कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
भ्रमकारणीभूतेदमाकारवृत्तेरावरणाभिभावकत्वनिरूपणम्
उक्तनियममप्याक्षिपति —
नन्विति ।
‘इदं रजतं’ इति भ्रमस्थले प्रथमं इदमाकारा अपरोक्षवृत्तिरुदेति, पश्चात् ‘इदं रजतं’ इति भ्रमो भवति । तत्र इदमाकारायाः प्रथमोत्पन्नवृत्तेः अज्ञाननिवर्तकत्वं किं नास्ति उतास्ति ।
आद्ये नियमस्य व्यभिचारमाह —
नायमपीति ।
यथा अपरोक्षवृत्तिमात्रमज्ञाननिवर्तकमिति नियमो नास्ति, अहमाकारवृत्तौ व्यभिचारात्, तथा बाह्यगोचरापरोक्षवृत्तिमात्रमज्ञाननिवर्तकमिति नियमोऽपि नास्ति, इदमाकारवृत्तौ व्यभिचारादित्यर्थः ।
द्वितीये बाधकमाह —
अन्यथेति ।
इदमाकारवृत्तेरज्ञानाभिभावकत्वे इत्यर्थः । इदमाकारवृत्तिनिवर्त्याज्ञानमन्यत्, रजतोपादानभूताज्ञानमन्यत् ।
तथा च न व्यभिचारः, न वा रजतोत्पत्त्ययोगः इति परिहरति —
अत्राहुरिति ।
शुक्तित्वादिविशेषांशावारकाज्ञानमेव राजतोपादानं इत्यत्र मानमाह —
शुक्तित्वाद्यज्ञान इति ।
नीलपृष्ठत्वादिकमादिपदार्थः । रजतमेव अध्यस्यत इत्यध्यासः । प्रथमतत्पदं विशेषांशपरम् । द्वितीयतत्पदमध्यासपरम् ।
तत्र सम्मतिमाह —
अध्यासेति ।
टीका-पञ्चपादिका । अनुभूयमानौ अन्वयव्यतिरेकौ यस्येति विग्रहः । ननु — पुरोवर्तिद्रव्यस्य शुक्तित्वादिविशेषरूपविशिष्टस्यैव रजतकारणाज्ञानावृतत्वाभ्युपगमे तस्यैवाधिष्ठानत्वं स्यात्, न तु इदंत्वरूपविशिष्टस्येदमंशस्य । सविलासाज्ञानविषयस्यैव अधिष्ठानत्वात् ।
तथा च अधिष्ठानारोप्ययोरेकज्ञानविषयत्वनियमात् शुक्तीरजतमिति भ्रमाकारः स्यात्, न स्याच्च इदं रजतमिति प्रतीत्याकारः इदमंशस्याधिष्ठानात्वभावात् - इत्यत आह—
अत एवेति ।
अध्यासोपादानाज्ञानविषयत्वादेवेत्यर्थः ।
शुक्त्यंश इति ।
शुक्तित्वविशेषरूपेण पुरोवर्त्यवच्छिन्नचैतन्यमित्यर्थः ।
इदमंशस्याधिष्ठानत्वाभाव इष्ट इत्याशयेनाह —
इदमंश इति ।
ननु तस्याधारत्वे आगतमेवाधिष्ठानत्वम्, तयोर्भेदाभावादिति - नेत्याह —
सविलासेति ।
विलासो रजतादिविक्षेपः विषयत्वमावृतत्वम् ।
अतद्रूपोऽपीति ।
तत्पदं अध्यस्तरजतादिपरम् । तथा च अध्यस्तरजताद्यभेदरहितोऽपि तदभिन्नत्वेन स्फुरन् इत्यर्थः । अधिष्ठानस्यैव आरोपितरजततादात्म्यात् वस्तुगत्या इदमंशस्य अतद्रूपत्वमिति बोध्यम् । अस्मिन् मते अधिष्ठानारोप्ययोरेकज्ञानविषयत्वं नास्ति, किं तु आधारारोप्ययोरेव तत् इति न भ्रमस्य शुक्त्यंशोल्लेखापत्तिरिति भावः ।
नन्वधिष्ठानारोप्ययोः आरोपे प्रकाशमानत्वस्य सम्भावनाभाष्यटीकाविवरणादिषु समर्थितत्वात् तद्विरोधः इत्याशङ्क्य, मतान्तरं तदविरुद्धमाह —
अपरेत्विति ।
संभिन्नत्वं-तादाम्यमिति यावत् ।
अज्ञानमेवेति ।
न तु विशेषांशाज्ञानं इत्येवकारार्थः । विशेषांशस्य आरोपे स्फुरणाभावेन तस्य अधिष्ठानत्वासम्भवादिति भावः । शुक्तित्वादिरूपविशेषदर्शनस्य अध्यासप्रतिबन्धकत्वात् तदभावविषयौ पूर्वोक्तान्वयव्यतिरेकौ इति भावः ।
नन्विदमाकारवृत्त्या इदमंशाज्ञानस्य निवृत्तत्वात् कथमिदमंशस्याधिष्ठानत्वम्, अत आह —
तस्य चेति ।
इदमंशाज्ञानस्येत्यर्थः ।
ननु अज्ञानस्यावरणांशमात्रनिवृत्तिः विक्षेपशक्त्या सह अनुवृत्तिश्च क्वापि न दृष्टा, अत आह —
जलप्रतिबिम्बेति ।
प्रपञ्चेति ।
जीवन्मुक्तस्याप्यन्तःकरणादिप्रपञ्चप्रतीतेः सत्त्वादिति भावः ।
सर्वात्मनेति ।
रजतादिभ्रमस्थले हि सर्वात्मना अधिष्ठानसाक्षात्कारो नास्ति । शुक्तित्वादिविशेषरूपेण शुक्तिसाक्षात्काराभावात् । अतस्तत्र इदमंशाज्ञाननिवृत्तावपि विशेषांशाज्ञाननिवृत्त्यभावात् तस्य अध्यासोपादानत्वप्रसक्तिरस्ति । प्रतिबिम्बभ्रमस्थले तु ‘जले वृक्षो नास्त्येव, ऊर्ध्वाग्र एवायं वृक्षः इति सर्वात्मना विशेषदर्शनस्य सत्त्वात् ‘सामान्यांशाज्ञानं निवृत्तं विशेषांशाज्ञानमनिवृत्तं’ इति विभागासम्भवेन विशेषांशाज्ञानमुपादानमिति वक्तुमशक्यम् । तस्मादत्र वृक्षाधोऽग्रत्वाध्यासानुरोधेन एकस्यैवाज्ञानस्य आवरणांशनिवृत्तावपि विक्षेपशक्तिमदज्ञानांशानुवृत्तिरुपेया । तथा जीवन्मुक्त्यवस्थायामपि ब्रह्मतत्त्वसाक्षात्कारात् आवर[णांश](ण)मात्रनिवृत्तिः विक्षेपशक्तिमदज्ञानांशानुवृत्तिश्च वाच्या । तथा रजताध्यासस्थलेऽपि इदमंशाज्ञानस्य उपादानत्वं सम्भवतीति भावः ।
एवं बाह्यगोचरापरोक्षवृत्तीनां सर्वासामेव आवरणाभिभावकत्वनियमस्य भ्रमस्थलीयेदमाकारवृत्तौ या व्यभिचारशङ्का सा तत्रापि इदमंशाज्ञाननिवर्तकत्वस्य इदमंशावरणमात्रनिवर्तकत्वस्य वा सत्त्वात् इत्युपपादनेन निरस्ता । इदानीं प्रथममिदमाकारवृतिरेव भ्रमस्थले नास्ति तत्र व्यभिचारशङ्कातत्समाधाने तु दूरत एव निरस्ते इत्याह —
कवितार्किकेति ।
भ्रमरूपवृत्तीति ।
पूर्वमतद्वये इदमाकारवृत्तेः सत्त्वात्तदभिव्यक्तचैतन्यरूपमेव शुक्तिरजतादिज्ञानं, न तु वृत्तिरूपम् । अस्मिन् मते तदभावात् वृत्तिरूपमेव तज्ज्ञानमिति मन्तव्यम् एतच्चाग्रे स्फुटं भविष्यति ।
धर्मिज्ञानरूपामिदमाकारवृत्तिं निराकरोति —
तथाहीत्यादिना ।
सा किमनुभवसिद्धा, उत कार्यकल्प्या, अथवा सामग्रीकल्प्या ।
नाद्य इत्याह —
न तावदिति ।
ज्ञानद्वित्वेति ।
‘इदमित्येकं ज्ञानम्, इदंरजतमितिज्ञानमपरम्’ इत्यनुभवाभावादित्यर्थः ।
द्वितीयं निराकरोति —
नाप्यधिष्ठानेति ।
अध्यासरूपं कार्यं स्वकारणमधिष्ठानगोचरसामान्यज्ञानमन्तरेणानुपपद्यमानं सत् तत् कल्पयति, ततश्चाधिष्ठानसामान्यज्ञानरूपा इदमाकारवृत्तिस्सिध्यति - इत्यपि न मन्तव्यम्, अधिष्ठानसामान्यज्ञानस्य अध्यासकारणत्वे मानाभावादित्यर्थः ।
मानाभावोऽसिद्ध इति शङ्कते —
न चेति ।
इदमर्थस्य चक्षुरादिभिः सम्प्रयोगे सति रजतादिरूपस्याध्यासस्योत्पत्तिः नान्यथा इत्यनुभवसिद्धम् । तथा च उक्तान्वयव्यतिरेकाभ्यामधिष्ठानसामान्यज्ञानस्य रजताद्यध्यासं प्रति कारणत्वं सिद्ध्यति । न च उक्तान्वयादिना सम्प्रयोगस्यैवाध्यासकारणत्वं सिद्ध्यति न धर्मिज्ञानस्येति वाच्यम् । तथासति अहङ्काराद्यध्यासे सम्प्रयोगासम्भवेन व्यभिचारापत्तेः । अतः सम्प्रयोगस्याध्यासं प्रति कारणत्वग्राहकाभ्यामेवान्वयव्यतिरेकाभ्यां शुक्तिरजताद्यध्यासस्थले धर्मिज्ञानस्यैव सम्प्रयोगसाध्यस्य कारणत्वं कल्प्यते । तथा च अधिष्ठानसामान्यज्ञानस्याध्यासकारणत्वे उक्तान्वयव्यतिरेकौ प्रमाणं भवत एवेति गूढाभिसन्धिः ।
अभिसन्धिमज्ञात्वा दूषयति —
तत इति ।
उक्तान्वयादित इत्यर्थः । सम्प्रयोगमात्रस्य प्रमास्थलसाधारणत्वात् दुष्टेत्युक्तम् ।
धर्मिज्ञानकारणवादी स्वाभिसन्धिमाविष्करोति —
न च सम्प्रयोग इति ।
अधिष्ठानसामान्यज्ञानस्य सम्प्रयोगस्येव न व्यभिचार इत्याह —
अधिष्ठानस्फुरणं त्विति ।
सम्प्रयोगवैलक्षण्यार्थः तुशब्दः । अधिष्ठानस्फुरणं कर्तृ । शुक्तिरजताद्यध्यासमिव अहङ्काराद्यध्यासमपि व्याप्नोतीत्यर्थः ।
स्वत इति ।
बाह्यचैतन्यस्यावृतत्वात् वृत्तिकृतं तत्र अधिष्ठानस्फुरणम्, साक्षिचैतन्यस्यानावृतत्वात् अहङ्काराद्यध्यासे स्वप्नप्रपञ्चाध्यासे च तत् स्वतस्सिद्धमित्यर्थः ।
अधिष्ठानसामान्यज्ञानस्यापि व्यभिचारमाह —
तस्यापीति ।
उक्तज्ञानं तच्छब्दार्थः । घटाद्यध्यासव्यापित्वाभावादित्यर्थः । तथा च धर्मिज्ञानं नाध्यासकारणमिति भावः ।
अव्यापित्वशब्दितं व्यभिचारमेवोपपादयति —
घटादीत्यादिना ।
घटाद्यध्यासस्थले शुक्तिरजताध्यासस्थल इव किं वृत्तिकृतमधिष्ठानस्फुरणम्, अहङ्काराद्यध्यासस्थल इव स्वतस्सिद्धं वा ।
नाद्य इत्याह —
घटादिप्रत्यक्षादिति ।
तत्पदं घटादिपरम् ।
न द्वितीय इत्याह —
स्वरूपेति ।
ननु - अधिष्ठानप्रकाशमात्रमध्यासे कारणं लाघवात्, न त्वभिव्यक्ताधिष्ठानप्रकाशः ।
तथा च ‘सन् घटः, सन् पटः’ इत्यादिरूपेष्वध्यासेषु घटाद्यधिष्ठानस्य सद्रूपस्य ब्रह्मणः स्वप्रकाशत्वात् अधिष्ठानप्रकाशमात्रं तत्राप्यस्तीति न व्यभिचारः-इत्याशङ्क्याह —
आवृतानावृतेति ।
तदापीति ।
सम्प्रयोगात्प्राक्कालेऽपीत्यर्थः ।
धर्मिज्ञानकारणवादी शङ्कते —
न चाध्याससामान्य इति ।
प्रातिभासिकेति ।
अभिव्यक्ताधिष्ठानस्फुरणं प्रातिभासिकाध्यासेष्वेव कारणं आचार्याणामभिप्रेतम् । तेष्वेव दोषसम्प्रयोगसंस्काररूपकारणत्रयजन्यताया अध्यासभाष्यटीकाविवरणादिषु व्यवस्थापितत्वेन सम्प्रयोगकारणताग्राहकप्रमाणलभ्याधिष्ठानापरोक्ष्यस्य तेष्वेव कारणत्वसिद्धेरित्यर्थः । प्रकाशपदानन्तरं हेतुपदमनुषञ्जनीयम् ।
नातिप्रसङ्ग इति ।
न सम्प्रयोगात्प्राक् रजताद्यध्यासप्रसङ्ग इत्यर्थः । रजताद्यध्यासस्य प्रातिभासिकत्वेन तदधिष्ठानापरोक्ष्याय सम्प्रयोगाधीनवृत्तेरपेक्षितत्वादिति भावः ।
औचित्यादिति ।
तथा च धर्मिज्ञानस्याध्यासकारणत्वे सम्प्रयोगकारणताग्राहकान्वयादेः प्रमाणस्य सत्त्वात् बाधकाभावाच्च तस्याध्यासकारणत्वसिद्धौ इदमाकारा वृत्तिः सिद्धेति भावः ।
अभिव्यक्ताधिष्ठानप्रकाशस्य प्रातिभासिकाध्यासेष्वपि सर्वत्र व्याप्तिर्नास्तीति कवितार्किकमतानुवर्ती दूषयति —
एवमपीति ।
अधिष्ठानापरोक्ष्यस्य प्रातिभासिकाध्यासमात्रहेतुत्वे स्वीकृतेऽपीत्यर्थः । धर्मिज्ञानकारणवादे हि प्रथमं इदमित्येवमाकारा वृत्तिरुदेति, तया च वृत्त्या अभिव्यक्ते शङ्खजलाद्यवच्छिन्नचैतन्ये पीतनीलरूपादेरध्यासः - इति प्रक्रिया ।
तथा च तत्र इदमाकारा वृत्तिः किं शङ्खादिद्रव्यमात्रं विषयीकरोति, किं वा रूपविशिष्टं द्रव्यम् ? नाद्य इत्याह —
रूपानुपहितेति ।
रूपाविषयकद्रव्यचाक्षुषवृत्तिर्न सम्भवति, इतरथा वाय्वादेरपि चाक्षुषत्वापत्तेः इति भावः । द्वितीयेऽपि किं शुक्लरूपविशिष्टं द्रव्यं विषयीकरोति, किं वा आरोप्यरूपविशिष्टम् ? न द्वितीयः - आरोप्यरूपविशिष्टशङ्खादिवृत्तेरेव भ्रान्तित्वेन तस्याः धर्मिज्ञानत्वाभावात् ।
नाद्य इत्याह —
तदानीमिति ।
अध्यासात्पूर्वकाल इत्यर्थः । तदानीं शौक्ल्योपलम्भे च अध्यासाभावप्रसङ्गादिति भावः ।
असम्भवादिति ।
तथा च अभिव्यक्ताधिष्ठानस्फुरणस्य तत्रासम्भवात् व्यभिचारेण धर्मिज्ञानं नाध्यासकारणमिति भावः । ननु-अध्यासात्पूर्वं द्रव्यमात्ररूपेण शङ्खादिगोचरचाक्षुषवृत्तिरुदेत्येव । द्रव्यगोचरचाक्षुषवृत्तौ रूपविषयकत्वनियमस्याप्रयोजकत्वात् । न चैवं वाय्वादेरपि चाक्षुषत्वप्रसङ्गः । द्रव्यचाक्षुषे द्रव्यगतोद्भूतरूपस्य नियामकत्वात्, अध्यासात् पूर्वकाले द्रव्यग्रहणेऽपि शुक्तित्वादेरिव दोषबलात् सन्निकृष्टस्यापि शुक्लरूपमात्रस्य अग्रहणोपपत्तेश्च । तदुक्तं भामत्यां — ‘शङ्खं च दोषाच्छादितशुक्लिमानं द्रव्यमात्रस्वरूपं गृहीत्वा’ इति । शुक्लिमाशुक्लरूपमित्यर्थः । अस्तु वा तत्र शुक्लरूपविशिष्टशङ्खादिग्रहणम् । तथापि नाध्यासानुपपत्तिः । दोषबलेन रूपगतशुक्लत्वजातिग्रहणप्रतिबन्धमात्रेणापि तदुपपत्तेः । तथा च प्रातिभासिकाध्यासेषु अभिव्यक्ताधिष्ठानस्फुरणस्य व्यभिचाराभावात् धर्मिज्ञानरूपा इदमाकारवृत्तिः सिद्धा भवति । तत्सिद्धौ च तस्यामावरणनिवर्तकत्वसदसद्भावचिन्ता सालम्बनैवाचार्याणां न निरालम्बना - इति चेत्, सत्यम् । अस्मिन्मते अयमेवास्वरसः ‘उपाध्याया मन्यन्ते’ इत्यनेन सूचितः ।
पीतशङ्खादिभ्रमस्थले वस्तुतो व्यभिचाराभावेऽपि तमभ्युपगम्य धर्मिज्ञानकारणवादी शङ्कते —
न च प्रातिभासिकेष्वपीति ।
निरुक्त इति ।
अभिव्यक्ताधिष्ठानप्रकाश इत्यर्थः ।
तथासतीति ।
पीतशङ्खाद्यध्यासेषु अभिव्यक्ताधिष्ठानप्रकाशस्य हेतुत्वानुपगमे सति इत्यर्थः । अधिष्ठानापरोक्ष्यवत् सम्प्रयोगस्यापि पीतशङ्खाद्यध्यासेषु कारणत्वानुपगमे सम्प्रयोगात् प्रागपि पीतश्शङ्ख इत्याद्यध्यासप्रसङ्गः, अतस्तत्परिहाराय तत्र सम्प्रयोगस्य कारणत्वमवश्यं वाच्यमित्यर्थः ।
ततः किं, तत्राह —
तस्यैवेति ।
दुष्टेन्द्रियसम्प्रयोगस्यैवेत्यर्थः ।
सामान्यत इत्युक्तं सामान्यमेव दर्शयति —
प्रातिभासिकाध्यासमात्र इति ।
प्रातिभासिकाध्यासत्वमेव दुष्टेन्द्रियसंप्रयोगकार्यतावच्छेदकम्, लाघवात्, न तु पीतशङ्खाद्यध्यासत्वम्, गौरवादित्यर्थः ।
ततोऽपि किं, तत्राह —
तत एवेति ।
सम्प्रयोगात् प्राक् पीतशङ्खाद्यध्यासप्रसङ्गपरिहाराय तत्र सामान्यतः कॢप्तात् दुष्टेन्द्रियसम्प्रयोगादेवेत्यर्थः ।
कादाचित्कत्वस्यापीति ।
सदा रजताद्यध्यासप्रसङ्गपरिहाराय अभिव्यक्ताधिष्ठानप्रकाशस्य रजताद्यध्यासकारणत्वं वाच्यम्, तथासति शुक्त्यवच्छिन्नचैतन्यरूपस्याधिष्ठानप्रकाशस्य आवृततया सदा तदभिव्यक्तेरभावेन सदा रजताद्यध्यासप्रसङ्गपरिहारोपपत्तेः - इति हि धर्मज्ञानकारणतावादिनस्तवाभिप्रायः । स चातिप्रसङ्गपरिहारः पीतशङ्खाद्यध्यासस्थले कॢप्तात् सम्प्रयोगादेव लभ्यत इत्यर्थः ।
सामान्यत इति ।
अधिष्ठानप्रकाशमात्रं अध्यासमात्रे कारणम्, अभिव्यक्ताधिष्ठानप्रकाशः प्रातिभासिकाध्यासे कारणं - इति पूर्वोक्तकार्यकारणभावद्वयमपि न सिध्यतीत्यर्थः । ननु - ‘तस्यैव सामान्यतः प्रातिभासिकाध्यासमात्रे लाघवात् कारणत्वसिद्धौ’ इत्ययुक्तम्, अहङ्काराद्यध्यासे साक्षिचैतन्ये स्वप्नाध्यासे च सम्प्रयोगासम्भवेन व्यभिचारात् । न च अहङ्काराद्यध्यासस्य व्यावहारिकत्वमते तत्र व्यभिचारो न दोष इति वाच्यम् । तथापि तत्प्रातिभासिकत्वमते दोषपरिहारासम्भवात्, साक्षिणि स्वप्नाध्यासे प्रातिभासिकत्वस्य सम्प्रतिपन्नतया तत्र उक्तव्यभिचारस्य दृढत्वाच्च । न च - स्वप्नाध्यासे अभिव्यक्ताधिष्ठानस्फुरणं कारणम्, अन्यथा स्वप्नप्रपञ्चस्यापरोक्ष्याभावप्रसङ्गात्, बाह्यप्रातिभासिकाध्यासेषु तु दुष्टेन्द्रियसम्प्रयोगः कारणमिति न तस्य व्यभिचार इति - वाच्यम् । प्रातिभासिकाध्यासमात्रे त्वदुक्तलाघवेन अभिव्यक्ताधिष्ठानप्रकाशस्य कारणत्वौचित्यात्, बाह्याध्यासेषु सम्प्रयोगस्य अधिष्ठानचैतन्याभिव्यञ्जकवृत्त्युत्पादकतया चारितार्थ्यसम्भवाच्च, पीतशङ्खाद्यध्यासस्थलेऽपि अधिष्ठानचैतन्याभिव्यञ्जकवृत्तिसम्भवस्य दर्शितत्वाच्च - इति चेत्, सत्यम् - सूक्ष्मदृष्ट्या विचार्यमाणे एवमेव । स्थूलदृष्ट्या तु सम्प्रयोगस्य लाघवात् प्रातिभासिकाध्यासमात्रे कारणत्वमुक्तमिति मन्तव्यम् ।
शुक्तिरजताद्यध्यासात्प्रागिदमाकारवृत्तिसिद्धये प्रकारान्तरेण धर्मिज्ञानस्य कारणत्वं शङ्कते —
ननु सादृश्येति ।
अध्यासान्तर इति ।
पीतशङ्खाद्यध्यास इत्यर्थः । शङ्खादेः पीतरूपादेश्च सादृश्याभावादिति भावः । तत्पदं सादृश्यपरम् । रजतादिना सह शुक्त्यादेः सादृश्यभूतो यो रूपविशेषादिः तद्विशिष्टधर्मीत्यर्थः । स्थाण्वादौ पुरुषाद्यध्यासापेक्षितमूर्ध्वत्वादिकं आदिशब्दार्थः ।
सम्प्रयोगमात्रस्येति ।
सादृश्यानपेक्षायामिति मात्रशब्दार्थः । अग्निदग्धं नीलरूपवत्काष्ठं इङ्गालशब्दार्थः । ननु - अपेक्षितमपि सादृश्यं स्वरूपसदेवाध्यासकारणं, तावता उक्तातिप्रसङ्गनिरासात् । न ज्ञातं सत् कारणम् ।
तथा च न धर्मिज्ञानस्य कारणत्वसिद्धिः इति मत्वा शङ्कते —
न च सादृश्यमपीति ।
स्वरूपसतः कारणत्वे सादृश्यभ्रमादध्यासो न स्यात् । सादृश्यभ्रमस्थले स्वरूसतः सादृश्यस्य अभावात् ।
अतः सादृश्यज्ञानं भ्रमप्रमासाधारणमध्यासकारणं वाच्यमिति तद्विशिष्टधर्मिज्ञानसिद्धिरिति धर्मिज्ञानकारणवादी परिहरति —
विसदृशेऽपीति ।
तत्रोदाहरणमाह -
जलधिसलिलपूर इति ।
प्रवाहः पूरशब्दार्थः । जलस्य वस्तुतश्शुक्लरूपवत्त्वान्नीलशिलातलसादृश्यं नास्ति । अतस्सादृश्यभ्रमात् नीलशिलातलत्वारोप इति भावः । ननु-धर्मिज्ञानकारणतापक्षेऽपि तत्सामग्रीत्वेन दुष्टेन्द्रियसंप्रयोगोऽवश्यं वाच्यः ।
तथा च आवश्यकत्वादध्यासविशेषकारणतावच्छेदकं सादृश्यज्ञानसामग्रीत्वमेव, न तु सादृश्यज्ञानत्वम्, ततश्च न धर्मिज्ञानसिद्धिः-इत्याशयेन इङ्गाले रजताध्यासप्रसङ्गं विस्मृत्य शङ्कते —
न च तद्धेतोरेवेति ।
‘तद्धेतोरेवास्तु तद्धेतुत्वं मध्ये किं तेन’ इति न्यायादित्यर्थः ।
धर्मिज्ञानवादी निराकरोति —
ज्ञानसामग्र्या इति ।
धर्मिज्ञानकारणतामते हि धर्मिज्ञानं रजतादिरूपार्थोत्पत्तौ कारणमिष्यते । तथा च तद्धेतोरेवेति न्यायेन धर्मिज्ञानसामग्रीभूतसम्प्रयोगस्य कारणत्वमुच्यमानं रजताद्यर्थोत्पत्तावेव भवेत् । तच्च न सम्भवति, सन्निकर्षस्य ज्ञान इव विषयोत्पत्तौ कारणतायाः क्वचिदप्यकॢप्तत्वात् इत्यर्थः ।
तत इति ।
सादृश्यज्ञानसामग्रीत्वापेक्षया सादृश्यज्ञानत्वस्यैव कारणतावच्छेदकत्वे लाघवादित्यर्थः । तथा च धर्मिज्ञानसिद्धिरिति भावः ।
सादृश्यज्ञानस्याध्यासविशेषे कारणत्वाभावेऽपि व्यवस्थासम्भवात् न धर्मिज्ञानसिद्धिरिति मत्वा पुनश्शङ्कते —
न च स्वत इति ।
जलस्य मुक्ताफलस्य च नैल्येन सादृश्याभावे समानेऽपि जल एव नैल्याध्यासो दृश्यते न मुक्ताफल इति व्यवस्थायां जलादिवस्तुस्वभाव एव हेतुः, नान्यइत्यर्थः ।
ननु पात्रगतनैल्यसन्निधानं जले तदध्यासे नियामकं न स्वभावः, इत्यत आह —
शुभ्रकलधौवेति ।
निर्मलसौवर्णपात्रविशेषगतेऽपीत्यर्थः ।
नन्वेवमपि जलगतनीलरूपवद्द्रव्यसंसर्गात्तत्रैव तदध्यास इति, नेत्याह —
स्वतश्शुभ्रेऽपीति ।
जलविशेषणमिदम् । स्वतश्शुभ्रपदव्याख्यानं स्वच्छ इति पदम् ।
एवं क्वचित् स्वभावस्यैवाध्यासप्रयोजकत्वे कॢप्ते फलितमाह —
वस्तुस्वभावादेवेति ।
उक्ते पीतशङ्खाध्यास इव भृङ्गारगतजले नैल्याध्यासे सादृश्यज्ञानानपेक्षत्वेऽपि पुण्डरीकमुकुलत्वाध्यासे तदपेक्षाया अन्वयव्यतिरेकसिद्धत्वेन तद्वच्छुक्तिरजताद्यध्यासेऽपि सादृश्यज्ञानभावाभावाभ्यामेव व्यवस्था, न तु वस्तुस्वभावात् । अगतिकगतित्वाद्वस्तुस्वभावाश्रयणस्य ।
तथा च धर्मिज्ञानकारणतासिद्धिरप्रत्यूहा - इति मत्वा दूषयति —
स्वतः पटखण्ड इति ।
पुण्डरीकस्य - कमलस्य या मुकुलत्वावस्था तस्या अनध्यासेऽपीत्यर्थः । तत्रैव - पटखण्ड एव । कर्तनादिना घटितः - सम्पादितः तदाकारः - पुण्डरीकमुकुलत्वाकारो यस्य पटखण्डस्य स तथा, तस्मिन्नित्यर्थः ।
तदध्यासेति ।
पुण्डरीकमुकुलत्वाध्यासेत्यर्थः । तदध्यासस्यानुरोधित्वनिश्चयात् इति सम्बन्धः ।
अन्यथेति ।
वस्तुस्वभावस्यैव तदध्यासकारणत्वे इत्यर्थः ।
अन्यदापीति ।
कर्तनादिना तदाकारसम्पादनात् प्रागपीत्यर्थः । ‘ननु सादृश्यनिरपेक्षेऽध्यासान्तरे अकारणत्वेऽपि’ इत्यादिना सादृश्यज्ञानस्य अध्यासविशेषे कारणताप्रसाधनद्वारा प्राप्तं धर्मिज्ञानस्य कारणत्वमावश्यकमिति पूर्वपक्षं कवितार्किकमतानुवर्ती निराकरोति —
उच्यत इत्यादिना ।
न त्विति ।
‘पीतत्वाभावव्याप्यशङ्खत्ववानयं’ ‘नैल्याभावव्याप्यजलत्ववदिदं’ इत्यादिरूपविशेषदर्शनाप्रतिबध्येष्वित्यर्थः । उक्तविशेषदर्शने सत्यपि ‘पीतश्शङ्खः’ ‘नीलं जलं’ इत्यध्यासदर्शनादिति भावः ।
असम्भवादिति ।
वस्तुतस्सादृश्यस्य तत्रासम्भवात् पुण्डरीकमुकुलत्वभ्रमवत् सादृश्यज्ञानाननुरोधित्वाच्च इत्यर्थः ।
ततः किं, तत्राह —
विशेषदर्शनप्रतिबध्येषु चेति ।
प्रतिबन्धकसामग्र्याः प्रतिबन्धकत्वोक्तौ दाहप्रतिबन्धकमण्यादिसामग्र्याः दाहप्रतिबन्धकत्वप्रसङ्गः, तद्वारणाय ज्ञानपदम् । मण्यादेः प्रतिबन्धकज्ञानत्वाभावान्नातिप्रसङ्गः । ज्ञानसामग्र्याः प्रतिबन्धकत्वोक्तौ धर्मिज्ञानसामग्रीभूतसम्प्रयोगस्य अध्यासप्रतिबन्धकत्वप्रसङ्गः, तद्वारणाय प्रतिबन्धकेति ज्ञानविशेषणम् । धर्मिज्ञानस्य च अध्यासानुगुणत्वेन प्रतिबन्धकज्ञानत्वाभावात् नोक्तातिप्रसङ्गः । तथा च पक्षे साध्याभाववत्ताज्ञानं ग्राह्याभावावगाहित्वादनुमितिं प्रति साक्षात् प्रतिबन्धकम्, तत्र साध्याभावव्याप्यवत्त्वज्ञानं प्रतिबन्धकज्ञानसामग्रीत्वेन अनुमितिप्रतिबन्धकमिति व्यवस्था प्रसिद्धेत्यर्थः ।
तत एवेति ।
प्रतिबन्धकज्ञानसामग्र्याः प्रतिबन्धकत्वस्वीकारादेवेत्यर्थः ।
किमिति ।
तथा च धर्मिज्ञानरूपा इदमाकारा वृत्तिर्न सिद्ध्यतीति भावः ।
सादृश्यज्ञानस्याकारणत्वे पूर्वोक्तातिप्रसङ्गं परिहरति —
इङ्गालादाविति ।
इङ्गालगतनैल्यादिः विशेषः, तदृर्शनसामग्री च चक्षुस्संयुक्तेङ्गालतादात्म्यरूपा अत्रास्तीति बोध्यम् ।
नीलभागादीति ।
त्रिकोणभागसङ्ग्रहार्थमादिपदम् ।
तत्सत्त्वादिति ।
विशेषदर्शनसामग्रीसत्त्वादित्यर्थः ।
न तदिति ।
तत्पदं रजतादिपरम् ।
ननु यदि शुक्तिसंप्रयोगकाले रजताध्यासाभावः तर्हि संप्रयोगोऽप्यध्यासकारणं न स्यादिति, नेत्याह —
सदृशभागमात्रेति ।
तदभावादिति ।
नैल्यादिदर्शनसामग्र्यभावादित्यर्थः ।
शङ्कते —
तदापीति ।
सदृशभागमात्रसम्प्रयोगकालेऽपीत्यर्थः ।
अनध्यासप्रसङ्ग इति ।
तथा चाध्यासाभावप्रसङ्गपरिहाराय सादृश्यज्ञानं दोषत्वेनाध्यासकारणं वाच्यम्, ततश्च उक्तदोषरूपप्रतिबन्धकसत्त्वादप्रतिबद्धा शुक्तित्वदर्शनसामग्री नास्ति, अतो रजताध्यास उपपद्यते इति — धर्मिज्ञानकारणवादिनोऽभिसन्धिः ।
अनध्यासप्रसङ्गं परिहर्तुं उभयसम्मतमर्थं धर्मिज्ञानापलापी दर्शयति —
नेत्यादिना ।
त्वयापीति ।
सादृश्यज्ञानकारणतावादिनापीत्यर्थः ।
वाच्यत्वादिति ।
सदृशभागमात्रसम्प्रयोगकाले शुक्तित्वदर्शनसामग्र्यां चक्षुस्संयुक्ततादात्म्यलक्षणायां सत्यामपि अध्यासदर्शनेन तदनुरोधात् शुक्तित्वरूपविशेषदर्शनसामग्र्याः प्रतिबन्धको दोषोऽवश्यं वाच्य इति तावत् सत्यम् । स च दोषो न सादृश्यज्ञानं, किं तु दूरत्वादिरेव । अतो दोषत्वेनापि न सादृश्यज्ञानमध्यासकारणमिति न धर्मिज्ञानसिद्धिः — इति तदपलापिनोऽप्यभिसन्धिः ।
धर्मिज्ञानकारणवादी स्वाभिसन्धिमुद्धाटयन् आशङ्कते —
ममेति ।
तवेति ।
धर्मिज्ञानापलापे प्रवृत्तस्य कवितार्किकमतानुवर्तिन इत्यर्थः । सादृश्यज्ञानस्याध्यासकारणत्वं त्वदनिष्टं दूरं गतस्यापि तव प्रसज्येतेति भावः ।
धर्मिज्ञानापलापवाद्यपि स्वाभिसन्धिमुद्धाटयन् अनध्यासप्रसङ्गं परिहरति —
नेत्यादिना ।
तस्येति ।
सादृश्यदर्शनस्येत्यर्थः ।
तत्सामग्रीति ।
शुक्तित्वदर्शनसामग्रीत्यर्थः । रजतरागादिदोषसंग्रहार्थं आदिपदम् । ननु दूरस्थस्यापि पुंसः कदाचित् शुक्तौ शुक्तिप्रमाया दर्शनेन दूरत्वस्यापि सादृश्यज्ञानस्येव व्यभिचारस्तुल्यः । तथा रजतरागवतोऽपि समीपोपसर्पणानन्तरं शुक्तिप्रमादर्शनेन तस्यापि व्यभिचारस्तुल्यः । तथा च दूरत्वादेरपि दोषत्वं न स्यात् । यदि च क्वचिदध्यासे कदाचित् कश्चित् दोष इति रीत्या दूरत्वादेर्दोषत्वेनाध्यासकारणत्वं समर्थ्यते, तदा ज्वालादौ सादृश्यज्ञानरूपेणैव दोषेण ‘सेयं दीपज्वाला’ इत्यादिभ्रमस्य सर्वानुभवसिद्धतया तस्यापि कदाचिद्रजताध्यासादौ दोषत्वेन कारणत्वं दुर्वारम् । सादृश्यज्ञानस्य दोषत्वं भाष्यसम्मतं च । तथा च देवताधिकरणे भाष्यं - ‘सादृश्यात् प्रत्यभिज्ञानं केशादिष्विव’ इति । तथा बौद्धाधिकरणेऽपि ‘सादृश्यनिमित्तं प्रतिसन्धानं’ इति । प्रतिसन्धानं-प्रत्यभिज्ञानम् । तथा च सादृश्यज्ञानस्यदोषत्वेनाध्यासकारणत्वमतनिराकरणमयुक्तमिति चेत्, सत्यम् । तथापि स्थूलबुद्धिमाश्रित्येदमिति ध्येयम् ।
सहकार्यभावात् सामग्र्यभावमाह —
व्यञ्जकेति ।
शुक्तित्वव्यञ्जकेत्यर्थः । ग्राहकपदं नीलभागव्यापिचक्षुस्सम्प्रयोगपरम् ।
तत्सामग्रीति ।
शुक्तित्वविशेषदर्शनसामग्र्यभावस्य उभाभ्यां वक्तव्यत्वादित्यर्थः ।
शुक्तिरजतभ्रमस्थलोक्तन्यायं अन्यत्रापि योजयति —
एवमिति ।
सादृश्यज्ञानरूपदोषं विना रजताध्यासवत् नीलशिलातलत्वाध्यासस्सम्भवतीत्यर्थः । जले नीलशिलातलत्वाध्यासे हि शुक्लरूपात्मकविशेषदर्शनं जलराशित्वादिरूपविशेषदर्शनं च प्रतिबन्धकम् । ततः शुक्लरूपादिदर्शनसामग्र्यपि तत्र प्रतिबन्धिका । तथा च प्रतिबन्धकज्ञानसामग्र्यभावादेव तत्र नीलशिलातलत्वारोपः, न तु प्रथमं जले नैल्याद्यध्यासेन सादृश्यज्ञानसम्पत्तौ सत्यां तद्दोषात् नीलशिलातलत्वाध्यास इत्यर्थः । ननु — जलधिसलिलपूरे शुक्लरूपात्मकविशेषदर्शनसामग्र्यभावोऽसिद्धः । नीलशिलातलत्वारोपात् पूर्वकाले चक्षुस्संयुक्ते जले शुक्लरूपस्य तादात्म्याभ्युपगमेन चक्षुस्संयुक्ततादात्म्यरूपसन्निकर्षस्य आलोकादेश्च सत्त्वात् ।
तथा जलराशित्वादिरूपविशेषदर्शनसामग्र्यभावोऽप्यसिद्धः, जलराशित्वव्यञ्जकतरङ्गादिप्रत्यक्षस्यापि तत्र सत्त्वात् - इत्यत आह —
नियतेति ।
जलधिसलिले दूरे नैल्याध्यासवत् समीपोपसर्पणानन्तरमपि तदध्यासो दृश्यते । अतस्तस्य नियतत्वम् । एतदुक्तं भवति — शुक्लरूपात्मकविशेषदर्शनसामग्री नियतनीलरूपाध्यासप्रयोजकदोषेण प्रतिबद्धा । अतः सा अप्रतिबद्धा नास्ति । दूरत्वदोषात् जलराशित्वव्यञ्जकतरङ्गादेर्ग्राहकसमवधानं नास्ति । तेन जलराशित्वरूपविशेषदर्शनसामग्री च नास्ति । तथा च द्विविधप्रतिबन्धकज्ञानसामग्र्यभावात् जलधिसलिले नीलशिलातलत्वाध्यास उपपद्यते इति । अत्रेदं बोध्यम् — जलधिसलिलपूरे नीलशिलातलत्वारोपे उक्तविधया विशेषदर्शनसामग्र्यभावस्यापेक्षितत्वेऽपि न तावन्मात्रात् तदध्यासः । किं तु जले नीलरूपाद्यध्यासेन नीलशिलातलसादृश्यसम्पत्त्यनन्तरमेव तदध्यासः । तथा च दूरे नीलशिलातलत्वाध्यासवतां जलधिसलिलपूरसमीपोपसर्पणानन्तरं व्यवहारः — अस्मिन् जलधिसलिलपूरे मम दूरे नैल्यनैश्चल्यादिसाम्येन नीलशिलातलत्वभ्रम आसीत्, इदानीं स भ्रमो निवृत्तः — इति । एवं तत्र तत्र ‘सादृश्यदोषात् मम पूर्वमन्यथाभ्रम आसीत्, इदानीं स निवृत्तः’ इति लोकव्यवहार एव सादृश्यज्ञानस्य दोषत्वेनाध्यासविशेषेषु कारणत्वसाधको द्रष्टव्य इति ।
सदृश्यज्ञानस्याध्यासकारणताग्राहकान्वयव्यतिरेकोदाहरणान्तरमप्यन्यथयति —
विस्तृत इति ।
परिणाहः - विस्तारः, तद्दर्शनं पुण्डरीकमुकुलत्वाध्यासप्रतिबन्धकं तत्सामग्रीसत्त्वादित्यर्थः । सादृश्यज्ञानकारणतामते हि चक्षुस्संप्रयोगस्थले चाक्षुषं सादृश्यज्ञानं धर्मिज्ञानत्वेन दोषत्वेन च रजताद्यध्यासोत्पत्तौ कारणम् । त्वगिन्द्रियसम्प्रयोगस्थले च स्पार्शनं सादृश्यज्ञानं उक्तविधया रजताद्यध्यासोत्पत्तौ एव कारणम् । कवितार्किकमते तु धर्मिज्ञानप्रसङ्गभीत्या सादृश्यज्ञानं कुत्राप्यध्यासे कारणं नाभ्युपेयते — इति व्यवस्था ।
तथा च त्वगिन्द्रियेदमर्थसम्प्रयोगस्थले त्वदभिमताध्यासकारणसत्त्वात् स किं न स्यादिति शङ्कते —
नन्वेवमिति ।
सादृश्यज्ञानं विनाऽपि अध्यासप्रतिबन्धकविशेषदर्शनसामग्र्यभावमात्रेणाध्यासोपगमे इत्यर्थः । किं तत्र रजताध्यास आपाद्यते, किं वा रजताध्यास एव आपाद्यते ।
आद्ये इष्टापत्तिरित्याह —
भवत्येवेति ।
द्वितीयं शङ्कते —
किं त्विति ।
तत्र विशेषदर्शनसामग्र्यभावस्य ताम्राद्यध्याससाधारणत्वात् रजताध्यास एव स्यात् आपादकं नास्तीति मत्वा परिहरति —
ताम्रादीति ।
रङ्गसुवर्णशकलादिसंग्रहार्थमादिपदम् ।
क्वचिदिति ।
करतलस्पृष्टलोहशकलस्थलेऽपि क्वचिदित्यर्थः ।
गोचर इति ।
लोहशकलरूपेदमर्थः ‘किमिदं रजतं, किं वा ताम्रं, किं वा सुवर्णादि’ इति संशयविषयो भवतीत्यर्थः ।
ताम्रादिव्यावर्तकविशेषदर्शनस्थले तु रजताध्यास एव भवतीत्याह —
क्वचित्त्विति ।
यस्मिन् कोशगृहादौ प्रायेण रजतशकलानामेवावस्थानं तत्र प्रविष्टस्य दैवात् अयश्शकले करतलस्पृष्टे सति तत्र रजताध्यास एव भवति । रजतकोशगृहमिति बुद्धेः तस्य सत्त्वादित्यर्थः । ननुः - क्वचित् करतलस्पृष्टलोहशकले रजताध्यासाभावोऽपि दृश्यते । स च तव मते न सम्भवति, विशेषदर्शनसामग्र्यभावस्य तत्रापि सत्त्वेन रजताध्यासापत्तेरावश्यकत्वात् ।
मम तु सादृश्यज्ञानरूपकारणाभावात् स न भवतीति वक्तुं शक्यते, इत्यत आह —
क्वचित् सत्यपीति ।
समीपोपसर्पणानन्तरं सत्यपि सादृश्यज्ञाने यथा रजताध्यासाभावः तव मते उपेयते तथा मन्मतेऽपि क्वचिदध्यासाभावो न दोषावह इत्यर्थः ।
तस्मादिति ।
कथमपि धर्मिज्ञानस्याध्यासकारणत्वासिद्धेः इत्यर्थः ।
इदमाकारवृत्तिः अनुभवसिद्धा वा कार्यकल्प्या वा कारणकल्प्या वेति विकल्पत्रये प्रथमद्वितीयौ निरस्य तृतीयं निराकरोति —
नाप्यप्रतिबद्धेति ।
इदमर्थस्य चक्षुस्सम्प्रयोगकाले अन्यत्र व्यासङ्गे सति इदमर्थगोचरज्ञानानुदयात् अप्रतिबद्धेति विशेषणम् ।
यथोक्तसम्प्रयोगवशात् जायमाना वृत्तिः भ्रान्तिरूपैव जायते, न तु भ्रान्तेः प्राचीना इदमर्थमात्रगोचरा प्रमारूपा, तत्र मानाभावात् - इत्याशयेनाह —
तत इति ।
इदमर्थावच्छिन्नचैतन्ये विद्यमाना रजतपरिणामिनी अविद्या दुष्टेन्द्रियसम्प्रयोगरूपादध्यासनिमित्तकारणभूतात् क्षोभं —
कार्याभिमुख्यं प्राप्नोति ।
उत्तरक्षणे च रजतरूपेण परिणमते । दुष्टेन्द्रियसंप्रयोगात् वृत्तिरपि तदैव जायते । तथा च अप्रतिबद्धात् दुष्टेन्द्रियसम्प्रयोगात् भवन्ती इदमर्थगोचरवृत्तिः स्वकालोत्पन्नरजतविशिष्टेदमर्थं विषयीकरोतीत्यर्थः । स्वपदं वृत्तिपरम् । धर्मिज्ञानपक्षे इदमाकारवृत्तिः अविद्याक्षोभिका तदभावपक्षे धर्मिज्ञानहेतुसम्प्रयोगोऽविद्याक्षोभक इति विभाग इति स्थिते, तत्रान्त्यपक्षो न युक्तः - इदमर्थसम्प्रयोगस्य इदमाकारवृत्ताविव रजतगोचरवृत्तावहेतुत्वात्, ज्ञानसमकालोत्पन्नरजतस्य ज्ञानात् पूर्वं चक्षुस्सन्निकर्षाभावाच्च ।
तथा च रजतगोचरवृत्तौ सामग्र्यभाव एव इदंवृत्तेर्धर्मिमात्रगोचरतां व्यवस्थापयति इत्याशङ्क्याह —
तत्र चेति ।
भ्रमस्थले इत्यर्थः । प्रतिभासकालमात्रे विपरिवर्तनं - सत्ता यस्य तत् प्रतिभासमात्रविपरिवर्ति तस्मिन्, प्रतीतिव्याप्यसत्ताके इति यावत् । इदमर्थसम्प्रयोगस्य रजतगोचरवृत्त्युत्पत्तावपि हेतुत्वं सम्भवति । न च अन्यसम्प्रयोगादन्यगोचरवृत्त्युपगमे घटेन्द्रियसम्प्रयोगात् पटगोचरवृत्त्यापत्तिरिति वाच्यम् ।
स्वगोचरवृत्तौ स्वस्य स्वतादात्म्याश्रयस्य वा इन्द्रियेण सह सम्प्रयोगः कारणं इति कल्पनात्, तावता उक्तातिप्रसङ्गपरिहारोपपत्तेः - इत्याशयेनाह —
तत्प्राचीनेति ।
रजतप्रतिभासात् प्राचीनेत्यर्थः ।
तत्तादात्म्येति ।
रजतस्येदमर्थे कल्पितत्वात् रजततादाम्याश्रयत्वमिदमर्थस्य, पटतादात्म्याश्रयत्वं तु न घटेऽस्ति, पटस्य तत्रानध्यस्तत्वात् इति भावः ।
चक्षुस्संप्रयोगानाश्रयस्यापि रजतस्य चाक्षुषवृत्तिविषयत्वकल्पने हेतुमाह —
चक्षुषेति ।
धर्मिज्ञानवादी चाक्षुषत्वानुभवस्यान्यथासिद्धिं वदन् धर्मीन्द्रियसम्प्रयोगजन्या वृत्तिः धर्मिमात्रगोचरेत्याशयेन शङ्कते —
न चेति ।
तत् रजतं इदंवृत्तिसमकालं सत् दुष्टेन्द्रियसम्प्रयोगजन्यमपि न भवतीत्यत्र हेतुमाह —
ज्ञानकारणस्येति ।
तथा च प्रातिभासिकस्य रजतस्य ऐन्द्रियकत्वपक्षे अन्यसम्प्रयोगस्यान्यगोचरवृत्तिजनकत्वमेकं कल्पनीयं, तथा ज्ञानकारणस्य सन्निकर्षस्य रजताद्यर्थोत्पत्तौ कारणत्वमपरं कल्पनीयमिति गौरवमिति भावः ।
यदि सम्प्रयोगो न रजताद्यर्थे कारणं, तर्हि किं तत्र कारणम्, अविद्यामात्रस्य सदा सत्त्वेन रजताद्यध्यासस्य कादाचित्कत्वं प्रति तस्य प्रयोजकत्वानुपपत्तेः - इति शङ्कते —
किं त्विति ।
उत्तरमाह —
इदंवृत्त्यनन्तरभावीति ।
इन्द्रियसम्प्रयोगात् इदमर्थमात्रगोचरा वृत्तिरुदेति । तया च अध्यासं प्रति निमित्तकारणभूतया क्षुब्धा सती अविद्या रजताकारेण परिणमते । रजतस्य च इदमाकारवृत्त्यभिव्यक्तं इदमर्थावच्छिन्नचैतन्यमधिष्ठानम् । तथा च रजतं स्वगोचरवृत्तिं विनैव चैतन्यभास्यं अहङ्कारादिवदित्यर्थः ।‘तज्जन्यम्’ इत्यत्र ‘तदभिव्यक्ते’ इत्यत्र च तत्पदमिदंवृत्तिपरम् । तद्वृत्तेश्च कादाचित्कत्वात् रजताद्यध्यासस्य कादाचित्कत्वमिति भावः ।
तद्भास्यमिति ।
साक्षिभास्यमित्यर्थः । (न च बाह्यचैतन्यावभास्यस्य शुक्तिरूप्यादेः अहङ्कारादिवत् कथं साक्षिभास्यत्वमिति वाच्यम् । स्वगोचरज्ञानरूपवृत्त्यनुपहितचैतन्यभास्यस्यैव साक्षिभास्यशब्दार्थत्वात् ।
तथा च यथा अविद्याहङ्कारतद्धर्माणामवभासकचैतन्यं अविद्यादिगोचरया ज्ञानात्मकवृत्त्या उपहितं न भवति, एवं शुक्तिरजतादिभासकचैतन्यमपि शुक्तिरजतादिगोचरज्ञानात्मकवृत्त्युपहितं न भवतीति, तस्य साक्षिभास्यत्वमुक्तमिति मन्तव्यम्) ननु शुक्तिरजतस्य साक्षिभास्यत्वे चाक्षुषत्वानुभवविरोध इति, नेत्याह —
चाक्षुषत्वानुभवस्त्विति ।
स्वं-शुक्तिरजतं, तद्भासकस्य-इदमंशावच्छिन्नचैतन्यस्य अभिव्यञ्जिकामिदंवृत्तिं प्रति चक्षुषो जनकत्वेन शुक्तिरजतस्य चक्षुरपेक्षा वर्तते । सा चापेक्षा परम्परयैव, स्वाधिष्ठानगोचरवृत्त्यर्थमपेक्षितत्वात् । न तु साक्षात्, स्वगोचरवृत्त्यर्थं अनपेक्षितत्वात् । यथाकथञ्चिच्चक्षुरपेक्षामात्रेण तत्र चाक्षुषत्वानुभव उपपद्यत एव - इत्यक्षरार्थः । ननु - ‘चक्षुषा रजतं पश्यामि’ इत्यनुभवो हि रजते चाक्षुषवृत्तिविषयत्वमवगाहते, न तु शुक्तिरजतगतं चाक्षुषवृत्त्यभिव्यक्तचैतन्यविषयत्वं, इति वस्तुगतिः । (तथा च) ‘परम्परया चक्षुरपेक्षामात्रेण’ इति ग्रन्थेन चाक्षुषत्वानुभवस्य चाक्षुषवृत्त्यभिव्यक्तचैतन्यविषयत्वं रजतगतं विषय इति तदनुभवस्य गतिः कल्पितेति प्रतिभाति, तदयुक्तम्, शब्दवदनुभवस्य व्याख्यानानर्हत्वात् - इति चेत्, न - वस्तुत इदमर्थगतस्येदंत्वस्य तत्रानुभूयमानस्य यथा शुक्तिरजते संसर्गारोपः, तथा इदमर्थगतस्य तत्रानुभूयमानस्य चाक्षुषत्वस्य शुक्तिरजते संसर्गारोपः, इत्यस्यार्थस्य प्रकृते विवक्षितत्वात् । तथा च स्वस्मिन्नारोपणीयं यत् चाक्षुषवृत्तिविषयत्वमिदमर्थगतं तल्लाभाय शुक्तिरजतस्य चक्षुरपेक्षा वर्तते इत्ययमर्थः ‘परम्परया चक्षुरपेक्षामात्रेण’ इतिग्रन्थस्य द्रष्टव्य इति न कश्चिद्दोषः ।
प्रातिभासिकरजतादेस्साक्षिभास्यत्वमेव न त्वैन्द्रियकत्वं - इति मतं दूषयति —
तथासतीति ।
अधिष्ठानस्यैन्द्रियकत्वलाभायैवेन्द्रियापेक्षा, न त्वारोप्यस्य तदर्थमिन्द्रियापेक्षा, इत्युपगमे सतीत्यर्थः ।
न हीति ।
इदं चापाततः, पीतशङ्खभ्रमादिस्थलेऽपि अध्यासप्राचीनधर्मिगोचरचाक्षुषवृत्तेः प्रागुपपादितत्वादिति मन्तव्यम् ।
नापि पीतिमग्रहण इति ।
चक्षुरपेक्षा इत्यनुषङ्गः ।
रूपं विना केवलशङ्खस्य चक्षुर्ग्राह्यत्वायोगमुपेत्य आरोपितस्य साक्षिभास्यत्ववादी शङ्कते —
न च पीतिमेति ।
पीतरूपमित्यर्थः । यथा शुक्तौ रजतं स्वरूपेणाध्यस्यते, तथा शङ्खे पीतरूपं नाध्यस्यत इत्यर्थः । नयनगतं यत् पित्तं - पीतरूपयुक्तद्रव्यविशेषः, तस्य यः पीतिमा, तस्य पित्तद्रव्य एवानुभूयमानस्य शङ्खे संसर्ग एवाध्यस्यते । यथा जपाकुसुमादावनुभूयमानस्य लौहित्यस्य स्फटिकमण्यादौ संसर्गाध्यासः तद्वत् । न चान्यगतस्यान्यत्रारोपाभ्युपगमे अन्यथाख्यातिप्रसङ्ग इति वाच्यम्, अध्यस्यमानसंसर्गस्यानिर्वचनीयस्योत्पत्त्यभ्युपगमेनान्यथाख्यातिवैलक्षण्यसत्त्वात् इति भावः ।
पीतिमानुभवार्थमिति ।
शङ्खे पीतरूपसंसर्गाध्यासात् प्राचीनो यः पित्तद्रव्ये पीतरूपानुभवः तदर्थमित्यर्थः ।
तत्र - किं नयनप्रदेशगत एव पित्तद्रव्ये पीतिमानुभवः, किं वा शङ्खदेशं प्राप्य तत्रस्थे पित्तद्रव्ये पीतिमानुभवः ? आद्यं दूषयति —
तथासतीति ।
नयनगत एव पित्तद्रव्ये पीतरूपानुभवाङ्गीकारे इत्यर्थः ।
शङ्खतत्संसर्गयोरिति ।
शङ्खस्य शङ्खपीतरूपयोस्संसर्गस्य चेत्यर्थः ।
शङ्खतत्संसर्गयोर्भानं किं पित्तपीतिमगोचरवृत्त्यभिव्यक्तेन साक्षिणा, किं वा पीतिमसंसृष्टशङ्खगोचरवृत्त्यभिव्यक्तेन साक्षिणा ? नाद्य इत्याह —
नयनप्रदेशेति ।
नयनप्रदेशगतपित्तपीतिमाकारवृत्त्या तत्प्रदेशस्थं पीतिमावच्छिन्नचैतन्यमभिव्यज्यते, तेन चाभिव्यक्तचैतन्यलक्षणसाक्षिणा सह शङ्खस्य शङ्खे समारोपितपीतरूपसंसर्गस्य च असम्बन्धात् शङ्खतत्संसर्गयोरापरोक्ष्यं न स्यादित्यर्थः ।
न द्वितीय इत्याह —
पीतिमसंसृष्टेति ।
अनभ्युपगमाच्चेति ।
साक्षिभास्यत्ववादिनेति शेषः ।
शङ्खदेशं प्राप्ते पित्तद्रव्ये पीतिमानुभव इति द्वितीयं शङ्कते —
न चेति ।
विषयव्यापिनस्तस्येति ।
शङ्खरूपमधिष्ठानं व्याप्तस्य पित्तद्रव्यस्येत्यर्थः । तथा च पित्तपीतिमाकारवृत्त्या शङ्खदेशस्थस्यैव चैतन्यस्याभिव्यक्त्या शङ्खतत्संसर्गयोरापरोक्ष्यं सम्भवतीति भावः । कुसुम्भं - रक्तद्रव्यविशेषः । तद्व्याप्ते पटे यथा कुसुम्भे अनुभूयमानस्य रक्तरूपस्य संसर्गारोपः तथेत्यर्थः ।
नयनगतपित्तद्रव्यस्य नयने सर्वैरनुभूयमानस्य नयनरश्मिद्वारा निर्गत्य शङ्खव्यापित्वोपगमे बाधकमाह —
तथासतीति ।
पित्तोपहतनयनः पुरुषो यदा शङ्खं पश्यति तदा तदितरेषामपि ‘पीतश्शङ्खः’ इत्यनुभवप्रसङ्गादित्यर्थः ।
ननु पित्तद्रव्यस्य नयनप्रदेशाद्विषयदेशं प्रति गमनावसरे यथा पित्तोपहतनयनेन नयनदेशमारभ्य विषयव्याप्तिपर्यन्तं पीतिमा गृह्यते तथाऽन्यैरपि नयनसमीपे मध्ये च पीतिमा गृहीतश्चेच्छङ्खदेशेऽपि ग्रहीतुं शक्यते नान्यथा, इत्यत्र दृष्टान्तमाह —
विहायसीति ।
यथा विहङ्गमः - पक्षी गगने उत्पतन् उत्पतनावसरे भूप्रदेशमारभ्य येन पुंसा गृह्यते तेनैव गगनोपरिभागे दूरं गतोऽपि गृह्यते नान्यैः, तथा प्रकृतेऽपीत्यर्थः ।
दृष्टान्तवैषम्यमाह —
इतरेषामपीति ।
दृष्टान्ते हि गगनोपरिभागे दूरे विहङ्गमं पश्यन् कश्चिदन्यं प्रत्युपदिशति —‘मम चक्षुर्निकटे त्वच्चक्षुर्न्यस्तं चेत् त्वयापि स विहङ्गमो द्रष्टुं शक्यते’ इति । स चान्यस्तथाकृत्वा तं पश्यति, न तथा प्रकृते सम्भवतीत्यर्थः ।
अस्तु वा अनुभूयमानारोपस्थले कथञ्चिच्चक्षुरपेक्षा, स्मर्यमाणनैल्याद्यध्यासस्थलेषु तु तदपेक्षा सर्वात्मना वक्तुमशक्येत्याह —
एवमपीति ।
जलाधारभूभागे वा जलमिश्रितद्रव्यविशेषे वा यदि नीलरूपमस्ति तदा तत्रैवानुभूयमाननैल्यस्य जले अध्यास इति शङ्का भवेत्, तन्निवृत्तये सिकतामयतलस्यातिधवलत्वं नदीजलस्य चाच्छत्वं विशेषणमुपात्तम् । अच्छत्वं-निर्मलत्वं, निशि-रात्रौ । चन्द्रिकायामित्यस्यापि पूर्वोक्तमेव प्रयोजनं द्रष्टव्यम् । दुष्परिहरत्वाच्चेति अत्र - पीतशङ्खजलनैल्याद्यध्यासेषु आरोप्यपीतिमनैल्यादिसंसृष्टाधिष्ठानगोचरचाक्षुषवृत्त्यनुपगमेऽपि चक्षुरनुपयोगो न दुष्परिहरः, शङ्खादिधर्मिमात्रगोचरचाक्षुषवृत्तिसम्भवस्य प्राग्दर्शितत्वादिति मन्तव्यम् ।
आरोप्यस्येन्द्रियजन्यवृत्तिविषयत्वे सम्मतिमाह —
अनास्वादितेति ।
अस्मिन् जन्मनि अनास्वादितः रसनेन्द्रियेणाननुभूतः तिक्तरसो येन बालेन स तथा, तस्येत्यर्थः । मधुरे - स्तन्यादौ तिक्ततावभासः-तिक्ततासाक्षात्कारः । स च जन्मान्तरीयतिक्तरसानुभवजन्यसंस्कारजन्यः । आरोपे आरोप्यसजातीयपूर्वानुभवजन्यसंस्कारस्य कारणत्वात् - इत्यक्षरार्थः । अत्र ग्रन्थे तिक्ततावभासस्य संस्कारसहृकृतरसनेन्द्रियजन्यत्वं भाति, तस्य संस्कारमात्रजन्यत्वे स्मृतित्वप्रसङ्गात् । तथा च तिक्तताध्यासाधिष्ठानस्य मधुरद्रव्यस्य रसनेन्द्रियायोग्यतया परिशेषात् स्वरूपतोऽध्यस्यमानस्य तिक्तरसस्यैव रसनेन्द्रियजन्यवृत्तिविषयत्वं स्पष्टीकृतमिति, भवति समारोप्यस्यैन्द्रियकत्वे सम्मतिरयं ग्रन्थ इति भावः ।
अन्यथेति ।
आरोप्यतिक्तरसस्य ऐन्द्रियकत्वानुपगमे तत्र बालस्य तिक्ततावभासस्थले रसनेन्द्रियव्यापारो न स्यात्, मधुरद्रव्यस्य तदयोग्यत्वादित्यर्थः । वस्तुतस्तु - तिक्ततावभास इत्यत्र तिक्ततापदावभासपदयोः कर्मधारयः । अवभासपदं च अवभास्यते इति व्युत्पत्त्या अध्यस्यमानतिक्तरसपरम् । पञ्चपादिकायामेव अवभासपदस्य अवभास्यमानतापदेन तथाव्याख्यातत्वात् । जन्मान्तरीयसंस्कारोऽपि अध्यस्यमानतिक्तरसोत्पत्तौ हेतुः । प्रातिभासिकाध्यासस्थलेषु दोषसंस्काराधिष्ठा नसामान्यज्ञानरूपकारणत्रयस्य अध्यस्यमानपदार्थोत्पत्तावेव कारणतायाः टीकाविवरणादिष्वेव स्पष्टत्वात् । तथा च कथमनेन ग्रन्थेन स्वरूपतोऽध्यस्यमानस्यैव तिक्तरसस्यैन्द्रियकत्वस्पष्टीकरणम् । न च तिक्तरसस्यैन्द्रियकत्वाभावे रसनव्यापारापेक्षानुपपत्तिरिति वाच्यम् । बालस्य अन्येषां वा तिक्तरसाध्यासकाले रसनेन्द्रियव्यापारसत्त्वे मानाभावात् । न च तथासति तिक्तताऽनवभासप्रसङ्ग इति वाच्यम् । त्वगिन्द्रियजन्यमधुरद्रव्यगोचरवृत्त्या अभिव्यक्ते मधुरद्रव्यावच्छिन्नचैतन्ये तिक्तताध्यासाङ्गीकारेण तिक्ततायाःस्वगोचरवृत्तिं विनैव स्वाधिष्ठानचैतन्यभास्यत्वसम्भवात् । अस्तु वा तिक्तताऽध्यासस्थले रसनेन्द्रियापेक्षा । तथापि न अध्यस्यमानतिक्तरसस्यैन्द्रियकत्वसिद्धिः । अध्यस्यमानतिक्ततां प्रति मधुरद्रव्यनिष्ठमधुररसस्याधिष्ठानत्वसम्भवेन तदधिष्ठानभूतमधुररसग्रहणे तदपेक्षोपपत्तेः, पञ्चपादिकागतमधुरपदस्य मधुररससाधारणत्वेन तद्विरोधाभावाच्च । न च मधुररसग्रहणे तिक्तताध्यासानुपपत्तिरिति वाच्यम् । रसग्रहणेऽपि दोषविशेषेण मधुररसत्वजातिसाक्षात्कारप्रतिबन्धे सति तदध्यासोपपत्तेः । तस्मात् आरोप्यस्य साक्षिमात्रभास्यत्वं पूर्वाचार्याणां सार्वत्रिकव्यवहारसिद्धं निरपवादमिति - मन्तव्यम् । इतः परं कवितार्किकमतानुसारेण यत् पञ्चपादिकाग्रन्थव्याख्यानं कृतं तदेवानुवर्त्यते ।
तस्मादिति ।
अध्यस्यमानपदार्थस्य साक्षिभास्यत्वमते पीतशङ्खाद्यध्यासेषु चक्षुरनुपयोगस्य दुष्परिहरत्वादित्यर्थः ।
तद्गोचरेति ।
अधिष्ठानगोचरेत्यर्थः । वृत्तिसमकालमुदयो यस्याध्यासस्य पीतरूपादेः, स तथेत्यर्थः । अधिष्ठानसंप्रयोगजन्याया वृत्तेःआरोपितरूपादिविशिष्टशङ्खादिविषयकत्वानङ्गीकारे आरोपितरूपादेरनवभासप्रसङ्ग इत्यर्थः । रूपं विना केवलाधिष्ठानगोचरवृत्त्यभावे चेति । आरोप्यपीतिमनैल्यादिसंसृष्टशङ्खादिगोचरवृत्त्यनभ्युपगमे च इति चकारार्थः । तत्पदं चैतन्यपरम् ।
पञ्चपादिकाग्रन्थोक्तं तिक्तरसस्याध्यस्यमानस्यैन्द्रियकत्वं चाक्षुषाध्यासस्थल इव अधिष्ठानारोप्ययोरेकवृत्तिविषयत्वेन न भवति, किं तु तिक्तरसमात्रगोचररासनवृत्त्या - इत्युपपादयति —
तिक्तरसाध्यासस्थले त्विति ।
तदवच्छिन्नेति ।
मधुरादिद्रव्यरूपाधिष्ठानावच्छिन्नेत्यर्थः । पित्ताख्यदोषेण उपहतं यत् रसनं, तेन सह मधुरद्रव्यरूपाधिष्ठानस्य संप्रयोगात् तत्र अधिष्ठानावच्छिन्नचैतन्ये तिक्तरसाध्यास उदेति, तदैव अध्यस्यमानतिक्तरसमात्रगोचररासनवृत्तिश्च उदेतीत्यर्थः । ननु-तिक्तरसाध्यासस्य मास्तु रासनत्वं, तिक्तरसभानं तु केवलसाक्षिरूपमिति मतमेव कुतो नाद्रियते — तत्राह ।
त्वगिन्द्रियेति ।
चैतन्यभास्ये तिक्तरस इति ।
अभ्यपगम्यमाने इति शेषः ।
परम्परयापीति ।
रजताद्यध्यासस्थल इव धर्मिमात्रगोचरवृत्त्युत्पादनद्वाराऽपीत्यर्थः । धर्मिणो मधुरद्रव्यादेः रसनेन्द्रियायोग्यत्वादिति भावः । तत्र-तिक्ततारूपे अध्यासे । कथमपीत्यस्य व्याख्या प्रकारान्तरेणेति । यद्यपि स्वप्नकाले केवलसाक्षिभास्येषु रसरूपादिषु रासनत्वचाक्षुषत्वाद्यनुभवस्य आरोपरूपताया वक्ष्यमाणत्वेन प्रकृतेऽपि तथा समर्थनं सम्भवति, स्वाप्नपदार्थानामिव प्रातिभासिकतिक्तरसादेरपि इन्द्रियासन्निकृष्टत्वेन सामग्र्यभावस्य तुल्यत्वात्, तथापि तं प्रकारमजानता ‘तत्र कथमपि’ इत्याद्युक्तमिति ध्येयम् ।
तथैवेति ।
यथा रासनवृत्तिविषयत्वमादाय रासनत्वानुभवस्समर्थितः, तथा चाक्षुषवृत्तिविषयत्वमादायैव चाक्षुषत्वानुभवसमर्थनसम्भवे तदनुभवस्यारोपरूपत्वकल्पनमयुक्तमित्यर्थः ।
न बाधनीय इत्ययुक्तम्, बाधके सत्ति तद्वाधस्यावश्यकत्वात् इति मत्वा शङ्कते —
न चेति ।
शङ्कितं बाधकं परिहरति —
सन्निकर्षत्वस्येत्यादिना ।
आद्यनियमासिद्धेरिति ।
‘जन्यप्रत्यक्षमात्रे इन्द्रियसन्निकर्षः कारणं’ इति नियमासिद्धेरित्यर्थः । जन्यपदं नित्यसाक्षिरूपे प्रत्यक्षे व्यभिचारवारणार्थम् । शाब्दापरोक्षमते शाब्दभिन्नत्वमपि प्रत्यक्षविशेषणं द्रष्टव्यम् । अत्रेदं बोध्यम् — संयोगाद्यन्यतमत्वमनुगतमस्ति, न्यायमते अभावत्वादिवदखण्डोपाधिरूपं वा सन्निकर्षत्वं सम्भवतीति, आद्यनियमविरोधो दुर्वार इति ।
आद्यनियमस्यासिद्धिमुक्त्वा ‘जन्यद्रव्यप्रत्यक्षे इन्द्रियसंयोगः कारणं’ इति द्वितीयनियममुपेत्य प्रकृते तस्याविरोधमाह —
द्वितीयनियमस्येति ।
द्वितीयनियमस्य व्यवहारदृष्ट्या यद्द्रव्यत्वाधिकरणं तद्विषयत्वेन द्वितीयनियमाविरोधादिति सम्बन्धः ।
नियमस्य व्यावहारिकद्रव्यविषयत्वकल्पनायां नियामकमाह —
संयोगायोग्ये क्वचिदिति ।
एकत्वद्वित्वादावित्यर्थः । एकत्वमेकमित्यादिप्रकारेण तत्रापि संख्याश्रयत्वभ्रमेण द्रव्यत्वाध्याससम्भवादित्यर्थः । तथा च द्रव्यप्रत्यक्षमात्रे इन्द्रियसंयोगस्य कारणत्वनियमस्य एकत्वादौ द्रव्यत्वाध्यासकाले तत्प्रत्यक्षे व्यभिचार इत्यर्थः ।
अद्रव्ये द्रव्यत्वारोपे दृष्टान्तमाह —
तमसीवेति ।
सिद्धान्ते तस्य द्रव्यत्वाभ्युपगमादाह —
नैयायिकरीत्येति ।
‘प्रौढालोकाभावस्तमः’ इति नैयायिकैरुक्तरीत्येत्यर्थः । ‘गुणाश्रयत्वं द्रव्यलक्षणं’ इति जानतां तमसि रूपवत्त्वभ्रमेण द्रव्यत्वभ्रमस्सम्भवतीत्यर्थः । ननु — शुक्तिरजतादौ घटादाविव स्वभावत एव द्रव्यत्वमस्ति । अन्यथा रजतत्वादिजातिरपि तत्र न स्यात् । न चेष्टापत्तिः । उत्तरत्र तत्र रजतत्वादिजातेस्साधयिष्यमाणत्वात् । ततश्च शुक्तिरजतादिकमपि व्यवहारदृष्ट्या द्रव्यत्वाधिकरणं भवति । व्यवहारदशायां शुक्तौ रजतबाधवत् शुक्तिरजते द्रव्यत्वरजतत्वादिजातिबाधादर्शनात् । तथा च शुक्तिरजतादेरिन्द्रियासंयुक्तस्य ऐन्द्रियकवृत्तिविषयत्वोपगमे द्वितीयनियमविरोधोऽपि दुर्वारः - इति चेत्, सत्यम् ।
शुक्तिरजतादौ रजतत्वद्रव्यत्वादिजातिर्नास्तीति मतमनुसृत्य तत्र द्रव्यत्वप्रतीतिं घटयति —
प्रातिभासिकरजत इति ।
इदमर्थगतेदंत्वस्येव तद्गतद्रव्यत्वस्यापि तत्र संसर्गारोप इत्यर्थः । तथा च शुक्तिरजतं व्यवहारदृष्ट्या द्रव्यत्वाधिकरणं न भवतीति भावः ।
ननु ‘द्रव्यप्रत्यक्षे इन्द्रियसंयोगः कारणं’ इत्युपगमे ‘रजतचाक्षुषे रजतचक्षुस्संयोगः कारणं’ इति तृतीयनियमोऽपि दुर्वारः, रजतस्य द्रव्यविशेषत्वात् रजतचक्षुस्संयोगस्य च इन्द्रियसंयोगविशेषत्वात् द्रव्यविशेषप्रत्यक्षे इन्द्रियसंयोगविशेषः कारणमित्यस्यार्थस्य यत्सामान्यन्यायसिद्धत्वात् - इति शङ्कां परिहरति —
यत्सामान्य इति ।
सामान्यकार्यकारणभावो यत्रातिप्रसङ्गावहः तत्रैवायं न्यायो नान्यत्रेत्यर्थः । न्यायस्य तद्विषयत्वेनेति सम्बन्धः ।
तत इति ।
न्यायादित्यर्थः ।
ननु बीजसामान्यस्याङ्कुरसामान्यस्य च कार्यकारणभावोपगमे बीजान्तरादङ्कुरान्तरोत्पत्तिप्रसङ्गवत् इहापि अतिप्रसङ्गसत्त्वात् उक्तन्यायप्रवृत्तिरस्त्येवेति शङ्कते —
न चात्रापीति ।
उक्तातिप्रसङ्गपरिहाराय तत्तदङ्कुरव्यक्तिं प्रति तत्तद्बीजव्यक्तेरुक्तन्यायेन हेतुत्वकल्पनवत् प्रकृतेऽपि तत्तद्द्रव्यप्रत्यक्षं प्रति तत्तद्व्यसंयोगस्यैव तेन न्यायेन कारणत्वं सिद्ध्यति, न तु तेन न्यायेन तृतीयकार्यकारणभावस्सिद्ध्यति-इत्याशयेनाह —
तत्तद्द्रव्येति ।
ननु तेन न्यायेनातिप्रसङ्गपरिहाराय तृतीयनियम एव कुतो न कल्प्यते, तत्राह —
अन्यथेति ।
तृतीयनियमकल्पने इत्यर्थः ।
अतिप्रसङ्गस्येति ।
अन्यरजतचक्षुस्संयोगात् अन्यरजतचाक्षुषापत्तिः इत्येवंरूपस्येत्यर्थः । न च व्यक्तिनियमवत् तृतीयनियमोऽप्यस्त्विति वाच्यम्, अतिप्रसङ्गपरिहारानुपयुक्तस्य तस्य अजागलस्तनायमानस्य अकल्पनीयताया उक्तत्वादिति भावः ।
तस्मादिति ।
प्रथमतृतीयनियमयोरसिद्धत्वात् द्वितीयनिमस्य चाविरुद्धत्वादित्यर्थः ।
ननु प्रथमद्वितीयनियमविरोधस्य दुर्वारतायाः प्रागुक्तत्वात् तदन्तःपातिव्यक्तिनियमविरोधस्यापि दुर्वारत्वाच्च ‘नास्ति कॢप्तनियमभङ्गः’ इत्ययुक्तम्, अत आह —
किं चात्रेति ।
शुक्तिरजतादिस्थले इत्यर्थः ।
अनन्यथासिद्धस्येति ।
स्वप्नकाले केवलसाक्षिभास्येषु रजतादिषु चाक्षुषत्वाद्यनुभवस्येव अत्रापि आरोपरूपत्वकल्पनसम्भवात् अनन्यथासिद्धत्वमसिद्धम्, कॢप्तसामग्र्यभावस्य स्वप्न इवात्रापि तुल्यत्वात्, अन्यथा स्वप्नेऽपीन्द्रियव्यापारकल्पनाप्रसङ्गात्, अनुभवविरोधे सति तत्काले तदुपरमश्रवणस्य अन्यथानयनोपपत्तेः - इत्यादिकमत्रानुसन्धेयम् । अनुभवस्योपपादनासम्भवादिति सम्बन्धः ।
कॢप्तनियमानां सङ्कोचकल्पने सति शुक्तिरजतादेरनिर्वचनीयत्वासिद्धिं शङ्कते —
न चैवंसतीति ।
देशान्तरस्थं रजतादिकं भ्रमविषय इति न्यायमतम् । तत्र असन्निकृष्टस्य कथं प्रत्यक्षत्वं इत्यनिर्वचनीयख्यातिवादिभिः शङ्कायां कृतायां, सन्निकर्षःप्रत्यक्षेकारणमित्यादिनियमस्य भवतां मते व्यावहारिकपदार्थप्रत्यक्षविषयत्वेन सङ्कोचवत् मम मतेऽपि तस्य प्रत्यक्षप्रमायां सन्निकर्षः कारणमिति प्रत्यक्षप्रमाविषयत्वेन सङ्कोचकल्पनोपपत्तेः अन्यथाख्यातिवादस्य न किञ्चित् बाधकं, इति परिहारस्सुवचः परेषामित्यर्थः । भ्रमरूपे प्रत्यक्षे सन्निकर्षस्याहेतुत्वेऽपि नान्यथाख्यातिवादप्रसक्तिरिति परिहरति — अभिव्यक्तेति अर्थस्यापरोक्षत्वे इन्द्रियसन्निकृष्टत्वं न प्रयोजकं, किं त्वभिव्यक्तचैतन्याभिन्नत्वमिति वक्ष्यते । तथा च भ्रमविषयस्य रजतादेर्देशान्तरस्थत्वे आपरोक्ष्यं न सम्भवतीति शुक्तितादात्म्यापन्नं रजतं सिध्यतीत्यर्थः । अवकुण्ठनं तादात्म्यम् ।
नन्वेवमपि शुक्तिरजतं शुक्तिवत् सत्यमेव स्यात्, नानिर्वचनीयम्, मानाभावात् - इत्यत आह —
ख्यातीति ।
ख्यातिरपरोक्षप्रतीतिः । तया भ्रमविषयस्य देशान्तरस्थत्वमसत्त्वं च निरस्तं भवति । असतस्संवित्तादात्म्याभावेन प्रत्यक्षत्वायोगात् । ‘शुक्तौ कालत्रयेऽपि रजतं नास्ति’ इत्यबाधितबाधकप्रत्यक्षबलाद्रजतस्थितिसमयेऽपि शुक्तौ रजताभावस्सिध्यति । शुक्तौ यदि रजतं न स्यात् तदा ख्यात्यनुपपत्तिः । यदि तत्र तत् सत्यं स्यात् तदा शुक्तौ शुक्तित्वमिव न बाध्येत । अतःख्यातिबाधान्यथानुपपत्त्या तस्यानिर्वचनीयत्वं सिध्यति । शुक्तिरजतस्य उत्पत्तिविनाशवत्त्वाच्चानिर्वचनीयत्वसिद्धिः । एतच्च विवर्तलक्षणनिरूपणावसरे प्रपञ्चितमिति नात्र प्रपञ्च्यते । उत्पत्तिमत्त्वादियुक्तिरादिशब्दार्थः ।
शुक्तिरजतादेस्साक्षिभास्यत्ववादी शुक्तिरजतस्य स्वतादात्म्याश्रयेदमर्थसंप्रयोगादेव चाक्षुषवृत्तिविषयत्वेऽतिप्रसङ्ग इति शङ्कते —
न चेति ।
तत्रैवेति ।
शुक्तावेव कालान्तरे यदध्यसनीयं तस्येत्यर्थः कुत इति । या वृत्तिःशुक्तिरजतं विषयीकरोति सैव वृत्तिःशुक्तौ कालान्तरेऽध्यसनीयं रङ्गमपि कुतो न विषयीकरोति, तस्या वृत्तेः रजततादात्म्याश्रयेदमर्थसम्प्रयोगजन्यत्वस्येव कालान्तरीयरङ्गतादात्म्याश्रयेदमर्थसम्प्रयोगजन्यत्वस्याप्यविशेषादित्यर्थः । तथा च - सम्प्रयोगो न रजतगोचरवृत्तिहेतुः, किं तु सादृश्यविशिष्टधर्मिज्ञानमेव हेतुः । सादृश्यज्ञानं च दोषत्वेन धर्मिज्ञानत्वेन च रजताद्यध्यासे कारणम्, रजतादिकं च स्वगोचरवृत्तिं विनैव चैतन्यभास्यं - इतिमतमुपेयमिति भावः ।
तव मतेऽपि शुक्तौ कालान्तरे अध्यसनीयस्य रङ्गस्य रजताध्याससमय एवाध्यासः किं न स्यात्, अधिष्ठानस्य सादृश्यज्ञानस्य च रजतरङ्गाध्याससाधारणत्वात्, इति दोषतौल्यं सूचयति —
रजताध्याससमय इति ।
यदि च दृश्यमानसादृश्यरूपविषयदोषाविशेषेऽपि रजताध्याससमये रङ्गोचररागात्मकपुरुषदोषस्याभावाद्रजतरागस्य सत्त्वाच्च न साङ्गाध्यास इति परिहार इष्यते, तदा ममापि तुल्यमुत्तरं इत्याशयेनाह —
यत इति ।
रागादिरूपो यः पुरुषदोषः, तदभावादेस्सकाशादित्यर्थः । रागादीत्यादिपदेन रङ्गस्य बुद्धौ विपरिवर्तनं गृह्यते । दोषाभावादित इत्यादिपदेन रजतरागो गृह्यते ।
तत एवेति ।
रङ्गोचररागादेरभावाद्रजतरागसत्त्वात् अन्यस्माद्वा कारणात् रजतस्यैव तत्रोत्पत्तिः तत्काले रजतविशिष्टधर्मिगोचरवृत्तेरुदयश्च उपेयते इत्यर्थः ।
कवितार्किकमतमुपसंहरति —
तस्मादिति ।
धर्मिज्ञानस्य कारणत्वे मानाभावादित्यर्थः ।
नात्रेति ।
इदमाकारवृत्तावित्यर्थः ।
धर्मिज्ञानस्य कारणत्वे मानाभाववचनमापातत इत्युपपादितं तत्रतत्र ।तदेतदभिसन्धाय तस्य तत्कारणत्वमतमेवाह —
अन्ये त्वधिष्ठानज्ञानमिति ।
इदमाकारवृत्तिपक्षेऽपि रजतगोचरवृत्तिरङ्गीकर्तव्येति केचित्, तन्मतं दूषयति —
इदमाकारामिति ।
अन्ये त्विदमाकारां वृत्तिमुपेत्य रजताकारा वृत्तिर्व्यर्थेति मन्यन्त इति सम्बन्धः । इदमाकारवृत्त्युपगमे हेतुः अधिष्ठानज्ञानमध्यासकारणमितीति । इतिशब्दो हेत्वर्थः । धर्मिज्ञानस्याध्यासकारणत्वादित्यर्थः ।
इदमाकारवृत्तिव्यतिरिक्ता रजताकारवृत्तिः किं रजतभानार्था किं वा तत्संस्कारार्था ? नाद्य इत्याह —
तदभिव्यक्तेनैवेति ।
इदमाकारवृत्त्यभिव्यक्तेनैवेत्यर्थः ।
द्वितीयं दूषयति —
तद्भासकेति ।
न चान्यगोचरवृत्त्या कथमन्यगोचरसंस्काराधानमिति वाच्यम् । यद्वृत्त्यवच्छिन्नचैतन्ये यावन्तः पदार्थाः प्रकाशन्ते तयैव वृत्त्या तावत्सु पदार्थेषु संस्काराधानमिति प्रागुक्तत्वादिति भावः । ये तु — स्वगोचरवृत्त्यैव स्वगोचरसंस्काराधानमिति - मन्यन्ते, तेषां मते अध्यस्तरजतगोचरवृत्तिरप्यस्ति ।
तत्र किं द्वितीया वृत्तिः अध्यस्तरजतविशिष्टधर्मिगोचरा किं वा रजतमात्रगोचरेति संशये मतद्वयेन निर्णयं दर्शयति —
ज्ञानद्वयपक्ष इत्यादिना ।
द्वितीया वृत्तिः इदंरजतमित्येवमाकारा सती अध्यस्तरजतविषयेति सम्बन्धः ।
आकारविशेषोपादानफलमाह —
न त्विति ।
द्वितीयवृत्तेर्विशिष्टविषयकत्वे अनुभवं प्रमाणयति —
इदं रजतं जानामीति ।
द्वितीयवृत्तेरध्यस्तमात्रविषयकत्वमितिमतमाह —
अन्ये त्विति ।
ज्ञानद्वयपक्षे द्वितीयवृत्तिरविद्यावृत्तिरिति प्रतिपादयति —
यथेत्यादिना ।
विवर्तते-परिणमत इत्यर्थः ।
एवमिति ।
इदमंशविषयं यत् वृत्तिज्ञानं तदवच्छिन्नेत्यर्थः । इदमाकारवृत्त्यवच्छिन्नचैतन्यगताविद्या अध्यस्तरजतमात्रगोचरवृत्तिरूपेण परिणमते । सा च वृत्तिर्ज्ञानाभासः । कॢप्तज्ञानकरणाजन्यत्वादित्यर्थः ।
अनध्यस्तमिति ।
ज्ञानाभासरूपं रजतज्ञानं रजतवत् प्रातिभासिकमेव, न त्विदमाकारवृत्तिवद्व्यावहारिकम्, ज्ञानाभासस्यापि शुक्तिरजतवदेव शुक्त्यज्ञाननिवर्तकप्रत्यक्षबाध्यत्वादित्यर्थः ।
ज्ञानाभासस्य रजतमात्रविषयकत्वे तस्य ‘इदं रजतम्’ इत्याकारो न स्यात् इत्याशङ्क्य, ज्ञानाभासस्य इदमंशविषयकत्वाभावेऽपि तस्य तदाकारः सम्भवतीत्याशयेनाह —
तथा चेति ।
ज्ञानाभासं प्रति इदंविषयकवृत्त्यवच्छिन्नचैतन्यस्याधिष्ठानत्वे सतीत्यर्थः । इदमंशज्ञाने ज्ञानाभासं प्रत्यधिष्ठानभूते विद्यमानं यदिदंविषयकत्वं, तत्संसर्गो रजतगोचरज्ञानाभासे भासते ।
तत्र दृष्टान्तमाह —
रजतस्येति ।
रजताधिष्ठानगतस्येदंत्वस्य संसर्गो यथा रजते भासते तथेत्यर्थः । ननु ज्ञानाभासेन रजते गृह्यमाणे इदंत्वसंसर्गो गृह्यते चेत् इदंत्वमपि तेनावश्यं ग्राह्यम् । इदंत्वग्रहणं विना तत्संसर्गग्रहणायोगात् ।
तथा च ज्ञानाभासस्य रजतविशिष्टेदमंशविषयकत्व सिद्धिरिति शङ्कते —
न चेति ।
संसर्गांशस्य रजतज्ञानाभासगोचरत्वे हेतुगर्भं विशेषणम् —
अध्यस्तस्येति ।
वक्तव्यमिति ।
अन्यथा घटत्वादिनिरूपितसंसर्गप्रत्यक्षस्य घटत्वादिविषयकत्वं न स्यात् इत्यतिप्रसङ्गापत्तेरिति भावः ।
ज्ञानाभासस्य इदंत्वरूपप्रतियोगिविषयकत्वाभावेऽपि ज्ञानाभासं प्रत्यधिष्ठानतया ज्ञानाभासतादात्म्यापन्नस्य इदमंशज्ञानस्य प्रतियोगिविषयकत्वात् ज्ञानाभासस्य संसर्गविषयकत्वं सम्भवति, तावतैव उक्तातिप्रसङ्गपरिहारोपपत्तेः - इति परिहरति —
स्वतादात्म्याश्रयस्येति ।
स्वपदं ज्ञानाभासपरम् ।
वृत्तिभेदेऽपीति ।
अध्यस्तमात्रगोचराविद्यावृत्तेर्विवरणकारैरेवाभ्युपगमात् तदुक्तनियमे ज्ञानपदं साक्षिपरमेव न वृत्तिपरं इति विवरणकाराणामाशयो लक्ष्यत इति भावः ।