कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
साक्षिचैतन्यस्य आवृतत्वानावृतत्वविचारः
अविद्याहङ्कारादीनां पूर्वोक्तं साक्षिभास्यत्वमाक्षिपति —
नन्विति ।
चैतन्यमात्रेति ।
कृत्स्नचैतन्यावारकेणेत्यर्थः ।
कथमिति ।
न च साक्षिगोचरापरोक्षवृत्त्या तदावरणनिवृत्तौ निवृत्तावरणेन साक्षिणा अविद्यादिभानं सम्भवतीति वाच्यम् । तेषां केवलसाक्षिभास्यत्वसिद्धान्तविरोधप्रसङ्गात्, मनसः करणत्वस्य निरसिष्यमाणतया साक्षिचैतन्यगोचरापरोक्षवृत्त्यसम्भवाच्च, अहङ्कारादीनां स्वसत्ताकाले तत्सत्ताप्रकारकसंशयाद्यभावेन सदा तेषां संशयादिनिवृत्तिप्रयोजकतया सदा प्रकाशसंससर्गे वक्तव्ये सति कादाचित्कवृत्त्या तेषां सदा भानासम्भवाच्च, सदा साक्षिगोचरवृत्तिसन्तत्युपगमे युगपद्वृत्तिद्वयानभ्युपगमेन बाह्यघटादिप्रतीत्युच्छेदप्रसङ्गाच्च । तस्मात् साक्षिमात्रभास्यत्वमविद्याहङ्कारादीनां वक्तव्यम् ।
तच्च न सम्भवति ।
तस्यावृतत्वात् । न च साक्षिचैतन्यं विहाय अन्यदेव चैतन्यमावृतमिति वाच्यम् । अज्ञानस्य चैतन्यमात्रावारकत्वात्, अन्यथा साक्षिचैतन्यादन्यचैतन्येऽप्यावरणाभावप्रसङ्गात् इत्याक्षेपाभिप्रायः ।
आवृतस्यापि साक्षिणोऽविद्याप्रकाशकत्वं दृष्टान्तेन दर्शयन् परिहरति —
राहुवदति ।
राहुणा सर्वात्मनाऽऽवृतस्य चन्द्रमण्डलादेः स्वावारकराहुमात्रप्रकाशकत्वेऽपि तदतिरिक्तप्रकाशकत्वादर्शनात् अत्राप्यावृतस्य साक्षिणः कथञ्चिदविद्यामात्रावभासकत्वं स्यात्, नाहङ्कारादिभासकत्वं इत्यस्वरसादाह —
वस्तुत इति ।
अनुभवानुसारेणेति ।
अहङ्कारादिषु उक्तरीत्या कादाचित्कज्ञानासम्भवेऽपि सदा प्रकाशसंसर्गफलस्य संशयनिवृत्त्यादेः सत्त्वानुसारेणेत्यर्थः ।
अनुभवफलमेवोपदर्शयति —
अत एवेति ।
अज्ञानस्य साक्षि चैतन्यं विहायैव आवारकत्वस्वभावकल्पनादेवेत्यर्थः ।
अगोचरत्वमिति ।
ननु अविद्यायाः भावरूपत्वादौ अहङ्कारस्यानात्मत्वादौ सुखदुःखादिवृत्तीनामनात्मधर्मत्वादौ अज्ञानविपरीतज्ञानसंशयानां सत्त्वेन तेषां सदा संशयाद्यगोचरत्वमसिद्धमिति चेत्, न-अविद्यादिसत्त्वकाले कदाचिदप्यविद्यादिसत्त्वप्रकारकाज्ञानाद्यभावस्य विवक्षितत्वात् । तथा च तद्गतविशेषगोचराज्ञानविपरीतज्ञानादेरभ्युपगमेऽपि न दोष इति भावः ।