­य­पू­र्वा­नु­भ­व­ज­न्य­सं­स्का­रस्य कारणत्वात् - इत्यक्षरार्थः । अत्र ग्रन्थे तिक्ततावभासस्य संस्का­र­स­हृ­कृ­त­र­स­ने­न्द्रि­य­ज­न्यत्वं भाति, तस्य संस्का­र­मा­त्र­ज­न्यत्वे स्मृति­त्व­प्र­स­ङ्गात् । तथा च तिक्त­ता­ध्या­सा­धि­ष्ठा­नस्य मधुरद्रव्यस्य रस­ने­न्द्रि­या­यो­ग्य­तया परिशेषात् स्वरू­प­तोऽ­ध्य­स्य­मा­नस्य तिक्तरसस्यैव रस­ने­न्द्रि­य­ज­न्य­वृ­त्ति­वि­ष­यत्वं स्पष्टीकृतमिति, भवति समा­रो­प्य­स्यै­न्द्रि­य­कत्वे सम्मतिरयं ग्रन्थ इति भावः ।

अन्यथेति ।
आरो­प्य­ति­क्त­र­सस्य ऐन्द्रि­य­क­त्वा­नु­प­गमे तत्र बालस्य तिक्त­ता­व­भा­स­स्थले रस­ने­न्द्रि­य­व्या­पारो न स्यात्, मधुरद्रव्यस्य तद­यो­ग्य­त्वा­दि­त्यर्थः । वस्तुतस्तु - तिक्ततावभास इत्यत्र तिक्त­ता­प­दा­व­भा­स­प­दयोः कर्मधारयः । अवभासपदं च अवभास्यते इति व्युत्पत्त्या अध्य­स्य­मा­न­ति­क्त­र­स­प­रम् । पञ्चपादिकायामेव अवभासपदस्य अव­भा­स्य­मा­न­ता­प­देन तथा­व्या­ख्या­त­त्वात् । जन्मा­न्त­री­य­सं­स्का­रोऽपि अध्य­स्य­मा­न­ति­क्त­र­सो­त्पत्तौ हेतुः । प्राति­भा­सि­का­ध्या­स­स्थ­लेषु दोष­सं­स्का­रा­धिष्ठा नसा­मा­न्य­ज्ञा­न­रू­प­का­र­ण­त्र­यस्य अध्य­स्य­मा­न­प­दा­र्थो­त्प­त्ता­वेव कारणतायाः टीका­वि­व­र­णा­दि­ष्वेव स्पष्टत्वात् । तथा च कथमनेन ग्रन्थेन स्वरू­प­तोऽ­ध्य­स्य­मा­न­स्यैव तिक्त­र­स­स्यै­न्द्रि­य­क­त्व­स्प­ष्टी­क­र­णम् । न च तिक्त­र­स­स्यै­न्द्रि­य­क­त्वा­भावे रस­न­व्या­पा­रा­पे­क्षा­नु­प­प­त्ति­रिति वाच्यम् । बालस्य अन्येषां वा तिक्त­र­सा­ध्या­स­काले रस­ने­न्द्रि­य­व्या­पा­र­सत्त्वे मानाभावात् । न च तथासति तिक्त­ताऽ­न­व­भा­स­प्र­सङ्ग इति वाच्यम् । त्वगि­न्द्रि­य­ज­न्य­म­धु­र­द्र­व्य­गो­च­र­वृत्त्या अभिव्यक्ते मधु­र­द्र­व्या­व­च्छि­न्न­चै­तन्ये तिक्त­ता­ध्या­सा­ङ्गी­का­रेण तिक्त­ता­याः­स्व­गो­च­र­वृत्तिं विनैव स्वाधि­ष्ठा­न­चै­त­न्य­भा­स्य­त्व­स­म्भ­वात् । अस्तु वा तिक्त­ताऽ­ध्या­स­स्थले रस­ने­न्द्रि­या­पेक्षा । तथापि न अध्य­स्य­मा­न­ति­क्त­र­स­स्यै­न्द्रि­य­क­त्व­सिद्धिः । अध्य­स्य­मा­न­ति­क्ततां प्रति मधु­र­द्र­व्य­नि­ष्ठ­म­धु­र­र­स­स्या­धि­ष्ठा­न­त्व­स­म्भ­वेन तद­धि­ष्ठा­न­भू­त­म­धु­र­र­स­ग्र­हणे तद­पे­क्षो­प­पत्तेः, पञ्च­पा­दि­का­ग­त­म­धु­र­प­दस्य मधु­र­र­स­सा­धा­र­ण­त्वेन तद्वि­रो­धा­भा­वाच्च । न च मधुररसग्रहणे तिक्त­ता­ध्या­सा­नु­प­प­त्ति­रिति वाच्यम् । रसग्रहणेऽपि दोषविशेषेण मधु­र­र­स­त्व­जा­ति­सा­क्षा­त्का­र­प्र­ति­बन्धे सति तदध्यासोपपत्तेः । तस्मात् आरोप्यस्य साक्षि­मा­त्र­भा­स्यत्वं पूर्वाचार्याणां सार्व­त्रि­क­व्य­व­हा­र­सिद्धं निरपवादमिति - मन्तव्यम् । इतः परं कवि­ता­र्कि­क­म­ता­नु­सा­रेण यत् पञ्च­पा­दि­का­ग्र­न्थ­व्या­ख्यानं कृतं तदेवानुवर्त्यते ।

तस्मादिति ।
अध्य­स्य­मा­न­प­दा­र्थस्य साक्षि­भा­स्य­त्व­मते पीत­श­ङ्खा­द्य­ध्या­सेषु चक्षुरनुपयोगस्य दुष्प­रि­ह­र­त्वा­दि­त्यर्थः ।

तद्गोचरेति ।
अधि­ष्ठा­न­गो­च­रे­त्यर्थः । वृत्ति­स­म­का­ल­मु­दयो यस्याध्यासस्य पीतरूपादेः, स तथेत्यर्थः । अधि­ष्ठा­न­सं­प्र­यो­ग­ज­न्याया वृत्तेः­आ­रो­पि­त­रू­पा­दि­वि­शि­ष्ट­श­ङ्खा­दि­वि­ष­य­क­त्वा­न­ङ्गी­कारे आरो­पि­त­रू­पा­दे­र­न­व­भा­स­प्र­सङ्ग इत्यर्थः । रूपं विना केव­ला­धि­ष्ठा­न­गो­च­र­वृ­त्त्य­भावे चेति । आरो­प्य­पी­ति­म­नै­ल्या­दि­सं­सृ­ष्ट­श­ङ्खा­दि­गो­च­र­वृ­त्त्य­न­भ्यु­प­गमे च इति चकारार्थः । तत्पदं चैतन्यपरम् ।

पञ्च­पा­दि­का­ग्र­न्थोक्तं तिक्त­र­स­स्या­ध्य­स्य­मा­न­स्यै­न्द्रि­य­कत्वं चाक्षु­षा­ध्या­स­स्थल इव अधि­ष्ठा­ना­रो­प्य­यो­रे­क­वृ­त्ति­वि­ष­य­त्वेन न भवति, किं तु तिक्त­र­स­मा­त्र­गो­च­र­रा­स­न­वृत्त्या - इत्युपपादयति —
तिक्त­र­सा­ध्या­स­स्थले त्विति ।

तदवच्छिन्नेति ।
मधु­रा­दि­द्र­व्य­रू­पा­धि­ष्ठा­ना­व­च्छि­न्ने­त्यर्थः । पित्ताख्यदोषेण उपहतं यत् रसनं, तेन सह मधु­र­द्र­व्य­रू­पा­धि­ष्ठा­नस्य संप्रयोगात् तत्र अधि­ष्ठा­ना­व­च्छि­न्न­चै­तन्ये तिक्तरसाध्यास उदेति, तदैव अध्य­स्य­मा­न­ति­क्त­र­स­मा­त्र­गो­च­र­रा­स­न­वृ­त्तिश्च उदेतीत्यर्थः । ननु-ति­क्त­र­सा­ध्या­सस्य मास्तु रासनत्वं, तिक्तरसभानं तु केव­ल­सा­क्षि­रू­प­मिति मतमेव कुतो नाद्रियते — तत्राह ।
त्वगिन्द्रियेति ।

चैतन्यभास्ये तिक्तरस इति ।
अभ्यपगम्यमाने इति शेषः ।

परम्परयापीति ।
रज­ता­द्य­ध्या­स­स्थल इव धर्मि­मा­त्र­गो­च­र­वृ­त्त्यु­त्पा­द­न­द्वा­राऽ­पी­त्यर्थः । धर्मिणो मधुरद्रव्यादेः रस­ने­न्द्रि­या­यो­ग्य­त्वा­दिति भावः । तत्र-ति­क्त­ता­रूपे अध्यासे । कथमपीत्यस्य व्याख्या प्रका­रा­न्त­रे­णेति । यद्यपि स्वप्नकाले केव­ल­सा­क्षि­भा­स्येषु रसरूपादिषु रास­न­त्व­चा­क्षु­ष­त्वा­द्य­नु­भ­वस्य आरोपरूपताया वक्ष्यमाणत्वेन प्रकृतेऽपि तथा समर्थनं सम्भवति, स्वाप्न­प­दा­र्था­ना­मिव प्राति­भा­सि­क­ति­क्त­र­सा­दे­रपि इन्द्रि­या­स­न्नि­कृ­ष्ट­त्वेन सामग्र्यभावस्य तुल्यत्वात्, तथापि तं प्रकारमजानता ‘तत्र कथमपि’ इत्या­द्यु­क्त­मिति ध्येयम् ।

तथैवेति ।
यथा रास­न­वृ­त्ति­वि­ष­य­त्व­मा­दाय रास­न­त्वा­नु­भ­व­स्स­म­र्थितः, तथा चाक्षु­ष­वृ­त्ति­वि­ष­य­त्व­मा­दा­यैव चाक्षु­ष­त्वा­नु­भ­व­स­म­र्थ­न­स­म्भवे तद­नु­भ­व­स्या­रो­प­रू­प­त्व­क­ल्प­न­म­यु­क्त­मि­त्यर्थः ।

न बाधनीय इत्ययुक्तम्, बाधके सत्ति तद्वा­ध­स्या­व­श्य­क­त्वात् इति मत्वा शङ्कते —
न चेति ।

शङ्कितं बाधकं परिहरति —
सन्नि­क­र्ष­त्व­स्ये­त्या­दिना ।

आद्य­नि­य­मा­सि­द्धे­रिति ।
‘जन्य­प्र­त्य­क्ष­मात्रे इन्द्रि­य­स­न्नि­कर्षः कारणं’ इति निय­मा­सि­द्धे­रि­त्यर्थः । जन्यपदं नित्यसाक्षिरूपे प्रत्यक्षे व्यभि­चा­र­वा­र­णा­र्थम् । शाब्दापरोक्षमते शाब्द­भि­न्न­त्व­मपि प्रत्य­क्ष­वि­शे­षणं द्रष्टव्यम् । अत्रेदं बोध्यम् — संयो­गा­द्य­न्य­त­म­त्व­म­नु­ग­त­मस्ति, न्यायमते अभा­व­त्वा­दि­व­द­ख­ण्डो­पा­धि­रूपं वा सन्निकर्षत्वं सम्भवतीति, आद्यनियमविरोधो दुर्वार इति ।

आद्य­नि­य­म­स्या­सि­द्धि­मुक्त्वा ‘जन्य­द्र­व्य­प्र­त्यक्षे इन्द्रियसंयोगः कारणं’ इति द्विती­य­नि­य­म­मु­पेत्य प्रकृते तस्याविरोधमाह —
द्विती­य­नि­य­म­स्येति ।
द्वितीयनियमस्य व्यवहारदृष्ट्या यद्द्र­व्य­त्वा­धि­क­रणं तद्विषयत्वेन द्विती­य­नि­य­मा­वि­रो­धा­दिति सम्बन्धः ।

नियमस्य व्याव­हा­रि­क­द्र­व्य­वि­ष­य­त्व­क­ल्प­नायां नियामकमाह —
संयोगायोग्ये क्वचिदिति ।
एक­त्व­द्वि­त्वा­दा­वि­त्यर्थः । एक­त्व­मे­क­मि­त्या­दि­प्र­का­रेण तत्रापि संख्या­श्र­य­त्व­भ्र­मेण द्रव्य­त्वा­ध्या­स­स­म्भ­वा­दि­त्यर्थः । तथा च द्रव्य­प्र­त्य­क्ष­मात्रे इन्द्रि­य­सं­यो­गस्य कारणत्वनियमस्य एकत्वादौ द्रव्य­त्वा­ध्या­स­काले तत्प्रत्यक्षे व्यभिचार इत्यर्थः ।

अद्रव्ये द्रव्यत्वारोपे दृष्टान्तमाह —
तमसीवेति ।

सिद्धान्ते तस्य द्रव्य­त्वा­भ्यु­प­ग­मा­दाह —
नैयायिकरीत्येति ।
‘प्रौढा­लो­का­भा­व­स्तमः’ इति नैया­यि­कै­रु­क्त­री­त्ये­त्यर्थः । ‘गुणाश्रयत्वं द्रव्यलक्षणं’ इति जानतां तमसि रूपवत्त्वभ्रमेण द्रव्य­त्व­भ्र­म­स्स­म्भ­व­ती­त्यर्थः । ननु — शुक्तिरजतादौ घटादाविव स्वभावत एव द्रव्यत्वमस्ति । अन्यथा रज­त­त्वा­दि­जा­ति­रपि तत्र न स्यात् । न चेष्टापत्तिः । उत्तरत्र तत्र रज­त­त्वा­दि­जा­ते­स्सा­ध­यि­ष्य­मा­ण­त्वात् । ततश्च शुक्ति­र­ज­ता­दि­क­मपि व्यवहारदृष्ट्या द्रव्य­त्वा­धि­क­रणं भवति । व्यवहारदशायां शुक्तौ रजतबाधवत् शुक्तिरजते द्रव्य­त्व­र­ज­त­त्वा­दि­जा­ति­बा­धा­द­र्श­नात् । तथा च शुक्ति­र­ज­ता­दे­रि­न्द्रि­या­सं­यु­क्तस्य ऐन्द्रि­य­क­वृ­त्ति­वि­ष­य­त्वो­प­गमे द्विती­य­नि­य­म­वि­रो­धोऽपि दुर्वारः - इति चेत्, सत्यम् ।

शुक्तिरजतादौ रज­त­त्व­द्र­व्य­त्वा­दि­जा­ति­र्ना­स्तीति मतमनुसृत्य तत्र द्रव्य­त्व­प्र­तीतिं घटयति —
प्रातिभासिकरजत इति ।
इद­म­र्थ­ग­ते­दं­त्व­स्येव तद्ग­त­द्र­व्य­त्व­स्यापि तत्र संसर्गारोप इत्यर्थः । तथा च शुक्तिरजतं व्यवहारदृष्ट्या द्रव्य­त्वा­धि­क­रणं न भवतीति भावः ।

ननु ‘द्रव्य­प्र­त्यक्षे इन्द्रियसंयोगः कारणं’ इत्युपगमे ‘रजतचाक्षुषे रज­त­च­क्षु­स्सं­योगः कारणं’ इति तृतीयनियमोऽपि दुर्वारः, रजतस्य द्रव्य­वि­शे­ष­त्वात् रज­त­च­क्षु­स्सं­यो­गस्य च इन्द्रि­य­सं­यो­ग­वि­शे­ष­त्वात् द्रव्य­वि­शे­ष­प्र­त्यक्षे इन्द्रि­य­सं­यो­ग­वि­शेषः कार­ण­मि­त्य­स्या­र्थस्य यत्सा­मा­न्य­न्या­य­सि­द्ध­त्वात् - इति शङ्कां परिहरति —
यत्सामान्य इति ।
सामा­न्य­का­र्य­का­र­ण­भावो यत्रा­ति­प्र­स­ङ्गा­वहः तत्रैवायं न्यायो नान्य­त्रे­त्यर्थः । न्यायस्य तद्विषयत्वेनेति सम्बन्धः ।

तत इति ।
न्यायादित्यर्थः ।

ननु बीज­सा­मा­न्य­स्या­ङ्कु­र­सा­मा­न्यस्य च कार्य­का­र­ण­भा­वो­प­गमे बीजा­न्त­रा­द­ङ्कु­रा­न्त­रो­त्प­त्ति­प्र­स­ङ्ग­वत् इहापि अति­प्र­स­ङ्ग­स­त्त्वात् उक्त­न्या­य­प्र­वृ­त्ति­र­स्त्ये­वेति शङ्कते —
न चात्रापीति ।

उक्ता­ति­प्र­स­ङ्ग­प­रि­हा­राय तत्त­द­ङ्कु­र­व्यक्तिं प्रति तत्त­द्बी­ज­व्य­क्ते­रु­क्त­न्या­येन हेतुत्वकल्पनवत् प्रकृतेऽपि तत्त­द्द्र­व्य­प्र­त्यक्षं प्रति तत्त­द्व्य­सं­यो­ग­स्यैव तेन न्यायेन कारणत्वं सिद्ध्यति, न तु तेन न्यायेन तृती­य­का­र्य­का­र­ण­भा­व­स्सि­द्ध्य­ति-इ­त्या­श­ये­नाह —
तत्तद्द्रव्येति ।

ननु तेन न्याये­ना­ति­प्र­स­ङ्ग­प­रि­हा­राय तृतीयनियम एव कुतो न कल्प्यते, तत्राह —
अन्यथेति ।
तृतीयनियमकल्पने इत्यर्थः ।

अति­प्र­स­ङ्ग­स्येति ।
अन्य­र­ज­त­च­क्षु­स्सं­यो­गात् अन्य­र­ज­त­चा­क्षु­षा­पत्तिः इत्ये­वं­रू­प­स्ये­त्यर्थः । न च व्यक्तिनियमवत् तृती­य­नि­य­मोऽ­प्य­स्त्विति वाच्यम्, अति­प्र­स­ङ्ग­प­रि­हा­रा­नु­प­यु­क्तस्य तस्य अजा­ग­ल­स्त­ना­य­मा­नस्य अकल्पनीयताया उक्तत्वादिति भावः ।

तस्मादिति ।
प्रथ­म­तृ­ती­य­नि­य­म­यो­र­सि­द्ध­त्वात् द्वितीयनिमस्य चावि­रु­द्ध­त्वा­दि­त्यर्थः ।

ननु प्रथ­म­द्वि­ती­य­नि­य­म­वि­रो­धस्य दुर्वारतायाः प्रागुक्तत्वात् तद­न्तः­पा­ति­व्य­क्ति­नि­य­म­वि­रो­ध­स्यापि दुर्वारत्वाच्च ‘नास्ति कॢप्तनियमभङ्गः’ इत्ययुक्तम्, अत आह —
किं चात्रेति ।
शुक्ति­र­ज­ता­दि­स्थले इत्यर्थः ।

अन­न्य­था­सि­द्ध­स्येति ।
स्वप्नकाले केव­ल­सा­क्षि­भा­स्येषु रजतादिषु चाक्षु­ष­त्वा­द्य­नु­भ­व­स्येव अत्रापि आरो­प­रू­प­त्व­क­ल्प­न­स­म्भ­वात् अन­न्य­था­सि­द्ध­त्व­म­सि­द्धम्, कॢप्त­सा­म­ग्र्य­भा­वस्य स्वप्न इवात्रापि तुल्यत्वात्, अन्यथा स्वप्नेऽ­पी­न्द्रि­य­व्या­पा­र­क­ल्प­ना­प्र­स­ङ्गात्, अनुभवविरोधे सति तत्काले तदुपरमश्रवणस्य अन्य­था­न­य­नो­प­पत्तेः - इत्या­दि­क­म­त्रा­नु­स­न्धे­यम् । अनु­भ­व­स्यो­प­पा­द­ना­स­म्भ­वा­दिति सम्बन्धः ।

कॢप्तनियमानां सङ्कोचकल्पने सति शुक्ति­र­ज­ता­दे­र­नि­र्व­च­नी­य­त्वा­सिद्धिं शङ्कते —
न चैवंसतीति ।
देशान्तरस्थं रजतादिकं भ्रमविषय इति न्यायमतम् । तत्र असन्निकृष्टस्य कथं प्रत्यक्षत्वं इत्य­नि­र्व­च­नी­य­ख्या­ति­वा­दिभिः शङ्कायां कृतायां, सन्नि­क­र्षः­प्र­त्य­क्षे­का­र­ण­मि­त्या­दि­नि­य­मस्य भवतां मते व्याव­हा­रि­क­प­दा­र्थ­प्र­त्य­क्ष­वि­ष­य­त्वेन सङ्कोचवत् मम मतेऽपि तस्य प्रत्य­क्ष­प्र­मायां सन्निकर्षः कारणमिति प्रत्य­क्ष­प्र­मा­वि­ष­य­त्वेन सङ्को­च­क­ल्प­नो­प­पत्तेः अन्य­था­ख्या­ति­वा­दस्य न किञ्चित् बाधकं, इति परिहारस्सुवचः परेषामित्यर्थः । भ्रमरूपे प्रत्यक्षे सन्नि­क­र्ष­स्या­हे­तु­त्वेऽपि नान्य­था­ख्या­ति­वा­द­प्र­स­क्ति­रिति परिहरति — अभिव्यक्तेति अर्थ­स्या­प­रो­क्षत्वे इन्द्रि­य­स­न्नि­कृ­ष्टत्वं न प्रयोजकं, किं त्वभि­व्य­क्त­चै­त­न्या­भि­न्न­त्व­मिति वक्ष्यते । तथा च भ्रमविषयस्य रज­ता­दे­र्दे­शा­न्त­र­स्थत्वे आपरोक्ष्यं न सम्भवतीति शुक्ति­ता­दा­त्म्या­पन्नं रजतं सिध्यतीत्यर्थः । अवकुण्ठनं तादात्म्यम् ।

नन्वेवमपि शुक्तिरजतं शुक्तिवत् सत्यमेव स्यात्, नानिर्वचनीयम्, मानाभावात् - इत्यत आह —
ख्यातीति ।
ख्याति­र­प­रो­क्ष­प्र­तीतिः । तया भ्रमविषयस्य देशा­न्त­र­स्थ­त्व­म­सत्त्वं च निरस्तं भवति । अस­त­स्सं­वि­त्ता­दा­त्म्या­भा­वेन प्रत्य­क्ष­त्वा­यो­गात् । ‘शुक्तौ कालत्रयेऽपि रजतं नास्ति’ इत्य­बा­धि­त­बा­ध­क­प्र­त्य­क्ष­ब­ला­द्र­ज­त­स्थि­ति­स­म­येऽपि शुक्तौ रज­ता­भा­व­स्सि­ध्यति । शुक्तौ यदि रजतं न स्यात् तदा ख्यात्य­नु­प­पत्तिः । यदि तत्र तत् सत्यं स्यात् तदा शुक्तौ शुक्तित्वमिव न बाध्येत । अतः­ख्या­ति­बा­धा­न्य­था­नु­प­पत्त्या तस्या­नि­र्व­च­नी­यत्वं सिध्यति । शुक्तिरजतस्य उत्प­त्ति­वि­ना­श­व­त्त्वा­च्चा­नि­र्व­च­नी­य­त्व­सिद्धिः । एतच्च विव­र्त­ल­क्ष­ण­नि­रू­प­णा­व­सरे प्रपञ्चितमिति नात्र प्रपञ्च्यते । उत्प­त्ति­म­त्त्वा­दि­यु­क्ति­रा­दि­श­ब्दार्थः ।

शुक्ति­र­ज­ता­दे­स्सा­क्षि­भा­स्य­त्व­वादी शुक्तिरजतस्य स्वता­दा­त्म्या­श्र­ये­द­म­र्थ­सं­प्र­यो­गा­देव चाक्षु­ष­वृ­त्ति­वि­ष­य­त्वेऽ­ति­प्र­सङ्ग इति शङ्कते —
न चेति ।

तत्रैवेति ।
शुक्तावेव कालान्तरे यदध्यसनीयं तस्येत्यर्थः कुत इति । या वृत्तिः­शु­क्ति­र­जतं विषयीकरोति सैव वृत्तिःशुक्तौ काला­न्त­रेऽ­ध्य­स­नीयं रङ्गमपि कुतो न विषयीकरोति, तस्या वृत्तेः रज­त­ता­दा­त्म्या­श्र­ये­द­म­र्थ­स­म्प्र­यो­ग­ज­न्य­त्व­स्येव काला­न्त­री­य­र­ङ्ग­ता­दा­त्म्या­श्र­ये­द­म­र्थ­स­म्प्र­यो­ग­ज­न्य­त्व­स्या­प्य­वि­शे­षा­दि­त्यर्थः । तथा च - सम्प्रयोगो न रज­त­गो­च­र­वृ­त्ति­हेतुः, किं तु सादृ­श्य­वि­शि­ष्ट­ध­र्मि­ज्ञा­न­मेव हेतुः । सादृश्यज्ञानं च दोषत्वेन धर्मिज्ञानत्वेन च रजताद्यध्यासे कारणम्, रजतादिकं च स्वगोचरवृत्तिं विनैव चैतन्यभास्यं - इतिमतमुपेयमिति भावः ।

तव मतेऽपि शुक्तौ कालान्तरे अध्यसनीयस्य रङ्गस्य रजताध्याससमय एवाध्यासः किं न स्यात्, अधिष्ठानस्य सादृश्यज्ञानस्य च रज­त­र­ङ्गा­ध्या­स­सा­धा­र­ण­त्वात्, इति दोषतौल्यं सूचयति —
रजताध्याससमय इति ।

यदि च दृश्य­मा­न­सा­दृ­श्य­रू­प­वि­ष­य­दो­षा­वि­शे­षेऽपि रजताध्याससमये रङ्गो­च­र­रा­गा­त्म­क­पु­रु­ष­दो­ष­स्या­भा­वा­द्र­ज­त­रा­गस्य सत्त्वाच्च न साङ्गाध्यास इति परिहार इष्यते, तदा ममापि तुल्यमुत्तरं इत्याशयेनाह —
यत इति ।
रागादिरूपो यः पुरुषदोषः, तद­भा­वा­दे­स्स­का­शा­दि­त्यर्थः । रागा­दी­त्या­दि­प­देन रङ्गस्य बुद्धौ विपरिवर्तनं गृह्यते । दोषाभावादित इत्यादिपदेन रजतरागो गृह्यते ।

तत एवेति ।
रङ्गो­च­र­रा­गा­दे­र­भा­वा­द्र­ज­त­रा­ग­स­त्त्वात् अन्यस्माद्वा कारणात् रजतस्यैव तत्रोत्पत्तिः तत्काले रज­त­वि­शि­ष्ट­ध­र्मि­गो­च­र­वृ­त्ते­रु­द­यश्च उपेयते इत्यर्थः ।

कवि­ता­र्कि­क­म­त­मु­प­सं­ह­रति —
तस्मादिति ।
धर्मिज्ञानस्य कारणत्वे माना­भा­वा­दि­त्यर्थः ।

नात्रेति ।
इद­मा­का­र­वृ­त्ता­वि­त्यर्थः ।

धर्मिज्ञानस्य कारणत्वे माना­भा­व­व­च­न­मा­पा­तत इत्युपपादितं तत्रतत्र ।तदेतदभिसन्धाय तस्य तत्का­र­ण­त्व­म­त­मे­वाह —
अन्ये त्वधि­ष्ठा­न­ज्ञा­न­मिति ।

इद­मा­का­र­वृ­त्ति­प­क्षेऽपि रज­त­गो­च­र­वृ­त्ति­र­ङ्गी­क­र्त­व्येति केचित्, तन्मतं दूषयति —
इदमाकारामिति ।
अन्ये त्विदमाकारां वृत्तिमुपेत्य रजताकारा वृत्ति­र्व्य­र्थेति मन्यन्त इति सम्बन्धः । इद­मा­का­र­वृ­त्त्यु­प­गमे हेतुः अधि­ष्ठा­न­ज्ञा­न­म­ध्या­स­का­र­ण­मि­तीति । इतिशब्दो हेत्वर्थः । धर्मि­ज्ञा­न­स्या­ध्या­स­का­र­ण­त्वा­दि­त्यर्थः ।

इद­मा­का­र­वृ­त्ति­व्य­ति­रिक्ता रजताकारवृत्तिः किं रजतभानार्था किं वा तत्संस्कारार्था ? नाद्य इत्याह —
तद­भि­व्य­क्ते­नै­वेति ।
इद­मा­का­र­वृ­त्त्य­भि­व्य­क्ते­नै­वे­त्यर्थः ।

द्वितीयं दूषयति —
तद्भासकेति ।
न चान्य­गो­च­र­वृत्त्या कथ­म­न्य­गो­च­र­सं­स्का­रा­धा­न­मिति वाच्यम् । यद्वृ­त्त्य­व­च्छि­न्न­चै­तन्ये यावन्तः पदार्थाः प्रकाशन्ते तयैव वृत्त्या तावत्सु पदार्थेषु संस्काराधानमिति प्रागु­क्त­त्वा­दिति भावः । ये तु — स्वगो­च­र­वृ­त्त्यैव स्वगो­च­र­सं­स्का­रा­धा­न­मिति - मन्यन्ते, तेषां मते अध्य­स्त­र­ज­त­गो­च­र­वृ­त्ति­र­प्यस्ति ।

तत्र किं द्वितीया वृत्तिः अध्य­स्त­र­ज­त­वि­शि­ष्ट­ध­र्मि­गो­चरा किं वा रजतमात्रगोचरेति संशये मतद्वयेन निर्णयं दर्शयति —
ज्ञानद्वयपक्ष इत्यादिना ।
द्वितीया वृत्तिः इदं­र­ज­त­मि­त्ये­व­मा­कारा सती अध्य­स्त­र­ज­त­वि­ष­येति सम्बन्धः ।

आका­र­वि­शे­षो­पा­दा­न­फ­ल­माह —
न त्विति ।

द्विती­य­वृ­त्ते­र्वि­शि­ष्ट­वि­ष­य­कत्वे अनुभवं प्रमाणयति —
इदं रजतं जानामीति ।

द्विती­य­वृ­त्ते­र­ध्य­स्त­मा­त्र­वि­ष­य­क­त्व­मि­ति­म­त­माह —
अन्ये त्विति ।

ज्ञानद्वयपक्षे द्विती­य­वृ­त्ति­र­वि­द्या­वृ­त्ति­रिति प्रतिपादयति —
यथेत्यादिना ।
विवर्तते-परिणमत इत्यर्थः ।

एवमिति ।
इदमंशविषयं यत् वृत्तिज्ञानं तद­व­च्छि­न्ने­त्यर्थः । इद­मा­का­र­वृ­त्त्य­व­च्छि­न्न­चै­त­न्य­ग­ता­विद्या अध्य­स्त­र­ज­त­मा­त्र­गो­च­र­वृ­त्ति­रू­पेण परिणमते । सा च वृत्ति­र्ज्ञा­ना­भासः । कॢप्त­ज्ञा­न­क­र­णा­ज­न्य­त्वा­दि­त्यर्थः ।

अनध्यस्तमिति ।
ज्ञानाभासरूपं रजतज्ञानं रजतवत् प्रातिभासिकमेव, न त्विद­मा­का­र­वृ­त्ति­व­द्व्या­व­हा­रि­कम्, ज्ञानाभासस्यापि शुक्तिरजतवदेव शुक्त्य­ज्ञा­न­नि­व­र्त­क­प्र­त्य­क्ष­बा­ध्य­त्वा­दि­त्यर्थः ।

ज्ञानाभासस्य रज­त­मा­त्र­वि­ष­य­कत्वे तस्य ‘इदं रजतम्’ इत्याकारो न स्यात् इत्याशङ्क्य, ज्ञानाभासस्य इद­मं­श­वि­ष­य­क­त्वा­भा­वेऽपि तस्य तदाकारः सम्भ­व­ती­त्या­श­ये­नाह —
तथा चेति ।
ज्ञानाभासं प्रति इदं­वि­ष­य­क­वृ­त्त्य­व­च्छि­न्न­चै­त­न्य­स्या­धि­ष्ठा­नत्वे सतीत्यर्थः । इदमंशज्ञाने ज्ञानाभासं प्रत्य­धि­ष्ठा­न­भूते विद्यमानं यदिदंविषयकत्वं, तत्संसर्गो रज­त­गो­च­र­ज्ञा­ना­भासे भासते ।

तत्र दृष्टान्तमाह —
रजतस्येति ।
रज­ता­धि­ष्ठा­न­ग­त­स्ये­दं­त्वस्य संसर्गो यथा रजते भासते तथेत्यर्थः । ननु ज्ञानाभासेन रजते गृह्यमाणे इदंत्वसंसर्गो गृह्यते चेत् इदंत्वमपि तेनावश्यं ग्राह्यम् । इदंत्वग्रहणं विना तत्सं­स­र्ग­ग्र­ह­णा­यो­गात् ।

तथा च ज्ञानाभासस्य रज­त­वि­शि­ष्टे­द­मं­श­वि­ष­य­कत्व सिद्धिरिति शङ्कते —
न चेति ।

संसर्गांशस्य रज­त­ज्ञा­ना­भा­स­गो­च­रत्वे हेतुगर्भं विशेषणम् —
अध्यस्तस्येति ।

वक्तव्यमिति ।
अन्यथा घट­त्वा­दि­नि­रू­पि­त­सं­स­र्ग­प्र­त्य­क्षस्य घट­त्वा­दि­वि­ष­य­कत्वं न स्यात् इत्य­ति­प्र­स­ङ्गा­प­त्ते­रिति भावः ।

ज्ञानाभासस्य इदं­त्व­रू­प­प्र­ति­यो­गि­वि­ष­य­क­त्वा­भा­वेऽपि ज्ञानाभासं प्रत्य­धि­ष्ठा­न­तया ज्ञाना­भा­स­ता­दा­त्म्या­प­न्नस्य इदमंशज्ञानस्य प्रति­यो­गि­वि­ष­य­क­त्वात् ज्ञानाभासस्य संसर्गविषयकत्वं सम्भवति, तावतैव उक्ता­ति­प्र­स­ङ्ग­प­रि­हा­रो­प­पत्तेः - इति परिहरति —
स्वता­दा­त्म्या­श्र­य­स्येति ।
स्वपदं ज्ञानाभासपरम् ।

वृत्तिभेदेऽपीति ।
अध्य­स्त­मा­त्र­गो­च­रा­वि­द्या­वृ­त्ते­र्वि­व­र­ण­का­रै­रे­वा­भ्यु­प­ग­मात् तदुक्तनियमे ज्ञानपदं साक्षिपरमेव न वृत्तिपरं इति विव­र­ण­का­रा­णा­मा­शयो लक्ष्यत इति भावः ।