अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

साक्षिचैतन्यस्य आवृतत्वानावृतत्वविचारः

अवि­द्या­ह­ङ्का­रा­दीनां पूर्वोक्तं साक्षि­भा­स्य­त्व­मा­क्षि­पति —
नन्विति ।

चैतन्यमात्रेति ।
कृत्स्न­चै­त­न्या­वा­र­के­णे­त्यर्थः ।

कथमिति ।
न च साक्षि­गो­च­रा­प­रो­क्ष­वृत्त्या तदावरणनिवृत्तौ निवृत्तावरणेन साक्षिणा अविद्यादिभानं सम्भवतीति वाच्यम् । तेषां केव­ल­सा­क्षि­भा­स्य­त्व­सि­द्धा­न्त­वि­रो­ध­प्र­स­ङ्गात्, मनसः करणत्वस्य निरसिष्यमाणतया साक्षि­चै­त­न्य­गो­च­रा­प­रो­क्ष­वृ­त्त्य­स­म्भ­वाच्च, अहङ्कारादीनां स्वसत्ताकाले तत्स­त्ता­प्र­का­र­क­सं­श­या­द्य­भा­वेन सदा तेषां संश­या­दि­नि­वृ­त्ति­प्र­यो­ज­क­तया सदा प्रकाशसंससर्गे वक्तव्ये सति कादा­चि­त्क­वृत्त्या तेषां सदा भानासम्भवाच्च, सदा साक्षि­गो­च­र­वृ­त्ति­स­न्त­त्यु­प­गमे युग­प­द्वृ­त्ति­द्व­या­न­भ्यु­प­ग­मेन बाह्य­घ­टा­दि­प्र­ती­त्यु­च्छे­द­प्र­स­ङ्गाच्च । तस्मात् साक्षि­मा­त्र­भा­स्य­त्व­म­वि­द्या­ह­ङ्का­रा­दीनां वक्तव्यम् ।

तच्च न सम्भवति ।
तस्यावृतत्वात् । न च साक्षिचैतन्यं विहाय अन्यदेव चैतन्यमावृतमिति वाच्यम् । अज्ञानस्य चैत­न्य­मा­त्रा­वा­र­क­त्वात्, अन्यथा साक्षि­चै­त­न्या­द­न्य­चै­त­न्येऽ­प्या­व­र­णा­भा­व­प्र­स­ङ्गात् इत्या­क्षे­पा­भि­प्रायः ।

आवृतस्यापि साक्षि­णोऽ­वि­द्या­प्र­का­श­कत्वं दृष्टान्तेन दर्शयन् परिहरति —
राहुवदति ।

राहुणा सर्वा­त्म­नाऽऽ­वृ­तस्य चन्द्रमण्डलादेः स्वावा­र­क­रा­हु­मा­त्र­प्र­का­श­क­त्वेऽपि तद­ति­रि­क्त­प्र­का­श­क­त्वा­द­र्श­नात् अत्राप्यावृतस्य साक्षिणः कथ­ञ्चि­द­वि­द्या­मा­त्रा­व­भा­स­कत्वं स्यात्, नाह­ङ्का­रा­दि­भा­स­कत्वं इत्यस्वरसादाह —
वस्तुत इति ।

अनु­भ­वा­नु­सा­रे­णेति ।
अहङ्कारादिषु उक्तरीत्या कादा­चि­त्क­ज्ञा­ना­स­म्भ­वेऽपि सदा प्रका­श­सं­स­र्ग­फ­लस्य संश­य­नि­वृ­त्त्यादेः सत्त्वा­नु­सा­रे­णे­त्यर्थः ।

अनु­भ­व­फ­ल­मे­वो­प­द­र्श­यति —
अत एवेति ।
अज्ञानस्य साक्षि चैतन्यं विहायैव आवा­र­क­त्व­स्व­भा­व­क­ल्प­ना­दे­वे­त्यर्थः ।

अगोचरत्वमिति ।
ननु अविद्यायाः भावरूपत्वादौ अह­ङ्का­र­स्या­ना­त्म­त्वादौ सुख­दुः­खा­दि­वृ­त्ती­ना­म­ना­त्म­ध­र्म­त्वादौ अज्ञा­न­वि­प­री­त­ज्ञा­न­सं­श­यानां सत्त्वेन तेषां सदा संश­या­द्य­गो­च­र­त्व­म­सि­द्ध­मिति चेत्, न-अवि­द्या­दि­स­त्त्व­काले कदा­चि­द­प्य­वि­द्या­दि­स­त्त्व­प्र­का­र­का­ज्ञा­ना­द्य­भा­वस्य विवक्षितत्वात् । तथा च तद्ग­त­वि­शे­ष­गो­च­रा­ज्ञा­न­वि­प­री­त­ज्ञा­ना­दे­र­भ्यु­प­ग­मेऽपि न दोष इति भावः ।