अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

स्वाप्नपदार्थानुभवस्य अनैन्द्रियकत्वनिरूपणम्

यदीयेति ।
यद्रजतं यत्पु­रु­षी­या­ज्ञा­नो­पा­दा­नकं तद्रजतं तस्यैव पुरुषस्य प्रत्यक्षं नान्यस्येति कल्पनोपपत्तेः न शुक्ति­र­ज­ता­देः­सा­धा­र­ण्य­प्र­सङ्ग इत्यर्थः ।

एवं स्वप्न­प्र­प­ञ्चा­ध्या­स­स्या­धि­ष्ठानं निरूप्य स्वाप्न­प­दा­र्था­नु­भवः किमैन्द्रियकः किं वा साक्षिरूप इति संशये निर्णयाय आक्षेपमवतारयति —
नन्विति ।

साक्षाद्वेति ।
इदं च — शुक्ति­र­ज­ता­दे­रै­न्द्रि­य­क­त्व­मिति कवि­ता­र्कि­क­म­ता­नु­सा­रे­णेति — बोध्यम् ।

शुक्ति­र­ज­ता­दे­स्सा­क्षि­भा­स्य­त्व­म­ता­नु­सा­रे­णाह —
अधि­ष्ठा­न­ज्ञा­न­द्वा­रेति ।
धर्मि­ज्ञा­न­द्वारा चक्षु­र­पे­क्ष­त्वात् शुक्ति­र­ज­ता­दे­रि­त्यर्थः ।

कथमिति ।
स्वप्न­ग­जा­दि­चा­क्षु­ष­त्वा­नु­भवो हि वास­ना­म­यै­रि­न्द्रि­यैर्वा व्याव­हा­रि­कै­रि­न्द्रि­यैर्वा सूक्ष्मे­न्द्रि­यैर्वा आरोपरूपतया वा समर्थनीयतया सम्भाव्यते । तथा च स केन प्रकारेण समर्थनीय इति प्रश्नार्थः ।

चतुर्थप्रकारेण तत्समर्थनं प्रतिजानीते —
उच्यत इति ।

आद्यं प्रकारत्रयं निराकरोति —
न तावदित्यादिना ।

वासनामयैः प्राति­भा­सि­कै­रि­न्द्रि­यै­श्चा­क्षु­ष­त्वा­नु­भ­व­स­म­र्थ­न­प्र­कारं प्रथमं दूषयति —
स्वाप्नदेहवदिति ।
स्वाप्नदेहः स्वाप्नाश्च विषयाः प्राति­भा­सि­का­श्चै­त­न्य­वि­व­र्त­रूपा अभ्युपगम्यन्ते, न तथा इन्द्रियाणां स्वरू­प­भू­त­श्चै­त­न्य­वि­वर्तः प्राति­भा­सि­कोऽ­भ्यु­प­गन्तुं शक्यत इत्यर्थः ।

वाच्यत्वादिति ।
तेषा­म­ज्ञा­त­स­त्त्व­नि­य­मस्य दर्शनात् दृष्टा­नु­सा­रि­त्वाच्च कल्पनाया इति भावः ।

द्वितीयं प्रकारं निराकरोति —
नापीति ।

ननु -व्याव­हा­रि­के­न्द्रि­यैः­स्वा­प्न­ग­जा­दीनां चाक्षु­ष­त्वा­नु­भ­व­स­म­र्थ­न­प्र­का­र­स्यो­त्थि­ति­रेव नास्ति, तेषां जाग्र­द्दे­ह­स्थ­त्वेन स्वाप्न­दे­ह­स्थ­त्वा­भा­वात् - इत्याशङ्क्याह —
स्वस्वेति ।

श्रवणादिति ।
‘य एषु सुप्तेषु जागर्ति’ [क-उ-२-२-८] इत्या­दि­श्रु­ति­ष्विति शेषः । श्रुतौ सुप्ते­ष्वि­त्य­न­न्तरं करणेष्विति शेषः । करणानां स्वापो नाम उपरतिः । सा च स्वप्नसमये व्यापा­र­रा­हि­त्य­रू­पैव, न तु तेषां स्वरूपोपरतिः, तस्याः सुषुप्तावेव श्रवणात् इति बोध्यम् ।

त्वगि­न्द्रि­य­मात्रे दोषान्तरमाह —
व्याव­हा­रि­क­स्येति ।
स्वस्य - स्पर्श­ने­न्द्रि­यस्य उचितो यो व्यावहारिकदेशः तत्सं­प­त्ति­वि­धुरे शरी­र­स्या­न्तः­प्र­देशे स्थितं व्याव­हा­रि­क­त्व­गि­न्द्रि­य­प­रि­मा­णा­पे­क्षया कदा­चि­द­धि­क­प­रि­मा­ण­वत् स्वाप्नदेहं कृत्स्नं न व्याप्नुयात् त्वगि­न्द्रि­य­मि­त्यर्थः । व्याव­हा­रि­क­स्प­र्श­ने­न्द्रि­य­स्यो­चि­त­दे­श­का­ल­सं­प­त्ति­वै­धु­र्य­वि­शे­ष­णेन तस्य स्वप्न­दे­ह­प्र­वे­शा­या­न्त­श्श­रीरे गमनमेव न सम्भवतीति सूचितम् ।

यदि व्याव­हा­रि­क­स्प­र्श­ने­न्द्रि­यस्य कृत्स्न­स्वा­प्न­दे­ह­व्या­पि­त्वा­योगः, तर्हि स्वाप्न­दे­है­क­दे­शा­श्र­य­त्व­मे­वास्तु, को दोषः, तत्राह —
तदेकदेशेति ।

तस्येति ।
स्पर्श­ने­न्द्रि­य­स्ये­त्यर्थः ।

तृतीयं प्रकारं निराकरोति —
अत एवेति ।
व्याव­हा­रि­क­स्प­र्श­ने­न्द्रि­य­स्यैव स्वाधि­क­प­रि­मा­ण­कृ­त्स्न­स्वा­प्न­श­री­र­व्या­पि­त्वा­योगे सति तद­व­य­व­भू­त­सू­क्ष्म­स्प­र्श­ने­न्द्रि­यस्य सुतरां स्वाप्न­दे­ह­व्या­पि­त्वा­यो­गा­दे­वे­त्यर्थः । तैजसः - स्वप्नावस्थागतो जीवः । सूक्ष्म­श­री­र­श­ब्देन व्याव­हा­रि­का­ण्ये­का­द­शे­न्द्रि­या­ण्यु­च्यन्ते ।

स्पर्श­ने­न्द्रि­य­मात्रे दोषमतिदेशेन दर्शयित्वा साधारणदोषमाह —
जाग्र­दि­न्द्रि­येति ।

नन्व­प्र­सि­द्धा­न्यपि स्वप्नकाले पदार्थानां चाक्षु­ष­त्वा­द्य­नु­भ­वा­नु­रो­धेन कल्प्य­न्ते-इ­त्या­शङ्क्य श्रुति­वि­रो­धा­न्नै­व­मि­त्याह —
किं चात्रेति ।

श्रुतौ अत्रेतिपदेन स्वप्ना­व­स्था­ग्र­ह­णस्य तात्पर्यमाह —
जागर इति ।
जागरे कार्य­क­र­ण­सं­घा­ता­ना­मा­स­न­ग­म­ना­दि­ल­क्ष­ण­व्य­व­हा­र­सा­ध­न­त्वे­ना­दि­त्या­दि­ज्यो­तींषि व्यव­ह्नि­य­मा­ण­प­दा­र्थै­स्सह सङ्कीर्णानि तिष्ठन्ति, तथा व्यव­हा­र­सा­ध­न­त्वे­नैव चक्षुरादिजन्या वृत्तयो विषयदेशं प्रति गच्छन्तीत्यर्थः । व्यतिकरः - संपर्कः-संसर्ग इति यावत् । जागरे दुर्विवेकमिति सम्बन्धः । दुःखेन विवेको निर्णयो यस्य तत् दुर्विवेकम्, अनायासेन निर्णे­तु­म­श­क्य­मिति यावत् । आत्मनः स्वयं­ज्यो­तिष्ट्वं नाम अन्या­न­व­भा­स्यत्वे सति स्वव्य­ति­रि­क्त­स­क­ला­व­भा­स­क­त्व­यो­ग्य­त्वम् । तच्च जागरे ग्रहीतुमशक्यम् । तथा हि — आत्म­व्य­ति­रि­क्तस्य सर्वस्य आत्म­मा­त्रा­व­भा­स्यत्वं वक्तुं न शक्यते, आदि­त्या­दि­ज्यो­तिषां चक्षु­रा­दि­ज­न्य­वृ­त्ति­ज्ञा­नानां च लोके जगदवभासकत्वेन प्रसिद्धानां सत्त्वात्, आत्म­नोऽ­प्य­ह­मि­ति­ज्ञा­न­प्र­का­श्य­त्वेन तस्या­न्या­न­व­भा­म्य­त्व­रय वक्तु­म­श­क्य­त्वाच्च - इति शङ्कायाः जागरे परि­ह­र्तु­म­श­क्य­त्वेन जागरे स्वयं­ज्यो­ति­ष्ट्व­नि­र्ण­या­यो­गात् । स्वप्नावस्थायां तु जागरणे प्रसि­द्धा­ना­मा­दि­त्या­दि­ज्यो­तिषां चक्षु­रा­दि­ज­न्य­ज्ञा­नानां चाभावात् आत्म­चै­त­न्य­मा­त्रा­व­भास्यं स्वाप्नं जगदिति निर्णयः सम्भवति । तथा अहमिति ज्ञानं वृत्तिरूपं आत्मनः प्रकाशकं न भवतीति वक्ष्यते । तथा च अन्या­न­व­भा­स्यत्वे सति सक­ल­ज­ग­द­भा­स­क­त्व­यो­ग्य­त्व­रूपं स्वयं­ज्यो­ति­ष्ट्व­मा­त्मनः स्वप्ना­व­स्था­सा­क्षि­त्वेन निर्णेतुं शक्यमित्यर्थः ।

ननु स्वप्नदशायामेव तस्य स्वयं­ज्यो­तिष्ट्वं न त्ववस्थान्तर इति यथाश्रतार्थ एव श्रुते­स्ता­त्पर्यं किं न स्यादिति, नेत्याह —
अन्यथेति ।
श्रुतेः स्वप्ना­व­स्था­मा­श्रित्य तत्साक्षित्वेन स्वयं­ज्यो­ति­ष्ट्व­मा­त्मनः सुविवेकमिति तात्पर्याकल्पन इत्यर्थः ।

सर्वदेति ।
‘तमेव भान्तमनुभाति सर्वं’ [क-उ. ५-१५] इत्या­दि­श्रु­ति­प­र्या­लो­च­नया तस्य सर्वदा स्वयं­ज्यो­ति­ष्ट्व­नि­श्च­या­दिति भावः ।

अत्रेतीति ।
अत्रेति विशेषणस्य व्याव­र्त­क­त्वा­स­म्भ­वेन व्यर्थत्वं स्यात् । अतो न यथाश्रुतार्थे तात्पर्यं किं तूक्तार्थे तात्पर्यमिति भावः ।

एवं श्रुतितात्पर्यं निरूप्य स्वप्नकाले चक्षु­रा­दि­व्या­पा­र­क­ल्पनं तद्बाधितमित्याह —
तत्रेति ।
स्वयं­ज्यो­तिष्ट्वं स्वप्ना­व­स्था­सा­क्षि­त्वेन सुगमं-इत्यत्र श्रुतितात्पर्ये सिद्धे सतीत्यर्थः ।

ननु ‘स्वाप्न­ज­ग­तोऽ­व­भा­स­का­न्त­रा­भा­वा­दा­त्म­मा­त्र­भा­स्यत्वं’ इत्यु­क्त­म­यु­क्त­मिति शङ्कते —
नन्विति ।

अनुपरतमास्त इतीति ।
तथा च मनस एव स्वाप्न­ज­ग­द­व­भा­स­क­त्व­स­म्भ­वात् अव­भा­स­का­न्त­रा­भा­व­रू­प­प­रि­शे­षा­सि­द्धि­रि­त्यर्थः । स्वप्नावस्थायां मनसो ज्ञान­क­र­ण­त्व­म­सि­द्धम्, अतस्तस्य स्वाप्न­ज­ग­द­व­भा­स­क­त्वा­स­म्भ­वात् परिशेषसिद्धिः —

इति परिहरति —
मैवमिति ।
आत्मा कर्ता भवितुमर्हति, तथासति ‘कर्ता विज्ञानात्मा पुरुषः’ इत्या­दि­शा­स्त्र­स्या­र्थ­व­त्त्वो­प­पत्तेः — इति सूत्रार्थः ।

उक्तरीत्येति ।
मनस उपादानत्वेन स्वतो ज्ञानकरणत्वं नास्ती­त्यु­क्त­री­त्ये­त्यर्थः ।

तत्त्व­प्र­दी­पि­को­क्त­री­त्येति ।
स्वप्ने मनस एव विवि­ध­सं­स्का­र­वि­शि­ष्टस्य स्वाप्न­प्र­प­ञ्चा­का­रेण परिणामित्वं, न त्वविद्यायाः, तस्या­स्सं­स्का­रा­श्र­य­त्वा­भा­वेन विचि­त्र­प­दा­र्थ­प­रि­णा­मि­त्वा­यो­गात् - इत्या­द्यु­क्त­री­त्ये­त्यर्थः ।

कर्मतयेति ।
विष­य­त्वे­नै­वो­प­क्षी­णस्य विष­यि­त्व­रू­प­प्र­का­श­क­त्वा­भा­वा­दि­त्यर्थः । तदानीमित्यनेन — अस्तु वा जागरणे ज्ञानकरणत्वं, तथापि स्वप्ने तन्नोपेयते । तस्य विष­य­त्वे­नै­वा­व­स्थि­त­त्वात् इति - सूचितम् ।

अनुपपत्तिरिति ।
संस्का­रा­भा­वा­दिति भावः ।

ननु - सुषु­प्ता­व­प्य­वि­द्या­वृ­त्तिर्न कल्पनीया, सुषु­प्त्या­दि­सा­क्षि­चै­त­न्यस्य नित्यत्वेऽपि साक्षि­भा­स्या­या­स्सु­षु­प्त्य­व­स्थाया विनाशित्वेन विष­य­भू­त­सु­षु­प्त्य­व­स्था­वि­शि­ष्ट­वे­षेण तत्साक्षिणो नाश­ल­क्ष­ण­सं­स्का­र­स­म्भ­वात् सुषु­प्ति­सु­खा­दी­ना­म­नु­स­न्धा­नो­प­प­त्ति­रिति चेत्, तर्हि स्वप्न­सा­क्षि­णोऽपि प्राति­भा­सि­क­वि­ष­य­वि­शि­ष्ट­वे­षेण नाश­ल­क्ष­ण­सं­स्का­र­स­म्भ­वात् स्वप्न­दृ­ष्ट­ग­जा­द्य­नु­स­न्धा­नो­प­प­त्ति­रि­त्याह —
सुषुप्ताविति ।
तत्पदं सुषुप्तिपरम् ।

अज्ञा­न­सु­खा­दि­प्र­काश इति ।
अज्ञा­न­सु­खा­द्य­नु­भव इत्यर्थः ।

इहापीति ।
स्वप्ना­व­स्था­या­म­पी­त्यर्थः ।

उपाधिभूतेति ।
विषयतया उपा­धि­भू­ते­त्यर्थः । जागर इव स्वप्नेऽपि जगा­दि­गो­च­रा­न्तः­क­र­ण­वृ­त्ति­रे­वो­पे­यते, अतो न संस्का­रा­भा­व­श­ङ्का­व­काशः, न च तदा अन्तः­क­र­ण­वृ­त्ति­सत्त्वे परि­शे­षा­सि­द्धि­रिति वाच्यम् ।

परिशेषस्यापि लोकदृष्ट्या उपपत्तेः - इति मतान्तरमाह —
अथवेति ।
‘सत्त्व­श­ब्दि­ता­न्तः­क­र­णस्य तृतीयाश्रुत्या स्वाप्न­ग­जा­दि­गो­च­र­ज्ञा­न­क­र­णत्वं भाति । तथा च श्रुति­प्रा­मा­ण्यात् स्वप्ने चक्षु­रा­दि­ज­न्य­वृ­त्त्य­भा­वेऽपि मान­स­वृ­त्ति­रस्ति, अतो न संस्का­रा­नु­प­पत्तिः’ इति कल्प­त­रू­क्त­री­त्येर्थः । अन्तःकरणस्य सर्वात्मना जीव­चै­त­न्यै­क्ये­ना­ध्य­स्त­तया अहं­प­श्या­मी­त्या­दि­रू­पेण द्रष्टृतया गृह्यमाणस्य तस्य - अन्तःकरणस्य अज्ञदृष्ट्या तस्मा­च्चि­दा­त्म­न­स्स­का­शा­द्भे­दा­प्र­सिद्ध्या परिशेषार्थं लोक­प्र­सि­द्ध­द्र­ष्टृ­व्य­ति­रि­क्त­क­र­णा­दि­व्या­पा­रा­भा­व­स्यै­वा­पे­क्षि­त­त्वात् तावता परि­शे­षा­सि­द्धिर्न चेत्यर्थः । तावतेत्यस्य अन्तः­क­र­ण­वृ­त्ति­स­द्भा­व­मा­त्रे­णे­त्यर्थः ।

एतदुक्तं भवति —
अन्तः­क­र­ण­वृ­त्ति­ल­क्षणो व्यापारो वस्तुतः करणव्यापारोऽपि प्रतीतितो द्रष्टृव्यापारो भवति, अन्तःकरणस्य द्रष्टृत्वेन गृही­त­त्वा­ल्लोकैः - इति ।

स्वयं­ज्यो­ति­ष्ट्व­नि­र्ण­य­प्र­कारं दर्शयति —
प्रसिद्धेति ।

पूर्वं ‘उच्यते’ इत्यनेन सूचितां स्वाप्न­प­दा­र्थेषु चाक्षु­ष­त्वा­द्य­नु­भ­वस्य गतिं इदानीं प्रपञ्चयति —
तस्मादिति ।

पञ्चमीं व्याचष्टे —
सर्वथेति ।
पूर्वो­क्त­स­र्व­प्र­का­रै­र­पी­त्यर्थः ।

स्वाप्नानुभवस्य साक्षिरूपत्वे चक्षु­रा­द्य­नु­वि­धा­न­वि­रो­ध­मा­शङ्क्य दृष्टान्तेन समाधत्ते —
ननु स्वप्नेऽ­पी­त्या­दिना ।

तदनुविधायिनीति ।
जागरे चक्षु­रा­द्य­नु­वि­धा­यिनी या प्रसिद्धा वृत्तिः सा स्वप्न­सा­क्षि­ण्य­ध्य­स्यते — इति यथाश्रुतार्थो न ग्राह्यः । अन्य­था­ख्या­ति­प्र­स­ङ्गात् । किं तु ‘तदेतत्सत्त्वं येन स्वप्नं पश्यति’ इति श्रुत्यनुसारेण कल्पतरुकारैर्या गजा­दि­गो­च­र­मा­न­स­वृ­त्ति­रु­पेता, तस्यां तदनुविधायित्वं वा अध्यस्यते इत्यर्थः । तथा च ‘केवलसाक्षिरूपे स्वाप्न­ग­जा­द्य­नु­भवे चक्षु­रा­द्य­नु­वि­धा­न­म­ध्य­स्यते, तदनुविधायिनी वृत्तिर्वा तत्राध्यस्यते’ इति यत्, तच्च भ्रम­मा­त्र­मि­त्यर्थः ।

नन्वेतावान् भ्रमो दुर्घट इत्याशङ्क्याह —
किमिव हीति ।
दुर्घटमपि भ्रमं माया किमिव न करोतीति सम्बन्धः । किमिव-केन दृष्टान्तेन न करोति । दुर्घटाकरणे मायायाः दृष्टान्तो वास्तीत्यर्थः । प्रत्युत तस्या­स्त­त्का­रि­त्व­मै­न्द्र­जा­लि­क­मा­यादौ प्रसिद्धमिति हिशब्दार्थः । विय­दा­दि­प्र­प­ञ्च­भ्र­म­हे­तु­भूता माया दुर्घटमपि प्रपञ्चभ्रमं व्यवस्थितरूपं घटयति, निद्रारूपेण परिणता तु सा ततो विलक्षणमेव भ्रमं करोतीति मत्वा विशेषत इत्युक्तम् ।

यस्या इति ।
निद्रारूपेण परिणताया इत्यर्थः ।

स्वप्ने चाक्षु­ष­त्वा­द्य­नु­भ­वस्य गति­नि­रू­प­ण­मु­प­सं­ह­रति —
तस्मादिति ।
स्वप्ने चक्षु­रा­दि­व्या­पा­रा­स­म्भ­वा­दि­त्यर्थः । ये त्वधिकारिणो बहु­वि­ध­ज्ञा­न­क­र्मा­नु­ष्ठा­न­सा­धि­त­नि­र­ति­श­य­प­र­मे­श्व­र­प्र­सा­द­म­हिम्ना निता­न्त­नि­र्म­ली­कृ­तान्तः - करणाः सन्तो जागरेऽपि स्वप्नाद्विशेषं न पश्यन्ति, तान् ब्रह्म­वि­द्या­का­मान् अधिकृत्य प्रवृत्तां कृत्स्नस्य जगतः प्रबो­ध­स्वा­पा­व­स्थयोः प्रभ­व­प्र­ल­य­प्र­ति­पा­दिकां श्रुतिं अनुसृत्य दृष्टि­सृ­ष्टि­वादः पूर्वा­चा­र्यै­र्नि­रू­पितः ।