कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
स्वाप्नपदार्थानुभवस्य अनैन्द्रियकत्वनिरूपणम्
यदीयेति ।
यद्रजतं यत्पुरुषीयाज्ञानोपादानकं तद्रजतं तस्यैव पुरुषस्य प्रत्यक्षं नान्यस्येति कल्पनोपपत्तेः न शुक्तिरजतादेःसाधारण्यप्रसङ्ग इत्यर्थः ।
एवं स्वप्नप्रपञ्चाध्यासस्याधिष्ठानं निरूप्य स्वाप्नपदार्थानुभवः किमैन्द्रियकः किं वा साक्षिरूप इति संशये निर्णयाय आक्षेपमवतारयति —
नन्विति ।
साक्षाद्वेति ।
इदं च — शुक्तिरजतादेरैन्द्रियकत्वमिति कवितार्किकमतानुसारेणेति — बोध्यम् ।
शुक्तिरजतादेस्साक्षिभास्यत्वमतानुसारेणाह —
अधिष्ठानज्ञानद्वारेति ।
धर्मिज्ञानद्वारा चक्षुरपेक्षत्वात् शुक्तिरजतादेरित्यर्थः ।
कथमिति ।
स्वप्नगजादिचाक्षुषत्वानुभवो हि वासनामयैरिन्द्रियैर्वा व्यावहारिकैरिन्द्रियैर्वा सूक्ष्मेन्द्रियैर्वा आरोपरूपतया वा समर्थनीयतया सम्भाव्यते । तथा च स केन प्रकारेण समर्थनीय इति प्रश्नार्थः ।
चतुर्थप्रकारेण तत्समर्थनं प्रतिजानीते —
उच्यत इति ।
आद्यं प्रकारत्रयं निराकरोति —
न तावदित्यादिना ।
वासनामयैः प्रातिभासिकैरिन्द्रियैश्चाक्षुषत्वानुभवसमर्थनप्रकारं प्रथमं दूषयति —
स्वाप्नदेहवदिति ।
स्वाप्नदेहः स्वाप्नाश्च विषयाः प्रातिभासिकाश्चैतन्यविवर्तरूपा अभ्युपगम्यन्ते, न तथा इन्द्रियाणां स्वरूपभूतश्चैतन्यविवर्तः प्रातिभासिकोऽभ्युपगन्तुं शक्यत इत्यर्थः ।
वाच्यत्वादिति ।
तेषामज्ञातसत्त्वनियमस्य दर्शनात् दृष्टानुसारित्वाच्च कल्पनाया इति भावः ।
द्वितीयं प्रकारं निराकरोति —
नापीति ।
ननु -व्यावहारिकेन्द्रियैःस्वाप्नगजादीनां चाक्षुषत्वानुभवसमर्थनप्रकारस्योत्थितिरेव नास्ति, तेषां जाग्रद्देहस्थत्वेन स्वाप्नदेहस्थत्वाभावात् - इत्याशङ्क्याह —
स्वस्वेति ।
श्रवणादिति ।
‘य एषु सुप्तेषु जागर्ति’ [क-उ-२-२-८] इत्यादिश्रुतिष्विति शेषः । श्रुतौ सुप्तेष्वित्यनन्तरं करणेष्विति शेषः । करणानां स्वापो नाम उपरतिः । सा च स्वप्नसमये व्यापारराहित्यरूपैव, न तु तेषां स्वरूपोपरतिः, तस्याः सुषुप्तावेव श्रवणात् इति बोध्यम् ।
त्वगिन्द्रियमात्रे दोषान्तरमाह —
व्यावहारिकस्येति ।
स्वस्य - स्पर्शनेन्द्रियस्य उचितो यो व्यावहारिकदेशः तत्संपत्तिविधुरे शरीरस्यान्तःप्रदेशे स्थितं व्यावहारिकत्वगिन्द्रियपरिमाणापेक्षया कदाचिदधिकपरिमाणवत् स्वाप्नदेहं कृत्स्नं न व्याप्नुयात् त्वगिन्द्रियमित्यर्थः । व्यावहारिकस्पर्शनेन्द्रियस्योचितदेशकालसंपत्तिवैधुर्यविशेषणेन तस्य स्वप्नदेहप्रवेशायान्तश्शरीरे गमनमेव न सम्भवतीति सूचितम् ।
यदि व्यावहारिकस्पर्शनेन्द्रियस्य कृत्स्नस्वाप्नदेहव्यापित्वायोगः, तर्हि स्वाप्नदेहैकदेशाश्रयत्वमेवास्तु, को दोषः, तत्राह —
तदेकदेशेति ।
तस्येति ।
स्पर्शनेन्द्रियस्येत्यर्थः ।
तृतीयं प्रकारं निराकरोति —
अत एवेति ।
व्यावहारिकस्पर्शनेन्द्रियस्यैव स्वाधिकपरिमाणकृत्स्नस्वाप्नशरीरव्यापित्वायोगे सति तदवयवभूतसूक्ष्मस्पर्शनेन्द्रियस्य सुतरां स्वाप्नदेहव्यापित्वायोगादेवेत्यर्थः । तैजसः - स्वप्नावस्थागतो जीवः । सूक्ष्मशरीरशब्देन व्यावहारिकाण्येकादशेन्द्रियाण्युच्यन्ते ।
स्पर्शनेन्द्रियमात्रे दोषमतिदेशेन दर्शयित्वा साधारणदोषमाह —
जाग्रदिन्द्रियेति ।
नन्वप्रसिद्धान्यपि स्वप्नकाले पदार्थानां चाक्षुषत्वाद्यनुभवानुरोधेन कल्प्यन्ते-इत्याशङ्क्य श्रुतिविरोधान्नैवमित्याह —
किं चात्रेति ।
श्रुतौ अत्रेतिपदेन स्वप्नावस्थाग्रहणस्य तात्पर्यमाह —
जागर इति ।
जागरे कार्यकरणसंघातानामासनगमनादिलक्षणव्यवहारसाधनत्वेनादित्यादिज्योतींषि व्यवह्नियमाणपदार्थैस्सह सङ्कीर्णानि तिष्ठन्ति, तथा व्यवहारसाधनत्वेनैव चक्षुरादिजन्या वृत्तयो विषयदेशं प्रति गच्छन्तीत्यर्थः । व्यतिकरः - संपर्कः-संसर्ग इति यावत् । जागरे दुर्विवेकमिति सम्बन्धः । दुःखेन विवेको निर्णयो यस्य तत् दुर्विवेकम्, अनायासेन निर्णेतुमशक्यमिति यावत् । आत्मनः स्वयंज्योतिष्ट्वं नाम अन्यानवभास्यत्वे सति स्वव्यतिरिक्तसकलावभासकत्वयोग्यत्वम् । तच्च जागरे ग्रहीतुमशक्यम् । तथा हि — आत्मव्यतिरिक्तस्य सर्वस्य आत्ममात्रावभास्यत्वं वक्तुं न शक्यते, आदित्यादिज्योतिषां चक्षुरादिजन्यवृत्तिज्ञानानां च लोके जगदवभासकत्वेन प्रसिद्धानां सत्त्वात्, आत्मनोऽप्यहमितिज्ञानप्रकाश्यत्वेन तस्यान्यानवभाम्यत्वरय वक्तुमशक्यत्वाच्च - इति शङ्कायाः जागरे परिहर्तुमशक्यत्वेन जागरे स्वयंज्योतिष्ट्वनिर्णयायोगात् । स्वप्नावस्थायां तु जागरणे प्रसिद्धानामादित्यादिज्योतिषां चक्षुरादिजन्यज्ञानानां चाभावात् आत्मचैतन्यमात्रावभास्यं स्वाप्नं जगदिति निर्णयः सम्भवति । तथा अहमिति ज्ञानं वृत्तिरूपं आत्मनः प्रकाशकं न भवतीति वक्ष्यते । तथा च अन्यानवभास्यत्वे सति सकलजगदभासकत्वयोग्यत्वरूपं स्वयंज्योतिष्ट्वमात्मनः स्वप्नावस्थासाक्षित्वेन निर्णेतुं शक्यमित्यर्थः ।
ननु स्वप्नदशायामेव तस्य स्वयंज्योतिष्ट्वं न त्ववस्थान्तर इति यथाश्रतार्थ एव श्रुतेस्तात्पर्यं किं न स्यादिति, नेत्याह —
अन्यथेति ।
श्रुतेः स्वप्नावस्थामाश्रित्य तत्साक्षित्वेन स्वयंज्योतिष्ट्वमात्मनः सुविवेकमिति तात्पर्याकल्पन इत्यर्थः ।
सर्वदेति ।
‘तमेव भान्तमनुभाति सर्वं’ [क-उ. ५-१५] इत्यादिश्रुतिपर्यालोचनया तस्य सर्वदा स्वयंज्योतिष्ट्वनिश्चयादिति भावः ।
अत्रेतीति ।
अत्रेति विशेषणस्य व्यावर्तकत्वासम्भवेन व्यर्थत्वं स्यात् । अतो न यथाश्रुतार्थे तात्पर्यं किं तूक्तार्थे तात्पर्यमिति भावः ।
एवं श्रुतितात्पर्यं निरूप्य स्वप्नकाले चक्षुरादिव्यापारकल्पनं तद्बाधितमित्याह —
तत्रेति ।
स्वयंज्योतिष्ट्वं स्वप्नावस्थासाक्षित्वेन सुगमं-इत्यत्र श्रुतितात्पर्ये सिद्धे सतीत्यर्थः ।
ननु ‘स्वाप्नजगतोऽवभासकान्तराभावादात्ममात्रभास्यत्वं’ इत्युक्तमयुक्तमिति शङ्कते —
नन्विति ।
अनुपरतमास्त इतीति ।
तथा च मनस एव स्वाप्नजगदवभासकत्वसम्भवात् अवभासकान्तराभावरूपपरिशेषासिद्धिरित्यर्थः । स्वप्नावस्थायां मनसो ज्ञानकरणत्वमसिद्धम्, अतस्तस्य स्वाप्नजगदवभासकत्वासम्भवात् परिशेषसिद्धिः —
इति परिहरति —
मैवमिति ।
आत्मा कर्ता भवितुमर्हति, तथासति ‘कर्ता विज्ञानात्मा पुरुषः’ इत्यादिशास्त्रस्यार्थवत्त्वोपपत्तेः — इति सूत्रार्थः ।
उक्तरीत्येति ।
मनस उपादानत्वेन स्वतो ज्ञानकरणत्वं नास्तीत्युक्तरीत्येत्यर्थः ।
तत्त्वप्रदीपिकोक्तरीत्येति ।
स्वप्ने मनस एव विविधसंस्कारविशिष्टस्य स्वाप्नप्रपञ्चाकारेण परिणामित्वं, न त्वविद्यायाः, तस्यास्संस्काराश्रयत्वाभावेन विचित्रपदार्थपरिणामित्वायोगात् - इत्याद्युक्तरीत्येत्यर्थः ।
कर्मतयेति ।
विषयत्वेनैवोपक्षीणस्य विषयित्वरूपप्रकाशकत्वाभावादित्यर्थः । तदानीमित्यनेन — अस्तु वा जागरणे ज्ञानकरणत्वं, तथापि स्वप्ने तन्नोपेयते । तस्य विषयत्वेनैवावस्थितत्वात् इति - सूचितम् ।
अनुपपत्तिरिति ।
संस्काराभावादिति भावः ।
ननु - सुषुप्तावप्यविद्यावृत्तिर्न कल्पनीया, सुषुप्त्यादिसाक्षिचैतन्यस्य नित्यत्वेऽपि साक्षिभास्यायास्सुषुप्त्यवस्थाया विनाशित्वेन विषयभूतसुषुप्त्यवस्थाविशिष्टवेषेण तत्साक्षिणो नाशलक्षणसंस्कारसम्भवात् सुषुप्तिसुखादीनामनुसन्धानोपपत्तिरिति चेत्, तर्हि स्वप्नसाक्षिणोऽपि प्रातिभासिकविषयविशिष्टवेषेण नाशलक्षणसंस्कारसम्भवात् स्वप्नदृष्टगजाद्यनुसन्धानोपपत्तिरित्याह —
सुषुप्ताविति ।
तत्पदं सुषुप्तिपरम् ।
अज्ञानसुखादिप्रकाश इति ।
अज्ञानसुखाद्यनुभव इत्यर्थः ।
इहापीति ।
स्वप्नावस्थायामपीत्यर्थः ।
उपाधिभूतेति ।
विषयतया उपाधिभूतेत्यर्थः । जागर इव स्वप्नेऽपि जगादिगोचरान्तःकरणवृत्तिरेवोपेयते, अतो न संस्काराभावशङ्कावकाशः, न च तदा अन्तःकरणवृत्तिसत्त्वे परिशेषासिद्धिरिति वाच्यम् ।
परिशेषस्यापि लोकदृष्ट्या उपपत्तेः - इति मतान्तरमाह —
अथवेति ।
‘सत्त्वशब्दितान्तःकरणस्य तृतीयाश्रुत्या स्वाप्नगजादिगोचरज्ञानकरणत्वं भाति । तथा च श्रुतिप्रामाण्यात् स्वप्ने चक्षुरादिजन्यवृत्त्यभावेऽपि मानसवृत्तिरस्ति, अतो न संस्कारानुपपत्तिः’ इति कल्पतरूक्तरीत्येर्थः । अन्तःकरणस्य सर्वात्मना जीवचैतन्यैक्येनाध्यस्ततया अहंपश्यामीत्यादिरूपेण द्रष्टृतया गृह्यमाणस्य तस्य - अन्तःकरणस्य अज्ञदृष्ट्या तस्माच्चिदात्मनस्सकाशाद्भेदाप्रसिद्ध्या परिशेषार्थं लोकप्रसिद्धद्रष्टृव्यतिरिक्तकरणादिव्यापाराभावस्यैवापेक्षितत्वात् तावता परिशेषासिद्धिर्न चेत्यर्थः । तावतेत्यस्य अन्तःकरणवृत्तिसद्भावमात्रेणेत्यर्थः ।
एतदुक्तं भवति —
अन्तःकरणवृत्तिलक्षणो व्यापारो वस्तुतः करणव्यापारोऽपि प्रतीतितो द्रष्टृव्यापारो भवति, अन्तःकरणस्य द्रष्टृत्वेन गृहीतत्वाल्लोकैः - इति ।
स्वयंज्योतिष्ट्वनिर्णयप्रकारं दर्शयति —
प्रसिद्धेति ।
पूर्वं ‘उच्यते’ इत्यनेन सूचितां स्वाप्नपदार्थेषु चाक्षुषत्वाद्यनुभवस्य गतिं इदानीं प्रपञ्चयति —
तस्मादिति ।
पञ्चमीं व्याचष्टे —
सर्वथेति ।
पूर्वोक्तसर्वप्रकारैरपीत्यर्थः ।
स्वाप्नानुभवस्य साक्षिरूपत्वे चक्षुराद्यनुविधानविरोधमाशङ्क्य दृष्टान्तेन समाधत्ते —
ननु स्वप्नेऽपीत्यादिना ।
तदनुविधायिनीति ।
जागरे चक्षुराद्यनुविधायिनी या प्रसिद्धा वृत्तिः सा स्वप्नसाक्षिण्यध्यस्यते — इति यथाश्रुतार्थो न ग्राह्यः । अन्यथाख्यातिप्रसङ्गात् । किं तु ‘तदेतत्सत्त्वं येन स्वप्नं पश्यति’ इति श्रुत्यनुसारेण कल्पतरुकारैर्या गजादिगोचरमानसवृत्तिरुपेता, तस्यां तदनुविधायित्वं वा अध्यस्यते इत्यर्थः । तथा च ‘केवलसाक्षिरूपे स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधानमध्यस्यते, तदनुविधायिनी वृत्तिर्वा तत्राध्यस्यते’ इति यत्, तच्च भ्रममात्रमित्यर्थः ।
नन्वेतावान् भ्रमो दुर्घट इत्याशङ्क्याह —
किमिव हीति ।
दुर्घटमपि भ्रमं माया किमिव न करोतीति सम्बन्धः । किमिव-केन दृष्टान्तेन न करोति । दुर्घटाकरणे मायायाः दृष्टान्तो वास्तीत्यर्थः । प्रत्युत तस्यास्तत्कारित्वमैन्द्रजालिकमायादौ प्रसिद्धमिति हिशब्दार्थः । वियदादिप्रपञ्चभ्रमहेतुभूता माया दुर्घटमपि प्रपञ्चभ्रमं व्यवस्थितरूपं घटयति, निद्रारूपेण परिणता तु सा ततो विलक्षणमेव भ्रमं करोतीति मत्वा विशेषत इत्युक्तम् ।
यस्या इति ।
निद्रारूपेण परिणताया इत्यर्थः ।
स्वप्ने चाक्षुषत्वाद्यनुभवस्य गतिनिरूपणमुपसंहरति —
तस्मादिति ।
स्वप्ने चक्षुरादिव्यापारासम्भवादित्यर्थः । ये त्वधिकारिणो बहुविधज्ञानकर्मानुष्ठानसाधितनिरतिशयपरमेश्वरप्रसादमहिम्ना नितान्तनिर्मलीकृतान्तः - करणाः सन्तो जागरेऽपि स्वप्नाद्विशेषं न पश्यन्ति, तान् ब्रह्मविद्याकामान् अधिकृत्य प्रवृत्तां कृत्स्नस्य जगतः प्रबोधस्वापावस्थयोः प्रभवप्रलयप्रतिपादिकां श्रुतिं अनुसृत्य दृष्टिसृष्टिवादः पूर्वाचार्यैर्निरूपितः ।